32 अविभागेनदृष्टत्वाधिकरणम्

विश्वास-प्रस्तुतिः - 8

8.जीवेशौ नित्यभिन्नौ श्रुतिरिह च सहेत्याह मुक्तस्य भोगं
साम्ये पारम्ययुक्तं स्मृतिमपि स पृथग्भातु तस्मात्परस्तात्।
मैवं तत्त्वं हि मुक्तौ स्फुरति तदनयोर्भेदभानांश इष्टः
सिद्धे देहात्मभावे त्विह नहि घटते तत्स्वनिष्ठत्वदृष्टिः॥

३४-तमाहोबिल-यतिः - 8
  1. जीवेशावित्यादि।जीवेशौ नित्यभिन्नौ – जीवात्मपरमात्मानौ ‘द्वा सुपर्णा’ ‘पथगात्मानं प्रेरितारञ्च मत्वा’ इत्यादिश्रउतिभिर्नित्यं" परस्परभिन्नौ। इह – मुक्तिदशायाम्। श्रुतिः – ‘सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता’ इति श्रुतिः। मुक्तस्य भोगम्– मुक्तसम्बन्ध्यानन्दम्। सहेत्याह च– पुत्रेण सहागतः पितेतिवत् ब्रह्मणा सहेति भेदप्रत्यायकसहशब्दपूर्वकमेवाह। तेन च मुक्तदशायां जीवेशयोः पितापुत्रयोरिव भेदस्सिद्ध इत्यर्थः। साम्ये पारम्यमुक्तम्– निरञ्जनः परमं साम्यमुपैति इति श्रुत्यन्तरेन भेदघटिते साम्ये पारम्यमत्यन्तातिशयितत्वमुक्तम्। तेन च जीवेशयोर्भेदोऽतीव सिध्यतीति भावः। स्मृतमपि– इदं मुक्तौ जीवस्येश्वरेण परमसाम्यं ’ ममसाधर्म्यमागताः’ इत्यादिस्मृतिभिरपि प्रतिपन्नम्। तस्मात्– एवं जीवेशयोर्भेदस्य प्रमाणसिद्धत्वात्। सः– जीवः। परस्मात्– ईश्वरात्। पृथक्– पृथक्त्वेन । भातु– भासेत। मैवम्– एवं मा शङ्किष्ठाः। मुक्तौ– सर्वाविद्याविनिर्मोक्षदशायाम्। तत्त्वं हि स्फुरति– प्रमाणेन यद्विधं यत्स्वरूपञ्च वस्तु प्रतिपन्नं तत् तथैव हि तदा भासेत। तत्- तस्मात्कारणात्। अनयोः– जीवेश्वरयोः। भेदभानांश इष्टः– अन्योन्यभेदप्रतिभानांशोऽध्यात्मतत्त्वविदामिष्ट एव। तु– किन्तु। इह– जीवेशद्वितये। देहात्मभावे– शरीरशरीरिभावे। सिद्धे– प्रमामसिद्धे सर्वथा अपरिहार्ये अनुभाव्ये सति। तत्स्वनिष्ठत्वद्दष्टिर्न घटते हि– तस्य जीवस्य स्वनिष्ठत्वेन स्वातन्त्र्येण द्दष्टिर्भानं न युज्यते किल। वस्तु यथावस्थितमेव हि भायात् अत ईश्वरशरीरतया तत्पारतन्त्र्येणैव जीवात्मा भासेत नतु स्वातन्त्र्येणेति भावः। तथाचानयोश्शरीरशरीरि भावनियतेनाहं ब्रह्मास्मीत्युल्लेखेनैव मुक्तौ भानमिति हृदयम्॥
कुमार-वरदः - 8
