19 भूमाधिकरणम्

भूमा संप्रसादादध्युपदेशात्।
छान्दोग्ये “यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा” (छा.उ. ७-२४-१) इत्यत्र भूमशब्दनिर्दिष्टो निरतिशयवैपुल्यविशिष्टसुखस्वरूपः किं प्रत्यगात्मा, उत परमात्मेति संशयः । प्रत्यगात्मेति पूर्वः पक्षः । “तरति शोकमात्मवित्” (छा.उ. ७-१-३) इति प्रक्रम्य नामादिपरम्परयोत्तरोत्तरभूयस्त्वेन प्रश्नप्रतिवचनाभ्यां प्रवृत्तस्यात्मोपदेशस्य प्राणशब्दनिर्दिष्टे प्रत्यगात्मनि समाप्तिदर्शनात्, प्रत्यगात्मन एव भूमसंशब्दनमिति निश्चीयते । राद्धान्तस्तु - यद्यपि प्रश्नप्रतिवचनाभ्यामुत्तरोत्तरभूयस्त्ववचनं प्राणे पर्यवस्थि(सि)तम्; तथापि प्राणवेदिनोऽतिवादित्वमुक्त्वा, “एष तु वा अतिवदति यस्सत्येनातिवदति” (छा.उ. ७-१६-१) इति तुशब्देनोपासकभेदं प्रतिपाद्य, तस्य सत्योपासकस्य पूर्वस्मादाधिक्योपदेशात्, सत्यशब्दाभिधेयं परं ब्रह्मैव भूमविशिष्टमिति । सूत्रार्थस्तु - भूमगुणविशिष्टं परं ब्रह्मैव, संप्रसादादध्युपदेशात् । संप्रसादः प्रत्यगात्मा, “एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य” (छा.उ. ८-३-४) इत्याद्युपनिषत्प्रसिद्धेः, “एष तु वा अतिवदति” (छा.उ. ७-१६-१) इति प्रत्यगात्मनोऽधिकतयोपदेशात् । अतिवादित्वं हि स्वोपास्याधिक्यवादित्वम् ॥७॥

धर्मोपपत्तेश्च ।
स्वाभाविकामृतत्वस्वमहिमप्रतिष्ठितत्वसर्वात्मत्वसर्वोत्पत्तिहेतुत्वादीनां भूम्नि श्रूयमाणानां धर्माणां परस्मिन्नेव ब्रह्मण्युपपत्तेश्च भूमा परं ब्रह्मैव ॥८॥
॥ इति भूमाधिकरणम् ॥