विश्वास-प्रस्तुतिः - 25
25.यद्यप्युक्तो विमुक्तः परतनुरपृथक्सिद्ध इत्यत्र पूर्वं
व्यापारांशे तथापि श्रुतमिह परमं साम्यमक्षोभणीयम्।
संकल्पादेव सर्वोत्थितिरपि हि ततस्स्यादिति प्रत्यवस्थां
कृन्तत्यन्ते़ऽधिकारे कृतिमदितरयोस्स्थापयन्भोगसाम्यम्॥
३४-तमाहोबिल-यतिः - 25
- यद्यप्युक्त इत्यादि। अत्र– अस्मिन्नध्याये। पूर्वम्– ’ अविभागेन दृष्टत्वात् ’ इत्यधिकरणे। विमुक्तः– मुक्तचेतनः। परतनुः– परमात्मशरीरभूतः। अत एव अपृथक्सिद्ध इति च यद्यप्युक्तः। तथापि व्यापारांशे इह श्रुतं परमं साम्मक्षोभणीयम्– अप्रतिक्षेप्यम्। ततः– तस्मात्। सङ्कल्पादेव– मुक्तस्य सङ्कल्पमात्रादेव। सर्वोत्थितिरपि हि स्यात्– सर्वजगदुत्पत्त्यादिकमपि हि भवेत्। इति– इत्थम्। प्रत्यवस्थाम्– प्रत्यवस्थानम्। अन्तेऽधिकारे– शास्त्रान्तभूतेऽधिकरणे। कृतिमदितरयोः– कृतिमान् जगत्कर्ता ईश्वरः" इतरो जीवः, तयोः। भोगसाम्यं स्थापयन्– भोगसाम्यमेव न पुनर्जगद्व्यापारेणापि साम्यमिति स्थापयन्। कृन्तति– छेदयति। निरस्यति। प्रत्यवस्थां कृन्ततीति सम्बन्धः॥
कुमार-वरदः - 25
- अत्र सङ्गतिर्भाष्ये ’ किं मुक्तस्यैश्वर्यं जगत्सृष्ट्यादिपरमपुरुषासाधारणं सर्वेश्वरत्वमप्युत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशयः’ इति।तदर्विचारस्तु-किं मुक्तस्यैश्वर्यं जगद्व्यापारविषयमुत नेति। किं जगन्नियमनस्य मुक्तैश्वर्यान्तर्भावे ’ यतो वा इमानि’ इत्यादिब्रंह्मलक्षणवाक्यं विरुध्यते नेति।किं मुक्तस्य सृष्टिप्रकरणासन्निधानेन जगद्व्यापारस्य ब्रह्मलक्षणत्वाश्रयणं न्याय्यमुत मुक्तस्य विकारलोकानुसञ्चरण- श्रवणेन जगन्नियमनस्य ब्रह्मलक्षणत्वाश्रयणमन्याय्यमिति।किं मुक्तस्य विकारलोकानुसञ्चरणं नियमनार्थमुत केवलभोगार्थमिति।अत्र पूर्वपक्षी ’ परमं साम्यमुपैति’ इति श्रुत्यापातप्रतीत्यनुसारेण परमपुरुषवज्जगद्व्यापारोऽपि मुक्तस्यास्त्विति शङ्कते— यद्य पी ति।अयमर्थः-पूर्वमेव मुक्तश्शरीरलक्षणैराधेयत्वादिभिः परमात्मनश्शरीरमिति यद्यप्युक्तः।तथापि व्यापारांशे श्रुतं" परमं साम्यमक्षोभणीयम् ।ततः ’ सङ्कल्पादेव तच्छ्रुतेः’ इति सूत्रोक्तमुक्त सङ्कल्पादेव सर्वोत्थानं स्यादिति जगद्व्यापारस्यापि भवेदिति पूर्वपक्षिणः प्रत्यवस्थानं शास्रान्ते निकृन्तति नुदति। कृतिमदितरयोरस्स्था- पयन्भोगसाम्य मिति— कृतिमान् जगत्कर्ता इतरो जीवस्तयोर्भोगसाम्यमेव संभवति नपुनर्जगद्व्यापारसाम्यम्, तत्साम्ये जीवेश्वरलक्षणविभागविलोपप्रसङ्गादिति॥
मूलम् - 25
25.यद्यप्युक्तो विमुक्तः परतनुरपृथक्सिद्ध इत्यत्र पूर्वं
व्यापारांशे तथापि श्रुतमिह परमं साम्यमक्षोभणीयम्।
संकल्पादेव सर्वोत्थितिरपि हि ततस्स्यादिति प्रत्यवस्थां
कृन्तत्यन्ते़ऽधिकारे कृतिमदितरयोस्स्थापयन्भोगसाम्यम्॥
विश्वास-प्रस्तुतिः - 26
26.सायुज्यं भोगसाम्यं समगणि निपुणैश्शब्दशक्त्याद्यबाधात्
तच्च व्यापारसाम्ये त्वसति न घटते स्वक्रियास्वादहानेः।
तस्मान्मुक्तस्य सृष्टिप्रभृतिरपि जगद्व्यापृतिर्ब्रह्मतुल्या
मैवं तल्लक्षणं सा कथमनुगमतस्तस्य चान्यस्य च स्यात्॥
३४-तमाहोबिल-यतिः - 26
- सायुज्यमित्यादि। निपुणैः– शब्दार्थानुगमनिपुणैः। शब्दशक्त्याद्यबाधात्– सायुज्यशब्दघठकयुजिर्धातुतदुपपादसहशब्दादेशभूतसशब्दभावार्थप्रत्ययशक्त्यौचित्याद्यबाधाय। सायुज्यम्– मुक्तस्य श्रुतिप्रतिपन्नं सायुज्यम्। भोगसाम्यम्– भोगसाम्यरूपं न तु स्वरूपैक्यरूपमिति। समगणि– निरणायि। तच्च– भोगसाम्यरूपं सायुज्यञ्च। व्यापारसाम्ये असति तु– मुक्तपरमात्मनोर्व्यापारेण जगत्सृष्ट्यादिरूपेण साम्ये अविद्यमाने सति। स्वक्रियास्वादहानेः- ईश्वरस्य स्वक्रियास्वाद एव सर्वदा भवतीति जीवस्य जगत्व्यापाराभावे स्वक्रियास्वादाभावात्। न घटते – न युज्यते। तच्च न घटत इति सम्बन्धः। तस्मात्– कारणात्। मुक्तस्यापि सृष्टिप्रभतिः– सृष्ट्यादिः। जगत्व्यावृतिः। ब्रह्मतुल्या– ईश्वरतुल्या भवतु। मैवम्– एवं मा शङ्किष्ठाः। सा– जगत्सृष्ठ्यादिक्रिया। तस्य च – लक्ष्यभूतस्य ब्रह्मणः। अन्यस्य च– अलक्ष्यभूतस्य तदन्यस्य मुक्तस्य च। अनुगमतः– अनुवृत्त्या। तल्लक्षणं कथं स्यात्– ईश्वरलक्षणं कथं भवेत्। लक्ष्यालक्ष्ययोरनुवर्तमानं नहि लक्ष्यस्य लक्षणमिति हि लक्षणविदो वदन्तीति भावः॥
कुमार-वरदः - 26
- अत्र पूर्वपक्षी जगद्व्यापारसाम्याभावे विरोधमाशङ्कते- सायुज्य मिति।अयमत्र शब्दार्थानुगमः— निर्गुणैः खलु शब्दार्थानुगमाद् भोगसाम्य मेव सायुज्य मिति समगणि। तच्चास्माभिः प्रागेव विवृतम्।तत्र हेतुमाह— शब्दशक्त्याद्यबाधा दिति।दर्शिता चास्माभिश्शब्दशक्तिः।अत्र निपुणैरित्यभिधानमैक्यं सायुज्यमित्यभिदधतामद्वैतिनां निरासार्थम्।अस्तु सायुज्यशब्दार्थः किं ततः प्रस्तुतस्येत्याशङ्क्याह- तच्चे ति।यदि व्यापारसाम्यं तदैव हि सायुज्यमपि स्यात्।भोजनसाम्ये हि भोगसाम्यमपि सम्भवति। उक्तमर्थं व्यतिरेकतोऽपि द्रढयति— असती ति।तदेवोपपादयति— स्वक्रिये ति।ईश्वरस्य हि स्वक्रियास्वाद एव सर्वदा भवतीति जीवस्य जगद्व्यापाराभावे स्वक्रियास्वादाभा वात् कथमिव सर्वसाम्यसिद्धिः।उक्तमर्थं सोपपत्तिकं निगमयति- तस्मा दिति।तदितं प्रतिक्षिपति— मैव मिति।तदेवोपपादयति— तल्लक्षण मिति। अयमर्थः—यस्य तु यल्लक्षणं तत् तस्यैव स्यात् नपुनरन्यस्य तेन लक्षणभूतो जगद्व्यापार ईश्वरस्य तद न्यस्यचानुगमतो ऽनुवृत्त्या कथं स्यात् ।लक्ष्यालक्ष्ययोरनुवर्तमानं न हि लक्ष्यस्य लक्षणमिति लक्षमविदो वदन्ति॥
मूलम् - 26
26.सायुज्यं भोगसाम्यं समगणि निपुणैश्शब्दशक्त्याद्यबाधात्
तच्च व्यापारसाम्ये त्वसति न घटते स्वक्रियास्वादहानेः।
तस्मान्मुक्तस्य सृष्टिप्रभृतिरपि जगद्व्यापृतिर्ब्रह्मतुल्या
मैवं तल्लक्षणं सा कथमनुगमतस्तस्य चान्यस्य च स्यात्॥
विश्वास-प्रस्तुतिः - 27
27.कथ्यन्ते सृष्टिवाक्ये क्वचिदपि न जगत्कारणत्वेन मुक्ताः
प्राधीतः कामचारो भवतु न जगदारम्भकत्वं ततस्स्यात्।
सर्वाकारोपभोग्येश्वरविषयधियस्साम्यतो भोगसाम्यं
युज्येतानन्दवल्ल्यां समगणि विभुनानन्दमात्रे समत्वम्॥
३४-तमाहोबिल-यतिः - 27
- कथ्यन्त इत्यादि। सृष्टिवाक्ये– जगत्सृष्टिप्रतिपादकश्रुतिवाक्ये। क्वचिदपि– क्वापि। मुक्ता जगत्कारणत्वेन न कथ्यन्ते। कामचारः प्राधीतो भवतु– ’ इमान्लोकान् कामान्नी कामरूप्यनुसञ्चरन् ’ इति श्रुत्या मुक्तस्य स्वेच्छासञ्चारः प्रतिपाद्यताम्। ततः – कामसञ्चारकथनमात्रेण। जगतारम्भकत्वं न स्यात्— जगत्कारणत्वं न सिध्येत्। नहि सञ्चारमात्रं जगत्कारणत्वमिति भावः।भोगसाम्यं" सर्वाकारोपभोग्येश्वरविषयधियस्साम्यतः– स्वरूपगुणविभूत्यादिभिस्सर्वैरप्याकारैरुपभोग्यो भोग्यतमो य ईश्वरस्तद्विषया या धीस्तस्यास्साम्यतः" ईश्वरे मुक्ते च तुल्यतया। युज्यते– युक्तमेव भवेत्। आनन्दवल्ल्याम्– ’ भीषास्मात् ’ इत्याद्यनुवाके आनन्दवल्ल्याख्ये। विभुना समत्वम्– ईश्वरेण साम्यम्। आनन्दमात्रे समगणि– ’ सएको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य ’ इति वाक्येनानन्दमात्रेणैव साम्यप्रतिपादनात् जगद्व्यापारसाम्याप्रतिपादनाच्चानन्दमात्रत एव साम्यमिति निरणायि। अतो न भोगसाम्यहानिः। नटक्रियानुभवरसस्य नटसभापतिसभ्यादितुल्यतावदीश्वरव्यापारानुभवजन्यरप्तस्य ईश्वरमुक्तयोस्तुल्यत्वानपायात् न क्रियास्वादहानिशङ्काचेति भावः॥
कुमार-वरदः - 27
- ननु व्यापाराभावे कथं भोगसाम्यं स्यादित्यत्र लोकद्दष्टप्रक्रिया तदभावेऽपि भोगसाम्यमुपपादयति– कथ्यन्त इति।अयमत्र शब्दान्वयः—सृ ष्टिवाक्ये क्वचिदपि मुक्ता जगत्कारणत्वेन न कथ्यन्ते ।तर्हि ’ इमांल्लोकान्कामान्नी’ इत्यादि कामचार वचनं कथं स्यादित्याङ्क्य सोऽपि भवतु नाम तथापि न जगदारम्भकत्व सिद्धिरित्याह— प्राधी त इति।अत्र व्यापारसाम्याभावे कथं भोगसाम्यमित्येतावदवशिष्यते तदपि नेत्याह— सर्वे ति।भोग्यसाम्यादेव हि भोगसाम्यम्, न पुवर्व्यापारसाम्यात्।लोके हि नटनर्तनादिषु व्यापारेषु सभापतिभावुकनटादीनामनुभार्व्यार्थसाम्येन भोगसाम्यं द्दश्यत एव।न केवलं नटस्यैव भोगः।यथा राजानं सेवमानानां राजान्तरङ्गपुरुषाणामानन्दो राज्ञा समान एव।केवलं स्वाम्यं स्वातन्त्र्यञ्च राज्ञि वर्तते नपुनरानन्दे विशेषः।इयं तु लोकद्दष्टप्रक्रिया।न केवलमियमेव, श्रुतिरपि ’ स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य’ इति वदन्ती जीवेश्वरयोश्शेषशेषिभावादिना स्वरूपवैषम्ये व्यापारवैषम्ये च सत्यपि भोगसाम्यमेवोपपादयति।तथा च द्दष्टाद्दष्टप्रमाणप्रतिपन्नं भोगसाम्यं समद्दष्टीनां विशिष्टानामिष्टमिति न कोऽपि विरोधः॥
मूलम् - 27
