विश्वास-प्रस्तुतिः - 2
2.अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं
तस्याविर्भावसिद्धौ नतु किमपि फलं स्यात्सुषुप्ताविशेषात्।
तस्मान्मुक्तस्स्वमन्यद्भजति वपुरसौ देववद्रूपशब्दात्
मैवं स्वेनेति शब्दो ह्यफल इह भवेद्रूपवाचार्थसिद्धेः॥
३४-तमाहोबिल-यतिः - 2
- अश्रान्तस्वप्रकाशमीत्यादि। अहमित्यश्रान्तस्वप्रकाशं यदिदं प्रत्यागात्मस्वरूपं तस्याविर्भावसिद्धौ सुषुप्ताविशेषात् किमपि फलं न स्यात्तु — अहमहमित्यविच्छिन्ननित्यस्वप्रकाशं यदेतत् प्रत्यगात्मस्वरूपं तदाविर्भावस्य नित्यसिद्धौ सत्यां स्वरूपाविर्भावमत्स्य सुषुप्तावपि विधामानतया ततो विशेषाभावात् अपूर्वं किमपि फलं न भवेत्। तस्मात् – कारणात्। मुक्तः – सर्वबन्धविनिर्मुक्तः। असौ – आत्मा। रूपशब्दात् स्वमन्यत् वपुर्भजति देववत् – स्वेन रूपेणाभिनिष्पघते इति शरीरवाचिरूप शब्दश्रवणात् स्वकीयं बन्धकालिकशरीराद्विलक्षणमप्राकृतं" वपुर्भजति यथा च नित्यमुक्तोऽपि भगवान् रामकृष्णादि विग्रहविशेषं परिगृह्णति तद्वत्। यद्वा अनुष्ठितस्वर्गसाधनयागस्य पुरूषस्य विलक्षणं देवशरीरं साध्यं सुखैकतानं यथा लम्यते तद्वत्। नैवम् — एवं न शङ्कयम्। इह रूपवाचा अर्थसिद्धेस्स्वेनेति शब्दोऽफलो भवोद्धि – अपूर्वशरीरलाभपक्षे रूपेणाभिनिष्पघत इत्येतावदुक्तावपि अपूर्वशरीरलाभरूपार्थ प्रत्ययात् स्वेनेतिशब्दो विफल एव भवेद्धि। अतस्तस्य साफल्यं यथा स्यात् तथार्थो वर्णनीयः स्वाभाविकरूपमेवाविर्भवतीत्यर्थवर्णने स्वशब्दस्सफलस्स्यात् अतस्तथैवार्थ इति॥
कुमार-वरदः - 2
- अत्र पादसङ्गतिरधिकरणसङ्गतिश्च भाष्ये विभज्य दर्शिता ’ परं ब्रह्मोपासीनानामात्मानञ्च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानामर्चिरादिना मार्गेणपुनरावृत्तिलक्षणा गतिरुक्ता।इदानीं मुक्तानामैश्वर्य- -प्रकारं चिन्तयितुमारभते’ इति पादसङ्गतिः।’ किम् अस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुंपसम्पन्नस्य देवादिरूपवत् साध्येन रूपेण सम्बन्धोऽनेन वाक्येन प्रतिपाद्यते उत स्वाभाविकस्य स्वरूपस्याविर्भावः’ इत्यधिकरणसङगतिः।तदर्थविचारस्तु-किं ’ अस्माच्छरीरात्’ इत्यादिवाक्ये मुक्तस्य साध्येन रूपेण सम्बन्धः प्रतिपाद्यते उत स्वाभाविकस्वरूपाविर्भावः।किं" स्वाभाविकस्वरूपाविर्भावपरत्वे मोक्षशास्रस्य पुरुषार्थाबोधित्वं सम्भवति नेति।किं स्वरूपस्य स्वतोऽपरिच्छन्नानन्दत्वं सम्भवति नेति।किमानन्दस्वरूपस्य तिरोधानं सम्भवति नेति।किमाविर्भावपरत्वे निष्पत्तिव्यपदेशवैयर्थ्यमस्ति नेति।अत्रापूर्वरूपप्राप्तिः" फलमिति वदन् पूर्वपक्षी स्वाभाविकस्वरूपाविर्भावपक्षे दूषणानि दर्शयति- अश्रान्ते ति। आत्मस्वरूपं नित्य स्वरप्रकाश मेव तस्य पूर्वमे वाविर्भावसिद्धा वपूर्व किमपि फलं न स्यात् नित्याविर्भूतस्याविर्भावान्तरापेक्षाभावात्।