द्युभ्वाद्यायतनं स्वशब्दात्।
आथर्वणे “यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः” (मु.उ. २-२-५) इत्यत्र द्युपृथिव्यादीनामायतनं किं जीवः, उत परमात्मेति संशयः। जीव इति पूर्वः पक्षः, मनःप्रभृतीन्द्रियाधारत्वश्रुतेः, उत्तरत्र नाडीसंबन्धात्, जायमानत्वश्रुतेश्च। राद्धान्तस्तु - निरुपाधिकात्मत्वामृतसेतुत्वयोः परमात्मधर्मयोश्श्रवणात्परमात्मैवायम्। सर्वं नियन्तृतया आप्नोतीति ह्यात्मा। अमृतस्य प्रापकतया सेतुश्च स एव। नाडीसंबन्धः, बहुधाजायमानत्वञ्च, “सन्ततँ सिराभिस्तु लम्बत्याकोशसन्निभम्” (तै.ना.उ. ६-११-२) “अजायमानो बहुधा विजायते” (तै.आर. ३-१३-३) इत्यादिषु सर्वसमाश्रयणीयत्वायाजहत्स्वभावस्यैव परमात्मनोऽपि दृश्यत इति। सूत्रार्थस्तु - द्युपृथिव्यादीनामायतनं परमात्मा, स्वशब्दात्॥१॥
मुक्तोपसृप्यव्यपदेशाच्च।
“तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति” (मु.उ. ३-१-३) “तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्” (मु.उ. ३-२-८) इति च बन्धान्मुक्तस्य प्राप्यतया व्यपदेशाच्चायं परमात्मा॥ २॥
नानुमानमतच्छब्दात् प्राणभृच्च।
आनुमानम् - अनुमानगम्यं प्रधानम्। यथा तद्वाचिशब्दाभावात्तदिह न गृह्यते; तथा प्राणभृदपीत्यर्थः। अतश्चायं परमात्मा॥ ३॥
भेदव्यपदेशात्।
“अनीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशम्” (मु.उ. ३-१-२) इत्यादिना जीवाद्भेदेन व्यपदेशाच्चायं परमात्मा॥ ४॥
प्रकरणात्।
“अथ परा यया तदक्षरमधिगम्यते” (मु.उ. १-१-५) इत्यादिना परमात्मन एव प्रकृतत्वात्॥ ५॥
स्थित्यदनाभ्याञ्च।
“तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति” (मु.उ. ३-१-१) इति कर्मफलमनश्नतः परमात्मनो दीप्यमानतया स्थितेः, जीवस्य कर्मपरवशतया तत्फलादनाच्च परमात्मनो जीवात् भेदावगमात् अमृतसेतुद्युभ्वाद्यायतनं न जीवः। “अदृश्यत्वादिगुणकः” (ब्र.सू. १-२-२२) इत्यनेन परमात्मत्वे स्थापितेऽपि, नाडीसंबन्धबहुधाजायमानत्वलिङ्गात्, याऽवान्तरप्रकरणविच्छेदाशङ्का, सा निराकृता “द्युभ्वाद्यायतनम्” (ब्र.सू. १-३-१) इति। वैश्वानरस्य त्रैलोक्यशरीरत्वादिना परमात्मत्वनिर्णय इति मध्ये वैश्वानरविद्या निरूपिता॥
॥ इति द्युभ्वाद्यधिकरणम्॥ १॥