27.कथ्यन्ते सृष्टिवाक्ये क्वचिदपि न जगत्कारणत्वेन मुक्ताः
प्राधीतः कामचारो भवतु न जगदारम्भकत्वं ततस्स्यात्।
सर्वाकारोपभोग्येश्वरविषयधियस्साम्यतो भोगसाम्यं
युज्येतानन्दवल्ल्यां समगणि विभुनानन्दमात्रे समत्वम्॥
विश्वास-प्रस्तुतिः - 28
28.निष्कामश्रोत्रियस्याप्यतिदिशति सुखं मानुषानन्दतुल्यं
सानन्दान्वक्तुकामा शतगुणमधिकानाविरिञ्चं क्रमेण।
तत्तद्भोगात्प्रथिष्ठं कथमिदमवरं कष्टमिष्टं च मुक्ते
सत्यं तत् स्यान्मुकुन्दप्रियजनसदृशे ह्येकदेशानुवादः॥
३४-तमाहोबिल-यतिः - 28
- निष्कामश्रोत्रियस्येत्यादि। आविरिञ्चिम्– चतुर्मुखभिव्याप्य चतुर्मुखपर्यन्तमित्यर्थः। क्रमेण– मनुष्यमनुष्यगन्धर्वाद्युत्तरोत्तरक्रमेण। शतगुणम्– शतं गुणा आवृत्तयो यस्मिन्कर्मणि तथा। अधिकान्– उत्कृष्टान्। आनन्दान्। वक्तुकामा– वक्तुं प्रवृत्तेत्यर्थः। सा– आनन्वल्लीति विशेष्यम्। श्रुतिरिति वा। निष्कामश्रोत्रियस्यापि– मुक्तस्यापि। मानुषानन्दतुल्यम्– मनुश्यानन्दतुल्यम्। सुखम्– आनन्दम्। अतिदिशति– ’ स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनुश्यगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य ’ इति व्यपदिशति। तत्तद्भोगात्– पूर्वपूर्वोक्तसंसारिभोगापेक्षया। प्रथिष्ठम्– अतिशयितमपि। अवरम्– उत्तरोत्तरसंसारिभोगान्निकृष्टम्। इष्टं" कष्टञ्च– अत एव प्रियं दुःखरूपञ्च। इदम्– अतिदेशवाग्लब्धं तत्तत्संसारिसुखतुल्यं सुखम्। मुक्ते– मुक्तात्मनि परमात्मना परमसाम्यमापन्ने। कथम्– कथं सम्भवति। सत्यम्– उक्तमर्धमङ्गीक्रियते अर्धं नेत्यर्थः। अतिदेशवचनमङ्गीकृतं तस्य तात्पर्यन्त्वन्यदित्यर्थः। तत्– अतिदेशवचनम्। मुकुन्दप्रियजनसद्दषे– मुकुन्दप्रियजनाः अनन्तगरुडादयो नित्यसूरयस्तत्तुल्ये तत्तुल्यानन्दभाजि मुक्ते। एकदेशानुवादे हि स्यात्– मुक्तस्य नित्यसूरिवत्परिपूर्णान्दवत्त्वात् सर्वसांसारिकानन्दानां तदेकदेशत्वेन तदन्तर्गतत्वात् तदतिदेशवचनं द्वादशकपालान्तर्गताष्टाकपालादिवाक्यवदवयुत्यानुवाद इत्यर्थः॥
कुमार-वरदः - 28
- अत्र केचिद्वदन्ति ’ मनुष्यानन्दमारभ्य चतुर्मुखानन्दपर्यन्तमुत्तरोत्तरमानन्दादिशयमुक्त्वा ’ श्रोत्रयस्य चाकामहतस्य’ इति निष्कामश्रोत्रियस्याप्यनुक्रमात् स एवानन्दोऽतितिश्यते।तेन परमपदस्थानामपि निष्कामश्रोत्रियाणां मनुष्यानन्दादितुल्यानन्दवत्त्वमङ्गीकार्यम्’ इति।तदितमनुवदति- निष्कामे ति। एवमनूदितं दूषयति— तत्त दिति।उत्ते्रोत्तरसंसारिभोगात्पूर्वपूर्वोक्तभोगस्य शतांशेन न्यूनत्वात्कष्टत्व- मित्यर्थः।नहि परमपदं गतस्य प्रसिद्धेन्द्रादिभोगादत्वयन्तावरत्वकथनमास्तिकानां गोष्ठीषु समस्ति।न परमपुरुषः परमैकान्तिनः परमपदं" गतस्यापि प्रसिद्धेन्द्रादिभ्योऽप्यवरत्ववर्णनमाकलयति।नापि च तदन्तरङ्गकिङ्करा भुजङ्गमविहङ्गपतिप्रभृतयोऽपि तद्वचनमङ्गीकुर्वन्ति।’ ब्रह्मविदाप्नोति परम्’ इति सर्वेषामपि ब्रह्मविदां सर्वप्रतिबन्धनिवृत्तौ साधारणमेकरूपमेव फलं श्रुतिरप्याह ’ सोऽश्नुते सर्वान्कामान्सह’ इति।नह्यत्र केषुचित्सर्वशब्दसङ्कोचो न्याय्यः शब्दार्थवैरूप्यप्रसङ्गात्।तेन ’ निरञ्जनः परमं साम्यमिति’ इत्यशेषाणामपि ब्रह्मविदामेकरूपमेव फलम्।तर्हि कथं पृथक्पृथक्फलनिर्देश इत्याशङ्क्याह–मुक्त इति। अयमत्रान्वयः मुकुन्दप्रियजनो ऽनन्तगरुडविष्वक्सेनादिर्नित्यवर्गः, त त्सद्दशे नित्यानन्दे सति तेषुतेष्वधिकारिष्वेकदेशकथनमवयुत्यानुवाद इति नीतिविदां सम्प्रदायः।यथा वैश्वानरवाक्ये द्वादशकपालादिवाक्यशेषे तत्फलविशेषकथनमवयुत्यानुवाद इति तान्त्रिकैरनुवर्ण्यते तद्वदिदमपीत्यर्थः॥
मूलम् - 28
28.निष्कामश्रोत्रियस्याप्यतिदिशति सुखं मानुषानन्दतुल्यं
सानन्दान्वक्तुकामा शतगुणमधिकानाविरिञ्चं क्रमेण।
तत्तद्भोगात्प्रथिष्ठं कथमिदमवरं कष्टमिष्टं च मुक्ते
सत्यं तत् स्यान्मुकुन्दप्रियजनसदृशे ह्येकदेशानुवादः॥
विश्वास-प्रस्तुतिः - 29
29.आनन्दानन्त्यमाह श्रुतिरिह हि यतो वाच इत्यादिकास्याः
विश्रान्तिश्श्रान्तिमात्रादिति च निगदिता यामुनाचार्यवर्यैः।
न ह्यानन्दोन्मितिस्स्याद्विधिशतवचनेऽप्यस्य यष्ट्या नभोवत्
तच्चोक्तं भूधराण्वोरुदधिपतितयोर्मज्जने को विशेषः॥
३४-तमाहोबिल-यतिः - 29
- आनन्दानन्त्यमित्यादि। इह– आनन्दवल्ल्याम्। हि– प्रसिद्धम्। यतो वाच इत्यादिका श्रुतिः। आनन्दानन्त्यमाह– वाङ्मनसापरिच्छेद्यत्वकथनमुखेन भगवदानन्तोऽन्त इत्याहेत्यर्थः। अस्याः– श्रुतेः। विश्रान्तिः– आनन्दपरिमितिप्रतिपादनव्यापारनिवृत्तिः। श्रान्तिमात्रात्– स्वाशक्तिमूलकश्रममात्रात्। नतु भगवदानन्दस्य परिमितत्वेन विषयसमाप्त्येत्यर्थः। इति च — एवञ्च। यामुनाचार्यवर्यैर्निगदिता– प्रतिपादिता। इति चेत्यत्र चकारात् ’ उपर्युपर्यब्जभुवोऽपि इति श्लोके मनुष्यानन्दादिक्रमेण शतगुणितोत्तरोत्तरातिशयितचतुर्मुखानन्देन भगवदानन्दं परिमातुमप्यतिजुगुप्सया तादृशानन्दमपि चतुर्मुखं मनुष्यस्थाने निवेश्य तदुपर्यपि स्वबुद्ध्या शतगुणितानन्दान्बहून् पुरुषानुत्तरोत्तरं परिकल्प्य तदवसानस्थबौद्धपुरुषानन्देन भगवदान्दं पुनःपरिमातुं प्रवृत्तया तथाप्यनौचित्यतादवस्थ्यादेवमनन्तवारं कल्पनेऽपि तादृशान्तिमप्रयासस्याष्युपक्रमतुल्यां मन्वानया श्रुत्या तथाविधभगवदानन्दपरिमाणशक्त्या तद्व्यापारान्न्यवर्तीति च प्रत्यपादीति गम्यते। विधिशतवचनेऽपि– उक्तक्रमेण मनुषयस्थाने विधिं परिकल्प्य तदुपर्युपरि शतगुणितोत्तरोत्तरातिशयितानन्दविधिशतपरिकल्पनेऽपि। यष्ट्या– परिमितदण्डेन। नभोवत्– आकाशस्येव। अस्य– भगवतः। आनन्दोन्मितिः– आनन्दोन्मानम्। इयदिति निश्चयः। न स्याद्धि– नभवेद्धि। भगवदानन्दस्यानन्तत्वेन परार्घपर्यन्तविघिपरिकल्पनेऽपि तदियक्तानिश्चयस्यासम्भवादिति भावः। तच्च- केनापि कल्पनेन भगवदानन्दस्यानुन्मेयत्वञ्च। भूघराण्वोरूदधिपतितयोर्मज्जने को विशेष इत्युक्तम् –स्वय़ं परिमाणतारतम्यभाजोरपि पर्वतपरमाण्वो़ः पारावापपतितयोर्मज्जने को विशषोऽस्ति पारावारस्य सर्वमज्जनसमर्थत्वात् इति नदर्शयता ’ को मज्जतोरणुकुलाचलयोर्विशेषः ’ इति श्लोकभागेन तैरेव प्रत्यपादीत्यर्थः॥
कुमार-वरदः - 29
- पूर्वं मुक्तानन्दस्यानन्त्यदेकरूप्यमुक्तं तदेव श्रुत्वा व्यक्तमुपपादयन् सत्सम्प्रदायग्रन्थमपि तत्र प्रमाणयति— आनन्दानन्त्य मिति।’ यतो वाचो निवर्तन्ते’ इत्यादिवाक्यं परमपुरु षानन्दस्य मुक्तानुभाव्यस्या नन्त्य मेव वदति।कथमिह वेदवेद्यस्य तस्यानन्त्यमित्याशङ्क्याह— श्रान्तिमात्रा दिति। ’ यद्वा श्रमावधि’ इत्यस्मिन् श्लोके यामुनाचार्यै र्भगवदानन्दस्य कार्त्स्न्येन वेदवेद्यत्वं नास्ति वेदोऽपि श्रान्तिपर्यन्तमेव भगवदानन्दमनुकथयति।तद्वन्ममापि श्रान्तिपर्यन्तमेव भगवदानन्दानुकथनं युज्यत इत्यप्युक्तम्।ननु मनुष्यानन्दादिवदुत्तरोत्तरं विधिषतकल्पन्या भगवदानन्दस्य कार्त्स्न्येन वर्णनं कर्तुं शक्यत इत्याशङ्क्य तदपि नेत्याह— विधिशतवचन इति।विधिरप्यल्पीयानेव,अल्पीयसश्शतसङ्ख्याक- स्याप्युतरोत्तरकल्पनेऽप्यल्पत्वं" न निवर्तते।तेन ब्रह्मानन्दस्य कार्त्स्न्येन कथनं कदापि न योयुज्यते। उपक्रमोपसंहारयोरुभयोरपि तुल्यप्रवृत्तित्वात्।तदिदं ’ उपर्युपर्यब्जभुवोऽपि पूरुषान्’ इति यामुनाचार्यवचन एव स्पष्टमेवोक्तमित्याह—तच्चेति।श्रुतिः स्वल्वेवं विचारयति—एकमब्जभुवमवधीकृत्य ततोऽपि शतगुणितानन्दत्वेनान्यमब्जभुवजन्यं वा कञ्चित्कल्पयामि ततश्चान्यं ततोऽपि चान्यम् एवं सर्वदाकल्पनेऽपि तत्तुल्यत्ववचनेन भगवदानन्दस्यापरिमितत्वं सिद्धं तेन किमनेनायासेन।प्रथममेव केनापि प्रकारान्तरेण भगवदानन्दानन्त्यं कथयिष्यामि।तदिदमेव प्रकारान्तरं यद्व्यतिरेकमुखेनानन्त्यं कथयामीति ’ यतो वाचः’ इति वाक्येन व्यतिरेकमुखेन कथितवती।अत्र सुखप्रतिपत्त्यर्थं यामुनाचार्याभिप्रेतं स्फुटाभिहितञ्च द्दष्टान्तद्वयमाह— यष्ट् येति।आकाशो हि यष्ट्या न मीयते तद्वत्परब्रह्मानन्दोऽप्यल्पी- -यसा मनसा न मीयत इत्येको द्दष्टान्तः।अपरस्तु ’ को मज्जतोरणुकुलाचलयोर्विशेषः’ इति स्फुटमेवोक्त इत्याह— तच्चेति ॥
मूलम् - 29
29.आनन्दानन्त्यमाह श्रुतिरिह हि यतो वाच इत्यादिकास्याः
विश्रान्तिश्श्रान्तिमात्रादिति च निगदिता यामुनाचार्यवर्यैः।
न ह्यानन्दोन्मितिस्स्याद्विधिशतवचनेऽप्यस्य यष्ट्या नभोवत्
तच्चोक्तं भूधराण्वोरुदधिपतितयोर्मज्जने को विशेषः॥
विश्वास-प्रस्तुतिः - 30
30.विश्वं मुक्तस्य देहो नखलु तदपृथक्सिद्ध्यभावोपलम्भात्
नोपादानं ततोऽसौ कथयितुमुचितस्सर्वशक्तित्वहानेः।
नात्माशक्यं चिकीर्षेत्तदितरविषये निर्विघाता तदिच्छा
व्यापारे भिद्यमानेऽप्यविषमरसता दृश्यते क्वापि लोके॥
