अदृश्यत्वादिगुणको धर्मोक्त्तेः।
आथर्वणे - “अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यम्” इत्यारभ्य “यद्भूतयोनिं परिपश्यन्ति धीराः।”, “अक्षरात्परतः परः।” इत्यादौ किं प्रधानपुरुषौ प्रतिपाद्येते? उत परमात्मैवेति संशयः। प्रधानपुरुषाविति पूर्वः पक्षः। पृथिव्याद्यचेतनगतदृश्यत्वादीनां प्रतिषेधात्तज्जातीयाचेतनं प्रधानमेव भूतयोन्यक्षरमिति प्रतीयते। तथा “अक्षरात्परतः परः” इति च तस्याधिष्ठाता पुरुष एवेति॥ राद्धान्तस्तु - उत्तरत्र “यस्सर्वज्ञः सर्ववित्” इति प्रधानपुरुषयोरसंभावितं सार्वज्ञ्यमभिधाय “तस्मादेतद् ब्रह्म नामरूपमन्नञ्च जायते” इति सर्वज्ञात्सत्यसंकल्पाज्जगदुत्पत्तिश्रवणात्पूर्वोक्तमदृश्यत्वादिगुणकं भूतयोन्यक्षरम्, “अक्षरात्परतः परः” इति च निर्दिष्टं तदक्षरं परं ब्रह्मैवेति विज्ञायते॥ सूत्रार्थः - अदृश्यत्वादिगुणकः परमात्मा, सर्वज्ञत्वादितद्धर्मोक्तेः॥
विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ।
विशिनष्टि हि प्रकरणं प्रधानाद्भूतयोन्यक्षरमेकविज्ञानेन सर्वविज्ञानादिना। तथा “अक्षरात्परतः परः” इत्यक्षरादव्याकृतात्परतोऽवस्थितात्पुरुषात्पर इति पुरुषाच्चास्य भूतयोन्यक्षरस्य भेदो व्यपदिश्यते। अतश्च न प्रधानपुरुषौ, अपितु परमात्मैवात्र निर्दिष्टः॥
रूपोपन्यासाच्च।
“अग्निर्मूर्धा” इत्यादिना समस्तस्य चिदचिदात्मकप्रपञ्चस्य भूतयोन्यक्षररूपत्वेनोपन्यासाच्चायमदृश्यत्वादिगुणकः परमात्मा॥
इति अदृश्यत्वादिगुणकाधिकरणम्॥