35 अभावाधिकरणम्

विश्वास-प्रस्तुतिः - 17

17.मुक्तः प्रोक्तोऽशरीरः क्वचिदथ बहुधा संभवः क्वाप्यधीतो
गानक्रीडादि चोक्तं तदनुगुणमतद्वन्द्वमार्षं निरस्यन्।
स्वच्छन्दस्योभयं तत्क्षममिति वदति स्वं मतं सूत्रकारः
स्याच्चाकर्मोद्भवं तन्निखिलमपि परब्रह्मवत्तत्समस्य॥

३४-तमाहोबिल-यतिः - 17
  1. मुक्त इत्यादि।मुक्तः क्वचित् अशरीरः प्रोक्तः– मुक्तचेतनः क्वचित् ’ अशरीरं वा सन्तं न प्रियाप्रिये स्पृशतः ’ इत्यादौ श्रुतिवाक्यविशेषे शरीररहित इत्युक्तः। अथ– तत्प्रकाराद्भिन्नप्रकारतया। क्वापि– ’ स एकधा भवति स त्रिधा भवति ’ इत्यादौ श्रुतिवाक्ये । बहुधासम्भवोऽधीतः– तस्यैव मुक्तस्य स्वरूपेण नानात्वासम्भवात् शरीरद्वारेणैव तत्सम्भवाच्च शरीरद्वारकबहुभवनञ्चाम्नातम्। तेन च शरीरवत्त्वं सिद्धमित्यर्थः। गानक्रीडादि चोक्तम्– ’ एतत्साम गायन्नास्ते ’ इत्यादौ गानक्रीडादिकम् मुक्तस्योक्तम्। तच्च शरीरं विनानुपपद्यमानं शरीरवत्त्वं तस्योपपादयति। आर्षम्– बादरिजैमिनिमुनिसंमतम्। तदनुगुणमतद्वन्द्वम्– उदाहृतवाक्यद्वयानुगुणं" मतद्वयम्। निरस्यन्– बादरिमतमशरीरत्वनियमं जैमिनिसम्मतं सशरीरत्वनियमञ्च निरस्यन्। सूत्रकारः। स्वच्छन्दस्य– स्वेच्छानुगुण्येन वर्तमानस्य मुक्तस्य। तदुभयं क्षममिति स्वं मतं वदति– असङ्कुचितब्रह्मानुभवस्य शरीरानपेक्षणादिच्छया अशरीर एवानुभवंस्तिष्ठति कदाचित् सर्वदेशसर्वकालसर्वावस्थबहुविधकैङ्कर्यकरणाभिलाषी सन् शरीरमिच्छति तदा सशरीर एव कैङ्कर्यं करोतीत्युभयथापि वर्तनं युक्तमिति स्वकीयं मतं ’ द्वादशाहवदुभयविधं बादरायणोऽतः ’ इति सूत्रेण प्रतिपादयति। अकर्मोद्भवं तन्निखिलमपि परब्रह्मवति तत्समस्य स्याच्च– अकर्ममूलकं स्वेच्छामात्रमूलकम् अशरीरत्त्वं सशरीरत्वञ्चेत्युभयं गानक्रीडादिकञ्च परब्रह्मण इव तत्समस्य विध्वस्तकर्मबन्धतया परब्रह्मतुल्यस्य मुक्तस्य स्यादेव सम्भावितमेव। तथा च सशरीरत्वमात्रेण संसारश्चेदीश्वरस्यापि सशरीरत्वेन प्रमाणसिद्धस्य संसारसंभवः" ईश्वरशरीरादेरकर्मकृतत्वान्न संसारावहत्वमिति चेत् मुक्तशरीरादेरपि कर्मकृतत्वाभावान्न संसारावहत्वमिति तुल्यम्। अतः स्ववाञ्छानुगुणमीश्वरवन्मुक्तोऽपि सशरीरोऽशरीरश्चेति सूत्रकारभिमतं युक्ततमम्॥
कुमार-वरदः - 17
  1. अत्र भाष्ये सङ्गतिः—’ किं मुक्तस्य देहेन्द्रियाणि न सन्ति उत सन्ति अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये’ इति।तदर्थविचारस्तु—किं" मुक्तस्येत्यादिः प्रथमविचारः।तदर्थं विचार्यते—’ स एकधा भवति’ इत्यादिश्रुतिरशरीरत्वश्रुतिं सङ्कोचयितुं शक्नोति नेति।किं" ’ स एकधा भवति’ इत्यादिवाक्यं मुक्तस्य सशरीरत्वं प्रतिपादयितुं प्रभवत्युत न।प्रतिपादनेऽपि किं सशरीरत्वमात्रं प्रतिपादयत्युतैतच्छरीरत्वमवगमयतीति।तदर्थमेकधाभवनत्रिधाभवादिकं मुक्तस्य शरीरेण विना सम्भवत्युत न।अत्र बादरिजैमिनिमताभ्यां पूर्वपक्षमनुवदति— मुक्त इति।’ अशरिरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति क्वचि द्वाक्ये मुक्तोऽशरीरत्वेन प्रोक्तः । अथ तस्यैव मुक्तस्य ’ स एकधा भवति त्रिधा भवति’ इत्यादिवाक्ये बहुधासम्भवश्च श्रूयते।क्वचित्पुनश्शरीरेन्द्रियसाध्यं गानक्रीडादि च ’ एतत्साम गायन्’ इत्यादिवाक्ये प्रतिपाद्यते।तत्त द्वाक्यानुगुणमार्षं" मतद्वन्द्वं निरस्यन् बादरिमतमशरीरत्वनियमं जैमिनिमतं सशरीरत्वनियमञ्च निरस्यन् सूत्रकारः स्व मतं यथावद्दर्शयतीत्यह— स्वच्छन्दस्ये ति।यथेष्टं" सशरीरत्वमशरीरत्व ञ्चोभय मपि तुल्यम्।अयमभिप्रायः—असङ्कुचितब्रह्मानुभवहरूपेपुरुषार्थं न शरीरपेक्षा, सर्वदेशसर्वकारसर्वावस्थोचितभगवत्कैङ्कर्ये पुनः ’ इमांल्लोकान्’ ’ जक्षत्क्रीडन् रममाणः’ इत्यादिकश्रुत्युक्ते शरीरापेक्षेति।ननु सशरीरत्वमप्यङ्गीकृतञ्चेत् ’ न ह वै सशरीरस्य सतः’ इत्युक्तप्रिया- प्रिययुक्तत्वमपि स्यादिति पुनरावर्तते संसार इत्याशङ्क्याह—स्यादिति।अयमर्थः—यदि सशरीरत्वमात्रं संसारः, तर्हीश्वरस्यापि संसारस्स्यात्।अपि तु कर्माधीनशरीरत्वं संसारः।ईश्वरवन्मुक्तस्यापि स्वच्छन्दस्य सङ्कल्पमात्राधीनशरीरत्वेऽपि संसारगन्धानवकाश इति रमणीयमेतत्॥
मूलम् - 17

