अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्।
बृहदारण्यके, “यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः” इत्यादिषु सर्वेषु पर्यायेषु श्रूयमाणोऽन्तर्यामी किं प्रत्यगात्मा? उत परमात्मेति संशयः। प्रत्यगात्मेति पूर्वः पक्षः। वाक्यशेषे “द्रष्टा श्रोता मन्ता” इति द्रष्टृत्वादिश्रुतेः, “नान्योऽतोऽस्ति द्रष्टा” इति द्रष्ट्रन्तरनिषेधाच्च। राद्धान्तस्तु - पृथिव्याद्यात्मपर्यन्तसर्वतत्त्वानां सर्वैरेभिरदृष्टेनैकेन नियमनं निरुपाधिकामृतत्वादिकञ्च परमात्मन एव धर्म इत्यन्तर्यामी परमात्मा। द्रष्टृत्वादिश्च रूपादिसाक्षात्कारः। स च “पश्यत्यचक्षुः” इत्यादिना परमात्मनोऽप्यस्ति। “नान्योऽतोऽस्ति द्रष्टा” इति च जीवेनादृष्टान्तर्यामिद्रष्टृवत् अन्तर्यामिणाऽप्यदृष्टद्रष्ट्रन्तरनिषेधपरः॥ सूत्रार्थः - अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्यामी परमात्मा, सर्वान्तरत्वसर्वाविदितत्वसर्वशरीरकत्वसर्वनियमनसर्वात्मत्वामृतत्वादिपरमात्मधर्माणां व्यपदेशात्॥
न च स्मार्त्तमतद्धर्माभिलापाच्छारीरश्च।
स्मार्त्तं प्रधानम्। शारीरः प्रत्यगात्मा। स्मार्त्तं च शारीरश्च नान्तर्यामी, तयोरसंभावितोक्त्तधर्माभिलापात्। यथा स्मार्त्तस्याचेतनस्यासंभाविततया नान्तर्यामित्वप्रसक्तिः, तथा प्रत्यगात्मनोऽपीत्यर्थः॥
उभयेऽपि हि भेदेनैनमधीयते।
उभये - काण्वाः माध्यन्दिना अपि, “यो विज्ञाने तिष्ठन्”, “य आत्मनि तिष्ठन्” इति यतः प्रत्यगात्मनो भेदेनैनमन्तर्यामिणमधीयते अतोऽयं तदतिरिक्तः परमात्मा॥
इति अन्तर्याम्यधिकरणम्॥