३४-तमाहोबिल-यतिः - 30
- विश्वं मुक्तस्येत्यादि। विश्वम्– जगत्। तदपृथक्सिद्ध्यभावोपलम्भात्– मुक्तापृथक्सिद्ध्यभावस्य स्फुटमेव विश्वस्मिन्नुपलम्भात्। मुक्तस्य देहो न खलु — मुक्तस्य शरीरं न भवति खलु। अपृथक्सिद्ध्यभावकथनम् आधेयत्वविधेयत्वशेषत्वोपलक्षणम्। अपृथक्सिद्धौ वा आधेयत्वादिकमन्तर्भाव्यम्। ततः– तस्मात् कारणात् उपादानत्वनिर्वाहकशरीरशरीरिभावासम्भवात्। सर्वशक्तित्वहानेः– बहुस्यामितिबहुभवनौपयिकसर्वशक्तिमत्त्वाभावाच्च। असौ– मुक्तः। उपादानं कथयितुं नोचितः– जगदुपादानमित्यङ्गीकर्तुं नार्हः। आत्माशक्यं न चिकीर्षेत्– मुक्तो हि तत्त्ववेदी स शक्यमेव चिकीर्षेत् नाशक्यम्, अतो मुक्तस्याशक्यविषयेच्छाविघातो नास्ति इच्छाया एवानुदयात्। तदितरविषये – अशक्येतरविषये शक्यविषय इत्यर्थः। तदिच्छा– मुक्तेच्छा। निर्विघाता– प्रतिघातरहितैव। अयं भावः– भगवान् खलु मुक्तस्याभिप्रेतेषु कैङ्कर्यादिषु कर्तव्येषु यथाभिमतं पितृलोकादिकरणेषु च नेच्छां विहन्ति तेन मुक्तस्येच्छाविघाताभावः। न ह्याकाशनिगरणमप्यभिलषति मुक्तः। तादृशस्यानभिज्ञकार्यत्वात्। अशक्याभिलाषादन्यत् किमनभिज्ञत्वमिति। व्यापारे भिद्यमानेऽपि अविषमरसता लोके क्वापि दृश्यते– नहि राजास्थानीमातस्थुषामधिकारभेदेऽप्यानन्दवैषम्यमस्ति नचापि नृत्यतो नटस्य पश्यतो जनस्य च रसवैषम्यमस्ति एवं व्यापारभेदेऽपि रससाम्यमुपपन्नमिति भावः॥
कुमार-वरदः - 30
- अत्र जगद्व्यापारवर्जमित्युक्तस्यार्थस्य विशदप्रतिपत्त्यर्थं मुक्तस्य जगदुपादानत्वाभावेन जगद्व्यापारवर्जनम्।व्यापाराभावेऽपि भोगसाम्यं प्रागुक्तमेव प्रकटमुपपादयति- विश्व मिति।अयमन्वयः- विश्वं मुक्तस्य तावद्देह एव न भवति। मुक्तापृथक्सिद्ध्यभाव स्य स्फुटमेव विश्वस्मिन्नुप लम्भात् तेना सावुपादान मिति कथयितुं नोचितः ।तस्य सर्वशक्तित्वा भावात्।ननु मुक्तस्येच्छाविघाताभावो भवद्भिरेव महता प्रयासेनोपपादितः, अधुना पुनः प्रायेणेच्छाविघात एवोच्यते उपादानादिभावासम्भवादिति तत्कथमित्याशङ्क्याह- नात्मेति ।अयमर्थः—मुक्तो हि तत्त्ववेदी तेन शक्यमेव चिकीर्षेन्नाशक्यम् अतोऽशक्यविषये नेच्छाविघातो मुक्तस्य।यत्तु शक्यं तच्चिकीर्षेदेव तत्र तस्येच्छाविघातो नास्तीत्याह— तदितरविषय इति।अयमभिप्रायः—भगवान्खलु मुक्तस्याभिप्रेतेषु कैर्ङ्क्यादिषु कर्तव्येषु यथाभिमतं पितृलोकादिकरणेषु च नेच्छां विहन्ति तेन मुक्तस्येच्छाविघाताभावः।न ह्याकाशनिगरणमप्यभिलषति मुक्तः अनभिज्ञत्वप्रसङ्गात्।अशक्याभिलाषादन्यत् किमनभिज्ञत्वम्।ननु तर्हि व्यापारसङ्कोचे मुक्तस्य रससङ्कोचोऽपि स्यादित्याशङ्क्य पूर्वमेव बहुवारमुक्तमुत्तरमेव बारप्रायस्य चोदकस्य पुनरप्यनुग्रहादनुवदति— व्यापार इति।नहि राजास्थानमातस्थुषामधिकारभेदेऽप्यानन्दवैषम्यमस्तीति बहुशोऽप्युक्तमस्माभिरिति॥
मूलम् - 30
30.विश्वं मुक्तस्य देहो नखलु तदपृथक्सिद्ध्यभावोपलम्भात्
नोपादानं ततोऽसौ कथयितुमुचितस्सर्वशक्तित्वहानेः।
नात्माशक्यं चिकीर्षेत्तदितरविषये निर्विघाता तदिच्छा
व्यापारे भिद्यमानेऽप्यविषमरसता दृश्यते क्वापि लोके॥
विश्वास-प्रस्तुतिः - 31
31.तत्तत्सेवाविशेषस्थिरपरिणमितस्सार्वभौमप्रसादः
सूते भृत्यस्य साम्यं स्वयमनभिमतस्वामिचिह्नैकवर्जम्।
एवं देवं दयालुं शरणमुपगतैर्लभ्यतेऽनन्यलभ्या
निर्धूतावृत्तिशङ्का निरुपधिकरसा सव्यवस्था त्ववस्था॥
३४-तमाहोबिल-यतिः - 31
- तत्तत्सेवेत्यादि। तत्तत्सेवाविशेषस्थिरपरिणमितः– स्वस्वशक्यपरिचरणविशेषैस्स्थिरतया परिनिष्पन्नः। सार्वभौमप्रसादः– सार्वभौमस्य महाराजस्य प्रसादः प्रीतिविशेषः। भृत्यस्य स्वयमनभिमतस्वामिचिह्नैकवर्जम्– भृत्यानभिलषणीयस्वाम्यसाधारणच्छत्रचामरादिचिह्नैरेव रहितम्। साम्यम्– भोगसाम्यम्। सूते- प्रसूते प्रयच्छयति। एवम्– तन्न्यायेन। दयालुम्– अनाद्यनुवृत्तानन्तापराधविस्मरणहेतुभूतसहजकारुण्यनिरभरम्। देवम्– भगवन्तं पुरुषोत्तमम्। शरणमुपगतैः– अङ्गत्वेन स्वातन्त्रयेण वा शरणागतैर्भक्तैः प्रपन्नैश्च। अनन्यलभ्या– तदितरैर्दुर्लभा। निर्धूतावृत्तिशङ्का– पुनरावृत्तिशङ्काशून्या। शेष्यभिप्रायेण शेषाभिप्रायेण चावृत्त्यसम्भवादिति भावः। निरुपधिकरसा– देशकालतारतम्याद्युपाधिशून्यरसवती। सव्यवस्था— श्रीपतित्वशेषशायित्वजगत्सृष्ट्यद्यौपयिकसर्वशक्तत्वादिपरब्रह्मासाधारणाकारव्यवस्थाशालिनी। अवस्था– मोक्षदशा। तुना फलान्तरेभ्यो वैलक्षण्यं प्रतीयते। लभ्यते– प्राप्यते। तथा च भगवदसाधारणाकारान् विना सर्वथातुल्यमैश्वर्यं" मुक्तैः प्राप्यत इति भावः॥
कुमार-वरदः - 31
- उक्तमर्थमन्तेवासिनामत्यन्तवैशद्याय सार्वभौमप्रसाद द्दष्टान्तेन द्रढयति—तत्तदिति। यथाधिकारमुचित सेवाविशेषे सति स्थिरपरिणमितस्सार्वभौमप्रसाद स्सेवकानां साम्यं सूते ।तत्राप्यनु- चिताभ्यर्थनानिवारणाय तदेव साम्यं विशेषयति- स्वय मिति।नहि भृत्यस्स्वयं स्वामिचिह्नमपि च्छत्रचामरादिकं सिंहासनाधिरोहणमभिवाञ्छति। एव मेव दयालुं देवं शरणमुपगतै रध्यात्मविद्भिर्लभ्यते। अनन्यलभ्या ’ भक्त्या त्वनन्यया’ इत्युक्तैरेवाधिकारिभिर्लभ्या नापरैरधिकारिभिः।’ नच पुनरावर्तते’ इत्यादि श्रुत्यैव निर्धूतावृत्तिशङ्का निरुपधिकरसा देशकालाद्युपाधिरहितनिरतिशयरसवती सख्यवस्था श्रीपतित्वशेषशायित्वाद्यसाधारणभगद्गुणराहित्येन सव्यवस्था। अवस्था सर्वदेशसर्वकालसर्वावस्थोचितत- सर्वविधकैङ्कर्यलाभावस्थेत्यर्थः॥
मूलम् - 31
31.तत्तत्सेवाविशेषस्थिरपरिणमितस्सार्वभौमप्रसादः
सूते भृत्यस्य साम्यं स्वयमनभिमतस्वामिचिह्नैकवर्जम्।
एवं देवं दयालुं शरणमुपगतैर्लभ्यतेऽनन्यलभ्या
निर्धूतावृत्तिशङ्का निरुपधिकरसा सव्यवस्था त्ववस्था॥
विश्वास-प्रस्तुतिः - 32
- अत्राहुस्सूत्रमन्त्यं पृथगधिकरणं केचिदाञ्जस्यलाभात्
अस्त्यावृत्तिर्निषेध्ये त्विममिति हि पदं तेन शङ्कोत्थितेति ।
भाष्यादौ तन्न दृष्टं भवति च सुगमं पूर्वशेषत्वमस्य
स्यादावृत्तिप्रसङ्गादपि निखिलजगन्निर्मितौ साम्यशङ्का ॥
३४-तमाहोबिल-यतिः - 32
- अत्राहुरित्यादि। अत्र– अस्मिंश्चतुर्थाध्यायचतुर्थपादे। केचित्– केचिदाचार्याः। आञ्जस्यलाभात्– सूत्रस्वारस्यलाभात्। पूर्वाधिकरणे समाप्तेऽपि पुनरावृत्तिशङ्क्यधिकरणान्तरमारभ्यत इति सूत्रस्वारस्यमस्तीति भावः। हि– यस्मात् कारणात्। निषेध्ये तु– यदुद्देश्यकमावर्तनं निषिध्यते तन्मिन्निषेध्ये देशविषये। इममिति पदम्– एतल्लोकरूपत्वसमर्पकं विशेषणपदम्। दृश्यत इतिशेषः। तेन– एतल्लोकमात्ररूपत्वसमर्पकपरविशेषितदेशविशेषोद्देश्यकपुनरागमनरूपावृत्तिनिषेधवचनेन। आवृत्तिरस्ति इति शङ्कोत्थिता– पुनरावृत्तिरस्तु किन्तु एतल्लोकप्राप्तिमात्रं नास्तीति शङ्कोत्थिता। इति– एवमुत्थितशङ्कानिरासस्यावश्यकत्वाद्धेतोः। अन्त्यं सूत्रम्– ’ अनावृत्तिश्शब्दात् ’ इत्यादिसूत्रम्। पृथगधिकरणम्– ’ जगद्व्यापारवर्जम् ’ इत्यादेः पूर्वाधिकरणात् पृथग्भूतमेकसूत्रात्मकमधिकरणम् आहुः। तत्– पृथगधिकरणत्वप्रतिपादनम्। भाष्यादौ– श्रीभाष्यादिग्रन्थेषु। न दृष्टम्– न श्रुतम्। तथाप्रतिपादकवाक्यपङ्क्तिरूपेण न दृष्टमिति वार्थः। अस्य– सूत्रस्य। पूर्वशेषत्वञ्च– जगत्व्यापारेत्यादि पूर्वाधिकरणशेषत्वञ्च। सुगमं भवति– सुखेनावगम्यं भवति। कथमित्यत्राह– स्यादित्यादि। आवृत्तिप्रसङ्गादपि निखिलजगन्निर्मितौ साम्यशङ्का स्यात्। अयमर्थः– तस्य सत्यसङ्कल्पस्य जीवस्य पुनरावृत्तौ सत्यां पूर्वाधिकरणे पूर्वपक्षिणोक्तं" परमसाम्यमाशङ्कितुं शक्यते परमपुरुषोऽपि कश्चित् सत्यसङ्कल्पोऽस्मिन् लोके वर्तते अयमपि कश्चित्सत्यसङ्कल्प इति तयोर्जगद्व्यापारेणात्यन्तसाम्यमिति, एतच्छङ्कानिरासार्थं मुक्तस्यागमनमेव निषिध्यते। वैकुण्ठ एव केवलं भगवन्तं सेवमान एव मुक्तो वर्तत इति पूर्वाधिकरणशेषत्वमेतस्य सूत्रस्यैवं सिध्यति। अयमत्र निर्णय— ’ इमं मानवमावर्तं वानर्तन्ते ’ इत्यत्र इममितिशब्दः कृत्स्नस्य मानवावर्तस्योपलक्षणार्थः। सर्वकर्मविनिर्मुक्तस्य मुक्तस्य क्वचिदपि कर्माधीनपुनरावृत्तिप्रसङ्गाभावात्, ’ इमान् लोकान् ’ इत्यत्र स्वच्छन्दकैङ्कर्यरूपानुगमनाङ्गतया प्रतिपन्नं स्वच्छन्दपुनरावर्तनमपि सर्वत्र समानम्, ’ इमान् लोकान् ’ इत्यस्मिन्नेव लोके पुनरावृत्तिश्रवणादिति॥
कुमार-वरदः - 32