17.मुक्तः प्रोक्तोऽशरीरः क्वचिदथ बहुधा संभवः क्वाप्यधीतो
गानक्रीडादि चोक्तं तदनुगुणमतद्वन्द्वमार्षं निरस्यन्।
स्वच्छन्दस्योभयं तत्क्षममिति वदति स्वं मतं सूत्रकारः
स्याच्चाकर्मोद्भवं तन्निखिलमपि परब्रह्मवत्तत्समस्य॥

विश्वास-प्रस्तुतिः - 18

18.मोक्षे पुण्याद्यभावात्तदुपधिकवपुर्वर्जितत्वं न दूष्यं
तस्मिन्दुःखार्हदेहत्यजि च शुभवपुस्सत्त्वपक्षोऽप्यबाध्यः।
इत्थं सत्यत्र मुक्तस्थितिरिह मुनिना कीदृशी सूत्रिता स्यात्
नैवं स्वच्छन्ददेहग्रहतदनियमस्थापनेऽत्राभिसन्धेः॥

३४-तमाहोबिल-यतिः - 18
  1. मोक्ष इत्यादि। मोक्षे- मोक्षदशायाम्। पुण्याद्यभावात्– पुण्यपापयोरभावात्। तदुपधिकवपुर्वर्जितत्वम्– पुण्यपापमूलकशरीरराहित्यम्। न दूष्यम्– न निरसनीयं युक्तत्वाद्ग्राह्यमित्यर्थः। दुःखार्हदेहत्यजि च तस्मिन्– दुःखानुभवयोग्यकर्ममूलकदेहत्यागिन्यपि तस्मिन्मुक्ते। शुभवपुस्सत्त्वपक्षोऽप्यबाध्यः– अकर्ममूलकदिव्यदेहवत्त्वपक्षोऽपि अविरुद्धत्वात् प्रामाणिकत्वाच्च ग्राह्य एव। अत्र इत्थं" सति– मुक्तसशरीरत्वाशरीरत्वयोरुपपन्नत्वे सति। इह– अस्मिन्नधिकरणे। मुनिना– सूत्रकारेण। मुक्तस्थितिः– मुक्तावस्था। कीद्दशी सूत्रिता स्यात्– कीदृशीति सूत्रेण प्रतिपादिता भवेत्। नैवम्– एवं न शङ्कनीयम्। स्वच्छन्ददेहग्रहतदनियमस्थापनेऽत्राभिसन्धेः– स्वेच्छामूलकदिव्यदेहपरिग्रहस्य तथाविधदेहपरिग्रहेऽप्यनियमस्य च स्थापने एतदधिकरणतात्पर्यात्। तथा च स्वच्छन्ददेहवत्त्वप्रतिपादनाद्देहसम्बन्धो नास्तीति वदन् बादरिर्निरस्तः। तस्य च देहपरिग्रहस्यानियमस्थापनात् नियमेन देहस्थितिं" वदन् जैमिनिश्च निरस्तः। तेन भगवत्सङ्कल्पमूलकस्वसङ्कल्पादेव यथायोगं सशरीरता अशरीरता च मुक्तस्य भवतीति सिद्धान्तः॥
कुमार-वरदः - 18
  1. ननु बादरिपक्षोऽपि स्वाभिमत एव तथा जैमिनिपक्षोऽपि एवञ्च सति सूत्रकारेण तत्पक्षप्रतिक्षेपेण स्वपक्षतया कोऽयं पक्षस्स्थापित इति चोदनायां शिष्यप्रतिबोधनार्थं स्वपक्षं पुनरपि विशिष्य दर्शयति— मोक्ष इति।अयमत्र शब्दान्वयः— मोक्षे पुण्याद्यभावात् तदुपधिकवपुर्वर्जितत्वं बादरिणा कथितं न दूष्यम्, तद्वद् दुःखार्हदेह रहिते तस्मिन्मुक्ते जैमिनिनोक्तश्शुभशरीरसत्त्वपक्षोऽपि न बाधनीय एव, इत्थं सत्यत्र मुनिना बादरायणेन कीद्दशी मुक्तस्य स्थितिस् सूत्रिता स्यादिति।अत्रोत्तरमाह— मैव मिति।स्वाभिप्रेतमाविष्करोति— स्वच्छन्दे ति।स्वच्छन्ददेहोऽस्तीति वचनाद् देहसम्बन्धो नियमेन नास्तीति वदन् बादरिर्निरस्तः।तेन भगवत्सङकल्पमूलस्वसङ्कल्पादेव यथायोगं शरीरी चाशरीरश्च भवति मुक्त इति सिद्धान्तः॥
मूलम् - 18

18.मोक्षे पुण्याद्यभावात्तदुपधिकवपुर्वर्जितत्वं न दूष्यं
तस्मिन्दुःखार्हदेहत्यजि च शुभवपुस्सत्त्वपक्षोऽप्यबाध्यः।
इत्थं सत्यत्र मुक्तस्थितिरिह मुनिना कीदृशी सूत्रिता स्यात्
नैवं स्वच्छन्ददेहग्रहतदनियमस्थापनेऽत्राभिसन्धेः॥

विश्वास-प्रस्तुतिः - 19

19.नानादेहा यदि स्युर्युगपदधिगतब्रह्मसाम्यस्य पुंसः
तेषां व्याप्तस्वरूपान्वय उचित इति प्राक्तनाणुत्वहानम्।
नैतद्धीव्याप्तिसिद्धेर्भवति च जगदावेशवाक् तन्निदाना
सौभर्यादौ प्रक्लृप्तां गतिमपवदितुं न क्षमं ब्रह्मसाम्यम्॥

