34 संकल्पाधिकरणम्

विश्वास-प्रस्तुतिः - 13

13.धात्रादेरप्यपेक्ष्यो ह्युपकरणगणस्सत्यसङ्कल्पवृत्तेः
मुक्तस्याप्येवमेवास्त्विति यदि वितथं तद्विकल्पासहत्वात्।
इष्टा द्रव्याद्यपेक्षा सुकृततदितरापेक्षणं तत्र दुस्स्थं
न स्यादिच्छाविघातस्त्वनुपधिकतया देववाञ्छैकरस्यात्॥

३४-तमाहोबिल-यतिः - 13
  1. धात्रादेरपीत्यादि। सत्यसङ्कल्पवृत्तेः –अप्रतिहतसङ्कल्पव्यापारस्य। धात्रादेरपि — चतुर्मुखादेरपि। उपकरणगणोऽपेक्ष्यो हि — किञ्चित्कार्यकरणे उपकारकवर्गस्स्वीकार्य एव दृश्यते हि। एवमेव – तान्यायेनैव।मुक्तस्यापि — सत्यसङ्कल्पस्यापि मुक्तस्य। अस्तु – उपकरणवर्गोऽपेक्षणीयोऽस्तु।तथा च उपकरणापेक्षायाममुक्ततुल्यतैव स्यादिति भावः।इति यदि – इति शङ्क्यते चेत्।तत् विकल्पासहत्वात् वितथम् —सृज्यवस्त्वपेक्षा स्यादिति वा कर्मापेक्षा स्यादिति वा शङ्कितुरभिप्राय इति विकल्पे द्वयोरपि शिरसोरुत्तरदशायमनवस्थानात् तच्छङ्कनं विफलम्। तदेवोच्यते उपरि द्रव्याद्येपाक्षा इष्टा –सृज्यद्रव्यापेक्षास्त्विति चेत् भवदभिमतं तस्या इष्टवात् सिद्धसाध्नमित्यर्थः। सुकृततदितरीपेक्षणं तत्र दुस्स्थम् – पुण्यपापरूपकर्मापेक्षणं स्यादित्यापाघ्ते चेत् ताद्दशकर्मापेक्षणं सर्वकर्मविनिर्मुक्तयावगते मुक्ते धर्मिग्रहकमानविरूद्धत्वेन स्थातुं न शक्नोति। तथा सति ईश्वरस्यापि जगत्सृष्टचादौ कर्मापेक्षा स्यात् तत्र धर्मिग्राहकमानविरोधात्परिहारस्तु ताद्दशे मुक्तेऽपि तुल्य इति भावः। परतन्त्रत्वान्मुक्तस्य कदाचिदिच्छाविघातसम्भवेनासत्यसङ्कल्पत्वं स्यादिति चेत् तत्र इच्छाविघातमूलं कर्म चेत् तत् तस्मिन्न सम्भवि ईश्वरेच्छा चेत् सा च नास्तीत्युच्यते –न स्यादित्यादिना। अनुपधिकतया – कर्माधुपाधिशून्यतया। देववाञ्छैकरस्यात् — भगवदनभिमतवाच्छानुदयेन भगबद्वाच्छैकरस्यात् भगवदिच्छया विधातासम्भवाञ्च। इच्छाविघातो नं स्यात्तु – स्ववाञ्छाविघातो न भवेदेव। अतो मुक्तस्य सत्यसङ्कल्पत्वं सुप्रतिष्ठितमेवेत्यभिप्रायः॥
कुमार-वरदः - 13
