12 सर्वत्रप्रसिद्ध्यधिकरणम्

सर्वत्र प्रसिद्धोपदेशात्।
छान्दोग्ये श्रूयते “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत। अथ खलु क्रतुमयोऽयं पुरुषः यथाक्रतुरस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवति। स क्रतुं कुर्वीत मनोमयः प्राणशरीरः” इति। अत्र “सर्वं खल्विदं ब्रह्म” इति सर्वात्मकत्वेन निर्दिष्टं ब्रह्म किं प्रत्यगात्मा, उत परमात्मेति संशयः॥ प्रत्यगात्मेति पूर्वः पक्षः। सर्वत्र तादात्म्योपदेशो हि तस्यैवोपपद्यते। परस्य तु ब्रह्मणः सकलहेयप्रत्यनीककल्याणैकतानस्य समस्तहेयाकरसर्वतादात्म्यं विरोधादेव न संभवति। प्रत्यगात्मनो हि कर्मनिमित्तो ब्रह्मादिस्तम्बपर्यन्तसर्वभाव उपपद्यते। सृष्ट्यादिहेतुत्वञ्च तत्तत्कर्मनिमित्तत्वेन सृष्ट्यादेरुपपद्यते। ब्रह्मशब्दोऽपि बृहत्त्वगुणयोगेन, “तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते” इतिवत् तत्रैव वर्तते॥
राद्धान्तस्तु - “तज्जलान्” इति “सर्वं खल्विदं ब्रह्म” इति तज्जन्मस्थितिलयहेतुकं तदात्मकत्वं प्रसिद्धवन्निर्दिश्यमानं परस्यैव ब्रह्मण उपपद्यते। परस्माद् ब्रह्मण एव हि जगज्जन्मस्थितिलयाः प्रसिद्धाः - “सोऽकामयत बहु स्यां प्रजायेयेति”। “इद सर्वमसृजत” इत्यादिषु। तथा सर्वात्मकत्वं च जन्मादिहेतुकं परस्यैव ब्रह्मणः प्रसिद्धं - “सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः; ऐतदात्म्यमिदं सर्वम्” इति। हेयप्रत्यनीककल्याणैकतानात्मनश्च परस्य हेयाकरसर्वभूतात्मत्वमविरुद्धम्। यः पृथिव्यां तिष्ठन् …. यस्य पृथिवी शरीरम्। य आत्मनि तिष्ठन् यस्यात्मा शरीरं, .. स त आत्माऽन्तर्याम्यमृतः" इत्यादिना शरीरात्मभावेन सर्वात्मत्वोपपादनात्; शरीरात्मनोश्च स्वभावव्यवस्थानात्। सर्वं ब्रह्मेति सामानाधिकरण्यनिर्देशश्च सर्वशब्दस्य सर्वशरीरके ब्रह्मण्येव प्रवृत्तेरुपपद्यते। शरीरवाची हि शब्दः शरीरिण्यात्मन्येव पर्यवस्यति; देवमनुष्यादिशब्दवत्॥ सूत्रार्थस्तु - सर्वत्र - “सर्वं खल्विदं ब्रह्म” इति निर्दिष्टे वस्तुनि सर्वशब्दवाच्ये सामानाधिकरण्येन तदात्मतया निर्दिष्टं परं ब्रह्मैव। कुतः?। प्रसिद्धोपदेशात् “तज्जलानिति सर्वमिदं ब्रह्म खलु” इति प्रसिद्धवत् तस्योपदेशात्; सर्वात्मकत्वोपदेशाच्च। तदेव हि जगज्जन्मस्थितिलयहेतुत्वेन वेदान्तेषु प्रसिद्धम्॥

विवक्षितगुणोपपत्तेश्च।
मनोमयत्वादिकाः सत्यसंकल्पत्वमिश्रा विवक्षिताः गुणाः परस्मिन्नेवोपपद्यन्ते॥

अनुपपत्तेस्तु न शारीरः।
एतेषां गुणानामनन्तदुःखमिश्रपरिमितसुखलवभागिन्यज्ञे कर्मपरवशे शारीरे प्रत्यगात्मन्यनुपपतेश्चायं न शारीरः। अपि तु परमेव ब्रह्म॥

कर्मकर्तृव्यपदेशाच्च।
“एतमितः प्रेत्याभिसंभवितास्मि” इति प्राप्यतयोपास्यो निर्दिश्यते, प्राप्तृतया च जीवः। ततश्च जीवादन्यदेवेदं परं ब्रह्म॥

शब्दविशेषात्।
“एष म आत्माऽन्तर्हृदये” इति शारीरः षष्ठ्या निर्दिष्टः, उपास्यः प्रथमया। अतश्च जीवादन्यः॥

स्मृतेश्च।
“सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च” इति स्मृतेश्च। अतश्च जीवादन्य उपास्यः परमात्मा॥

अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च।
“एष म आत्माऽन्तहृर्दये” इत्यल्पस्थानत्वात्, “अणीयान्व्रीहेर्वा यवाद्वा” इत्यल्पत्वव्यपदेशाच्च न परं ब्रह्मेति चेन्न - निचाय्यत्वादेवम्। एवमुपास्यत्वाद्धेतोरल्पायतनत्वव्यपदेशः। न स्वरूपाल्पत्वेन। “ज्यायान्पृथिव्याः” इत्यादिना सर्वस्माज्ज्यायस्त्वोपदेशात्। ज्यायसोऽप्यस्य हृदयायतनावच्छेदेनाल्पत्वानुसंधानमुपपद्यते। व्योमवत् - यथा महतोऽपि व्योम्नः सूचिपथादिष्वल्पत्वानुसंधानम्। चशब्दोऽवधारणे। तद्वदेवेत्यर्थः। स्वाभाविकं चास्य महत्त्वमत्राभिधीयत इत्यर्थः। “ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः” इति ह्यनन्तरमेव व्यपदिश्यते॥

संभोगप्राप्तिरिति चेन्न वैशेष्यात्।
यद्युपासकशरीरे हृदयेऽयमपि वर्तते; ततस्तद्वदेवास्यापि शरीरप्रयुक्तसुखदुःखसंभोगप्राप्तिरिति चेन्न। हेतुवैशेष्यात्। न हि शरीरान्तर्वर्तित्वमात्रमेव सुखदुःखोपभोगहेतुः। अपि तु कर्मपरवशत्वम्। तत्तु अपहतपाप्मनः परमात्मनो न संभवति॥
इति सर्वत्रप्रसिद्ध्यधिकरणम्॥