- एतस्मिन्पादेऽधिकरणषट्कमर्थभेदादुक्तम्, अपरे पुनस्सप्तममप्यधिकरणमेकरणमेकसूत्रमित्याहुः ’ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्’ इति।तत् प्रायेण भाष्यकारानभिमतम्।अधिकरणप्रयोजनञ्च न भवतीत्याह– अत्राहु रिति।अयमत्र शब्दान्वयः— अत्रानावृ त्तिप्रतिपादकमन्त्यं" सूत्रं पृथगधिकरणं केचिदाहुः ।तत्र हेतुरपि वदन्ति- आञ्जस्यलाभा दिति सूत्रस्वारस्यलाभादित्यर्थः।पूर्वाधिकरणे समाप्ते पुनः पुनरावृत्तिशङ्क्याधिकरणान्तरमारभ्यत इति सूत्रस्वारस्यमस्तीति भावः।अत्रानुग्राहकं हेत्वन्तरमस्तीत्याह — अस्ती ति।अयमत्र भावः—’ इमं मानवमावर्तं नावर्तन्ते’ इत्यस्मिन्वाक्ये द्दश्यते हीममिति पदं, तेनावृत्तिरस्ति एतल्लोकप्राप्तिमात्र नास्तीति द्योत्यते तेनावृत्तिशङ्कयाधिकरणोत्थानमिति पृथगधिकरणारभ्य इति।अत्रोत्तरमाह— भाष्यादो तन्न द्दष्ट मिति।तर्हि ’ अनावृत्तिश्शब्दात्’ इति सूत्रस्य पृथगधिकरणत्वाभावे पूर्वाधिकरणशेषत्वं" वाच्यम्, तच्छेषत्वं न द्दश्यत इत्याशङ्क्याह— भवती ति।कथं पूर्वशेषत्व मिति पुनराशङ्क्याह- स्यादि ति।अयमत्र भावः—सत्यसङ्कल्पस्य जीवस्य पुनरावृत्तौ सत्यां पूर्वाधिकरणे पूर्वपक्षिणोक्तं परमशाम्यप्ताशङ्कितुं शक्यते परमपुरुषोऽपि कश्चित्सत्यसङ्कल्पोऽ- स्मिल्लोके वर्तते अयमपि कश्चित्सत्यसङ्कल्प इति तयोर्जगद्व्यापारेणात्यन्तसाम्यमिति, एतच्छङ्कानिवाराणार्थं मुक्तस्यानगमनमेव निषिध्यते।केवलं वैकुण्ठे भगवन्तं सेवित्यैव वर्तत इति पूर्वाधिकरणशेषत्वसिद्धिरेव तस्य सूत्रस्येति।अत्रायं निर्णयः—’ इमं" मानवमावर्तं नावर्तन्ते’ इत्यत्रेममितिशब्दः कृत्स्नस्य मानवावर्तस्योपलक्षणार्थः।सर्वकर्मविनिर्मुक्तस्य मुक्तस्य क्वचिदपि कर्माधीनपुनरावृत्तिप्रसङ्गाभावात् ’ इमान् लोकान्’ इत्यत्र स्वच्छन्दकैङ्कर्यरूपानुगमनाङ्गतयोक्तं स्वच्छन्दपुनरावर्तनमपि सर्वत्र समानम् ’ इमान् लोकान्’ इत्यस्मिन्नेव लोके पुनरावृत्तिश्रवणादिति॥
मूलम् - 32
- अत्राहुस्सूत्रमन्त्यं पृथगधिकरणं केचिदाञ्जस्यलाभात्
अस्त्यावृत्तिर्निषेध्ये त्विममिति हि पदं तेन शङ्कोत्थितेति ।
भाष्यादौ तन्न दृष्टं भवति च सुगमं पूर्वशेषत्वमस्य
स्यादावृत्तिप्रसङ्गादपि निखिलजगन्निर्मितौ साम्यशङ्का ॥
विश्वास-प्रस्तुतिः - 33
33.सर्गाद्यावर्तलीलारससहचरिते दण्डरासे नियुक्तं
जीवं देवो विमुच्य क्रमत इति सयुग्भावधन्यं भुनक्ति ।
कर्मात्यन्तोपशान्तेरिह नच पुनरावर्तयत्येनमित्य-
प्याम्नातेः कर्ममूलाक्षयफलकथनाद्युत्थशङ्कोपशान्तिः॥
३४-तमाहोबिल-यतिः - 33
- सर्गाद्यावर्तेत्यादि। सर्गाद्यावर्तलीलारससहचरिते– जगत्सृष्ट्यादिपरिवर्तनरूपलीलारससहचारिणि। दण्डरासे– दण्डनार्थे बन्धविशेषे। रासो हि बन्धविशेषः। दण्डरासप्राये संसारपरिवर्तने। नियुक्तम्— प्रवेशितम्। जीवम्– जीवात्मानम्। देवः– भगवान्। इति– पूर्वोक्तरीत्या। क्रमतः– निश्शेषकर्मक्षपणस्थूलशरीरविश्लेषणार्चिरादिनयनविरजास्नापनसूक्ष्मवासनानिरसनदिव्यलोकप्रवेशनब्रह्मा लङ्गारादिसभाजनस्वपर्यङ्कपर्यन्तारोहणसम्भाषणाविच्छिन्नसर्वाकारविशिष्टस्वानुभवदानसर्वविधकैङ्कर्याभिनन्दनादिक्रमेण। विमुच्य– संसारबन्धात् विमुक्तं कृत्वा। सयुग्भावधन्यम्– स्वसायुज्यदानेन कृतार्थं तम्। भुनक्ति– परिपालयति पुनरावृत्तिं विना रक्षतीत्यर्थः। इह– मुक्तजीवविषये। कर्मात्यन्तोपशान्तेः– पुण्यपापरूपानां कर्मणां निश्शेषनिवृत्तेः। एनम्– मुक्तजीवनम्। पुनश्च नावर्तयति– न निवर्तयति। इत्यप्याम्नातेः– एवमर्थकश्रुतिवाक्याच्चेत्यर्थः।तादृशमिदं हि वाक्यम् ’ ब्रह्मलोकमभिसम्पद्यते नच पुनरावर्तते नच पुनरावर्तते ’ इति । कर्ममूलाक्षयफलकथनाद्युत्थशङ्कोपशान्तिः– कर्ममूलकस्याक्षयफलस्य यत्कथनं ’ अक्षय्यं हवै चातु्मास्ययाजिस्सुकृतं" भवति ’ इत्यादिरूपं तदादिभिरुक्तिष्ठतीति कथनाद्युत्था या शङ्का चातुर्मास्यफलाक्षय्यत्ववचनस्येव मुक्तजीवपुनरावृत्त्यभाववचनस्याप्यापेक्षिकचिरकालस्थायित्वपरत्वं" स्यादितियेवंरूपा तस्या उपशान्तिर्निवृत्तिः. भवतीति शेषः। अयमर्थः– कृत्स्नकर्मनिवृत्त्यभावे हि ’ नच पुनरावर्तते ’ इति वाक्यस्यान्यथाकरणं" स्यात् कृत्स्नकर्मविनिर्मोके प्रतिपन्ने सति अपुनरावृत्तिवचनं यथाश्रुतमेव ग्राह्यमिति॥
कुमार-वरदः - 33
- ननु ’ अक्षय्यं हवै चातुर्मास्याजिनस्सुकृतं भवति’ इत्यर्थवादचनवत् ’ नच पुनरावर्तते’ इत्यादिकमपि चिरकालावस्थायित्वमात्रेण चरितार्थं स्यादित्याशङ्क्य सर्वकर्मविनिर्मुक्तस्य पुनरावृत्तिप्रसङ्गाभावान्नित्य- मेवन कर्मकृतां पुनरावृत्तिं निषेधतीति दर्शयति— सर्गादी ति।अयमत्रान्वयः-सृष्टिस्थिति संहारावर्त- लीलारससहचरिते दण्डरास प्राये संसारिपरिवर्तने नियुक्तं जीवं द्दष्ट्वा तुष्टबुद्धिर्भगवांस्तस्य परितोषिकप्रदानमिव संसारिमोचनोपलम्भसौख्यं प्रदाय सायुज्य धन्यं तमेव भुनक्ति परिपालयतीत्यर्थः। सर्वेषामेव कर्मणामत्यन्तोपशान्तेः" ’ नच पुनरावर्तते’ इति वाक्येनैव भगवान्न पुनरावर्तयत्येनं मुक्तमित्याम्नाते सति ’ अक्षय्यं हवै चातुर्मास्य’ इत्याद्युक्ताक्षय्यफलकथनादिप्रयुक्तशङ्क्या उपशान्तिस्स्यात्।अयमर्थः—कृत्स्नकर्मविनिर्मोकाभावे हि ’ नच पुनरावर्तते’ इति वाक्यस्य यथाकथञ्चिदन्यथाकरणं स्यात् कृत्स्नकर्मविनिर्मोके प्रतिपन्ने सति अपुनरावृत्तिवचनं यथाश्रुत्यैव साधीयानयं मार्ग इति॥
मूलम् - 33
33.सर्गाद्यावर्तलीलारससहचरिते दण्डरासे नियुक्तं
जीवं देवो विमुच्य क्रमत इति सयुग्भावधन्यं भुनक्ति ।
कर्मात्यन्तोपशान्तेरिह नच पुनरावर्तयत्येनमित्य-
प्याम्नातेः कर्ममूलाक्षयफलकथनाद्युत्थशङ्कोपशान्तिः॥
विश्वास-प्रस्तुतिः - 34
34.स्वाविर्भावोऽपवर्गे निरुपधिनियतस्वप्रकार्यन्तदृष्टिः
चिद्रूपस्यैव तद्वच्छ्रुतिमकुटमितैस्स्वप्रकारैस्सहेक्षा।
सङ्कल्पादेव सिद्धिस्तदनु च नियमोन्मुक्तता ब्रह्मसाम्य-
प्राप्तौ तल्लक्षणांशोज्झनमिति चरमाध्यायतुर्याङ्घ्रिसाराः॥
३४-तमाहोबिल-यतिः - 34
- स्वाविर्भाव इत्यादि। अपवर्गे– मुक्तौ। स्वाविर्भावः– स्वस्य पूर्वं विद्यमानाकारस्यैवाविर्भाव इति। अयं ’ संपद्याविर्भावः’ इत्यादेः प्रथमाधिकरणस्यार्थः। निरुपधिनियतस्वप्रकार्यान्तदृष्टिः– निरुपधिकतया नियतो यस्स्वप्रकारी स्वविशेष्यभूतः परमात्मा तत्पर्यन्तानुभवः। अयं ’ अविभागेन दृष्टत्वात् ’ इत्यस्य द्वितीयाधिकरणस्यार्थः। चिद्रूपस्यैव– ज्ञानस्वरूपस्यैव सतस्स्वस्य। तद्वत्– तादृशज्ञानस्वरूपेण तुल्यतया। श्रुतिमकुटमितैः– ’ अपहतपाप्मा विजरः’ इत्यादिवेदान्तप्रमितैः। स्वप्रकारैस्सह– अपहतपाप्मत्वादिभिस्स्वधर्मैस्सह। ईक्षा– अनुभवः। अयं ’ ब्राह्मेण जैमिनिः’ इत्यादेस्तृतीयाधिकरणस्यार्थः। सङ्कल्पादेव– प्रयत्नादिकं विना सङ्कल्पमात्रेण। सिद्धिः– पितृमातृलोकाद्यभिमतलाभः। ’ अयं सङ्कल्पादेव तच्छ्रुतेः’ इत्यादेश्चतुर्थाधिकरणस्यार्थः। तनुषु च– मुक्तिदशायां परिगृह्यमाणेषु शरीरेषु। नियमोन्मुक्तता– नियराहित्यम्। कदाचिच्छरीरपरिग्रहः कदाचित्तदपरिग्रहः कदाचित्स्वसङ्कल्पितदेहपरिग्रहः कदाचित्परमपुरुषसङ्कल्पितदेहपरिग्रह इत्येवंरूपौ नियमाभावः। अयं च ’ अभावं बादरिः ’ इत्यादेः पञ्चमाधिकरणस्यार्थः। ब्रह्मसाम्यप्राप्यौ तल्लक्षणांशोज्झनम्– ब्रह्मणा साकं साम्यस्य प्राप्तिदशायां" ब्रह्मासाधारणचिह्नभूतक्षीपतित्वशेषशायित्वजगत्सृष्ट्यादिव्यापाराद्यंशस्य त्यागः। अयं ’ जगद्व्यापारवर्जम् ’ इत्यादेष्षष्ठाधिकरणस्यार्थः। इति– इत्थमुक्ता इमे षडर्थाः। चरमाध्यायतुर्याङ्रिघ्रसाराः– चरमाध्यायस्य चतुर्थाध्यायस्य तुर्याङ्घ्रेश्चतुर्थपादस्य सारभूता इत्यर्थः॥
कुमार-वरदः - 34
- अत्रोक्ताधिकरणषट्कार्थविशेषान् विभज्यानुकथयति— स्वाविर्भाव इति। अपवर्गे स्वस्वरूपाविर्भावः प्रथमाधिकरणार्थः।एवं पञ्चभिरधिकरणैः" पञ्चार्थाः प्रतिपाद्यन्ते। निरुपधि कतया नियत स्वशरीरिपर्यन्तद्दष्टिर्द्वितीये।तृतीयं च चिद्रूपस्यैव जीवस्य श्रुति शिखरप्रतितैस्स्वगुणैस् सह दर्शनम्। चतुर्थे पुनस् सङ्कल्पादेव स्वाभीष्ट सिद्धिः ।पञ्चमे तु स्वशरीररेष्वनियमेन परिग्रहः।षष्ठे पुनः परब्रह्मसाम्यप्राप्तौ जगत्कारमत्वमोक्षप्रदत्वश्रीपतित्वादिब्रह्म लक्षण वर्जनमिति चतुर्थाध्यायचतुर्थपादाधि- करणषट्कार्थसारा इति॥
मूलम् - 34
34.स्वाविर्भावोऽपवर्गे निरुपधिनियतस्वप्रकार्यन्तदृष्टिः
चिद्रूपस्यैव तद्वच्छ्रुतिमकुटमितैस्स्वप्रकारैस्सहेक्षा।
सङ्कल्पादेव सिद्धिस्तदनु च नियमोन्मुक्तता ब्रह्मसाम्य-
प्राप्तौ तल्लक्षणांशोज्झनमिति चरमाध्यायतुर्याङ्घ्रिसाराः॥
विश्वास-प्रस्तुतिः - 35
35.ध्यानादिं तत्प्रभावं करणभृत इतो देहकाराकुटीरात्
निष्क्रान्तिं ब्रह्मनाड्या गतिमपि सुपथा स्वप्रकाशञ्च साध्यम्।
इच्छातस्स्वेष्टसृष्टिं परममपि परब्रह्मणा भोगमात्रे
साम्यं मायामतस्थः कथमिव घटयेदन्तिमाध्यायसारम्॥
३४-तमाहोबिल-यतिः - 35