  1. अत्र सङ्गतिर्भाष्ये ’’ मुक्तः परं ब्रह्मोपसम्पद्य ज्ञानस्वरूपोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वर्यन्त- गुणक आविर्भवतीत्युक्तम्।तमधिकृत्य तस्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहाराश्श्रुयन्ते ’ स तत्र पर्येति जक्षत्क्रीडन् रममाणस्स्रीभिर्वा यानैर्वा ज्ञातिभिर्वा’’ इति।’ तदर्थ विचारस्तु-किमस्य ज्ञात्यादिप्राप्तिः प्रयत्नान्तरसापेक्षा उत सङ्कल्पमात्रमूला।किमस्य सत्यसङ्कल्पत्वं राजादीनामिव भवति उत परमपुरुषस्येव।किं सङ्कल्पा देवेत्यवधारणं राजादितुल्यतां निवर्तयितुं प्रभवति नेति। किमीश्वरसङ्कल्पवन्मुक्तात्मसङ्कल्पस्यामोधत्वं" सम्भवति नेति।किमस्य जक्षणादयो व्यापाराः पुण्यपापरूपतया बन्धका भवतन्ति नेति।अत्र मुक्तस्य सोपकरणस्यैव तत्तत्कार्यकरत्वं स्यात् तथाचोपकरणापेक्षायां तस्य संसारित्वमेव स्यादित्याशङ्क्य परिहरति- धात्रादे रित्यादिना।अयमत्रान्वयः- सत्यसङ्कल्पवृत्तेर्धात्रादेरप्युपकरणा पेक्षा विद्यते। एवं मुक्तस्यापि कार्यकरणेषूणकरणगणापेक्षा स्यात्। तथा चासावमुक्तादविशिष्टस्स्यादिति।तमिममाशङ्कितमर्थं विकल्पासहत्वेन दूषयति- वितथ मिति।अत्रायं विकल्पः किं द्रव्याद्यपेक्षामात्रमेव भवता सापेक्षत्वमुच्यते किं वा पुण्यपापापेक्षा न तावदाद्यः सिद्धसाधनत्वादित्याह- इष्टे ति।नाप्युत्तर इत्याहत- सुकृते ति।पुण्यपापविनिर्मुक्तो हि मुक्तः, तस्य पुण्यपापापेक्षाणमस्तीति वक्तुमेव न शक्यते।यथा न्यायविदां मते चेतनकर्तृत्वे कर्मापेक्षास्ति नपुनरीश्वरकर्तृत्वे एवमत्रापि मुक्तानां कर्तृत्वे कर्मापेक्षास्तीति विरुद्धमेव।ईश्वरस्य त्वीश्वरत्वदेव कर्मापेक्षा नास्तीतिचेति मुक्तस्यापि मुक्तत्वादेव सा न स्यात् द्वयोरप्यकर्मवश्यत्वेन प्रमाणसिद्धत्वादिति भावः।ननु कर्तृत्वान्मुक्तस्येच्छाविधातः कदाचित्स्यात्; न स्यात् केन कर्मणा विधातसम्भवः।तर्हीश्वरेच्छया विधातस्स्यादित्याशङ्क्याह— देवे ति।मुक्तः खलु ’ इमाल्ँलोकान् कामान्नी कामरूप्यनुसञ्चरन्’ इति भगवदनुवर्तकत्वेनैव श्रूयते।अतस्तस्य भगवद्वाञ्छयेच्छाविधातस्शङ्कितुमपि न शक्यतइत्यर्थः॥
मूलम् - 13

