अन्तर उपपत्तेः।
छान्दोग्ये “य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म” इत्यत्राक्ष्याधारः पुरुषः किं प्रतिबिम्बात्मजीवदेवताविशेषान्यतमः?। उत परमात्मेति संशयः। एष्वन्यतमः इति पूर्वपक्षः। “य एष .. दृश्यते” इति प्रसिद्धवत्साक्षात्कारनिर्द्देशात्॥ राद्धान्तस्तु - परमात्मैवायमक्ष्याधारः पुरुषः अक्षिपुरुषसंबन्धितया श्रूयमाणा हि निरुपाधिकात्मत्वामृतत्वाभयत्वब्रह्मत्वसंयद्वामत्वादयः परमात्मन्येवोपपद्यन्ते। प्रसिद्धवन्निर्द्देशश्च “यश्चक्षुषि तिष्ठन्” इत्यादि श्रुत्यन्तरप्रसिद्धेरुपपद्यते। साक्षात्कारश्च तदुपासननिष्ठानां योगिनाम्। सूत्रार्थः - अक्ष्यन्तरः परमात्मा। संयद्वामत्वादीनां गुणानामत्रैवोपपत्तेः॥
स्थानादिव्यपदेशाच्च।
स्थानं - स्थितिः। परमात्मन एव, “यश्चक्षुषि तिष्ठन्” इत्यादौ चक्षुषि स्थितिनियमनादीनां व्यपदेशाच्चायं परमात्मा॥
सुखविशिष्टाभिधानादेव च।
“प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म” इति सुखविशिष्टतया प्रकृतस्य परस्यैव ब्रह्मणोऽक्ष्याधारतयोपास्यत्वाभिधानाच्चायं परमात्मा। एवकारोऽस्यैव हेतोर्नैरपेक्ष्यावगमाय॥
“प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म” इत्यत्र सुखविशिष्टं परमेव ब्रह्माभिहितमिति कथमिदमवगम्यते? यावता नामादिवत्प्रतीकोपासनमेवेत्याशङ्क्याह -
अत एव च स ब्रह्म।
यतस्तत्र भवभयभीतायोपकोसलाय ब्रह्मस्वरूपजिज्ञासवे “कं च तु खं च न विजानामि” इति पृच्छते “यद्वा व कं तदेव खं यदेव खं तदेव कम्” इत्यन्योन्यव्यवच्छेदकतयाऽपरिछिन्नसुखस्वरूपं ब्रह्मेत्यभिधाय, “प्राणं च हास्मै तदाकाशं चोचुः” इत्युक्तम्। अत एव खशब्दाभिधेयः स आकाशोऽपरिछिन्नसुखविशिष्टं परं ब्रह्मैव॥
श्रुतोपनिषत्कगत्यभिधानाच्च।
श्रुतोपनिषत्कैरधिगतब्रह्मयाथात्म्यैर्ब्रह्मप्राप्तये या गतिरर्चिरादिकाऽधिगन्तव्यतयाऽवगता श्रुत्यन्तरे, तस्याश्चेहाक्षिपुरुषं श्रुतवतोऽधिगन्तव्यतया, “तेऽर्चिषमेवाभिसंभवन्ति” इत्यादिना अभिधानादक्षिपुरुषः परमात्मा॥
अनवस्थितेरसंभवाच्च नेतरः।
परमात्मन इतरः जीवादिकः। तस्याक्षिणि नियमेनानवस्थितेरमृतत्वसंयद्वामत्वादीनां चासम्भवान्न सोऽक्ष्याधारः॥
इति अन्तराधिकरणम्॥