- ध्यानादिमित्यादि। ध्यानादिम्– ध्यानस्वरूपं तदङ्गभूतशमतमादिकञ्च। तत्प्रभावम्– ध्यानमाहात्म्यमुत्तरपूर्वाघ्लेषविनाशादिरूपम्। करणभृतः– जीवस्य। इतः– ठअस्थिस्तूणत्वस्नायुबद्धत्वमांसासृक्पूयविण्मूत्रादिभरितत्वनश्वरत्वादिहेयतापादकधर्मशतसमावृतादस्मात्. देहकाराकुटीरात्– देहात्मकं यत् कारार्तं बन्धनार्थं कुटीरं तस्मात्। ब्रह्मनाड्या– मूर्धन्यनाड्या। निष्क्रान्तिम्– निष्क्रणमम्। सुपथा– अर्चिरादिरूपेण शोभनेन मार्गेण। गतिमपि– गमनमपि। साध्यम्– इतः पूर्वमविद्यमानमिदानीं भगवत्प्रसादलभ्यम्। स्वप्रकाशञ्च— स्वस्याविर्भावञ्च। इच्छातः– सङ्कल्पमात्रेण। स्वेष्टसृष्टिम्– स्वाभिमतपितृमातृलोकादिसृष्टिम्। परब्रह्मणा साकं भोगमांत्रे आनन्दमात्रे परमं साम्यमपि। अन्तिमाध्यायसारम्– चतुर्थायायसारभूतार्थजातम्। मायामतस्थः– मायामते अभिमानवान् यः कोऽपि । कथमिव घटयेत्– केन प्रकारेणोपपन्नमिति प्रतिपादयेत्।एतस्य सर्वस्याप्यर्थस्य सगुणब्रह्मसम्बन्धित्वेन निर्गुणब्रह्मण्यसम्भवात् तस्य च निर्गुणस्य ब्रह्मणः क्वचिदपि फलाध्याये प्रतिपादनाभावाच्चेति भावः॥
कुमार-वरदः - 35
- अत्र चतुर्थाध्यायार्थस्य कार्त्स्न्येन मृषावादिनां सङ्घटनमेन नास्तीत्याह– ध्यानादि मिति। ध्यानं भगवद्ध्यानम्। आदिशब्देन तदङ्कभूतं कर्मशमदमादिकम्।तत्प्रभावमुत्तरपूर्वाघयोरश्लेषविनाशरूपम्। उत्क्रान्तिपादोक्तं करणभृतो जीवस्य देहकाराकुटीरा न्निर्गमनम्। ब्रह्मनाड्या गतिं सुपथा र्चिरादिमार्गेण गतिम्। स्वप्रकाशञ्च परञ्ज्योतिरूपसम्पद्य स्वेनरूपेणाभिनिष्पित्तिम्।स्वसङ्कल्पादेव स्वाभीष्ट सृष्टिम् । परममपि परब्रह्मणा भोगमात्रे साम्य म्। एताद्दशं सर्वमप्यत्रोक्तमर्थजात मन्तिमाध्यायसार भूतं मायामतस्थः" कथमिव घटयेत् न कथमपि घटयेदित्यर्थः।एतस्य सर्वस्याप्यर्थस्य सगुणब्रह्मसम्बन्धित्वेन निर्गुणब्रह्मसम्बन्धाभावात् तस्य च निर्गुणस्य ब्रह्मणः क्वचिदपि फलाध्याये निर्देशाभावच्चेत्यर्थः॥
मूलम् - 35
35.ध्यानादिं तत्प्रभावं करणभृत इतो देहकाराकुटीरात्
निष्क्रान्तिं ब्रह्मनाड्या गतिमपि सुपथा स्वप्रकाशञ्च साध्यम्।
इच्छातस्स्वेष्टसृष्टिं परममपि परब्रह्मणा भोगमात्रे
साम्यं मायामतस्थः कथमिव घटयेदन्तिमाध्यायसारम्॥
विश्वास-प्रस्तुतिः - 36
36.मानामानप्रभेदप्रभृतिविभजनादादिमे कर्मभागे
नाना वा देवतेत्याद्यनुपदपठनान्मध्यमे देवतांशे।
भागेऽस्मिन्भेदधर्मप्रभृतिकथनतस्सौगतादेश्च भङ्गात्
मीमांसायास्त्रिकाण्ड्यां क्वचिदपि न मृषावादगन्धावकाशः॥
३४-तमाहोबिल-यतिः - 36
- मानामानेत्यादि। आदिमे कर्मभागे– काण्डत्रयात्मकमीमांसाशास्त्रे आदिमे प्रथमे कर्मप्रतिपादकतया कर्मकाण्डाख्ये भागे। मानामानप्रभेदप्रभृतिविभजनात्– ’ धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः’ इत्यादुक्तरीत्या प्रमाणभेदाङ्कप्रयुक्तिक्रमकर्तृकाद्यर्थविभजनात्। मध्यमे– मध्यमकाण्डे। देवतांशे– देवताकाण्डाख्ये देवताप्रतिपादकभागे। नाना वा देवतेत्याद्यनुपदपठनात्– देवताभेदप्रतिपादनौपयिकतया ’ नाना वा देवता ’ इत्यादिसूत्राणामनन्तरपठनात्। अस्मिन्भागे– ब्रह्मकाण्डाख्ये़स्मिन् ब्रह्मप्रतिपादकभागे च। भेदधर्मप्रभृतिकथनतः— जीवपरमात्मनोस्साक्षाद्भेदस्य भेदकधर्माणामनुत्वविभुत्वाज्ञत्वसर्वज्ञत्वादीनां जगत्सृष्टिबन्धनमोचनविषयभुक्त्युपासनमुक्त्यादिव्यापाराणा़ञ्च बहूनां स्फुटप्रतिपादनाच्च। सौगतादेर्भङ्गाच्च– गुणगुणिकार्यकारणादिभेददूषकाणां बौद्धादीनां निरसनेन च। मीमांसायास्रिकाण्ड्याम्– वेदाख्यैकप्रबन्धव्याक्यानभूतमीमांसाख्यशास्त्रसम्बन्धिन्यां" कर्मदेवताब्रह्मप्रतिपादिकायामस्यां त्रिकाण्ड्यां त्रयाणां काण्डानां समाहास्त्रिकाण्डी तस्याम्। क्वचिदपि- क्वापि भागे। मृषावादगन्धावकाशो न– मृषावादस्य जगन्मिथ्यात्ववादस्य यो गन्धसूचकहेतुलशस्तस्यावकाशः कण्ठतो वा अर्थतो वा प्रतिपादकभागस्सोऽपि न विद्यते। भेदपुञ्चगर्भं" प्रमाणं किमपि निर्गुमतयाभिमतं वस्तु न स्पृशति तत एव भेदञ्च न निरस्यति स्वकपोलेन कल्पितञ्च कः परीक्षकश्श्रद्दध्यात् अतो मृषावादिमतनिरसनमपि दिष्टहतमुद्गराभिघातप्रायमेवेति भावः॥
कुमार-वरदः - 36
- पूर्वं मृषावादिनोऽन्तिमाध्यायार्थविरोधमुक्तवा तस्य त्रिकाण्ड्यां क्वचिदपि मीमांसायां न्यायानुकूल्यं नास्तीत्याह— मानामाने ति।कर्मकाण्डे तावन्मानभेदाङ्गप्रयुक्तिक्रमकर्त्रादिप्रतिपादनपरिपाटीमुपलभामहे। तेन भेदपर एव प्रथमकाण्डः।तथा मध्यमेऽपि काण्डे ’ नाना वा दवता ’ इत्यादिसूत्रकलापेन देवताभेदादिः प्रतिपाद्यते।सोऽपि मृषावादिनां विरुद्ध एव।अस्मिन्नापि ब्रह्मकाण़्डे गुणगुणिभेदादिदूषूकाणां" सौगतादीनां तत्तदर्थोपपादनेन निराकरणमेव सर्वतो दरिद्दश्यते।तेनैतैर्हेतुभिस्सौगतादिमतानुसारेण प्रवर्तमानस्य मृषावा दस्य त्रिकाण्ड्यां" मीमांसायां न क्वाप्य वकाशः ॥
मूलम् - 36
36.मानामानप्रभेदप्रभृतिविभजनादादिमे कर्मभागे
नाना वा देवतेत्याद्यनुपदपठनान्मध्यमे देवतांशे।
भागेऽस्मिन्भेदधर्मप्रभृतिकथनतस्सौगतादेश्च भङ्गात्
मीमांसायास्त्रिकाण्ड्यां क्वचिदपि न मृषावादगन्धावकाशः॥
विश्वास-प्रस्तुतिः - 37
37.त्रय्यन्तोदन्वदन्तस्सृतिरियमुदिता देशिकैः कर्णधारैः
तत्त्वार्थज्ञानपारं गमयति विशदं त्वन्यदीक्ष्यं विमुक्तौ।
कर्तव्ये कल्पकारैः क्वचिदभिदधिरे कृत्यसन्देहभेदाः
तत्त्वेऽप्येवं क्वचित्स्यात्तदपि न वितथस्स्वोपयुक्तांशबोधः॥
३४-तमाहोबिल-यतिः - 37
- त्रय्यन्तोदन्वदित्यादि। इयम्– शारीरकचतुरध्यायीप्रतिपादिता तत्त्वज्ञानानुष्ठानफलप्राप्तिरूपा। त्रंय्यन्तोदन्वदन्तस्मृतिः– त्रय्यन्त एवोदन्वान् तदन्तर्वर्तिनी सरणिः। देशि कैरेव कर्णधारैः– नाविकैः। उदिता– उपदिष्टा। सृतिविशेषणम्। तत्त्वार्थज्ञनपारम्– तत्त्वं प्रामाणिकचिदचितीश्वरमोक्षोपायमोक्षस्वरूपात्मकं तद्रूपोऽर्थो ज्ञेयवास्तु तद्विषयज्ञानमेव पारम्। गमयति– प्रापयति। अन्यत्तु– अत्रापरिज्ञातं तत्त्वं तु। विमुक्तौ– विमुक्तिदशायाम्। विशदम्– असंशयतया। ईक्ष्यम्– समीक्षणीयम्। कल्पकारैः– कल्पसूत्रकारैरापस्तम्बादिभिः। कर्तव्ये क्वचित्– अनुष्ठेयार्थे क्वापि विषये। कृत्यस्देहभेदाः– प्रकारद्वयाज्ञानादिभिः कर्तव्यस्य सन्देहविशेषाः। अभिदधिरे– प्रत्यपादिषत। एवम्- तन्न्यायेन। तत्त्वेऽपि क्वचित् स्यात्– तत्त्वार्थविषयेऽपि क्वापि सन्दिग्धत्वमस्तु। तदपि– तथापि। स्वोपयुक्तांशबोधः– मुमुक्षुजनावश्यकार्थज्ञानम्। न वितथः- वैयर्थ्यं न लभते। तथा चात्यन्तावश्यकतत्त्वज्ञानं सम्पाद्य साधनानुष्ठानेन मुक्तिस्सम्पाद्या। अविज्ञातांशास्तदा स्पष्टीभविष्यन्ती, न तु सकलार्थापरिज्ञानेन क्वचित्। संशयेन वा स्पष्टावगतमत्यन्तोपयुक्तज्ञानमपि परित्याज्यमिति भावः॥
कुमार-वरदः - 37
- एवं निस्सन्देहमेव निखिलमप्यर्थमुक्त्वा क्वचित्सन्देहोऽवशिष्यते चेत् सोऽपि कालक्रमोपशाम्यति अत्र न सर्वदोपशान्तश्चेत् स तु मुक्तदशायामुपशाम्यतु नैतात्मा स्पष्टमेव प्रतिपन्नस्यार्थस्य कोऽपि विरोधः एषा खलु मर्यादि न केवलमध्यात्मशास्रप्रसङ्गः एव अनुष्ठानेष्वपि कल्पसूत्रप्रसिद्धेष्वनुसर्तव्येति दर्शयति— त्रय्यन्ते ति। त्रय्यन्त स्तावदु दन्वान् । तदन्तस्सृतिरियञ्च कर्णधार प्रायै र्देशिकै रभिधीयते। देशिकोपदोष्टा गतिः पारं गमयतीति सुप्रसिद्धं लोके।एवं तत्त्वज्ञानदेशिकैरुषदिष्टेयं सृतिः" पदवी ज्ञानपारं गमयती ति यावत्।यदत्रापरिज्ञातं तन्मुक्तावेव द्रष्टव्यम्।नहि सर्वमपि लोके प्रमाणपर्यालोचनमाचरन्तोऽपि जानन्ति।कतिकति सन्देहपदं क्रान्तदर्शिनामपि।इत्थमध्यात्मविषये मर्यादा अनुष्ठानेऽप्येषैव रीतिरिति दर्शयति— कर्तव्य इति। कल्पकारै रपि कर्तव्येष्वर्थेषु ससंशयमेव केचिदर्थाः प्रख्याप्यन्ते नच तावता कल्पोदितं विमुच्यते।एवं तत्त्वार्थप्रतिपादनेऽपि निस्संशयप्रतिपन्नमर्थं परिगृह्य सन्तोष्टव्यमात्मविद्भिः।अवशिष्टं तु कालेनावभास्यते।अनवगतमपि परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पत्तिदशायां विशदमेवावलोकयिष्यते।अथापि स्वोपयुक्तांशबोध स्सर्वत्रापि न वितथ एवेति॥
मूलम् - 37
37.त्रय्यन्तोदन्वदन्तस्सृतिरियमुदिता देशिकैः कर्णधारैः
तत्त्वार्थज्ञानपारं गमयति विशदं त्वन्यदीक्ष्यं विमुक्तौ।
कर्तव्ये कल्पकारैः क्वचिदभिदधिरे कृत्यसन्देहभेदाः
तत्त्वेऽप्येवं क्वचित्स्यात्तदपि न वितथस्स्वोपयुक्तांशबोधः॥
विश्वास-प्रस्तुतिः - 38
38.श्रुत्यन्तैकान्ततर्कक्रमगरिमधृतौ तूलवच्छैलवर्गः
तत्सिद्धब्रह्मबोधद्युमणिरुचि तमस्स्तोमकल्पोऽन्यजल्पः।
मोक्षोपायैकराज्ये तदितरविधयः किङ्करत्वं भजन्ते
मुक्तानन्दामृतैकोदधिपृषतकणस्पर्धिनोऽन्ये पुमर्थाः॥