13.धात्रादेरप्यपेक्ष्यो ह्युपकरणगणस्सत्यसङ्कल्पवृत्तेः
मुक्तस्याप्येवमेवास्त्विति यदि वितथं तद्विकल्पासहत्वात्।
इष्टा द्रव्याद्यपेक्षा सुकृततदितरापेक्षणं तत्र दुस्स्थं
न स्यादिच्छाविघातस्त्वनुपधिकतया देववाञ्छैकरस्यात्॥

विश्वास-प्रस्तुतिः - 14

14.विश्वस्यैतस्य जन्मस्थितिलयरचना विश्वकर्तुर्यथा स्यात्
इच्छासन्तानभेदान्नियतिरिह तथा नित्यमुक्तक्रियाणाम्।
तस्यानुच्छेदवृत्त्या प्रतिकलभिदुरास्ताश्च तादृक्प्रवाहाः
तद्बुद्धेरापरोक्ष्यं त्वनिशमभिदुरं वर्तते ब्रह्मधीवत्॥

३४-तमाहोबिल-यतिः - 14
  1. विश्वस्येत्यादि। एतस्य विश्वस्य – परिद्दश्यमानस्य जगतः। जन्मस्थितिलयरचना – सृष्टिस्थितिलयविधानम्। विश्वकर्तुः –ईश्वरस्य। इच्छासन्तानभेदात् — इच्छासन्तानविशेषात्। यथा स्यात् – द्विपरार्धावसानपर्यन्तस्थितिस्तदा नियमेन प्रलयः, पुनास्सिसृक्षायां" यथापूर्वमेव तत्त्वसमष्टयण्डाण्डाधिपादिसृष्टिवेदप्रवर्तनादिकञ्च यथा परमात्मेच्छाविशेषाद्वयवतिष्ठते। तथा – तस्मादेवेश्वरेच्छाविशेषात्। इह –मोक्ष्स्थाने। नित्यमुक्तक्रियाणाम् – अनन्तगरुडादयो ये नित्याः, विधानुष्टानेन निवृत्तसंसाराश्च ये मुक्तास्तेषां याः" क्रियाः कैङ्कर्यविशेषाः, अनन्तस्य निवासश्य्या सनादिरूपेणावस्थाय भगत्वपरिचरणं गरुडस्य वाहनध्वजादिरूपेणावस्थाय परिचरणमित्येवं" नित्यानां कैङ्कर्यविशेषाः मुक्तानां तु भगवदनुभवपूर्वकभगवदभिमततत्तत्कैङ्कर्यविशेषा एतेषाम्। नियतिः —व्यवस्था। भवतीति शेषः।तस्य –इच्छासन्तान्स्य। अनुच्छेदवृत्तया — अविच्छेदेनोपरितनकालेषु सर्वेष्वनुवर्तवात्। प्रतिकलभिदुराः – प्रतिक्षणं भिन्नाः। ताश्च – नित्यमुक्तक्रियाश्च। ताद्दक्प्रवाहाः – गतावस्थासुसद्दशानन्तरयावत्कालानुवृत्तावस्थापरम्परावत्यो भवन्ति। भगवदिच्छाया नित्यानुवृत्त्या नित्यमुक्तनियतकैङ्कर्यप्रवाहोऽयनुवर्तत इति भावः। तद्वुद्धेः – मुक्तज्ञानस्येव। आपरोक्ष्यम् – प्रंत्यक्षरूपत्वम्। अभिदुरं" तु – एकरूपमेव। ब्रह्मधीवत् – बह्मसमवेत ज्ञानस्येव। अनिशम् — सततमेव। वर्तते — इन्द्रियाजन्यस्यापीश्वरज्ञानस्य यथा प्रभाणबलान्नित्यापरोक्षत्वम् एवं मुक्तज्ञानस्यण्यपरोक्षत्वं प्रमाणबलादङ्गीकार्यमिति भावः। अत्रचिन्तामणिः — विश्वस्येति। अयमत्रान्वयः। एतस्य विश्वस्य जन्मस्थितिलयरचना विश्वकर्तुरीश्वरस्य यथा स्यात् एवमिच्छासन्तानभेदान्नित्यमुक्तक्रियाणामपि नियतिस्स्यात्। ननु इच्छासन्तानस्य कार्यत्वेनोच्छेदस्स्यात् यथा प्रदीपार्चिस्सन्तानस्य तथा च जक्षत्कीडन्रममाणः