  1. सङ्गतिर्भाष्ये—’ किमयं परञ्ज्योतिरुपसम्पन्नस्सर्वबन्धविनिर्मुक्तः प्रत्यगात्मा स्वात्मानं परमात्मनः पृथग्भूतमनुभवति उत तत्प्रकारतया तदविभक्तमिति विशये’ इति।तदर्थविचरस्तु—मुक्तः किंमात्मानं परमात्मानः" पृथग्भूतमनुभवति उत तत्प्रकारतया तदविभक्तम्।किं साहित्यसाम्यसाधर्म्यवचनान्य- -विभागेनानुभवे विरुध्यन्ते नेति।किं पृथग्भूतस्यैव साहित्यादिकमुपपन्नं नेति।अत्र पूर्वपक्षी मुक्तदशायां भेदेनैवानुसन्धाने हेतुविशेषानाचष्टे- जीवेशा विति।अयमर्थः—’ द्वा सुपर्णा’ इति श्रुतिरेव जीवपरयोर्भेद- -माचष्टे।हेत्वन्तरमप्याह— श्रुतिरि ति।सैव श्रुतिः ’ सोऽश्नुते सर्वान् कामान्सह’ इति मुक्तभोगं सहशब्दपूर्वकमेवाह ।सहशब्दो हि भेद एव संघटते।पुत्रेण सहागतः पितेति प्रयुञ्जते न पुनः पित्रासहागतः पितेति नापि पुत्रेण सहागतः" पुत्र इति।तृतीयमपि हेतुमाह— साम्य इति।साम्यं तावद् भेदपरम्।तदत्र परमसाम्यमत्यन्तभेदपरम्।केनापि विशेषणेन साम्ये साम्यमिति वक्तुं युज्यते।बहुभिरपि विशेषणैस्साम्ये हि परमं साम्यं सिध्यति।तेन तदपि भेदपरम्।इदञ्च स्मृतिसिद्धं ’ मम साधर्म्यमागताः’ इति भगवतैव साम्यपर्यायस्य साधर्म्यशब्दस्य प्रयोगदर्शनात्।तेन जीवः परमात्मनः पृथक्त्वेन प्रतिभासेतेत्याह—स इति।तदेतत्प्रतिक्षिपति— मैव मिति।तत्र हेतुमाह- तत्त्व मिति।मुक्तिदशायां तत्त्वमेव प्रतिभाति नातत्त्वम्।अतत्त्वन्तु स्वतन्त्रभेदोऽब्रह्मात्मकभेद इत्यर्थः।तेनानयोर्निर्दोषो भेदो भातु। जीवपरयोस्स्वरूपभेद इत्यर्थः।तर्हि कीद्दग्विधो भेदो निषिध्यत इत्याशङ्क्याह- सिद्ध इति।द्विधा खलु भेदः प्रतीयते ब्रह्मात्मकभेदोऽब्रह्मात्मकभेदश्चेति।तत्र पूर्वो भेदः ’ द्वा सुपर्णा सयुजा’ ’ नित्यो नित्यानाम्’ ’ भोक्ता भोग्यम्’ इत्यादिश्रुतिप्रसिद्धत्वादध्यात्मविदामङ्गीकारपदमेव।अब्रह्मात्मकभेदस्तु ’ अन्तः प्रविष्टाश्शास्ता जनानां सर्वात्मा’ ’ सर्वगत्वादनन्तस्य स एवाहमवस्थितः’ इत्यादिप्रमाणसिद्धब्रह्मात्मभावानुसन्धानविरोधादनादर्तव्य एव।तेनाविनाभावेनानुसन्धानं शरीरात्मभावेनानु- सन्धानमध्यात्मविदामाजानसिद्धमित्यर्थः।अयमत्रान्वयः— देहात्मभावे सिद्धे सतितस्य जीवस्य स्वनिष्ठत्वद्दष्टिर्न हि घटते परमात्मपारतन्त्र्यानवलोकनं" न सङ्घटत इत्यर्थः॥
मूलम् - 8

