33 ब्राह्माधिकरणम्

विश्वास-प्रस्तुतिः - 11

11.ज्ञानत्वे किं फलं स्यादिति मिषतु गुणैस्तादृशं ब्रह्मसाम्यं
किं धर्मैरस्वरूपैस्तदिह भवतु चिन्मात्ररूपप्रकाशः।
इत्थं छात्रोक्तपक्षद्वयमुभयविधश्रुत्युपात्ताद्विरोधात्
निर्धूयाथ द्विधाविर्भवनमघटयत्सिद्धतत्त्वप्रकाशात्॥

३४-तमाहोबिल-यतिः - 11
  1. ज्ञानत्व इत्यादि। ज्ञानत्वे किं फलं स्यात्– आत्मनो ज्ञानस्वरूपमात्रत्वोपदेशे तस्य विषयग्रहणयोगात् किं फलं सिध्येत्। ब्रह्मानुभवादिकं किमपि न सिध्येदित्यर्थः। इति– अस्माद्धेतोः। ताद्दशं ब्रह्मसाम्यं गुणैर्मिषतु– परमतया प्रतिपन्नं परमात्मसाम्यं" अपहपाप्मत्वादिगुणाष्टकेनैव भवतु। अस्वरूपैः– स्वरूपातिरिक्तैः। धर्मैः– अपहतपाप्मत्वादिभिरभिहितैर्गुणैः। किं– किं फलम्। सति हि धर्मिणि धर्माश्चिन्त्यन्त इति न्यायादिति भावः। तत्– तस्मात्। इह– मुक्त्यवस्थायाम्। चिन्मात्ररूपप्रकाशो भवतु– ज्ञानमात्रस्वरूपस्यैवाविर्भावोऽस्तु। इत्थम्– उक्तप्रकारम्। छात्रोक्तपक्षद्वयम् — छात्राभ्यां स्वशिष्यभूतजैमिन्यौङुलोमिभ्यामुक्तमुपन्यस्तं गुणाविर्भावस्वरूपाविर्भावपरं" पक्षद्वितयम्। उभयविधश्रुत्युपात्ताद्विरोधात् — अपहतपाण्मा विजराः ,इत्यारभ्य, इति ह प्रजापात्तिरुवाच इत्यन्ता या जीवस्य गुणाष्टकप्रतिपादिका श्रुतिः स यथा सैन्धवधनोऽन्तरोऽबाह्यः कृत्स्नो रसधन एवं वा अरेऽयमात्मा नन्तरोऽबाह्यः कृत्स्नः प्रज्ञानधन एव विज्ञानधन एव, इत्यादिका या जीवस्य ज्ञानमात्रस्वरूपप्रतिपादिका श्रुतिश्च ताद्दशद्विविधश्रुत्युपात्तोऽन्यतरपक्षमात्रग्रहणे योऽन्यतरहानमूलकस्तच्छुतिनैरर्थक्यरूपविरोधस्तस्मात्। सिद्धतत्वप्रकाशात् — प्रमाणद्वयप्रसिद्धोभयविधस्वरूपस्यैव मुक्तिदशायामाविर्भावोपपत्त्या। निर्धूय — अन्यतरपक्षामात्रग्रहणपक्षं निरस्य। अथ – तदुपरितनेन एवमण्युपन्यासात् पूर्वभावादविरोधं बादरायणः इति सूत्रेण। द्विधा – अपहतपाप्मत्वादिगुणाष्टज्ञानस्वरूपेण। आविर्भवनम् – मुक्तिदशायां जीवस्य प्रकाशनम्। अघटयत् — उपपादयामासेत्यर्थः। सूत्रकार इति शेषः॥