इत्याधुक्तो मुक्तक्रियासन्तानोऽयुच्छिघेतेत्याशङ्कय परिहरति — तस्येति। इच्छासन्तानस्यानुच्छेदो हि नच पुनरावर्तते इत्यादिश्रुतिसिद्धत्वादपलपितुमेव न शक्यते अन्यथा पूर्वावधिमत उतरावध्यवश्यम्भावकथने तद्वदेवोत्तरावधिमतः पूर्वावधिरपि स्यात् तथा च संसारस्यानादित्वमेव न सिध्यति। प्रमाणसिद्धत्वात् तत्परित्यक्तुं" न शक्यत इति चेत् तर्ह्यपवर्गस्यापि निरतिशयानन्दानुभवसन्तानरूपस्योत्तरावधिरत्यन्तप्रमाणविरुद्धत्वात् वक्तुमेव न शक्यते इति समस्समाधिः।ननु मुक्तबुद्धेः" पारोक्ष्यमापरोक्ष्यं वा बन्ध एव स्यात् आपरोक्ष्यमपि न घटते इन्द्रियजन्यज्ञानस्य ह्यापरोक्ष्यं मुक्तस्य तु शरीरेन्द्रियादिकं न विद्यते चेत् तन्मूलभूतं कर्मापि स्यात् तथा च पुनस्संसारएव स्यात् तथा च मुक्तज्ञानस्यापरोक्ष्यमपि न सम्भवतीत्यत्राह– तद्बुद्धेरित्यादि। यथा खल्वीश्वरबुद्धेरापरोक्ष्यं तद्वज्जीवबुद्धेरप्यापरोक्ष्यं प्राप्तं तदेतावन्तं कालं कर्मणा सङ्कुचितम् अधुना प्रतिबन्धके निवृत्ते स्वाभाविकं स्यादिति इति॥
कुमार-वरदः - 14
  1. मुक्तस्य सर्ववस्तुसाक्षात्कारे सकलकार्यकरणे चेश्वरमेव द्दष्टान्तयित्वा दुर्बलबुद्धोन् प्रत्याययति- विश्वस्ये ति।अयमत्रान्वयः— एतस्य विश्वस्य जन्मस्थितिलयरचना विश्वकर्तु रीश्वरस्य यथा स्यात् एव मिच्छासन्तानभेदान्नित्यमुक्तक्रियाणा मपि नियतिस्स्यात् ।नन्विच्छासन्तानस्य कार्यत्वेनोच्छेदस्स्याद् यथा प्रदीपार्चिस्सन्तानस्य, तथा च ’ जक्षत्क्रीडन् रममाणः’ इत्याद्युक्तो मुक्तिक्रियासन्तानोप्युच्छिद्येतेत्या- -शङ्क्य परिहरति- तस्ये ति।इच्छासन्तानस्यानुच्छेदो हि ’ नच पुनरावर्तते’ इत्यादिश्रुतिसिद्धत्वादपलपितु- -मेव न शकयते।अन्यथा पूर्वावधिमत उत्तरावध्यवश्यम्भावकथने तद्वदेवोत्तरावधिमतः कर्मसन्तानस्य पूर्वावधिरपि स्यात्।तथा च संसारस्यानादित्वमेव न सिध्यति।प्रमाणसिद्धत्वात् तत्परित्युक्तं वक्तुमेव न शक्यत इति समस्समाधिः।ननु मुक्तबुद्धेः" पारोक्ष्यमापरोक्ष्यं वा पारोक्ष्ये बन्ध एव स्यात् आपरोक्ष्यमपि न घटते इन्द्रियजन्यज्ञानस्य ह्यापरोक्ष्यम् मुक्तस्य तु शरीरेन्द्रियादिकं न विद्यते विद्यते चेत् तन्मूलभूतं कर्मापि स्यात् तथाच पुनस्संसार एव स्यात् तथा च मुक्तज्ञानस्यापरोक्ष्यमपि न सम्भवतीत्यत्राह— तद्बुद्धे रित्यादि।यथा खल्वीश्वरबुद्धेरीपरोक्ष्यं तद्वज्जीवबुद्धेरप्या परोक्ष्यं प्राप्तम्।तदेतावन्तं कालं कर्मणा सङ्कुचितम्।अधुना प्रतिबन्धकं निवृत्ते स्वाभाविकं स्यादिति।
मूलम् - 14