३४-तमाहोबिल-यतिः - 19
  1. नानेत्यादि। अधिगतब्रह्मसाम्यस्य पुंसः– ’ निरञ्जनः परमं साम्यमुपैति ’ इति श्रुत्या प्राप्तपरब्रह्मसाम्यस्य मुक्तचेतनस्य। युगपत्– एककाले। नानादेहास्सुर्यदि– बहवो देहाभवन्ति चेत्। तेषाम्– प्रदेशभेदवर्तिनां तेषां बहूनां देहानाम्। व्याप्तस्वरूपान्वय उचितः– विभुभूतस्वरूपसम्बन्धएव युक्तः। नत्वणोर्नानादेहसम्बन्धसम्भव इत्यर्थः। इति– इत्थं चेत्। प्राक्तनामुत्वहानम्– प्राक्प्रतिष्ठापितजीवस्सवरूपाणुत्वहानिरस्यात्। नैतत्– एतच्छङ्कनं न युक्तम्। धीव्याप्तिसिद्धेः– ’ स चानन्त्याया कल्पते ’ इति श्रुत्या धर्मभूतज्ञानव्याप्तेस्सिद्धत्वात्। जगदावेशवाक् तन्निदाना भवति च – ’ ஸ ஏகதா பவதி ’ இத்யாதிஷு ஜகதாவேஶவசநம் தந்மூலகமேவ பவதி தாத்ருஶதர்மபூதஜ்ஞாநவ்யாப்திமூலகமேவோபபந்நம் பவதி। ஸௌபர்யாதௌ ப்ரக்ல்ருப்தாம்" கதிமபவதிதும் ப்ரஹ்மஸாம்யம் ந க்ஷமம் பவதி– பஹுஶரீரபரிக்ரஹவத்ஸு ஸௌபர்யாதிஷு ஸ்வரூபாணுத்வேநாநேகஶரீரவ்யாப்த்யஸம்பவாத் தர்மபூதஜ்ஞாநவ்யாப்த்யைவ தேஷூபபத்தி: க்ல்ருப்தா தந்ந்யாய்யம் நிரஸ்ய ஸ்வரூபவ்யாப்திமதுநா கல்பயிதும் ப்ரஹ்மஸாம்யம் போகமாத்ரக்ருததயா லப்தஸ்வரூபம் ப்ரஹ்மஸாம்யம்" கர்த்ரு நஸமர்தம் பவதி। க்ல்ருப்தஜ்ஞாநவ்யாபத்யைவ நாநாதேஹபரிக்ரஹஸம்பவாத் ப்ரஹ்மஸாம்யாபத்தேர்போகமாத்ரக்ருதத்வஸ்ய ஸூத்ரிதத்வேந ஸ்வரூபேணாபி ஸாம்யகல்பநாநபேக்ஷணாச்ச முக்தஸ்ய ஸ்வரூபவ்யாப்திகல்பநாநுசிதைவேத்யர்த:। அத்ர சிந்தாமணி:– ’ அத்ர கஶ்சிச்சோதயதி ஜீவஸ்தாவதணுரிதி ப்ரஸித்தம், அத்ர புநரதிகதப்ரஹ்மஸாம்யஸ்ய தஸ்ய யுகபந்நாநாதேஹோ பவதீத்யுச்யதே யத்யேவம் தர்ஹி தேஷாம் தேஹாநாம் தேஶபேதேநோத்பந்நாநாம்" வ்யாப்தபரப்ரஹ்மஸ்வரூபாந்வய ஏவ ஸமுசித:, ந புநரணுரூபஜீவஸ்வரூபாந்வய:, தேந ஜீவாணுத்வவாதோ முக்திதஶாயாம் பஜ்யதே। யதி ததா விபுத்வம் ஜீவஸ்ய தர்ஹி ஜீவேஶ்வரவிபாகோ ந ஸ்யாத்। ’ அணுரவகாதிமாந் ஜீவ ஈஶோऽந்ய: ’ இதி பவதாம் ஸித்தாந்த:। ததேதத்தூஷயதிநைததிதி। அத்ர ஹேதுமாஹ– தீவ்யாப்திஸித்தேரிதி। ஸ்வரூபவ்யாப்த்பாவேऽபி ஜீவஸ்ய முக்திதஶாயாம் தர்மபூதஜ்ஞாநவ்யாப்திஸித்தேரித்யர்த:। அயமர்த: ‘ப்ரதீபவதாநேஶ: ’ இதி வததா ஸூத்ரகாரேண வ்யக்தமுக்த இத்யாஹ– பவதி சேதி। ஜீவஸ்யாணுத்வேऽபி ‘ஸ சாநந்த்யாய கல்பதே ’ ‘ஸ ஏகதா பவதி ’ இத்யாதிஜகதாவேஶவாக் தர்மபூதஜ்ஞாநவ்யாப்திநிபந்தநேத்யர்த:। நநு ஜீவஸ்ய முக்திதஶாயாம் ’ பரமம் ஸாம்யமுபைதி ’ இதி வசநாத் விபுத்வமேவாங்கீக்ருத்யாநேகஶரீரபரிக்ரஹ: கிம் ந ஸ்யாதித்யாஶங்க்யாஹ– ஸௌபர்யாதாவித்யாதி। அயமர்த:– ஸௌபர்யாதௌ தாவத்விபுத்வமந்தரேண தர்மபூதஜ்ஞாநவ்யாப்த்யைவ நாநாஶரீரபரிக்ரஹ: க்ல்ருப்த ஏவ. ஏவஞ்ச முக்தஸ்ய விபுத்வம் பரிகல்ப்ய நாநஶரீரபரிக்ரஹவர்ணநாத்வரம் க்ல்ருப்தேநைவ ஸௌபர்யாதிந்யாயேந ஜ்ஞாநவ்யாப்த்யா நாநாஶரீரபரிக்ரஹவர்ணநமேவ। க்ல்ருப்தகல்ப்யவிரோதேது க்ல்ருப்தபரிக்ரஹ ஏவ ந்யாய்ய இதி ஹி நீதிவிதாம் நிர்ணய:। பரமஸாம்யம் து போகமாத்ரத ஏவேதி ஸூத்ரகாரைரேவ நிரணாயி ’ போகமாத்ரஸாம்யலிங்காச்ச ’ இதி । ந புநஸ்ஸ்வரூபஸாம்யம்। தேந வ்யவஸ்திதமேவ ஜீவேஶ்வரலக்ஷணகதநமிதி ’ இதி॥
कुमार-वरदः - 19
  1. अत्र कश्चिच्चोदयति- नाने ति।जीवस्तावदणुरिति प्रसिद्धम्।अत्र पुन रधिगतब्रह्मसाम्यस्य तस्य युकपत् नानादेहो भवतीत्युच्यते यद्येवं तर्हि तेषां देहानां देशभेदेनोप्पन्नानां व्याप्तपरब्रह्मस्वरूपान्वय एव समुचितः, न पुनरणुरूपजीवस्वरूपान्वयः।तेन जीवाणुत्वादो मुक्तिदशायां भज्येत।यदि तदा विभुत्वं जीवस्य तर्हि जीवेश्वरविभागो न स्यात्। अणुरवगतिमाञ्जीवईशोऽन्य इति भवतां सिद्धान्तः।तदेतद्दूषयति- नैत दिति।अत्र हेतुमाह— धीतव्याप्तिसिद्धे रिति। स्वरूपव्याप्त्यभावेऽपि जीवस्य मुक्तितदशायां धर्मभूतज्ञानव्याप्तिसिद्धेरित्यर्थः।अयमर्थः" ’ प्रदीपवदावेशः’ इति वदता सूत्रकारेण व्यक्तमुक्त इत्याह— भवति चे ति।जीवस्याणुत्वेऽपि ’ स चानन्त्यायकल्पते’ ’ स एकधा भवति’ इत्यादि जगदावेशवाक् धर्मभूतज्ञानव्याप्तिनिबन्धनेत्यर्थः।ननु जीवस्य मुक्तिदशायां ’ परमं साम्यमुपैति’ इति वचनाद् विभुत्वमेवाङ्गाकृत्यानेकशरीरपरिग्रहः" किं न स्यादित्याशङक्याह— सौभर्यादा वित्यादि।अयमर्थः- शौभर्यादौ तावद् विभुत्वमन्तरेण धर्मभूतज्ञानव्याप्त्यैव नानाशरीरपरिग्रहः" क्लृप्तः एव।एवञ्च मुक्तस्य विभुत्वं परिकल्प्य नानाशरीरपरिग्रहवर्णनाद् वरं क्लृप्तेनैव सौभर्यादिन्यायेन ज्ञानव्याप्त्या नानाशरीरपरिग्रहवर्णनमेव क्लृप्तकल्प्यविरोधे तु क्लृप्तपरिग्रह एव न्याय्य इति हि नीतिविदां निर्णयः। परमसाम्यं तु भागमात्रत एवेति सूत्रकारैरेव निरणायि ’ भोगमात्रसाम्यलिङ्गाच्च’ इति, न पुनस्स्वरूपसाम्यम्।तेन व्यवस्थितमेव जीवेश्वरलक्षणकथनमिति॥
मूलम् - 19