8.जीवेशौ नित्यभिन्नौ श्रुतिरिह च सहेत्याह मुक्तस्य भोगं
साम्ये पारम्ययुक्तं स्मृतिमपि स पृथग्भातु तस्मात्परस्तात्।
मैवं तत्त्वं हि मुक्तौ स्फुरति तदनयोर्भेदभानांश इष्टः
सिद्धे देहात्मभावे त्विह नहि घटते तत्स्वनिष्ठत्वदृष्टिः॥

विश्वास-प्रस्तुतिः - 9

9.मन्त्रोक्तं भोक्तृभावे यदि सहभवनं ब्रह्म न स्यात् प्रधानं
तस्मात्तद्भोग्यभावे भवतु तदुचिते ब्राह्मणव्याकृतेश्च।
द्वेधापि ब्रह्म तत्त्वात् पृथगितर इह स्यादितीदञ्च वार्तं
सिद्धे भेदे स्वनिष्ठस्थितिपरिहरणं ह्यत्र सूत्रोपपाद्यम् ॥

३४-तमाहोबिल-यतिः - 9
  1. मन्त्रोक्तमित्यादि। मन्त्रोक्तं सहभवनं भोक्तृभावे यदि ब्रह्म प्रधानं न स्यात्– ’ सत्यं ज्ञानम् ’ इति मन्त्रेण ’ सह ब्रह्मणा विपश्चिता ’ इतिभागेन प्रतिपादितं सहशब्दार्थभूतं ब्रह्मणस्सहभावनं पुत्रेण सहौदनं भुङ्क्त इत्यत्रेव भोक्तृभावे यदि तदा ’ सहयुक्तेऽप्रधाने ’ इत्यनुशासनेन सहशब्दान्वितस्याप्राधान्यावश्यम्भावात् ब्रह्म प्रधानं न स्यात्। किन्तु अप्रधानं स्यात् तच्चायुक्तं सर्वस्वामिनो ब्रह्मणः अप्राधान्यायोगात्। तस्मात्– कारणात्। तत्– सहभवनम्। भोग्यभावे भवतु– क्षीरेण सहौदनं भुङ्क्त इत्यादाविव भोग्यभावे भवतु। ब्राह्मणव्याकृतेश्च तदुचितम्– ’ ब्रह्म विदाप्नोति परम् ’ इति हि ब्राह्मणम्। तस्य व्याख्यानं हि ’ सत्यं ज्ञानम् ’ इत्यादिमन्त्रेण क्रियते। तत्र ब्रह्मविदित्येतावदंशस्य गुहायामित्यन्तेन व्याख्यानकरणात् परमाप्नोतीत्यंशस्य खल्विदानीं व्याख्यानं क्रियते। अतश्च ब्राह्मणानुगुणव्याकरणस्यैव कर्तव्यत्वात् भोग्यसाहित्यमेवोचितम्। द्वेधापि इह इतरः ब्रह्मतत्त्वात् पृथक्स्यात् इति– भोक्तृसाहित्यं वास्तु भोग्यसाहित्यं वास्तु द्वेधापि मुक्तिदशायां जीवः परमात्मनः" पृथगेव भासत्स्यादिति। इदञ्च वार्तम्– उक्तं शङ्कनमनर्हमित्यर्थः। वार्ते चानर्हनीरसे इति नानार्थरत्नमाला। भेदे सिद्धे स्वनिष्ठस्थितिपरिहरणं" ह्यत्र सूत्रोपपाद्यम्– जीवेश्वरयोर्भेदे सिद्धेऽपि जीवस्य तच्छरीरत्वेन तत्परतन्त्रस्य स्वातन्त्र्येणावस्थानं नास्तीति प्रतिपादनं" ह्यत्रत्यस्य ’ अविभागेन द्दष्टत्वात् ’ इत्यस्य सूत्रस्य विवक्षितं सूत्रकाराभिमतम्। नतु जीवेश्वरयोर्भेदनिरसनम्। तयोर्भेदस्योदाहृतब्राह्मणतद्व्याख्यानरूपमन्त्रश्रुत्यन्तरसिद्धपरमसाम्यसाधर्म्यस्मृत्यादिसिद्धत्वादिति भावः॥