14.विश्वस्यैतस्य जन्मस्थितिलयरचना विश्वकर्तुर्यथा स्यात्
इच्छासन्तानभेदान्नियतिरिह तथा नित्यमुक्तक्रियाणाम्।
तस्यानुच्छेदवृत्त्या प्रतिकलभिदुरास्ताश्च तादृक्प्रवाहाः
तद्बुद्धेरापरोक्ष्यं त्वनिशमभिदुरं वर्तते ब्रह्मधीवत्॥

विश्वास-प्रस्तुतिः - 15

15.प्रत्यूहार्हः प्रजेशप्रभृतिसुकृतिनां सत्यसङ्कल्पभावो
मर्त्यारम्भस्पृहादौ तदितरविविधप्राणिसृष्ट्यादिदृष्टेः।
तेनेच्छासन्ततीनां सफलविफलते पुण्यपापैरमीषां
मुक्तस्योक्ता चिकीर्षा त्वविहतविषया तारतम्यं न दोषः॥

३४-तमाहोबिल-यतिः - 15
  1. प्रत्यूहार्ह इत्यादि। मर्त्यारम्भस्पृहादौ– मनुष्यान्सृजानीतिच्छायां सत्यामपि। तदितरविविधप्राणिसृष्ठ्यादिद्दष्टेः– स्रष्टव्यमनुष्यभिन्ननानाविधजन्तुसृष्ट्यादिदर्शनात्। प्रजेषप्रभृतिसुकृतिनाम्– ब्रह्मादिसुकृतिनाम्। सत्यसङ्कल्पभावः– इच्छानुगुणसर्वसिद्धिकत्वरूपोऽमोघसङ्कल्पभावः। प्रत्यूहार्हः– प्रतिबन्धनयोग्यः। तेन– कारणेन। अमीषाम्– सुकृतिनाम्। इच्छासन्ततीनाम्– इच्छाप्रवाहाणाम्। पुण्यपापैः– अनुकूलप्रतिकूलपुण्यपापैः। सफलविफलते– साफल्यवैफल्ये भवतः। मुक्तस्य– मुक्तचेतनस्य। चिकीर्षा तु – किञ्चित्कार्यविषयिका इच्छा तु। अविहताविषया– अन्तरायानर्हस्वविषया। यथासङ्कल्पमेव सिध्यति नतु कदाचिदन्यथा भवतीति। उक्ता– श्रुत्या प्रतिपादितेत्यर्थः।तारतम्यं– कैङ्कर्यादितारतम्यं तु। न दोषः– दोषावहं न भवति। निश्शेषाविद्याकर्मवासनादिबन्धनिवृत्तिमत्त्वेन विश्रृङ्खलप्रसविज्ञानानुभूयमानपरब्रह्मस्वरूपरूपगुणविभूतिकतया पुनरावृत्तिशून्यतया नित्यमुक्तसर्वचेतनक्रियमाणसर्वकैङ्कर्यजनितशेषिसन्तोषमूलकस्वानन्दस्य च सर्वेषामपि चेतनानां तुल्यत्वेन फलवैकल्याभावान्नित्यमुक्तविशेषेषु कैङ्कर्यविशेषव्यवस्थातारतम्यादिकं न दोषायेति भावः। चतुर्मुखस्य मनुष्यादिसृष्टिं सङ्कल्पयतो ’ विनायकं प्रकुर्वाणो रचयामास वानरम् ’ इति न्यायेन सङ्कल्पितान्यसृष्ट्यादिकमितिहासपुराणादिषु सुप्रसिद्धम्। अत्र ’ प्रत्यूहार्हाः" प्रदेशप्रङृतिसुकृतिनः’ इति पाठमवलम्भ्य चिन्तामणि व्याख्यानं द्दश्यते। तद्विलिख्यते– ’ अस्ति किञ्चिद्व्यापारतारतम्यं मुक्तानां तदस्तु नाम तावता न भोगसाम्यं" बाध्यते सर्वेषामपि मुक्तानां प्रतिबन्धकाभावेनासङ्कुचितज्ञानत्वादिति दर्शयति– प्रत्यूहार्हा इति। शब्दान्वयस्तु सत्यसङ्कल्पत्वे सत्यपि प्रादेशिकसुकृतिनः कालविशेषसुकृतिनोऽपि प्रत्यूहार्हाः। अन्यदुपक्रान्तमन्यदापतितमिति न्यायेनान्याभिप्रायेण प्रवृत्तानामन्यदेव जायतइति दर्शयति– मर्त्यारम्भेति। मर्त्यः पुत्रादिः। पुत्राद्यारम्भस्पृहादौ तद्विरोधिविविधप्राणिसृष्ट्यादिद्दष्टेरित्यन्वयः। अन्यचिन्तायामन्यारम्भे नियामकमूलाभावात् व्यापारनैरर्थक्यमेव स्यादित्याशङ्क्य नियामकमेव दर्शयति– तेनेति। अमीषां संसारिणां" जीवानां