कुमार-वरदः - 11
  1. ’ प्रत्यगात्मनः परञ्जयोतिरूपसम्पद्य निवृत्तरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम्। तत्र येन स्वरूपे- णायमाविर्भावति तत्स्वरूपं श्रुतिवैविध्याद् विचार्यते ’ इति सङ्गतिर्भाष्ये। तदर्थविचारस्तु-किं गुणाष्टक- विशिष्टमेवास्य स्वरूपमुत विज्ञानमात्रमेव उतोभयं स्वरूपम्। किं गुणाष्टकवैशिष्ट्यज्ञानमात्रस्वरूप- विषयश्रुत्योः प्राबल्यदोर्बल्यविभागो यज्यते नेति। तयोः किं विरोधस्सम्भवति नेति।अत्र जैमिन्यौडुलोम्यभिमतं पक्षद्वयं प्रत्येकमुपदिश्य चयोरुभयोरपि पक्षयोस्समुच्चयं स्वाभीष्टं प्रतिपादयितु- -मारभते- ज्ञानस्य इति।अयं किल जैमिनेरभिप्रायः—’ आत्मनो ज्ञानस्वरूपमात्रत्वोपदेशे तस्य स्वविषयग्रहणायोग्यत्वात् निष्फलत्वमेव तेन गुणैर्ब्रह्मसाम्यमिष्टमिति।औडुलोमेः पुनरयं भावः— ’ स्वरूपातिरिक्तैरभिहितैर्गुणैः" किं प्रयोजनम्? तेन चिन्मात्रस्वरूपप्रकाश एवास्तु’ इति।एवं पूर्वपक्षद्वयमुपन्यस्य द्वयोऽरपि पक्षयोरुभयविधश्रुत्यपात्तत्वेनावविरुद्धत्वादुभयसमुच्चयात्मकं स्वेष्टस्वरूपा- विर्भवनमघटयत्।उभयविधश्रुत्युपात्ताद्विरोधात् सिद्धतत्त्वप्रकाशा दित्यन्वयः।अयमत्र भावः—यदि जैमिनिमतमङ्गीकृत्य ज्ञानगुणकत्वादिमात्रमेवाभदध्महे तदा ज्ञानस्वरूपत्वादिप्रतिपादकश्रुतिविरोधः।यदि च तच्छ्रुत्यनुसारेण ज्ञानगुणकत्वादिकं हित्वा ज्ञानस्वरूपत्वमात्रमेव प्रतिपद्यामहे तदा ज्ञानगुणकत्वादि- प्रतिपादकश्रुतिविरोधः।उभयत्राप्युपलम्भविरोधश्च स्यात्।तेन सर्वविरोधपरिहारार्थं ज्ञानस्वरूपत्वं ज्ञानगुणकत्वञ्च समुच्चयेनाङ्गीकृत्य मुक्तिदशायामुभयरूपेणाविर्भवनं प्रतिपद्यामह इति न कोऽपि विरोध इति॥
मूलम् - 11