कुमार-वरदः - 9
  1. अत्र पूर्वरक्षी मन्यते–’ अविभागेन भगवदनुसन्धानं मुक्तिदशायामिति भवद्भिरुच्यते।तच्छ्रुतिविरुद्ध- मेव।सत्यज्ञानादिमन्त्रे फलदशायां भेदस्यैव साक्षादभिधीयमानत्वात्।तथा हि ’ सोऽश्नुतेसर्वान्कामान्सह’ इति फलनिर्देशः।अत्र भोक्तृसाहित्यं वा भोग्यसाहित्यं वा सहशब्देनोच्यत इति विवेचनीयम्।भोक्तृसाहित्यञ्चेत् ’ सहयुक्तेऽप्रधाने’ इति ब्रह्मणा सहेति सहशब्दसम्बन्धाद् भोक्तारं जीवं प्रति ब्रह्मणस्स्यादप्राधान्यम्।तच्चायुक्तं सर्वस्वामिनो ब्रह्मणस्स्वशेषभूतं" जीवं प्रत्यप्राधान्यायोगात्’ ।इति। तदिदमाह— मन्त्रोक्त मिति।भोक्तृसाहित्यवचनस्येत्थमनुचितत्वाद् भोग्यसाहित्यमेव वक्तुं" योग्यमित्याह— तस्मा दिति।अत्रौचित्ये हेत्वन्तरमाह- ब्राह्मणे ति।’ ब्रह्मविदाप्नोति परम्’ इति विधि ब्राह्मणम् ।तस्य व्याख्यानं" ’ सत्यं ज्ञानम्’ इति मन्त्रः।तत्र ब्रह्मविदितिशब्दस्य पूर्वं व्याख्यानमकारि।परमाप्नोतीत्यंशस्य ’ सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता’ इति व्याकरणं क्रियते।तेन भोग्यसाहित्यमेव वक्तुमुचितामित्यर्थः।ब्रह्मणा सह सोऽश्नुत इति भोक्तृसाहित्ये वचनव्यक्तिः।ब्रह्मणा सह सर्वान्कामानश्नुत इति भोग्यसाहित्ये वचनव्यक्तिः।नहि भृत्यान्प्रति स्वामिनोऽप्राधान्यमस्ति नच तद्वक्तव्यं" लोकविरोधात्। अस्तु वात्र भोक्तृसाहित्यं वा विवक्षितम् उभयथापि ब्रह्मतत्त्वा ज्जीवः पृथगेव प्रतीयते तथाचाविभागेनानु- सन्धानं" न युज्यत इति शङ्कते— द्वेधापी ति।तदिदं प्रतिक्षिपति— वार्त मिति।अयमर्थः-अत्र जीवपरयोस्स्वरूपभेदो न प्रतिक्षिप्यते, सिद्ध एव स्वरूपभेदः, अपि तु स्वातन्त्र्येणावस्थानं परिह्रियते, सूत्रोपपाद्यम् त–सूत्रकाराभिप्रेतमित्यर्थः, तात्पर्ये हि शब्दः" प्रमाणम्, तेनापातार्थं मुक्त्वा तात्पर्यमेव पर्यालोचनीयं विचारधौरेयैरिति॥
मूलम् - 9

