17 वैश्वानराधिकरणम्

वैश्वानरः साधारणशब्दविशेषात्।
छान्दोग्ये “आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि। तमेव नो ब्रूहि” इत्यारभ्य, “यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते” इत्यत्र, किमयं वैश्वानरः परमात्मेति शक्यनिर्णयः, उत नेति संशयः। अशक्यनिर्णय इति पूर्वः पक्षः; वैश्वानरशब्दस्य जाठराग्नौ, महाभूततृतीये, देवताविशेषे, परमात्मनि च वैदिकप्रयोगदर्शनात्; अस्मिन्प्रकरणे सर्वेषां लिङ्गोपलब्धेश्च। राद्धान्तस्तु - “को न आत्मा किं ब्रह्म” इति सर्वेषां जीवानामात्मभूतं ब्रह्म किमिति प्रक्रमात्, उत्तरत्र च, “आत्मानं वैश्वानरम्” इति ब्रह्मशब्दस्थाने सर्वत्र वैश्वानरशब्दप्रयोगाच्च, वैश्वानरात्मा सर्वेषां जीवानामात्मभूतं परं ब्रह्मेति विज्ञायते। सूत्रार्थः - वैश्वानरशब्दनिर्दिष्टः परमात्मा, वैश्वानरशब्दस्यानेकार्थसाधारणस्याप्यस्मिन्प्रकरणे परमात्मासाधारणविशेषणैस्सर्वात्मत्वादिभिः विशेष्यमाणत्वात्। विशेष्यत इति विशेषः॥

स्मर्यमाणमनुमानं स्यादिति।
स्मर्यमाणं - प्रत्यभिज्ञायमानम्। अनुमीयतेऽनेनेति अनुमानम्। इति शब्दः प्रकारवचनः। इत्थं रूपं स्मर्यमाणं वैश्वानरस्य परमात्मत्वेऽनुमानं स्यात्, द्युप्रभृतिपृथिव्यन्तमवयवविभागेन वैश्वानरस्य रूपमिहोपदिष्टम् “अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ” “द्यां मूर्धानं यस्य विप्रा वदन्ति” इति श्रुतिस्मृतिप्रसिद्धं परमपुरुषरूपमिह प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वे लिङ्गं स्यादित्यर्थः॥

शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते।
अनिर्णयमाशङ्क्य परिहरति - शब्दादिभ्योऽन्तःप्रतिष्ठानाच्चेति। शब्दस्तावत् वाजिनां वैश्वानरविद्याप्रकरणे “स एषोऽग्निर्वैश्वानरः” इति वैश्वानरसमानाधिकरणोऽग्निशब्दः। अस्मिन् प्रकरणे च, “हृदयं गार्हपत्यः” इत्यारभ्य वैश्वानरस्य हृदयादिस्थानस्याग्नित्रयपरिकल्पनं प्राणाहुत्याधारत्वं चेत्यादि प्रतीयते। वाजिनामपि “स यो ह वैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद” इति वैश्वानरस्य शरीरान्तःप्रतिष्ठितत्वं प्रतीयते। अतः एतैर्लिङ्गैर्वैश्वानरस्य जाठराग्नित्वप्रतीतेर्नायं परमात्मेति शक्यनिर्णय इति चेत् - तन्न। तथा दृष्ट्युपदेशात्। तथोपासनोपदेशादित्यर्थः। दृष्टिः- उपासनम्। जाठराग्निशरीरतया वैश्वानरस्य परमात्मन उपासनं ह्यत्रोपदिश्यते - “अयमग्निर्वैश्वानरः, पुरुषेऽन्तःप्रतिष्ठितः” इत्यादौ। कथमवगम्यत इति चेत् - असंभवात्; केवलजाठराग्नेस्त्रैलोक्यशरीरत्वाद्यसंभवात्। पुरुषमपि चैनमधीयते। चशब्दः प्रसिद्धौ। वाजिनस्तत्रैव “स एषोऽग्निर्वैश्वानरो यत्पुरुषः” इति एनं वैश्वानरं पुरुषमपि ह्यधीयते। पुरुषश्च परमात्मैव “पुरुष एवेदं सर्वम्” “पुरुषान्न परं किञ्चित्” इत्यादिषु प्रसिद्धेः॥

अत एव न देवता भूतञ्च।
यतस्त्रैलोक्यशरीरोऽसौ वैश्वानरः, यतश्च निरुपाधिकपुरुषशब्दनिर्दिष्टः ; अत एव नाग्न्याख्या देवता, महाभूततृतीयश्च वैश्वानरश्शङ्कनीयः॥

साक्षादप्यविरोधं जैमिनिः।
अग्निशरीरतया वैश्वानरस्योपासनार्थमग्निशब्दसमानाधिकरणनिर्देश इत्युक्तम्। विश्वेषां नराणां नेतृत्वादिना संबन्धेन यथा वैश्वानरशब्दः परमात्मनि वर्तते, तथैवाग्निशब्दस्यापि वृत्तौ न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यते॥

“यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरम्” इति द्युप्रभृतिपृथिव्यन्तप्रदेशसंबन्धिन्या मात्रया परिच्छिन्नत्वमनवच्छिन्नस्य परमात्मनो वैश्वानरस्य कथमुपपद्यत इत्यत्राह-
अभिव्यक्तेरित्याश्मरथ्यः। (1-2-30)
अनवच्छिन्नस्यैव परमात्मनः उपासनाभिव्यक्त्यर्थं द्युप्रभृतिपृथिव्यन्तप्रदेशपरिच्छिन्नत्वमिति आश्मरथ्य आचार्यो मन्यते॥

द्युप्रभृतिप्रदेशावच्छेदेनाभिव्यक्तस्य परमात्मनो द्युभ्वादित्यादीनां मूर्धाद्यवयवकल्पनं किमर्थमिति चेत् - तत्राह -
अनुस्मृतेर्बादरिः (1-2-31)
अनुस्मृतिः - उपासनम्, ब्रह्मप्राप्तये तथोपासनार्थं मूर्धप्रभृतिपादान्तदेहपरिकल्पनमिति बादरिराचार्यो मन्यते॥

अयं वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्यः उपादीयते चेत् - “उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यः” इत्यादिना उपासकशरीरावयवानां गार्हपत्यादित्वपरिकल्पनं किमर्थमित्यत्राह -
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति। (1-2-32)
वैश्वानरविद्याङ्गभूतायाः उपासकैरहरहः क्रियमाणायाः प्राणाहुतेरग्निहोत्रत्वसंपादनाय गार्हपत्यादित्वपरिकल्पनमिति जैमिनिराचार्यो मन्यते। तथाह्यग्निहोत्रसंपत्तिमेव दर्शयतीयं श्रुतिः प्राणाहुतिं विधाय, “अथ य एवं विद्वानग्निहोत्रं जुहोति” इति । उक्तानामर्थानां पूजितत्वख्यापनायाचार्यग्रहणम्॥

आमनन्ति चैनमस्मिन्॥
एनं परमपुरुषं वैश्वानरं द्युभ्वादिदेहम्, अस्मिन् उपासकदेहे प्राणाग्निहोत्रेणाराध्यत्वाय आमनन्ति हि “तस्य ह वा एतस्य वैश्वानरस्य मूर्धैव सुतेजाः” इत्यादिना। उपासकमूर्धादिपादान्ता एव द्युप्रभृतयः परमपुरुषस्य मूर्धादय इति प्राणाग्निहोत्रवेलायामनुसन्धेया इत्यर्थः॥
इति वैश्वानराधिकरणम्॥
इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे प्रथमस्याध्यायस्य द्वितीयः पादः॥