अत्ता चराचरग्रहणात्।
कठवल्लीष्वाम्नायते “यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः॥” इति। अत्रौदनोपसेचनसूचितोऽत्ता किं जीवः, उत परमात्मेति संशयः॥ जीव इति पूर्वः पक्षः। कुतः? भोक्तृत्त्वस्य कर्मनिमित्तत्त्वात् जीवस्यैव तत्संभवात्॥ राद्धान्तस्तु - सर्वोपसंहारे मृत्यूपसेचनमदनीयं चराचरात्मकं कृत्स्नं जगदिति तस्यैतस्यात्ता परमात्मैव। न चेदं कर्मनिमित्तं भोक्तृत्त्वम्। अपितु जगत्सृष्टिस्थितिलयलीलस्य परमात्मनो जगदुपसंहारित्वरूपं भोक्तृत्वम्॥ सूत्रार्थः - ब्रह्मक्षत्रौदनस्यात्ता परमात्मा। ब्रह्मक्षत्रशब्देन चराचरस्य कृत्स्नस्य जगतो ग्रहणात्। मृत्यूपसेचनो ह्योदनो न ब्रह्मक्षत्रमात्रम्। अपि तु तदुपलक्षितं चराचरात्मकं कृत्स्नं जगदेव॥
प्रकरणाच्च।
“महान्तं विभुमात्मानं मत्वा धीरो न शोचति”, “नायमात्मा प्रवचनेन लभ्यो न मेधया” इति परस्यैव हीदं प्रकरणम्। अतश्चायं परमात्मा।
नन्वनन्तरं “ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये” इति द्वयोः कर्मफलादनश्रवणात्, परमात्मनश्च कर्मफलादनानन्वयात्, अन्तःकरणद्वितीयो जीवः तत्रात्तेति प्रतीयते, अतोऽत्रापि स एव जीवोऽत्ता भवितुमर्हतीत्याशङ्क्याह -
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्। (1-2-11)
गुहां प्रविष्टौ जीवात्मपरमात्मानौ। जीवद्वितीयः परमात्मैव तत्र प्रतीयत इत्यर्थः। स्वयमनश्नतोऽपि परमात्मनः, प्रयोजकतया पानेऽन्वन्यो विद्यते। जीवद्वितीयः परमात्मेति कथमवगम्यते। तद्दर्शनात्। तयोरेव ह्यस्मिन्प्रकरणे गुहाप्रवेशव्यपदेशो दृश्यते “तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति” इति परमात्मनः, “या प्राणेन संभवत्यदितिर्देवतामयी। गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत” इति जीवस्य। कर्मफलानि अत्तीत्यदितिः जीवः॥
विशेषणाच्च।
अस्मिन्प्रकरणे ह्युपक्रमप्रभृत्योपसंहाराज्जीवपरमात्मानावेवोपास्यत्वोपासकत्वप्राप्यत्वप्राप्तृत्वादिभिर्विशेष्येते, “महान्तं विभुमात्मानं मत्वा धीरो न शोचति”। “विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः, सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इत्यादिषु। अतश्चात्ता परमात्मा॥
इति अत्त्रधिकरणम्॥