19.नानादेहा यदि स्युर्युगपदधिगतब्रह्मसाम्यस्य पुंसः
तेषां व्याप्तस्वरूपान्वय उचित इति प्राक्तनाणुत्वहानम्।
नैतद्धीव्याप्तिसिद्धेर्भवति च जगदावेशवाक् तन्निदाना
सौभर्यादौ प्रक्लृप्तां गतिमपवदितुं न क्षमं ब्रह्मसाम्यम्॥

विश्वास-प्रस्तुतिः - 20

20.देहानां यौगपद्ये बहुषु कथमणुर्धारकोऽस्त्वेष मुक्तः
चैतन्यद्वारतश्चेत् सकलमपि सदा धारयेद्व्याप्तबोधः।
मैवं मुक्तस्य शक्तिर्नियमितविषया त्विच्छया सर्वशक्तेः
प्राक्तादृग्योगशक्त्या बहुतनुभजने कर्मबन्धोऽप्यपेक्ष्यः॥

३४-तमाहोबिल-यतिः - 20
  1. देहानामित्यादि। देहानां यौगपद्ये– मुक्तपरिगृहीतानां देहानां बहीनामैककालिकत्वे। अणुः– अणुपरिमाणः। एष मुक्तः– विचार्यमाणोऽयं" मुक्तचेतनः। बहुषु– अनेकेषु शरीरेषु। कथं धारकोऽस्तु– कथं धारकस्स्यात्। नियाकत्वाञ्चास्य कथं भवदिति सिद्धम्। चैतन्यद्वारतश्चेत्– धर्मभूतज्ञानद्वारा नानादेहधारणनियमनादिकं करोतीति चेत्। व्याप्तबोधः– सकलवस्तुन्याप्तज्ञानकोऽयम्। सकलमपि– सर्वमपि जगत्। सदा– सर्वदा। धारयेत्– धर्तुं शक्नुयात्। सर्वमपि नियच्छेत्। एवञ्च जीवेश्वरविभागासिद्धिरिति भावः। मैवम्– एवं मा शङ्किष्ठाः। मुक्तस्य शक्तिस्तु सर्वशक्तेरिच्छया नियमितविषया– नहि व्याप्तिमात्रेण सर्वधारकत्वं स्यात्। कालस्यापि व्याप्तत्वेन सर्वधारकत्वप्रसङ्गात्। किन्तु शक्तिविशेषोदेव धारकत्वम्। नहि मुक्तस्याखिलजगत्धारणशक्तिसम्भवः। विद्याना तु मुक्तस्य शक्तिस्सर्वशक्तेरीश्वरस्येच्छया नियमितविषया । कैङ्कर्योपयिककतिपयदेहादिविषयताया व्यवस्थापितविषया। ’ जगद्व्यापारवर्जम् ’ इति सूत्रेणैव तच्छकेः क्वाचित्कत्वेन नियमनात्। प्राक्– बन्धदशायाम्। तादृग्योगशक्त्या– उपासनादिप्रतेश्वरदत्तयोगशक्त्या। बहुतनुभजने– सौभर्यादिन्यायेनानेकशरीरप्राप्तौ। कर्मबन्धोऽप्यपेक्ष्यः– न केवलं योगशक्त्या योगसिद्धानां स्वेषामनेकशरीरधारणाद्यदर्शनात्। अतोऽनेकशरीरधारणतन्मूलकसुखदुःखानुभवे मूलभूतकर्मसम्बन्धोऽपि कारणतया स्वीकार्यः। तथा च कर्मानुगृहीतज्ञानपरिपाकविशेषात् तादृशशक्तितर्योगसिद्धिरित्युच्यत इति भावः॥
कुमार-वरदः - 20
  1. अणोर्जीवस्य पुनरनेकशरीरपरिग्रहानुपपत्तिमभीधाय समाधत्ते- देहाना मिति।अयमत्र शब्दान्वयः— शरीराणां यौगपद्ये सति कथम णुर्जीवो मुक्तस्स्वयमनेकेषु शरीरेषु धारक स्स्यात्।अत्र धारक त्वकथनं नियामकत्वादेरप्युपलक्षणम्। चैतन्यद्वारतश्चे दितिधर्मभूतज्ञानद्वारेण देहधारणमाशङ्क्य मुक्तज्ञानस्य सकलार्थव्याप्तिमत्त्वेन सर्वधारकत्वमपि मुक्तस्य स्यात् तथा च जीवेश्वरविभागासिद्धिरित्याह- सकलमपी ति।अत्रोत्तरम्— मैव मिति।नहि व्याप्तिमात्रेण सर्वधारकत्वं स्यात्।तथा सतिकालस्यापि व्याप्तत्वेन सर्वधारकत्वप्रसङ्गात्।अपितु शक्तिविशेषादेव धारकत्वम्।नहि मुक्तस्यानेकधारकत्वानुकूला शक्तिरस्ति।अपितु नियमितविषया मुक्तस्य शक्तिः — ’ जगद्व्यापारवर्जम्’ इति सूत्रकारेण तच्छक्तेः क्वाचित्कत्वेन नियमनात्।यत्रापि मुक्तबुद्धेश्शक्तिरस्ति तत्रापि सर्वशक्ते रीश्वर स्येच्छयैव सा नियम्यत इत्याह— इच्छया सर्वशक्ते रिति।कथं तर्हि सौभर्यादेरमुक्तस्यानेकदेहपरिग्रहशक्तिरित्याशङ्क्याह- प्रागि ति। ताद्दग्योगशक्त्या —ईश्वरदत्तयोगशक्त्येत्यर्थः।न केवलं योगशक्त्या अनादिसिद्धकर्मपरिपाकोऽ -प्यत्र कारणमित्याह— कर्मबन्ध इति।कर्मानुगृहीतज्ञानपहरिपाकात् ताद्दशी शक्तिर्योगसिद्धिरित्युच्यत इत्यर्थः॥
मूलम् - 20

20.देहानां यौगपद्ये बहुषु कथमणुर्धारकोऽस्त्वेष मुक्तः
चैतन्यद्वारतश्चेत् सकलमपि सदा धारयेद्व्याप्तबोधः।
मैवं मुक्तस्य शक्तिर्नियमितविषया त्विच्छया सर्वशक्तेः
प्राक्तादृग्योगशक्त्या बहुतनुभजने कर्मबन्धोऽप्यपेक्ष्यः॥

विश्वास-प्रस्तुतिः - 21

21.शक्तिः क्षेत्रज्ञसंज्ञा मुनिभिरभिदधे वेष्टिता कर्मभिस्स्वैः
पुंसोऽनंशापि बुद्धिर्बहुविधविकृतिस्स्वीकृतैवं स चास्तु।
वालाग्रेत्यादिवाक्यात्तदयमणुरपि स्यादनन्तोऽपि मुक्तौ
न स्याज्जैनादिभङ्गे परिहृतविकृतेरैकरूप्यानपायात्॥