३४-तमाहोबिल-यतिः - 38
- श्रुत्यन्तेत्यादि। अस्मिन् श्लोके चतुर्भिः पादैः समन्वयाविरोधसाधफलरूपाश्चतुरध्याय्यर्थाः प्रतिपाद्यन्ते। श्रुत्यन्तैकान्ततर्कक्रमगरिमधृतौ शैलवर्गस्तूलवत्– भवतीति शेषः। श्रुत्यन्तैकान्तानां" वेदान्तवाक्यानुकूलानां तर्काणां ’ तर्कोहि नामार्थस्वभावविषयेण वा सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत्तदितिकर्तव्यतारूपमूहापरपर्यायं" ज्ञानम् ’ इति भाष्यकारोक्तलक्षणानां यः क्रमो या रीतिस्तत्सम्बन्धिनो गरिम्णो गौरवस्य धृतौ निरूपणे सर्वोऽपि शैलवर्गल्तूलतुल्यः। वेदान्तानुपयुक्तकेवलतर्कपाण्डित्यमसारतममिति हृदयम्। तत्सिद्धब्रह्मबोधद्युमणुरुचि अन्यजल्पस्तमस्स्तोमकल्पः— अत्रापि भवतीति शेषः। तत्सिद्धो वेदान्तनिष्पन्नो यो ब्रह्मबोधस्सपरिकरब्रह्मज्ञानं तदेवद्युमणुरुक् आदित्यप्रकाशः तद्विषये अन्येषां प्रतिवादिनां" जल्पः तमस्स्तोमकल्पः तिमिरपुञ्चतुल्यः। ईषदसमाप्तौ कल्पप्रत्ययः। वेदान्तविरुद्धं वादिभिः कल्पितं सर्वं तामसत्वात् हेयमिति भावः। मोक्षोपायैकराज्ये तदितरविधयः किङ्करत्वं भजन्त– मोक्षोपायविद्याएव प्रधानसाधनविधीनामपि मोक्षोपायविधिरेव श्रेष्ठतम इति भावः। अन्ये पुमर्थाः– मुक्तिभिन्ना धर्मादयः पुरुषार्थाः। मुक्तानन्दामृतैकोदधिपृषतकणस्पर्धिनः– मुक्तानन्द एवामृतैकमय उदधिस्तत्सम्बन्धिनो ये पृषतकणा बिन्दुशीकरास्तैस्सह कलहशीलिनः, तत्तुल्या इत्यर्थः। मोक्षाख्यमहापुरुषार्थप्रतिपादनार्थमेव पुरुषार्थाभासानां प्रतिपादनमिति हृदयम्॥
कुमार-वरदः - 38
- इत्थं चतुरध्यायीनिर्णीतार्थं चतुर्भिः पादैर्विशोध्योपवर्णयति— श्रुत्यन्ते ति।समन्वयाविरोधसाधन- फलानि खलु चतुरध्याय्यर्थत्वेनोपवर्ण्यन्ते।तदेकैकमेवोक्त्वा निगमयति।प्रथमाध्याये श्रुतिवाक्यानुकूलतर्क- निरूपणमकारि।तस्य च तर्कस्य गौरवनिरूपणे सर्वेऽपि शैलास्तूला यन्ते।द्वितीयेत्वध्याये परपक्षनिराकरणं क्रियते।तदेतदाह– तत्सिद्धेति ।प्रथमाध्यायसिद्धब्रह्मपरिज्ञानादित्यप्रकाशे तमस्स्तोमकल्पः प्रतिवादिनां जल्पः ।तेन परपक्षप्रतिक्षेपप्रधानं द्वितीयलक्षणमित्युक्तं भवति। तृतीयाध्या- यार्थमपि विभज्य दर्शयति- मोक्षोपाये ति। मोक्षोपाया स्सद्विद्यादयस्तेषा मैकराज्ये तदितरविधयो विद्याङ्गकर्मविधयश्शमदमादिविधयश्च किङ्करत्वं भजन्ते शेषभावं" भजन्त इत्यर्थः।तेन तृतीयाध्या- यार्थोऽनुक्रान्त।चतुर्थाध्यायार्थमप्याह— मुक्ते ति। मुक्तानन्दामृत रूपमहार्णव पृषतकणस्पर्धिनेऽन्त्ये पुरूषार्थास्स्वगर्कस्वाराज्यादिसुखानि परमपुरुषानुभवसुखमहार्णवपृषतभावं भजन्त इत्यर्थः।तेन पुरुषार्थान्तरपरित्यागेनापुनरावृत्तिलक्षणो मोक्ष एवाध्यात्मविदामादर्तव्य इत्युक्तं भवति॥
मूलम् - 38
38.श्रुत्यन्तैकान्ततर्कक्रमगरिमधृतौ तूलवच्छैलवर्गः
तत्सिद्धब्रह्मबोधद्युमणिरुचि तमस्स्तोमकल्पोऽन्यजल्पः।
मोक्षोपायैकराज्ये तदितरविधयः किङ्करत्वं भजन्ते
मुक्तानन्दामृतैकोदधिपृषतकणस्पर्धिनोऽन्ये पुमर्थाः॥
विश्वास-प्रस्तुतिः - 39
39.पारावर्यं विविच्य प्रथममवितथैरागमैस्तत्ववर्गे
संसारे तीव्रभीतिः परसमधिगमे तीव्रनिष्पन्नरागः।
कञ्चिद्विद्याविशेषं सपरिकरमधिष्ठाय शान्तान्तरायः
सम्पद्य ब्रह्म भुङ्क्ते निरुपधिकमनावृत्तिरित्थं श्रुतार्थः॥
३४-तमाहोबिल-यतिः - 39
- पारावर्यमित्यादि। इत्थम्– प्रतिपादितक्रमेण। श्रुतार्थः– सदाचार्यसकाशश्रुतसकलवेद्यार्थः कश्चिदधिकारि। प्रथमम्– तापत्रयभयेन तच्छान्तये यदा ब्रह्मजिज्ञासोदेति तदैव। अवितथैरागमैः- स्वार्थे प्रमाणतमैरपौरुषेयवेदान्ताख्याक्षरराशिभिः। तत्त्ववर्गे– ’ भोक्ता भोग्यं प्रेरितारञ्च मत्त्वा ’ इत्युक्ते चिदचिदीश्वरात्मके वेद्यार्थसमुदाये। पारावर्यम्– परावरयोर्भावः पारावर्यं परतत्त्वभावमवरतत्त्वभावञ्च। विविच्य— परतत्त्वभावः पुरुषोत्तम्, एव तत्परतन्त्रचेतनत्वरूपोऽवतरतत्त्वभचावस्तद्वयतिरिक्तेषु सर्वेष्वपि चेतनेषु परमपुरुषलीलाभोगरससम्पादनसामग्र्यन्तर्गतं" त्रिगुणकालशुद्धसत्त्वात्मकमप्यचेतनत्रितयमवरतत्त्वमेवेत्येवं व्यवस्थितं निश्चित्य।संसारे– कर्ममूलकजन्मजरामरणादिचक्ररूपे। तीव्रभीतिः– अधिकभयः। परसमधिगमे– परमात्मप्राप्तौ। तीव्रनिष्पन्नराग— तीव्रतया निष्पन्नो जातो रागोऽभिलाषो यस्य सः। तीव्रनिष्पन्नरागस्सन्। सपरिकरं कञ्चिद्विद्यावेशेषमधिष्ठाय– अङ्गपादोक्तकर्मशमदमादिपरिकरयुक्तं कमपि स्वाभिमतं सदक्षरदहरादिविद्यास्वेकं विद्याविशेषमनुष्ठाय। शान्तान्तरायः– निवृत्तसमस्तकर्मादिरूपप्रतिबन्धकवर्गः। अनावृत्तिः– पुनरावृत्तिशून्यश्च सन्। निरुपधिकम्– स्वानुष्ठितविद्याप्रसन्नहृदयतया पूर्वमपराधजनितनिग्रहसङ्कल्पाद्युपाधिशून्यम्। ब्रह्म– परमात्मानम्। सम्पद्य– प्राप्य। भुङ्क्ते– अनुभवतीति। अयं श्लोकः कस्यचिन्मुमुक्षोर्ब्रह्मजिज्ञासाप्रभृतिफलप्राप्तिपर्यन्तचरित्रस्य संग्रहः॥
कुमार-वरदः - 39
- चतुरध्याय्यर्थमित्थं यथावदधिगतवतोऽधिकारिणः क्रमेणोमानमपवर्गपर्यन्तं फलं दर्शयति— पारावर्य मिति। प्रथममवितथैरागमैस्तत्त्ववर्गे पारावर्यं विविच्य संसारे वैराग्यपादोक्तक्रमेण तीव्रभीतिः उभयलिङ्गपादोक्तक्रमेण परमपुरुषचरणारविन्द समधिगमे तीव्र मेव निष्पन्नरा गो भवति पुरुषः।अनेनोभयलिङ्गपादपर्यन्तं दशभिः पादैरुपवर्णितोऽर्थं उक्तः।अतः परं पादषट्कार्थं सङ्कलय्य दर्शयति— कञ्चि दिति।सद्विद्यादिषु सपरिकरं कञ्चिद्विद्याविशेषमधिष्ठाय शान्तान्तराय स्सन् ब्रह्मविद्यानिष्ठो ब्रह्म सम्पद्य वैकुण्ठवैमानिकेषु स्वयमप्यन्यतभावं" प्रतिपद्य निरुपधिक मेव परवासुदेवपादारविन्दपरिचारको भवति।तस्य विशेषणद्वयमाह— अनावृत्ति रिति ’ नच पुनरावर्तते’ इति श्रुतिविषयः। इत्थं श्रुतार्थः —’ येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्तवतो ब्रह्मविद्याम्’ इत्याचार्यमुखादधीतसर्वार्थ इत्यर्थः॥
मूलम् - 39
39.पारावर्यं विविच्य प्रथममवितथैरागमैस्तत्ववर्गे
संसारे तीव्रभीतिः परसमधिगमे तीव्रनिष्पन्नरागः।
कञ्चिद्विद्याविशेषं सपरिकरमधिष्ठाय शान्तान्तरायः
सम्पद्य ब्रह्म भुङ्क्ते निरुपधिकमनावृत्तिरित्थं श्रुतार्थः॥
विश्वास-प्रस्तुतिः - 40
40.सासौ सासूयतत्तत्कुमतिमतसमुन्मूलनी मूलनीति-
श्रेणीनिश्श्रेणिकल्पा त्रियुगपथरथारोहसूतं सुवीत।
सन्तस्सन्तापवर्गप्रशमनपटुना तत्त्वबोधेन सन्तं
सन्तोषं ब्रह्मसूत्राधिकरणचरणाध्यायसारावलिर्वः॥
३४-तमाहोबिल-यतिः - 40
- सासावित्यादि। सासूयतत्तत्कुमतिमतसमुन्मूलनी– वैदिकमार्गदषोद्भावननिरतानां तत्तत्कुमतीनां शङ्करयादवभास्करप्रभृतीनां अन्येषाञ्च बाह्यानां कुत्सितमतीनां वादिनां यानि मतानि तेषां समुन्मूलनी विध्वंसनी। मूलनीतिश्रेणीनिश्श्रेणिकल्पा– जगत्कारमविषयनीतिवीथीनिश्श्रेणिसद्दशी। सा असौ– सुप्रसिद्धा इयम्। ब्रह्मसूत्राधिकरणचरणाध्यायसारावलिः– ब्रह्मसूत्रात्मकशीरीरकशास्त्रघटकाधिकरणपादाध्यायसारार्थपरम्पराग्रथनरूपोऽयं" प्रबन्धः। सन्तः– हे सज्जनाः। वः– युष्माकम्। त्रियुगपथरथारोहसूतम्– परमपुरुषप्राप्तिमार्गरथारोहणजातम्। सन्तापवर्गप्रशमनपटुना– तापत्रयपरम्परानिवर्तनसमर्थेन। तत्त्वबोधेन– तत्त्वज्ञानेन सहजेन सह। सन्तम्– वर्तमानम्। सन्तोषम्। सुवीत– प्रदद्यात्। अनेनापूर्वग्रन्थनिर्माणस्य प्रयोजनमध्यात्मतत्त्वमधिजिगमिषतामन्तेवासिनां" सन्तोष इत्युक्तं भवति॥
कुमार-वरदः - 40
- स्वोक्तस्य ग्रन्थस्यापवर्गाधिरोहणहेतुत्वेन गौरवं दर्श यन्नधिकरणसारावली त्यभिहितनामधेया सेयं कृतिर्भवतां परमप दरथारोहसूतं" सन्तं सन्तोषं सुवीते ति शिष्याणामाशीरूपमिदं पद्यमारचयति— सासा विति।सुप्रसिद्धेयमित्यर्थः। सासूयतत्तत्कुमतिमतसमुन्मूलनी असूयासहिततत्तत्कुमतिमतसमुन्मूल्नी। मूलनीतिश्रेणीनिश्श्रेणिकल्पा जगत्कारणविषयन्यायनीथीनिश्श्रेणिसद्दशी। त्रियुगपथरथारोहसूतं" परमपुरुषप्राप्तिमार्गरथारोहणे सूतं सारथिम्। सन्त इति विदुषां सम्बोधनम्। सन्तापवर्गप्रशमनपटुना तत्त्वबोधेन सन्तं सन्तोषं तापत्रयप्रशमनपटुना तत्त्वज्ञानेन सहजेन सह वर्तमानं सन्तोषं सुवीत ब्रह्मसूत्राधिकरणचरणाध्यायसारवलि रिति-सूत्राधिकरणपादाध्यानां चतुर्णामपि सारसङ्ग्रहणपरम्प- रेत्यर्थः सारसङ््ग्रहणपरम्परेत्यर्थः।अनेनापूर्वग्रन्थनिर्माणस्य प्रयोजनमध्यात्मतत्त्वमधिजिगमिषतामन्तेवासिनां सन्तोष इत्युक्तं" भवति॥
मूलम् - 40
40.सासौ सासूयतत्तत्कुमतिमतसमुन्मूलनी मूलनीति-
श्रेणीनिश्श्रेणिकल्पा त्रियुगपथरथारोहसूतं सुवीत।
सन्तस्सन्तापवर्गप्रशमनपटुना तत्त्वबोधेन सन्तं
सन्तोषं ब्रह्मसूत्राधिकरणचरणाध्यायसारावलिर्वः॥
विश्वास-प्रस्तुतिः - 41