11.ज्ञानत्वे किं फलं स्यादिति मिषतु गुणैस्तादृशं ब्रह्मसाम्यं
किं धर्मैरस्वरूपैस्तदिह भवतु चिन्मात्ररूपप्रकाशः।
इत्थं छात्रोक्तपक्षद्वयमुभयविधश्रुत्युपात्ताद्विरोधात्
निर्धूयाथ द्विधाविर्भवनमघटयत्सिद्धतत्त्वप्रकाशात्॥

विश्वास-प्रस्तुतिः - 12

12.पर्यायौ नामपाठेष्वनुपरिपठितौ मुक्तिकैवल्यशब्दौ
कैवल्यञ्चान्ययोगत्यजनमिति कथं धर्मिधर्मान्वयोऽस्य।
मैवं ब्रह्मस्वरूपादपरमिह न खल्वस्ति किञ्चित् स्वनिष्ठं
न द्रव्यञ्चागुणं स्यादधिकरणयुगं तन्निरातङ्कमेतत्॥

३४-तमाहोबिल-यतिः - 12
  1. पर्यायावित्यादि। नामपाठेषु – मुक्तिः कैवल्यनिर्वाणश्रेयसामृतम्, इत्यादि नैधण्टुकमुक्तिनामानुक्रमणवाक्येषु। मुक्तिकैवल्यशब्दे पर्यायावनुपरिपठितौ – मुक्तिशब्दः कैवल्यशब्दक्ष्च समानार्थक उपात्त इत्यर्थः। कैवल्यञ्चान्ययोगत्यजनम् - कैवल्यशब्दार्थश्च अन्यस्य विशेष्यस्य विशेषणस्य च यो योगस्सम्बन्धस्तस्य त्याग एव। इति –हेतोः। अस्य – तादृशकैवल्यं प्राप्तवतश्चेतनस्य। धर्मिधर्मान्वयः" कथम् – ‘अविभागेन दृष्टत्वात्’ इति पूर्वाधिकरणे विशेष्यतया भगवदनुसन्धानस्य विधानात् योऽस्य धर्म्यन्वयः, अस्मिन्नधिकरणे गुणाष्ठकविशिष्टज्ञानस्वरूपाविर्भावप्रतिपादनेन यश्चास्य गुणाष्ठकरूपधर्मान्वयः, स कथमुपपद्येतेति। मैवम् – एवं" मा शङ्किष्ठाः। इह – मुक्तजीवे। ब्रह्मस्वरूपादपरम् – परमात्मातिरक्तम्। किञ्चित् – किमपि वस्तु। स्वनिष्ठं नास्ति खलु — स्वतन्त्रं स्वविशेष्यतार्हं नास्ति किल। द्रव्यञ्च अगुण न स्यात् – जीवात्मरूपं द्रव्यमपि निर्गुणं न तिष्ठेत्। तत् – तस्मात्कारणात्। एतत् अधिकरणयुगं निरातङ्गम् – विवक्षितार्थद्वयोपदेशात् सफलतममिति न नैरर्थक्याशङ्कनातङ्कयोग्यम्। तथा च पूर्वाधिकरणे ब्रह्मस्वरूपव्यतिरिक्तस्वनिष्ठनिषेधरूपमस्मिन्नधिकरणे नैर्गुण्यरूपविरुद्धधर्मनिषेधरूपञ्च कैवल्यं प्रतिपन्नमिति प्रमाणविरुद्धाप्राप्तधर्मिधर्मान्वयनिवृत्तिरूपं कैवल्यं सिद्धमिति भावः॥
कुमार-वरदः - 12
  1. अत्र पूर्वस्य चैतस्यचाधिकरणस्यार्थविरोधमाशङ्क्य विरोधगन्धोऽपि नास्तीति व्याचष्टे पर्याया विति। अयमत्र पूर्वपक्षिणो भावः—’ मुक्तिः कैवल्यनिर्वाण’ इत्यादिषु मोक्षकैवल्यशब्दौ पर्यायत्वेन पठितौ तत्र कैवल्यशब्दो वस्त्वन्तराभावमेव प्रदर्शयति तत्कथं" ब्रह्मव्यतिरिक्तस्य जीवस्याविभागेन दर्शनं पूर्वाधिकरणोक्तं सम्भवति अस्मिश्चाधिकरणेऽपहतपाप्मत्वादिगुणाष्टकवैशिष्ट्येन जीवे गुणगुणभावेन भेदनिर्देशः कथं सङ्घटते।तेन कैवल्यस्येतराभावरूपस्य धर्मिधर्मान्वयः कथं स्यात् विशेषणविशेष्यान्वयः कथं स्यात्।उक्तं" चोद्यं प्रतिक्षिपति— मैव मिति।अत्र कैवल्यशब्दार्थसद्भावं विभज्य दर्शयति— ब्रह्मे ति।पूर्वस्मिन्नधिकरणे ब्रह्मस्वरूपव्यतिरिक्तस्य स्वनिष्ठत्वं नास्तीत्युक्तम्।तदेव तस्य कैवल्यम्।अस्मिन्नधिकरणे न किञ्चिद् द्रव्यं गुणरहितमस्तीत्युच्यते अत्रापि तदेव कैवल्यं" निर्गुणत्वराहित्योपदेशात्।तेनोभयस्मिन्नधिकरणं विवक्षितार्थप्रतिपादनमस्तीति निरादङ्क मेवेत्याह— अधिकरणयुगव मिति॥
मूलम् - 12

12.पर्यायौ नामपाठेष्वनुपरिपठितौ मुक्तिकैवल्यशब्दौ
कैवल्यञ्चान्ययोगत्यजनमिति कथं धर्मिधर्मान्वयोऽस्य।
मैवं ब्रह्मस्वरूपादपरमिह न खल्वस्ति किञ्चित् स्वनिष्ठं
न द्रव्यञ्चागुणं स्यादधिकरणयुगं तन्निरातङ्कमेतत्॥