9.मन्त्रोक्तं भोक्तृभावे यदि सहभवनं ब्रह्म न स्यात् प्रधानं
तस्मात्तद्भोग्यभावे भवतु तदुचिते ब्राह्मणव्याकृतेश्च।
द्वेधापि ब्रह्म तत्त्वात् पृथगितर इह स्यादितीदञ्च वार्तं
सिद्धे भेदे स्वनिष्ठस्थितिपरिहरणं ह्यत्र सूत्रोपपाद्यम् ॥

विश्वास-प्रस्तुतिः - 10

10.पारम्यं यच्च साम्ये श्रुतमिह नहि तत्सर्वथेत्यप्यधीतं
ग्राव्णो हेम्नश्च यद्वत्समधरणधृतौ स्यात्तदुक्तिस्तथात्र।
एवं तद्देहभावे स्थितवति विविधाबाधिताम्नायभूम्ना
ब्रह्मैवेत्यादिवाक्यं प्रथयति समतां तादृगित्यप्यधीतेः॥

३४-तमाहोबिल-यतिः - 10
  1. पारम्यमित्यादि। इह यच्च साम्ये पारम्यं श्रुतं तत्सर्वथेत्यपि नाधीतं हि– इह मुक्तजीवे ’ परमं साम्यमुपैति ’ इति साम्ये यदत्यन्तातिशयितत्वमुक्तं तत् सर्वप्रकारेणापीति नाधीतं नाम्नातं हि। तस्मात्प्रमाणान्तराविरोधेन परमसाम्यं निर्वाह्यमित्यर्थः। ग्राव्णो हेम्नश्च समधरणधृतौ यद्वत् तदुक्तिः स्यात् तथात्र– मानोपलस्य मेयहेम्नश्च तुल्यतुलाधारणे यथा तुल्यत्ववचनं तथैवात्रापीत्यर्थः। नैतावता पाषाणस्वर्णयोर्वर्णतस्साम्यं भवति अपि तु परिमाणविशेषेणैव तद्वन्मुक्तस्यापि परमात्मसाम्यं भोगसाम्यमेव नतु सर्वस्वामित्वादिकेनापि तस्य प्रमाणेन तत्रैव व्यवस्थितत्वादित्यर्थः। एवम्– मानोपलसुवर्णन्यायेन। तद्देहभावे स्थितवति– परमात्मशरीरतया ततो भेदे सिद्धे सति। विविधाबाधिताम्नायभूम्ना– जीवपरस्योश्शरीरशरीरिभाव्याप्यव्यापकभावस्स्वामिबावादिप्रतिपादकानन्यथासिद्धानवकाशनिर्बाधानेकविध श्रुतिबाहुल्येन। ताद्दगित्यधीतेरपि– ’ यथोदकं शुद्धे शुद्धमासिकं ताद्दगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम ’ इति श्रुत्यन्तरे साद्दश्यवाचिनस्ताद्दक्शब्दस्याम्नानादपि हेतोः। ब्रह्मैवेत्यादिवाक्यम्– ’ ब्रह्म वेद ब्रह्मैव भवति ’ इत्यादिश्रुतिवाक्यम्। समतां प्रथयति– साम्यमेव प्रतिपादयतीत्यर्थः॥
कुमार-वरदः - 10
  1. ’ निरञ्जनः परमं साम्यमुपैति’ इति वाक्यस्यार्थं श्रुतितात्पर्यपर्यालोचनेन निगमयति- पारम्य मिति।इह ’ परमं साम्यम्’ इत्यनेन सर्वथा साम्यमिति नोच्यते तेन प्रमाणानुसारेण यावदबाधितं साम्यं तावदङ्गीकार्यमित्यर्थः।अस्मिन्नर्थे लोकद्दष्टान्तमाह- ग्राव्ण इति। ग्राव्णो हेम्नश्च समधरणधृतौ तुल्यतुलाधृतौ तुल्यत्वोक्ति स्स्यात्। नैतावता वर्णसाम्यमपि स्यात्।अपि तु निष्कतदर्धादिभावेन साम्यम्।तद्व दत्रा पि जीवपरमात्मनोर्भोगसाम्यमेव नपुनस्स्वामित्वादिकमपि समं तस्य प्रमाणेन व्यवस्थितवृत्तित्वात्।तर्हि ’ ब्रह्म वेद ब्रह्मैव भवति ’ इति साधारणसामानाधिकरण्यनिर्देशो दृश्यते सामानाधिकरण्यं तावदैक्यपरम् एवकारस्तु भेदंनिषेधति तेन जीवब्रह्मणोस्स्वरूपैक्यं" स्यादित्रोत्तरम्— एव मिति।अयमन्वयः—शरीरात्मभावप्रतिपादकबहुविधा म्नायभूम्ना जीवस्य भगव द्देहभावे स्थितवति निर्णीते सति ब्रह्मैव भवतीति सावधारणोऽयं निर्देशस्साम्यमेव द्रढयति।यथा ’ यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये।द्दश्यन्ते तानितान्येव तथा भावा युगादिषु ॥’ इत्यत्र ’ तानि तान्येव’ इति सावधारणसामानाधिकरण्यशब्दः केवलं तज्जातीयत्वमेवाचष्टे नपुनस्तत्त्वमेव पूर्वोत्तरर्तूत्पन्नानां तदातदोत्पन्नत्वेन भिन्नत्वात् एवं ’ ब्रह्म वेद ब्रह्मैव भवति’ इति ब्रह्मतुल्यप्रकारत्वमेवाचष्टे नपुनस्स्वरूपैक्यं ब्रह्म तु नित्यनिर्मलम् तदभिध्यानादधुनैव निर्मलीभवति ब्रह्मवेदी कथं तयोः स्वरूपैक्यमिति वक्तुं शक्यते तेन ब्रह्मप्रकारत्वेन ’ ब्रह्मैव भवति’ इति सामानाधिकरण्येनोच्यत इत्यर्थः।एवं न्यायोपपादितमर्थं प्रमाणणेनोपपादयति– ताद्द गिति।’ यथोदकं शुद्धे शुद्धमासिक्तं ताद्दगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम’ इति जीवस्य ब्रह्मणि ताद्दक्त्वमप्युच्यते।नपुनस्तत्त्वम्।तेन यत्रयत्र तत्त्वमुच्यते तत्रसर्वत्रापि ताद्दक्त्वमेवोच्यत इति भाव्यमित्यर्थः॥
मूलम् - 10

10.पारम्यं यच्च साम्ये श्रुतमिह नहि तत्सर्वथेत्यप्यधीतं
ग्राव्णो हेम्नश्च यद्वत्समधरणधृतौ स्यात्तदुक्तिस्तथात्र।
एवं तद्देहभावे स्थितवति विविधाबाधिताम्नायभूम्ना
ब्रह्मैवेत्यादिवाक्यं प्रथयति समतां तादृगित्यप्यधीतेः॥