41.षट्पञ्चाशच्छतञ्चेत्यधिकरणगणैर्व्यक्तसीमाविभागे
काण्डेऽस्मिन्नस्मदुक्तं कतिचिदनुविदुः क्षेपधन्यैः किमन्यैः।
पश्यन्तो विश्वमेतत् त्रिगुणगुणनिकायन्त्रितस्वान्तनिघ्नं
नाथे नस्साक्षिभूते न वयमिह मुधा कुर्महे नर्महेलाम्॥
३४-तमाहोबिल-यतिः - 41
- षट्पञ्चाशदित्यादि। षटपञ्चाशच्छतञ्चेति– षट्पञ्चाशदुत्तरशतसंख्याकैरित्यर्थः। अधिकरणगणैः- अधिकरणसमूहैः। प्रतिपादं प्रतिपेटिकञ्चाधिकरणगणानां" भिन्नत्वेन गणबहुत्वम्। व्यक्तसीमाविभागे– स्फुटमद्विकाध्यायपादपेटिकारूपभागविभागशालिनि। अस्मिन्काण्डे– मीमांसाख्यैकशास्त्रैकदेशभूते अस्मिन् ब्रह्मकाण्डे। अस्मदुक्तम्– एतद्ग्रन्थे अस्माभिः प्रतिपादितमर्थजातम्। कतिचित्– ’ सारासारविभागज्ञाः ’ इत्यद्युक्ताः" प्रमाणनिष्ठास्सज्जनाः। अनुविदुः– अनुकूलतया जानन्ति। क्षेपधन्यैः अन्यैः किम्– सर्वत्रापि प्रतिक्षेपमेव कृत्वा तावता परितुष्टैर्दुष्टबुद्धिभिः" कृपणैरन्यैः किम्। एतत् विश्वम्— परिदृस्यमानं जगत्। त्रिगुणगुणनिकायन्त्रितस्वान्तनिघ्नम्– त्रिगुणानां सत्त्वरजस्तमसां पुनः" पुनरन्योन्याभिभवेनावृत्तिरूपा या गुणनिका तया यन्त्रितं निबद्धं स्वान्तं दुष्टपुरुषचेतस्तधीनम्। पश्यन्तः– लोके दुर्विनीताः" परदोषदर्शनैकान्तचित्ता इति पश्यन्तः। वयम्। नाथे– श्रीरङ्गनाथे। नः– अस्माकम्। साक्षिभूते– अस्मन्निर्मितप्रबन्धगुणविषयस्य साक्षिभूते तिष्ठति सति। इह– पुरोभागिजनाक्षेपविषये। मुधा– व्यर्थतया। नर्महेलाम्– परिहासवचनलीलामपि। न कुर्महे– न विरचयामः। अयं भावः– ’ त्वयि प्रसन्ने किमिहास्त्यलभ्यम् ’ इति न्यायेन केवलं भगवत्प्रसादमेव पुरुषार्थयामः इतरे पुरुषास्स्वगुणानुरूप्येणासमद्ग्रन्थगुणान् पश्यन्तु मा वा किमेतद्बुद्ध्यनुसारेण निष्फलेनेति॥
कुमार-वरदः - 41
- अथ पूर्वोक्तानामधिकरणानामसङ्करेण प्रतिपत्त्यर्थं ,सङ्ख्याविशेषं निर्दिश्यास्मदुक्तमर्थं पदवाक्यप्रमाणविदः कतिचिद् विदन्ति सर्वत्रापि प्रतिक्षेपमेव कुर्वाणैः क्षीबैः किमन्यै रित्युन्मत्तप्रकृतीनधिक्षिप्य ताननाद्दत्य भगवत्प्रसादमेव पुरस्कृत्य न च तेषु दुर्विनीतेषु परिहासमपि कुर्मह इति वैदग्ध्यमेव स्वात्मनः प्रकटयति— षट्प़ञ्चाश दिति। षट्पञ्चाशच्छतञ्चे त्यधिकरणसङ्ख्यानिर्देशः।इत्थमे तैरधिकरणगणैर्व्यक्तसीमा- विभागेऽस्मिन् ब्रह्मकाण्डे पुनरस्माभिरुक्तं कतिचिद्वे दविचक्षणा जानन्ति सर्वत्रापि प्रतिक्षेपमेव कृत्वा तावता परितुष्टैर्नष्टबुद्धिभिः किमन्यैः कृपणैः वयं पुनर्विश्वमेतत् त्रिगुणगुणनिकायन्त्रितस्वान्तनिघ्नं पश्यन्तः — सत्त्वरजस्तमसामाम्रेडनं गुणनिका तया यन्त्रितं स्वान्तं दुष्टपुरुषचेतस्तन्निघ्नं तदधीनं पश्यन्तः लोके हि दुर्विनीताः परदोषर्शनैकान्तचिता इति पश्यन्तः। नाथे श्रीरङ्गनाथे नोऽस्माकं निर्मितप्रबन्धगुणगोरव साक्षिभूते सति ताद्दशानां दुष्टानां परिहासवचनलीलामपि न कुर्महे ।अयमर्थः—’ त्वयि प्रसन्ने’ इति न्यायेन केवलं भगवत्प्रसादमेव पुरुषार्थयामः।इतरे पुरुषास्स्वगुणारूप्येणान्यथा पश्यन्तु मा वा किमेतद्ब्रुद्ध्यनुसारेण निष्फलेनेति॥
मूलम् - 41
41.षट्पञ्चाशच्छतञ्चेत्यधिकरणगणैर्व्यक्तसीमाविभागे
काण्डेऽस्मिन्नस्मदुक्तं कतिचिदनुविदुः क्षेपधन्यैः किमन्यैः।
पश्यन्तो विश्वमेतत् त्रिगुणगुणनिकायन्त्रितस्वान्तनिघ्नं
नाथे नस्साक्षिभूते न वयमिह मुधा कुर्महे नर्महेलाम्॥
विश्वास-प्रस्तुतिः - 42
42.विश्वं द्रव्यादिभेदाद्विशदमभिहितं तत्त्वमुक्ताकलापे
व्यूढं शारीरकस्य त्विह दृढघटितं रूपमापादचूडम्।
तस्मादस्माच्छ्रुताब्धेरमृतमिव समुद्वान्तमश्रान्तबद्ध-
श्रद्धैरन्योन्यहस्तप्रदमिदमुभयं धार्यमाचार्यवद्भिः॥
३४-तमाहोबिल-यतिः - 42
- विश्वमित्यादि। तत्त्वमुक्ताकलापे– तत्त्वमुक्ताकलापाख्ये ग्रन्थे। विश्वम्– निखिलमपि तत्त्वज्ञानम्। द्रव्यादिभेदात्– द्रव्याद्रव्यविभजनतदवान्तरविशेषविभजनतत्तल्लक्षणकथनपरीक्षणतत्तद्विषयकपरपक्षप्रतिक्षेपणस्वपक्षस्थापनादिरूपादुपपादनात्। द्रव्यादिर्भिद्यते विविक्ततया निश्चीयत अनेनेति द्रव्यादिभेदंशब्देन निरुक्तमुपपादनं ग्राह्यम्। विशदम्– श्रोत़ॄणां यथा श्रोतव्यांशे नावशिष्येत तथेत्यर्थः। अभिहितम्– निरूपितम्। इह तु– अधिकरणसारावल्याख्येऽस्मिन्प्रबन्धे तु। शारीरकस्य– शारीरं विश्वान्तर्यामिणां परमात्मानमधिकृत्य व्यासेन कृतस्य अत एव शारीरकाख्यस्य वेदान्तशास्त्रस्य। रूपम्– शास्त्रद्विकाध्यायपादपेटिकाधिकरणतत्तदर्थरूपं स्वरूपम्। आपादचूडम्– ’ अथातो ब्रह्मजीज्ञासा ’ इत्यारभ्य ’ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ’ इत्येतदन्तम्। दृढघटितम्– दृढघटितं यथा भवेति तथा। व्यूढम्– सम्यक् प्रतिष्ठापितम्। तस्मात्– ग्रन्थद्वयस्य एवंरूपार्थप्रतिपादकत्वात्। अस्मच्छ्रुताब्धेः– अस्माकं यत् श्रुतं" बादिहंसाम्बुदाचार्यसकाशे अर्थश्रवणं तदेवाब्धिस्तस्मात्। वैपुल्यमात्रेण श्रुतस्याब्धित्वेन रूपणम्। समुद्वान्तम्– बहिर्निर्गतम्। अत एव अमृतमिव स्थितम्– अन्योन्यहस्तप्रदम्– अन्योन्यसापेक्षम्। इदमुभयम्– तत्त्वमुक्ताकलापाधिकरणसारावल्याख्यग्रन्थद्वितयमिदम्। अश्रान्तबद्धश्रद्धैः— सदासंबद्धश्रद्धैः। अविच्छिन्नश्रद्धाशालिभिरित्यर्थः। आचार्यवद्भिः— प्रशस्ताचार्यशालिभिरधिकारिभिः। धार्यम्– स्वाध्यायवत् पुस्तकादिनिरीक्षणानपेक्षोच्चारणयोग्यतयाधीत्याविस्मरणेन धार्यमित्यर्थः। एतद्ग्रन्थं सम्यग्विजानतामवगन्तव्यशेषो नास्तीति भावः॥
कुमार-वरदः - 42
- ननु श्रीरङ्गराजादिव्याज्ञालब्जं वेदान्ताचार्यनामधेयमन्वर्थयामीत्यादावेव भवद्भिरुक्तम्।अस्मिन्प्रबन्धे शारीरकशरीरमात्रेण भवद्भिः प्रकाशितं परपक्षप्रतिक्षेपभूयस्त्वं न द्दश्यते नापि च स्वपक्षाभिमततत्त्वप्रकारपरि- कल्पनम् आचार्यपीठिकामध्यारूढैस्तदपि वक्तव्यं तत्कथमित्याशङ्क्य तत्रोत्तरमाह— विश्व मिति।अयमर्थः— वेदान्तविषयाणि निबन्धनान्यस्माभिरभिहितानि शतशो विद्यन्ते तत्र निबन्धनद्वितयमन्योन्यदत्तहस्तमशेषार्थोप- पादकम् आद्यस्तावत् तत्त्वमुक्ताकलापः अयञ्चाधि करणसारवली त्यन्वर्थनामको निबन्धनविशेषः इदं द्वितयमपि परस्परोपकारकत्वेन भाव्यम् एतद्द्वितयपरिज्ञानवतामवगन्तव्यशेषी नास्ति अस्ति किञ्चिद्यदि मीमांसापादुकया- स्म दुक्तया सिध्यति तेन त्रिष्वेतेषु प्रबन्धष्वप्रमत्तैरन्तेवासिभिस्सर्वमप्यवगन्तव्यम् अवशिष्टमप्यस्मदुक्तेषु प्रबन्धानतरेषु तत्रतत्र द्रष्टन्यमिति।शब्दान्वयस्तु- विश्व मपि ’ द्रव्याद्रव्यप्रभेदात् ’ इत्यादिना त त्त्वमुक्ताकलापे विशदमभिहितम् । इहा स्मिन्प्रबन्धे शारीरकस्य स्वरूपं द्दढघटितं व्यूढं परस्परसङ्गत्या भेदेन वा आपादचूहमुपवर्णितमित्यर्थः।तेनेदं प्रबन्धद्वयं शिष्याणामुपादेयमित्यत्रामृतद्दष्टान्तेनोपपादयति— तस्मा दिति। स्वकीय श्रुतममृताब्धि स्तत्र सञ्जातमिदं निबन्धन द्वयममृतमिव समुद्वान्तमुप वर्णितम्। अन्योन्यहस्तप्रदम्- परस्परोपकारकम्। अश्रान्तबद्धश्रद्धैराचार्यवद्भिः" ’ आचार्यवान्पुरुषो वेद’ इति श्रुतयुक्तगरुभक्तिविनीतैरुत्तमाधि- कारिभिस्तत्प्रसादपरिशुद्धेन मनसा धार्य मिति॥
मूलम् - 42
42.विश्वं द्रव्यादिभेदाद्विशदमभिहितं तत्त्वमुक्ताकलापे
व्यूढं शारीरकस्य त्विह दृढघटितं रूपमापादचूडम्।
तस्मादस्माच्छ्रुताब्धेरमृतमिव समुद्वान्तमश्रान्तबद्ध-
श्रद्धैरन्योन्यहस्तप्रदमिदमुभयं धार्यमाचार्यवद्भिः॥
विश्वास-प्रस्तुतिः - 43
43.इत्थं शारीरकोक्ते पथि समुपनतास्स्रग्धराश्श्रद्दधानं
पारे मायापयोधेः प्रहितमभिमुखैस्सूरिभिश्शुद्धभावैः।
ब्रह्मालङ्कारकल्पैर्बहुभिरुपनिषत्सूत्रतात्पर्यशिल्पैः
देवार्हत्वाय दिव्याप्सरस इव परिष्कृत्य सम्भावयन्ति॥
३४-तमाहोबिल-यतिः - 43