प्रवृत्तानां साफल्यं वैफल्यं विपरीतफलश्च प्राचीनपुण्यपापाभ्यामेव भवति। मुक्तस्य तु पुण्यपापे न स्तः। तस्य चिकीर्षा नियतमेव सफलेति श्रुतिरपि कथयति ईश्वरस्तु तदिच्छामेवानुच्छिन्न प्रवृत्तिमातनोतीत्याह– मुक्तस्येति। ननु मुक्तस्येच्छाविघाताभावेऽपि व्यापारतारतम्यमस्त्येव तेन भोगतारतम्यमपि स्यादित्याशङ्क्य परिहरति– तारतम्यमिति। नहि व्यापारतारतम्यमेवापवर्ग दोषः यदि भोगतारतम्यमस्ति तदा हि दोषस्स्यात्। नहि नटवृत्तिर्नटस्यैव सन्तोषमातनोति। अपितु तद्दर्शिनामन्येषामपि। एवं सर्वेषामपि मुक्तानां भगवदनिसञ्चरणादिव्यापारस्साधारण्येन सन्तोषकारणमिति भोगसाम्यं सिध्यत्येव। राजकुलेषु वर्तमानाः खलु प्रत्येकं स्वस्वाधिकारानुरूपेण व्यापारेण राजानं सेवन्ते सन्तोषस्तु सर्वेषां साधारण इति करतलामलकमेतत् इति॥
कुमार-वरदः - 15
  1. अत्र सत्यसङ्कल्पत्वे सत्यपि प्रबलप्रतिघातकसद्भावे लोके प्रतिहतिर्द्दश्यते, एवं मुक्तेऽपि प्रबलप्रतिघातकसद्भावात् प्रतिहतिस्स्यादित्याशङ्क्य प्रतिघातकत्वं पुण्यपापयोरेव, तयोस्तस्मिन्नभावात् प्रतिहतिशङ्कैव न स्यात्।अस्ति किञ्चित् व्यापारतारतम्भं मुक्तानाम्।तदस्तु नाम तावता न भोगसाम्यं बाध्यते।सर्वेषामपि मुक्तानां प्रतिबन्धकाभावेनासङ्कुचितज्ञानत्वादिति दर्शयति— प्रत्यूहार्हा इति।शब्दान्वयस्तु— सत्यसङ्कल्प त्वे सत्यपि प्रादेशिक सुकृतिनः कालविशेषसुकृतिनोऽपि प्रत्यूहार्हाः । अन्यदुपक्रान्तमन्यदापतितमितिन्यायेन अन्याभिप्रायेण प्रवृत्तानामन्यदेव जायत इति दर्शयित- मर्त्यारम्भे ति। मर्त्यः- पुत्रादिः।पुत्राद्यरम्भस्पृहया कर्मानुष्ठाने कर्मकर्तृसाधनवैगुण्यादिना शत्रूणामेवारम्भ- -दर्शनादित्यर्थः।अथवा मर्त्यस्यारम्भस्पृहादौ तद्विरोधिविविधप्राणिसृष्ट्यादिद्दष्टेरि त्यन्वयः। अन्यचिन्तायामन्यारम्भे नियामकमूलाभावाद् व्यापारनैरर्थक्यमेव स्यादित्याशङ्क्य नियामकमेव दर्शयति- तेनेति। अमीषां संसारिणां जीवानां प्रवृत्तानां साफल्यं" वैफल्यं विपरीतफलञ्च प्राचीनपुण्यपापाभ्यामेव भवति। मुक्तस्य तु पुण्यपापे न स्तः।तस्य चिकीर्षा नियतमेव सफलमेव श्रुतिरपि कथयति।ईश्वरस्ति तदिच्छामेवानुच्छिन्न प्रवृत्तिमातनोतीत्याह- मुक्तस्ये ति।ननु मुक्तस्येच्छाविधाताभावेऽपि व्यापारतारतम्य- मस्त्येव तेन भोगतारतम्यामपि स्यादित्याशङ्क्य परिहरति— तारतम्य मिति।नहि व्यापारातारतम्यमेवापवर्गे दोषः यदि भोगतारतम्यमस्ति तदा हि दोषस्स्यात् नहि नटवृत्तिर्नटस्यैव सन्तोषमातनोति, अपि तु तद्दर्शिनामन्येषामपि एवं सर्वेषामपि मुक्तानां भगवदनुस़ञ्चरणादिव्यापारस्सा- धारण्येन सन्तोषकारणमिति भागसाम्यं सिध्यत्येव।राजकुलेषु वर्तमानाः खलु प्रत्येकं स्वाधिकारानुरूपेण व्यापारेण राजानं सेवन्ते सन्तोषस्तु सर्वेषां साधारण इति करतलामलकमेतत्॥
मूलम् - 15