३४-तमाहोबिल-यतिः - 21
  1. शक्तिरित्यादि। क्षेत्रज्ञसंज्ञा शक्तिर्मुनिभिस्स्वैः कर्मभिर्वेष्ठिता अभिदधे– ’ विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ‘॥ इत्यादिषु शक्तिशब्दितेषु जगत्सृष्ट्युपयुक्तेषु भगवद्विशेषणेषु या क्षेत्रज्ञसंज्ञा द्वितीया जीवस्वरूपा शक्तितस्सा मुनिभिः पराशरादिभिः स्वैः पुण्यपापरूपैः कर्मभिर्वेष्टिता परिविष्टिता सङ्कुचितस्वरूपविकासा अभ्यधायि। तथा च यत्स्वरूपस्यैव कर्मवेष्टनकृतस्सङ्कोचस्तस्यैव कर्ममोक्षे विकासस्स्यात् किं धर्मभूतज्ञाने सङ्कोचविकासपरिकल्पनेन प्रमाणविरुद्धेनेति भावः। पुंसः– जीवस्य। बुद्धिः। अनंशापि– निरवयवापि। बहुविधविकृतिस्स्वीकृता– अवस्थाभेदेन स्मृत्यनुभूत्यादिनानाविकृतिशालिनी भवद्भिरङ्गीकृता खलु। एवं स चास्तु– एवं स जीवोऽपि बद्धदशायामणुर्मुक्तदशायां विभुश्च स्यात्। किमस्मिन्नर्थे प्रमाणमिति चेत् वालाग्रेत्यादिवाक्यात्– ’ वालग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवस्य विज्ञेयस्य चानन्त्याय कल्पते॥ ’ इति श्रुतिवाक्यादेव जीवस्वरूपस्यैव दशाभेदेनाणुत्वविभुत्वावगमात्। उक्तोऽर्थो निगम्यते– तदयमित्यादिना। तत् अयमणुरपि मुक्तौ अनन्तोऽपि स्यात्– तस्मादयं जीवो बद्धदशायामणुभूतोऽपिमुक्तिदशायां विभुश्च स्यात्। न स्यात्– एवं कदापि न सम्भवेत्। जैनादिभङ्गे परिहृतविकृतेरैकरूप्यानपायात्– ’ नैकस्मिन्नसम्भवात्। नच पर्यायादप्यविरोधो विकारादिभ्यः ’ इत्यादि जैनमतनिरासप्रकरणे जैनोक्तमशकमताङ्गादिसूक्ष्मस्थूलतत्तद्देहानुगुणपरिणामत्वनिरसनेन प्रतिक्षिप्तस्वरूपविकारस्य जीवस्य तत्रोक्ताभिरेव प्रमाणोपपत्तिभिर्निर्विकारत्वस्याधुनाप्यपायाभावात्। अयं भावः– आत्मनो निर्विकारत्वं प्रमाणप्रतिपन्नं बद्धदशायामणोस्तस्यैव मुक्तदशायामानन्त्यञ्च तेनैव प्रमाणेन प्रतिपन्नं द्वयोरपि प्रमाणयोरविरोधो वाच्यः, तत्र निर्विकारत्वश्रुतेरनन्यथानेयत्वात् धर्मभूतज्ञानस्य विकृतिमत्तया प्रत्यक्षश्रुतिस्मृत्यादिसिद्धत्वात् तत्सङ्कोचविकासाभ्यामेव उदाहृतानुदाहृतजीवसङ्कोचविकासपरवचनानामुपपत्तिर्युक्तेति॥
कुमार-वरदः - 21
  1. अत्र कश्चिच्चोदयति ‘बन्धदशायां सङ्कुचितस्य ज्ञानस्य मुक्तिदशायां विकासो भवद्भिरुच्यते, स तु सङ्कोचो विकासश्च जीवस्वरूपस्यैव कर्मभिरावेष्टनम्, कर्मनिर्मुक्तस्य तस्यैव विकासोऽपि स्यात्, किमनेन धर्मभूतज्ञाने सङ्कोचविकासपरिकल्पनेन प्रमाणविरुद्धेन’ इति । तदिदमाह - शक्तिरिति । ननु निरवयवत्वाज्जीवस्य कथं विकास इत्याशङ्क्य धर्मभूतज्ञानस्यापि तन्निरवयवत्वं समानमित्याह – पुंस इति ।यथा पुरुषस्यानंशापि बुद्धिरवस्थाभेदेन स्मृत्यनुभूत्यादिनानाविकृतिमती एवं जीवोऽपि बद्धदशायामणुः मुक्तदशायां तु विभुश्च स्यात् । अयं परिमाणभेदो मुक्तबद्धव्यवस्थया निरंशे भवदीयधर्मभूतज्ञानेऽप्यस्तीति भवतापि वक्तव्यमित्यर्थः । तदेतन्निगमयति – तदयमिति । तदिदं प्रतिक्षिपति - न स्यादिति । प्रतिक्षेपहेतुमाह - जैनादिभङ्ग इति । जैनाः खलु देहपरिमाणो जीवस्तदातदा परिणमत इति वदन्ति । तत्तु जीवस्य विकराभावाज्जैनाधिकरणे प्रतिक्षिप्तम् । अयमत्रान्वयः – जैनादिभङ्गे परिहृतविकृतेर्जीवस्यैकरूप्यानपायादिति आकारान्तरप्राप्तिविरहस्यानपायादिति । अयमर्थः – आत्मनो निर्विकारत्वं प्रमाणप्रतिपन्नम् बद्धदशायामणोस्तस्यैव मुक्तदशायामानन्त्यञ्च तेनैव प्रमाणेन प्रतिपन्नम् । द्वयोरपि प्रमाणयोरविरोधो वाच्यः । स चाविरुद्धस्स्वरूपविकाराभावाद् धर्मभूतज्ञाने श्रुतिप्रतिपन्नानन्त्यस्वीकाराच्च विषयभेदेन सिध्यति । ज्ञानस्य तु साक्षान्निर्विकारत्ववचनं नास्ति । प्रत्युत सविकारत्ववचनान्येव श्रूयन्ते । ज्ञानसङ्कोचविकासप्रतिपादकश्रुतिस्मृतीतिहासपुराणवचनानामानन्त्यात् । आत्मनि तिरोधानवचनं तु ज्ञानद्वारा यथा घनपटलेन तिरोहितो घर्मरश्मिरिति ॥
मूलम् - 21

21.शक्तिः क्षेत्रज्ञसंज्ञा मुनिभिरभिदधे वेष्टिता कर्मभिस्स्वैः
पुंसोऽनंशापि बुद्धिर्बहुविधविकृतिस्स्वीकृतैवं स चास्तु।
वालाग्रेत्यादिवाक्यात्तदयमणुरपि स्यादनन्तोऽपि मुक्तौ
न स्याज्जैनादिभङ्गे परिहृतविकृतेरैकरूप्यानपायात्॥