- इत्थमित्यादि। इत्थम्– उक्तक्रमेण। शारीरकोक्ते– एतच्छास्त्रप्रतिपादिते। पथि– परस्परसङ्गताधिकरणार्थपरंपरारूपे मार्गे। समुपनताः– प्रतिपादकतया प्रवृत्ताः अन्यत्र सम्प्राप्ताः। स्रग्धराः– स्रग्धरावृत्तरूपश्लोकपड्क्तयः। अन्यत्र ’ शतं मालाहस्ताः" ’ इत्युक्तरीत्या ब्रह्मविदलङ्कारार्थमालाधारिण्य इत्यर्थः। मायापयोधेः पारे — माया प्रकृतिः सैव दुस्तरत्वेन पयोधिस्तस्य पारे विलक्षणे शुद्धसत्त्वात्मके देशविषये। अभिमुखैश्शुद्धभावैस्सूरिभिः प्रहितम्– स्वकीयकृपाविशेषेणाभिमुख्यं प्राप्तैः ख्यातिलाभपूजादिनिस्स्पृहहृदयैस्सूरिभिराचार्यैः" प्रहितं सन्मार्गोंपदेशपर्यन्तशिक्षाविषयीकृत्य प्रापितम्, अन्यत्र अर्चिरादिभिर्भगवत्किङ्करैः क्रमेण प्रापितम्। श्रद्दधानम्– तत्त्वज्ञानतदुपदेष्टृभगवत्सु श्रद्धायुक्तमधिकारिणम्। देवर्हत्वाय– परवासुदेवपादारविन्दपरिचरणयोग्यतार्थम्। सुगन्धानुलिप्तमृष्टवसनाभरणशाली हि पुरुषः परमपुरुषपरिचरणमर्हति। ब्रह्मालङ्कारकल्पैः– ’ तं ब्रह्मालङ्कारेणालङ्कुर्वन्ति ’ इत्याद्युक्तब्रह्मालङ्कारतुल्यैः। बहुभिः– बहुविधैः, बहुमान्यैश्च। उपनिषत्सूत्रतात्पर्यशिल्पैः– वेदान्तसूत्रास्फुटाभिप्रायप्रकाशनरूपैराभरणैः। दिव्याप्सरसइव– ’ तं पञ्चशतान्यप्सरसामभिधावन्ति ’ इत्युक्तरीत्या ब्रह्मवित्सभाजनाय परवासुदेवप्रहिता दिव्याप्सरसः कञ्चित् मुमुक्षुं ब्रह्मविदं" भागवतोत्तममिव। परिष्कृत्य– वेदान्ते अयं साक्षाद्वेदान्तदेशिक एवेति यथैतदुपन्यासेन सर्वेऽपि सज्जनाश्लोघेरन् ततैनं यशस्विनं" विधाय अन्यत्र ’ तं ब्रह्मालङ्कारेणालङ्कुर्वन्ति ’ इत्युक्तरीत्या अलङ्कृत्य। सम्भावयन्ति– बहुमन्वते। सर्वैरपि पूज्यतमतामापादयन्तीत्यर्थः॥
कुमार-वरदः - 43
- उक्तानामेतासां स्रग्धराणां ब्रह्मालङ्कारकारिणीभिर्दिव्याप्सरोभिस्तुल्यतामुपपादयन् मायापयोधेः पारे वर्तमानस्य पुरुषस्य सूत्रतात्पर्यशिल्पैरलङ्कृतस्य सर्वैरपि सत्त्वोत्तरैस्सम्भावनीयत्वमुपपादयति— इत्थ मिति। अन्वयस्तु— इत्थं शारीरकोक्ते मार्गे समुपनतास्स्रग्धराः श्रद्धधानं श्रद्धया युक्तमेनं पुरुष मभिमुखैश्शुद्धभावैस्सूरिभिः प्रहित मर्चिरादिमार्गेण नीतम्।अत्र सूरिभिरित्यत्रत्यानामध्यात्मविदमुपलक्षणम्। अयमर्थः—अभीष्टैर्विद्वद्भिरानीतं स्रग्धरास्तावदलङ्कुर्वन्ति अर्चिरादिभिर्नीतं दिव्याप्सरस इवे ति। कैरलङ्कुर्वन्तीत्याह— उपनिषत्सूत्रतात्पर्यशिल्पै रिति। शिल्पशब्दो ऽयमाभरणविशेषवाची।एताः किल स्रग्धरास्सूत्रेषु प्रकाशिततात्पर्यप्रकाशनेन पुरुषमलङ्कृत्य विरजातरणेन परमपदपर्यन्तं सम्भावयन्तीत्यर्थः॥
मूलम् - 43
43.इत्थं शारीरकोक्ते पथि समुपनतास्स्रग्धराश्श्रद्दधानं
पारे मायापयोधेः प्रहितमभिमुखैस्सूरिभिश्शुद्धभावैः।
ब्रह्मालङ्कारकल्पैर्बहुभिरुपनिषत्सूत्रतात्पर्यशिल्पैः
देवार्हत्वाय दिव्याप्सरस इव परिष्कृत्य सम्भावयन्ति॥
विश्वास-प्रस्तुतिः - 44
44.प्रज्ञाधम्मिल्लमल्लीपरिमलमिलितप्राज्ञसेवासमुद्य-
च्छुद्धालोकोज्ज्वलं मां श्रुतिपरिषदुपस्कारिसौभाग्यवद्भिः।
पद्यैरेतैस्स्वहृद्यैः प्रणवमहिमवत्पाञ्चजन्यक्रमेण
स्वाध्मातं रङ्रनाथस्स्वयमिति मुखरीकृत्य संमोदतेस्म॥
३४-तमाहोबिल-यतिः - 44
- प्रज्ञाधम्मिल्लेत्यादि। रङ्गनाथः– श्रीरङ्गराजः। प्रज्ञाधम्मिल्लमल्लीपरिमलमिलितप्राज्ञसेवासुसमुद्यच्छुद्धालोकोज्ज्वलम् — प्रज्ञेति काचित् वरस्री तस्या धम्मिल्लमल्लीपरिमलमिलितानां तत्त्वज्ञानातिशयसंसिद्धगन्तविश्रान्तयशां प्राज्ञानामाचार्याणां सेवया समुद्यन् शुद्धालोकस्तत्त्वज्ञानं तेनोज्जवलं ‘गुरुप्रसदनस्फुरद्गुणगरिम्णि’ इत्युक्तरीत्या सदाचार्यकटाक्षलब्धतत्त्वज्ञानचकासितमित्यर्थः। अन्यत्र सुगन्धत्वाय वरस्त्रीधम्मिल्लयोग्यमल्लीकुसुमपरिमलयुक्तं समर्थशिल्पिकृतघर्षणादिक्रियाविव्दधाभिर्धवलकान्तिभिः प्रकाशमानञ्चेत्यर्थः। प्रणवमहिमत्वपाञ्चजन्यक्रमेण – संस्थानविशेषतरशब्दवत्त्वाभ्यां प्रणवमहिमवान् पाञ्चजन्यः तन्न्यायेन। स्वाध्मातम् – स्वेनैव प्रवर्तितम्। माम्– स्वयमशक्तं मामित्यर्थः। श्रुतिपरिषदुपस्कारिसौभाग्यवद्भिः — श्रुतिपरिषदलङ्कारसौभाग्यशालिभिः, अन्यत्र सर्वरसिकजनश्रोत्रभोग्यतमसुभगतमताशालिभिः। स्वहृद्यैः — स्वहृदयानन्दनैः। एतैः पद्यैः – अतिरम्यतमश्लाघ्यशैलीविशेषेण वक्तुरपि विस्मयावहैश्लोकैः। स्वयम् – साक्षआत्स्वयमेव। इति –उक्तरीत्या। मुखरीकृत्य – शब्दापयित्वा। सम्मोदेतेस्म – महानन्दमपापेत्यर्थः। पाञ्चजन्यसाम्यप्रतिपादनेन स्वनिस्वानिर्धूतप्रतिपक्षभगवद्दिव्यघण्टावतारत्वं स्वस्य व्यज्यते। अनेन एतद्गन्धकरणरूपं कार्यं स्वयमेव रङ्गनाथस्स्वसम्मोदायाकार्षीदति सात्त्विकत्यागः कृतः॥
कुमार-वरदः - 44
- एतत्प्रबन्धनिर्माणस्य श्रीरङ्गराजदिव्याज्ञाविशेषलब्धत्वात् पाञ्चजन्यमिव स्वात्मानमेवं भगवान् मुखरीचकारेत्याह— प्रज्ञे ति। प्रज्ञेति काचिद् वरस्री तस्या धम्पिल्लमल्लीपरिमलमिलितानां प्राज्ञा नामाचार्याणां सेवा, तथा समुद्यन् समुदितश्शुद्धालोकस्तत्त्वज्ञानमित्यर्थः।अत्र श्रुति रित्यध्यात्मप्रतिपादकवेदभागो विदुषां श्रवणञ्च तन्त्रेणाभिधीयते। स्वहृद्यै स्स्वाभिमतैः एतैः पद्यैः प्रणवमहिमवत्पाञ्चजन्यक्रमेण पाञ्चजन्यवदित्यर्थः। पाञ्चजन्यो हि संस्थानेन प्रणवमहिमवान् ।शब्दे च तारत्वात् प्रणवमहिमवान् ।पाञ्चजन्यस्तु भगवदाध्मानेन शब्दायते अहमपि भगवता प्रेरित एवैतानि पद्यानि व्यरीरचम्।तेन स्वेनैव प्रेरित मामास्थानेषु मुखरीकृत्य सम्मोदतेस्म सन्तुष्यतिस्मेत्यर्थः।अतः" ’ पाञ्चजन्यं हृषीकेशः’ इतिवत् परपक्षप्रतिक्षेपरूपेषु मां मुहुरपि मुखरयाञ्चकारेत्यर्थः॥
मूलम् - 44
44.प्रज्ञाधम्मिल्लमल्लीपरिमलमिलितप्राज्ञसेवासमुद्य-
च्छुद्धालोकोज्ज्वलं मां श्रुतिपरिषदुपस्कारिसौभाग्यवद्भिः।
पद्यैरेतैस्स्वहृद्यैः प्रणवमहिमवत्पाञ्चजन्यक्रमेण
स्वाध्मातं रङ्रनाथस्स्वयमिति मुखरीकृत्य संमोदतेस्म॥
विश्वास-प्रस्तुतिः - 45
45.पाराशर्यः प्रभूतादुपनिषदमृतोदन्वतस्सारभूतं
निर्मथ्यादत्त सूत्रैरवितथनिगमाचार्यनामा मुनीन्द्रः ।
यत्तन्निष्कृष़्टमित्थं यतिपतिहृदयारूढमारूढतार्क्ष्यः
तद्वक्ता वाजिवक्त्रस्सह मम गुरुभिर्वादिहंसाम्बुवाहैः॥
३४-तमाहोबिल-यतिः - 45
- पाराशर्य इत्यादि। अवितथनिगमाचार्यनामा – स्वकीयवेदान्ताचार्यनामवत् अर्थवत्तमवेदाचार्याभिधानः। पाराशर्यः – पराशरतनूभवः, जगत्प्रसिद्धपराशराख्यपरदेवतावेद्युत्तमब्र्हमर्षिपितृकः।मुनीन्द्रः – तत्त्वार्थमननशीलमहर्षीणां प्रधानः।प्रभूतात् – अपरिच्छेद्यात् अतिमहतः। उपनिषदमृतोदन्वतः –उपनिषत् अव्यवधानेन ब्रह्मप्रतिपादको वेदभागः स एवामृतोदन्वान् कलशोदधिस्तस्मात्।निर्मथ्य – आलोड्य पुनःपुनर्विचार्य चेत्यर्थः। सूत्रैः – ब्रह्मसूत्रैरेव सुवर्णकलशस्थानापन्नैः। सारभूतम् — सारार्थजातरूपं सारतममंशम्।आदत्त – सङ्गृहीतवान्।यतिपतिहृदयारूढम् – श्रीभाष्यकारहृदयलग्नम्, श्रीभाष्यप्रसिद्धमिति यावत्। इत्थम् – एतद्ग्रन्थोक्तरूपम्।तन्निष्टकृष्टं" यत् – तादृशब्रह्मसूत्रतात्पर्यनिष्कर्षण निष्पन्नं यदेतद्ग्रन्थोक्तमर्थजातम्। तद्वक्ता – तादृशार्थजातस्यैतद्ग्रन्थरूपेण रचयिता। मम गुरुभिर्वादिहंसाम्बुवाहैस्सह आरूढतार्क्ष्यो वाचिवक्त्रः – अस्मदाचार्यश्रीमद्वादिहंसाम्बवदाचार्यसहित्स्त्रयीमयश्रीरपुत्मदारूढः" श्रीहयवदनरूपी श्रीमन्नारायण एव।नाहमिति शेषः। अयञ्चाचार्यविशिष्टभगवतत्समर्पणविशेष एव स्वान्तेवासिजनानुजघृक्षया न्यबन्धि।एतद्ग्रन्थरचयितुस्त्रीयीमयगरुडशेषावतास्स्वाचार्यविशिष्ट श्रीहयवदन्तवानिर्धारणात् स्वस्य श्रीगरुचशेषश्री हयवदनावतारत्वं व्यज्यत इत्यखिलमतिशोभनम्॥ चिन्तामणिमनुभाव्य श्रीनिधिरघुवीरसूरिणा ललिता। अधिकृतिसारावल्या व्याख्या पदयोजनाभिधा व्यलिखि॥ इति चतुर्थाध्यायस्य चतुर्थपादः समाप्तः" ॥पदयोजना संपूर्णा॥
कुमार-वरदः - 45
- इत्थं निर्मितस्य स्वग्रन्थस्य प्रथमं पाराशर्यप्रसादलब्धत्वमनुवदन्नत्मसारभूतमकर्तृत्वाभिमानं पुरस्कृत्य स्वाचार्यरूपविशिष्टेन सर्वविद्याप्रवर्तकेन भगवता हयग्रीवेणैव विरचितत्वं ख्यापयति— पाराशर्य इति। अयमत्रान्वयः– अवितथीनगमाचार्यनामा मुनीन्द्रो भगवान् पाराशर्यः प्रभूतादुपनिषदमृतोदन्वतस्सारभूतं यत् तद्वेदान्तसू त्रैर्निर्मथ्यादत्त ।इत्थम् एवमस्माभि र्निष्कृष्टं भाष्यकारहृ दयारूडं तदिदममृतं मम गुरुभिर्वादिहंसाम्बु- वाहैस्सह श्रामान्हयग्रीव एव तद्वक्ता तत्स्वयमेव वक्ता। वक्ते ति तृन्प्रत्ययान्तः।तेनात्र द्वितीयानिर्देशः।अत्र ’ आविध्य मतिमन्थानं येन वेदमहार्णवात्।जगद्धिताय जनितो महाभारतचन्द्रमाः॥’ इति श्लोकार्थो भाव्यः॥ जयति यतिराजवाणी प्रतिभटसिद्धान्तकृन्तनकृपाणी। श्रुतियुवतीनां वेणी दिव्यपदारोहभव्यनिश्रेणी॥ आचार्यैर्निर्मितानामखिलगुरुजनग्रन्थंसंवादभाजां" पद्यानामुग्यदर्कप्रतिभटमहसामर्थतत्त्वप्रसिद्ध्यै। व्याख्यामाख्यद्विचित्रां वरदगुरुरयं वेदसिद्धान्तवेदी वेदान्ताचार्यसूनुर्विमतमतकथावीरसंहारसिंहः॥ इति निखिलतार्किकचूडामणिना सर्वतन्त्रस्वतन्त्रेण श्रीमद्वरदार्यापरनाम्ना कुमारवेदान्ताचार्येण विरचिते शारीरकाधिकरणचिन्तामणौ चतुर्थस्याध्यायस्य चतुर्थः पादः।
मूलम् - 45
45.पाराशर्यः प्रभूतादुपनिषदमृतोदन्वतस्सारभूतं
निर्मथ्यादत्त सूत्रैरवितथनिगमाचार्यनामा मुनीन्द्रः ।
यत्तन्निष्कृष़्टमित्थं यतिपतिहृदयारूढमारूढतार्क्ष्यः
तद्वक्ता वाजिवक्त्रस्सह मम गुरुभिर्वादिहंसाम्बुवाहैः॥