15.प्रत्यूहार्हः प्रजेशप्रभृतिसुकृतिनां सत्यसङ्कल्पभावो
मर्त्यारम्भस्पृहादौ तदितरविविधप्राणिसृष्ट्यादिदृष्टेः।
तेनेच्छासन्ततीनां सफलविफलते पुण्यपापैरमीषां
मुक्तस्योक्ता चिकीर्षा त्वविहतविषया तारतम्यं न दोषः॥

विश्वास-प्रस्तुतिः - 16

16.सूत्रे मुक्तोऽप्यनन्याधिपतिरभिहितस्तेन कस्तस्य शेषी
श्रुत्यैवोक्तस्स्वराडित्यपि विहतिरतः प्राक्प्रतिष्ठापितानाम्।
मैवं नाथेतरान्प्रत्यघविहित इह क्षिप्यते शेषभावो
विश्वस्यात्मेश्वरो यः पतिरिति पठितस्तत्पतित्वं त्वबाध्यम्॥

३४-तमाहोबिल-यतिः - 16
  1. सूत्रइत्यादि। सूत्रे– अत्रत्ये ‘अत एवचानन्याधिपतिः ’ इति सूत्रे। मुक्तः– मुक्तचेतनः। अन्याधिपतिरप्यभिहितः– स्वाम्यन्तशून्योऽप्यभिहितः। तेन– कारणेन। तस्य कश्शेषी– तादृशस्य तस्य को वा स्वामी भविषयति। किञ्च श्रुत्यैव– ’ स स्वराड्भवति ’ इति श्रुत्यैव। स्वराडित्यप्युक्तः– स्वाराट् स्वतन्त्रो विज्ञेयः इति निघण्टुप्रसिद्ध्या स्वतन्त्र इत्यप्युक्तः। अतः– अस्मात्कारणात्। प्राक्प्रतिष्ठापितानाम्– पूर्वं स्थापितानां जीवस्य भगवच्छरीरत्वतच्छेषत्वपारतन्त्र्यादीनाम्। विहतिः– विरोधस्यात्। मैवम्– एवं मा शङ्किष्ठाः। इह– अधिकरणे। नाथेतरान्प्रति– भगवद्भिन्नान्प्रति। अघविहितः— पापकृतः। शेषभावः– दास्यं पारतन्त्र्यञ्च। क्षिप्यते– निरस्यते। विश्वस्य पतिरिति पठितो य आत्मेश्वरः– ’ पतिं विश्वस्यात्मेश्वरम् ’ इति श्रुत्या सर्वशेषित्वेनाम्नातो यः स्वशेष्यन्तरशून्य पुरुषोत्तमो नारायणः। तत्पतित्वं तु– तस्य शेषित्वं स्वस्य तं प्रति शेषत्वं पारतन्त्र्यच्च। अबाध्यम्– प्रबलप्रमाणसिद्धत्वान्न बाधनार्हम्। अतो न प्राक्स्थापितविरोध इति भावः॥
कुमार-वरदः - 16
  1. अत्र कश्चिच्चोदयति—सूत्र इति।’ सङ्कल्पादेव तच्छ्रुतेः।अत एव चानन्याधिपतिः’ इति सूत्रद्वये मुक्तोऽनन्याधिपतिः कथितः। तेन तस्य शेषी न स्यात्।किञ्च ’ स स्वराड्भवति’ इति श्रुत्यैव मुक्तः" स्वतन्त्रत्वे नोक्तः । अतः पूर्वप्रतिष्ठापितानां परमपुरुषशेषित्वपारतन्त्र्यादीनां सर्वेषामप्यर्थानां विहति स्स्यात्।अत्रोत्तरम्- मैव मिति।प्रतिक्षेपप्रकारमाह— नाथे ति।अस्मिन्नधिकरणे भगवद्व्यतिरिक्तान् प्रति पापकृत श्शेषभावो जीवस्य प्रतिक्षिप्यते तथैव तत्पारन्त्र्यमपि।’ पतिं विश्वस्यात्मेश्वरम्’ इचि यः पठितौ विश्वस्य पतिः तस्य बाध्य मेव न भवति।अतो मुक्तस्य भगवच्छेषत्वपारतन्त्र्ययोर्न कोऽपि विरोध इति।
मूलम् - 16

16.सूत्रे मुक्तोऽप्यनन्याधिपतिरभिहितस्तेन कस्तस्य शेषी
श्रुत्यैवोक्तस्स्वराडित्यपि विहतिरतः प्राक्प्रतिष्ठापितानाम्।
मैवं नाथेतरान्प्रत्यघविहित इह क्षिप्यते शेषभावो
विश्वस्यात्मेश्वरो यः पतिरिति पठितस्तत्पतित्वं त्वबाध्यम्॥