विश्वास-प्रस्तुतिः - 22

22.जीवस्यैकेकशो हि त्यजनत उदितो वृक्षशाखासु शोषः
तस्मादद्वारकं स्यादपगतवरणे मुख्यमानन्त्यमस्मिन् ।
मैवं शाखासु भोगाश्रयनियतिकरोपाधिनाशः प्रहाणं
क्षेत्रादिन्यायतोऽसावभिमतिविरहात् स्यादधीतो जहातिः॥

३४-तमाहोबिल-यतिः - 22
  1. जीवस्येत्यादि। जीवस्य– जीवात्मस्वरूपस्य। एकैकशः– एकामेकां शाखामिति प्रकारेण। त्यजनतः– सम्बन्धनिवर्तनात्॥ वृक्षशाखासु– वृक्षसम्बन्धिनीषु शाखासु। शोषः– शुष्कीभवनम्। उदितो हि— छान्दोग्ये षष्ठप्रपाठके एकादशखण्डे ’ अस्य सोम्य महतो वृक्षस्य ’ इत्यारभ्य ‘अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयं जहात्यथ सा शुष्यति सर्वं जहाति सर्वं शुष्यति’ इत्यादौ प्रत्यपादि खलु । तस्मात्– जीवस्वरूपस्यैव सङ्कोचविकासयोः प्रतीयमानत्वात्। अपगतवरणे– निवृत्ताविद्याकृतसङ्कोचे। अस्मिन्– मुक्ते। अद्वारकं मुख्यमानन्त्यं स्यात्– धर्मभूतज्ञानद्वारकत्वं विना साक्षात्स्वरूपत एव मुख्यं विभुत्वरूपमानन्त्यमस्तु। मैवम्– एवं मा शङ्किष्ठाः। शाखासु प्रहाणम्– शाखासु विषये जीवो जहातीत्युक्तं त्यागात्मकं प्रहाणम्। भोगाश्रयनियतिकरोपाधिनाशः– सुखदुःखानुभवरूपस्य भोगस्य आश्रयनियतिकरः अवच्छेदकशरीरांशव्यवस्थाहेतुः इदं शरीरमास्थायेदं" भवतानुभाव्यमिति व्यवस्थाहेतुरित्यर्थः, यः उपाधिः पुण्यपापरूपं कर्म तस्य नाशस्तदात्मकम्। नतु जीवस्वरूपसम्बन्धहानमित्यर्थः। हानस्य कर्मनाशरूपत्वे जीवो जहातीति जीवकर्तृकत्वं कथं सम्भवतीत्यत्राह– क्षेत्रादीत्यादि। अधीतोऽसौ जहातिः– उदाहृतश्रुत्याम्नातोऽसौ पूर्वमुपात्तो जहातिस्त्यागार्थक ओहाङ्धातुः। क्षेत्रादिन्यायतः अभिमतिविरहात्स्यात्– क्षेत्रं जहाति हस्तिनं जहाति पशून्गृहं" जहातीत्यादौ क्षेत्रादिस्वरूपत्यागासम्भवात् स्वीयत्वाभिमाननिवृत्तिरेव हि जहातीत्यनेनोच्यते तन्न्यायेन स्वभोगायतनत्वाभिमाननिवृत्तिपरत्वादुपपन्नो भवेदित्यर्थः। कर्मनाशकार्यभूताभिमानविशेषात्मकधर्मभूतज्ञानसम्बन्धत्यागरूप्तवात् प्रहाणस्य जीवकर्तृकत्वसम्भव इति भावः॥
कुमार-वरदः - 22
  1. अत्र पुनश्चोदयति— जीवस्ये ति।वृक्षेषु सर्वास्वपि शाखासु व्याप्त्या वर्तमानो जीवः काश्चन शाखा जहाति कासु चिच्छाखासु वर्तते, यत्र हानं तत्र शुष्कीभवति वृश्रः यत्र पुनरहानं तत्रोत्तरोत्तरं शाखावृद्धिरपि द्दश्यते तेन जीवस्वरूपस्य प्रहाणप्रहाणयोर्दर्शनात् स्वरूपपरिणामोऽस्तीति मन्तव्यम्। तदिदं निगमयति- तस्मा दिति।एवमुपपादनात्।आवरणाभावे जीवे ’ स चानन्त्याय कल्पते’ इत्यधीत मानन्त्यं" न धर्मभूतज्ञानद्वराकम् अपि त्वद्वारक मेव।नेत्याह- मैव मिति।तदेवोपपादयति- शाखा स्विति।जीवस्य शाखासु प्रहाणं नाम न स्वरूपप्रहाणम्, अपितु तासु तासु भोगाश्रय त्वोपपादक- पुण्यपापविरतिरेव ततो न जीवस्य स्वरूपविकारः।अस्मिन्नर्थे द्दष्टान्तमप्याह— क्षेत्रादिन्ययत इति।यथा क्षेत्रं परिगृह्माति जहातीत्यत्र क्षेत्रे न स्वरूपव्याप्तिर्जीवस्य परिग्रहः, नापि स्वरूपेण तद्विमोचनं हानम्, अपि तु जीवभोगसाधनत्वोपपादकधर्माधर्मपरिग्रहः क्षेत्रस्यापि परिग्रहः, तत्प्रहाणञ्च क्षेत्रप्रहाममिति। अभिमतिविरहा दिति-उपाधिनिमित्ताभिमानविशेषविरहादित्यर्थः।अयमर्थः-’ वासांसि जीर्णानि यथा विहाय’ इत्यादिषु देहस्य हानं परिग्रहणञ्चाभिधीयमानं कर्माधीनाभिमानविशेषमात्रम्, नपुनस्स्वरूपप्राप्तिर्नापि स्वरूपवियोगः तेन जीवस्वरूपविकारशङ्का नाङ्कुरति॥
मूलम् - 22

22.जीवस्यैकेकशो हि त्यजनत उदितो वृक्षशाखासु शोषः
तस्मादद्वारकं स्यादपगतवरणे मुख्यमानन्त्यमस्मिन् ।
मैवं शाखासु भोगाश्रयनियतिकरोपाधिनाशः प्रहाणं
क्षेत्रादिन्यायतोऽसावभिमतिविरहात् स्यादधीतो जहातिः॥

विश्वास-प्रस्तुतिः - 23

23.एको नैकः परस्मात् पृथगपृथगपि स्वस्वरूपेण मुक्तः
स्वाभीष्टाशेषभोक्ता स्वयमिति पृथुकक्षीबचोद्ये भ्रमन्ति।
तेऽन्वीक्ष्य स्वोक्तिबाधं श्रुतिशतविहतिं तत्तदुक्त्यान्यपर्यात्
जैनावष्टम्भदृप्यन्मतिकलहमुचस्सत्पथं संश्रयन्तु॥

३४-तमाहोबिल-यतिः - 23
  1. एको नैक इत्यादि। मुक्तः– मुक्तचेतनः। स्वस्वरूपेण– नतु किञ्चिद्द्वारा। एकोनैकः– भिन्नश्चाभिन्नश्च। सः। परस्मात्– परमात्मनः। पृथगपृथगपि– पृथग्भूतोऽपृथग्भूतश्च। स्वयम्– स्वतन्त्र एव सन्। स्वाभीष्टाशेषभोक्ता– स्वाभिमताशेषभोगवांश्च। इति– इत्थंरूपे। पृथकक्षीबचोद्ये– बालवञ्चकचाटूक्तौ। ये इति पदमध्याहार्यम्। उपरि ते इत्युक्त्या सिद्धं वा। भ्रमन्ति– भ्रमणं प्राप्नुवन्ति। नतु तद्दोषचिन्तनेन तदुत्तरणं प्राप्नुवन्ति। ते– ते चेतनाः। स्वोत्रिबाधम्– स्वोक्त्योरेव पूर्वोत्तरयोः परस्परबाधम्। श्रुतिशतविहतिम्– जीवपरयोस्स्वरूपभेदप्रतिपादकानन्यथासिद्धानेकश्रुतिभिस्स्वोक्तार्थानां बाधितत्वञ्च। अन्वीक्ष्य– सम्यक्परामृश्य। तत्तदुक्त्यान्यपर्यात्– तत्तदुक्तीनां जीवैक्योक्तोनां जीवब्रह्मैक्योक्तीनां ब्रह्माचिदैक्योक्तीनाञ्च आन्यपर्यात्। जीवैक्योक्तीनां साजात्परत्वरूपादन्यपर्यात् जीवब्रह्मैक्योक्तीनां ज्ञानान्दरूपत्वशरीरशरीरिभावादिपरत्वरूपादन्यपर्या अचिद्ब्रह्मैक्योक्तीनां विशिष्टैक्योपपादनपरत्वरूपदान्यपर्याच्च। जैनावष्टम्भद्दप्यन्मतिकलहमुचः– भेदाभेदप्रतिपानमूलपुरुषभूतजैनमतावलम्बनेन द्दप्यतां दर्पयुक्तानां भेदाभेदवादिनामन्येषामपि जैनगन्धिवेदान्तिनामन्योन्यबुद्धिभेदकृतस्पर्धा मुक्त्वा। सत्पथम्– ताद्दशदोषविदूरतया सुभगतममस्मद्दर्शितं सन्मार्गम्। संश्रयन्तु– आश्रित्य सुख्यन्तु॥
कुमार-वरदः - 23
  1. मुक्तावस्थायां भेदाभेदवादिनां स्ववचनविरोधात् प्रमाणविरोधाच्च ते जैनमतवद् व्याहतं पक्षं परित्यज्य व्याघातदोशविधुरं सन्मार्गमेव भजन्त्वित्याह- एक इति।अयमर्थः—अस्मत्पक्षे व्याघातप्रमाण -विरोधशङ्काभावात् स एव सत्पथः अपरे त्वसत्पथा इति।शब्दान्वयस्तु—एको नैको भिन्नश्चाभिन्नश्च परस्मात्पृथगपृथगपि मुक्तो जीवः स्वस्वरूपेण तथा परमात्मणः पृथक्त्वापृथक्त्वस्वरूपेण स्वाभीष्टाशेषभोक्ता स्वयं भवतीति पृथकक्षीपवद् बालोन्मत्तवद् ये भ्रमन्ति।ते स्वोक्तिबाधं एकश्चानेकश्चपरस्मात्पृथगिति स्ववचनविरोधं ’ पृथगात्मानं" प्रेरितारञ्च’ इत्यादि श्रुतिशतविहतिं तत्तदुक्तयान्यपर्यं भेदाभेदप्रतिपादकश्रुतीनामन्यपरत्वं जीवानामन्योन्यैक्यप्रतिपादनं" साजात्यात्, जीवब्रह्मणोरन्योन्यैक्यप्रतिपादनं तु ज्ञानानन्दादिरूपेण साजात्यात् शरीरात्मभावप्रतिपादनेन ब्रह्मात्मकत्वाभिप्रायाच्च ्चिद्ब्रह्ममोरैक्यप्रतिपादनं विशिष्टैक्यादित्यादितात्पर्यमालोच्य जैनावष्टम्भेन द्दप्यन्मतिकलहं मुक्तवा सन्मार्गमेव संश्रवन्त्वि ति।अयमर्थः ये भेदाभेदवादिनः कर्ममीमांसकाः, ये च तन्मतानुसारिणो भेदाभेदमाश्रयन्ते ब्रह्ममीमांसकाः।उभयेऽपि जैनगान्धिमीमांसकाः।अतो जैनमतानुसारं विहाय ते सन्मार्गमेव समाश्रयन्त्विति ’ भोक्ता भोग्यं प्रेरितारम्’ इति तत्त्वत्रयस्य स्वरूपभेदाङ्गीकारेण ’ सर्वं" प्रोक्तं त्रिविधं ब्रह्ममेतत्’ इति विशिष्टैक्यानुसन्धानमेव सन्मार्गः, तमेव मार्गं परिगृह्णन्त्विति॥
मूलम् - 23

23.एको नैकः परस्मात् पृथगपृथगपि स्वस्वरूपेण मुक्तः
स्वाभीष्टाशेषभोक्ता स्वयमिति पृथुकक्षीबचोद्ये भ्रमन्ति।
तेऽन्वीक्ष्य स्वोक्तिबाधं श्रुतिशतविहतिं तत्तदुक्त्यान्यपर्यात्
जैनावष्टम्भदृप्यन्मतिकलहमुचस्सत्पथं संश्रयन्तु॥

विश्वास-प्रस्तुतिः - 24
  1. सर्वं संकल्पमात्राल्लभत इति समाम्नायते सूत्रितञ्च
    स्वेच्छातो देहयोगाद्यनियतिकथनं स्यादतः पिष्टपेषः ।
    तन्नान्योन्योपरुद्धश्रुतिगतिनियतिः कामतोऽनेकदेह-
    स्वीकारप्रक्रियेत्याद्यनियतिकथने सूत्रकाराभिसन्धेः ॥
३४-तमाहोबिल-यतिः - 24
  1. सर्वं सङ्कल्पमात्रादित्यादि। सर्वं सङ्कल्पमात्रात् लभत इति समाम्नायते सूत्रितञ्च — सर्वमप्यभिमतं मुक्तस्सङ्कल्पमात्रात् प्रयत्नादिकं विना सङ्कल्पमात्रादेव लभते प्राप्नोतीति समाम्नायते ’ स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति ’ इत्यादि श्रुत्या प्रतिपाद्यते ’ सङ्कल्पादेव तच्छ्रूतेः ’ इति सूत्रेण चैवं प्रत्यपादि। अतः– मुक्तस्य सङ्कल्पादेव सर्वं" सिध्यतीति पूर्वाधिकरण एवोक्तत्वात्। स्वेच्छातः– स्वेच्छया। देहयोगाद्यनियतिकथनम्– देहपरिग्रहतदपरिग्रहानैयत्यप्रतिपादनम्। पिष्ठपेषस्स्यात्– पिष्टस्य पुनः पेषणमिव कृतकरणरूपमेव स्यात्। निष्फलमेव भवेतित्यर्थः। तन्न– तथाशङ्कनं न युक्तम्। अन्योन्योपरुद्धश्रुतिगतिनियतिः– अन्योन्यं परस्परं उपरुद्धयोर्विरुद्धयोः श्रुत्योर्मुक्तस्याशरीरत्वसशरीरत्वप्रतिपादिकयोर्गतिनियतिः कर्मकृतदेहाभावाकर्मकृतदेहसद्भावरूपविषयव्यवस्था। या कर्तव्या तस्यामिति पदत्रयमध्याहार्यम्। कामतोऽनेकदेहस्वीकारप्रक्रियेत्याद्यनियतिकथने– स्वेच्छयानेकदेहपरिग्रहस्य ये प्रक्रिये प्रकारौ कदाचित्स्वपरिकल्पितदेहपरिग्रहः, कदाचित्परमपुरुषपरिकल्पितदेहपरिग्रह इत्येवंरूपौ इति एतौ प्रकारौ आदिर्यस्य स्वेच्छाकृतदेहपरिग्रहप्राकरदेहपरिग्रहाभावात्मकद्वयस्य तत् अनेकदेहस्वीकारप्रक्रियेत्यादि। तद्गुणसंविज्ञानः। तस्यानियतिः कदाचिदिच्छयानेकदेहपरिग्रहः कदाचिदिच्छया तदपरिग्रह इत्येवंरूपा तस्याः कथने प्रतिपादनेच। सूत्रकाराभिसन्धेः– सूत्रकारस्य वायसस्य अभिसन्धेस्तात्पर्यस्य विद्यमानत्वादित्यर्थः। अतोऽधिकार्थप्रतिपादनान्न पौनरूक्त्यमिति भावः। अत्रोत्तरार्धस्य चिन्तामणिर्विलिख्ये। तन्नेति। तदेवोपपादयति– अन्योन्येति। अयमर्थः– यदि पूर्वोक्तमेवात्राप्युक्तं" स्यात् तदा हि पिष्टपेषणन्यायः, पूर्वं हि सङ्कल्पादेव तच्छ्रूतेरित्यत्र प्रयत्ननिरपेक्षं स्वसङ्कल्पादेव देहेन्द्रियादिकं भवतीत्येतावन्मात्रमुक्तम्, अत्र पुनः कर्माधीनदेहाभावं कश्चिदाह कर्मानधीनदेहसद्भावमपरस्त्वाह। अस्माभिस्तु सशोरोरत्वाशरीरत्वश्रुत्योर्विषयनियमोऽभिधीयत इत्ययमधिकोऽर्थः। अर्थान्तरमप्यधिकमाह– कामत इति। सङ्कल्पादेवानेकदेहस्वीकारे कदाचित्स्वपरिकल्पितदेहपरिग्रहः कदाचिच्च परमपुरुषपरिकल्पितदेहपरिग्रह इति देहपरिग्रहनियतिकथने सूत्रकाराभिसन्धेर्विद्यमानत्वात् अधिकार्थोपदेशोऽस्तीति न पौनरुक्त्यप्रसङ्गः। अत्रानियतिकथनवचनं समनन्तरोक्तनियतिकथनस्याप्युपलक्षणम्। इति । एतद्ग्रन्थपर्योलचनया ’ तन्वभावे सन्ध्यवदुपपत्तेः भावे जाग्रद्वत् ’ इति सूत्रद्वयोपात्तकादाचित्कस्वसङ्कल्पितदेहपरिग्रहाकादाचित्कपरमपुरुषसङ्कल्पितदेहपरिग्रहरूपदहपरिग्राहानियतिकथन एव सूत्रकारतात्पर्यमिति भानात्। कामतोऽनेकदेहस्वीकारप्रक्रियेत्याद्यनितिकथने इत्यस्य एवं वार्थः। कामतस्स्वसङ्कल्पमात्रेण सिद्धा या अनेतदेहस्वीकारप्रक्रिया इति इयं आदिर्यस्य स्वसङ्कल्पितदेहपरिग्रहपरमपुरुसङ्कल्पितदेहपरिग्रहात्मकद्वयस्य तत् कामतोऽनेकदेहस्वीकारप्रक्रियेत्यादि तस्यानियतिकथन इति योजना। या कर्तव्या अन्योन्योपरुद्धश्रुतिगतिनियतिः तस्यां कामतोऽनेकदेहस्वीकाराप्रक्रियेत्याद्यनियतिकथने च सूत्रकाराभिसन्धेरित्यन्वयः। चिन्तामण्युक्तप्रक्रियया अनियतिकथन इत्यस्यैवान्योन्योपरुद्धश्रुतिगतिनियति कथनोपलक्षकत्वे अन्योन्येत्यादिपदस्य नैरर्थक्यं भवेत्। अपलक्षकत्वस्य लक्षणया बोधकत्वरूपत्वेन तत्तात्पर्यग्राहकत्वं वा कल्पनीयम्॥
कुमार-वरदः - 24
  1. अत्र पोनरुक्त्यमाशङ्क्य परिहरति— सर्व मिति।’ स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति’ इति श्रुत्यक्तम्।तदेव ’ सङ्कल्पादेव तच्छ्रुतेः’ इति सूत्रकारेणाप्युपपादितं पूर्वमेव।तदेवाधुनापि स्वेच्छातो देहयोगाद्यनियतिरिति पुनः कथ्यते।तेनायं" पिष्टपेषस्स्या दिति चोदकाभिप्रायः।अत्र पिष्टपेषणन्यायो नेत्याह— तन्ने ति।तदेवोपपादयति— अन्योन्ये ति।अयमर्थः—यदि पूर्वोक्तमेवात्राप्युक्तं" स्यात् तदा हि पिष्टपेषन्यायः।पूर्वं हि ’ सङ्कल्पादेव तच्छ्रुतेः’ इत्यत्र प्रयत्ननिरपेक्षं स्वसङ्कल्पादेव देहेन्द्रियादिकं भवतीत्येतावन्मात्रमुक्तम्।अत्र पुनः कर्माधीनदेराभावे कश्चिदाह। कर्मानधीनदेहसद्भावमपरस्त्वाह।अस्माभिस्तु सशरीरत्वाशरीरत्वश्रुत्योर्विषयनियमोऽभिधीयत इत्ययमधिकोऽर्थः।अर्थान्तरमप्यधिकमाह- कामत इति।सङ्कल्पादेवानेकदेरस्वीकारे कदाचित्स्वपरिकल्पितदेहपरिग्रहः कदाचिच्च परमपुरुषपरिकल्पितदेहपरिग्रह इति देरपरिग्रहा- नियतिकथने सूत्रकाराभिसन्धे र्विद्यमानत्वादधिकार्थोपदेशोऽस्तीति न पौनरूक्त्यप्रसङ्गः। अत्रा नियतिकथनवचनं" समनन्तरोक्तनियतिकथनस्याप्युपलक्षणम्॥
मूलम् - 24
  1. सर्वं संकल्पमात्राल्लभत इति समाम्नायते सूत्रितञ्च
    स्वेच्छातो देहयोगाद्यनियतिकथनं स्यादतः पिष्टपेषः ।
    तन्नान्योन्योपरुद्धश्रुतिगतिनियतिः कामतोऽनेकदेह-
    स्वीकारप्रक्रियेत्याद्यनियतिकथने सूत्रकाराभिसन्धेः ॥