किञ्च यदि स्वरूपाविर्भावमात्रान्नित्यसिद्ध एव मोक्षस्स्यात् तर्हि सुषुप्तस्यापि मुक्तिस्स्यात् तस्यापि स्वस्वरूपाविर्भावस्य विद्यमानत्वात्।तदिदं दर्शयति— सुषुप्ताविशेषा दिति।एवं परपक्षं प्रतिक्षिप्य स्वाभिप्रेतं प्रकारं दर्शयति— तस्मा दिति।अयमर्थः—यथा नित्यमुक्त ईश्वरो रामकृष्णादिविग्रहं" परिगृह्णाति एवं मुक्तोऽपि विलक्षणं रूपं परिगृह्णातीति वाच्यमिति।तत्र हेतुमाह- रूपशब्दा दिति। रूपशब्दो हि देहवाचित्वादिममेवार्थं" दर्शयतीत्यर्थः एतत्प्रतिक्षिपति— नैव मिति।अस्मिन्प्रतिक्षेपे हेतुमाह- स्वेने ति।अयमर्थः—केवलं रूपेणाभिनिष्पद्यत इति नोच्यते अपि तु स्वेन रूपेणेति।स्वशब्दो ह्यत्र विशेषणत्वेन प्रयुज्यते।स शब्दो यथा न निष्फलः स्यात् तथैवार्थो वाच्य इति।कथमफलत्वमित्या- -शङ्क्याह— रूपे ति।अपूर्वरूपप्राप्तौ रूपेणाभिनिष्पद्यतइत्येतावदेव वाच्यम्।तेन स्वशब्दसामर्थ्यात् स्वाभाविकरूपाविर्भाव उच्यत इत्यर्थः।स्वाभाविकस्याविर्भावे हि स्वशब्दसाफल्यमिति भावः॥
मूलम् - 2
2.अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं
तस्याविर्भावसिद्धौ नतु किमपि फलं स्यात्सुषुप्ताविशेषात्।
तस्मान्मुक्तस्स्वमन्यद्भजति वपुरसौ देववद्रूपशब्दात्
मैवं स्वेनेति शब्दो ह्यफल इह भवेद्रूपवाचार्थसिद्धेः॥
विश्वास-प्रस्तुतिः - 3
3.नित्यस्वात्मस्वरूपस्थितिरियमभिनिष्पत्तिरित्यूचिवांसः
तन्मात्रं स्यान्न विद्याफलमिति न विदुर्नित्यसिद्धं त्वसाध्यम्।
सिद्धं साध्यानुवेधादपि भवति फलं सा त्वविद्यादिभङ्गो
यद्वा सिद्धस्य वित्तिस्तदिह न विहतं मुक्तइत्यादिसूत्रम्॥
३४-तमाहोबिल-यतिः - 3
- नित्यस्वात्मेत्यादि।इयमभिनिष्पत्तिर्नित्यस्वात्मस्वरूपस्थितिरित्यूचिवांसस्तन्मात्रं विद्याफलं न स्यादिति न विदुः – ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्युक्ताभिनिष्पत्तिर्नित्यं पूर्वमपि सिद्धमेव यत् स्वात्मस्वरूपं तत्स्थितिरूपैवेत्युक्तवन्तो मायिनो नित्यसिद्धस्वरूपमात्रं विद्यासाध्यं फलं न भवितुमर्हतीति न जानन्ति। नित्यसिद्धं त्वसाध्यम् – यन्नित्यमेव सिद्धं तन्न साध्यं" भवितुमर्हति सिद्धसाध्ययोस्तादात्म्योस्तादात्म्यायोगात्। ननु त्वत्पक्षे कथमभिनिष्पत्तिर्वक्तुं शक्यत इति चेत्तत्राह – सिद्धमित्यादि। सिद्धमपि साध्यानुवेधात् फलं भवति – लोके स्वरूपतस्सिद्धमपि साध्यभूतविशेषणानुवेधात् साध्यभावमापद्यते। यथा स्पर्शविशेषादशुद्धास्स्नानादिसाध्यशुद्धिरूप विशेषयुक्तस्वरूपेण साध्य इत्युच्यते एवं कर्मभिरशुद्धो जीवः कर्मसम्बन्धविनिर्मुक्तरूपेण साध्यत इत्यादिवचने न कोऽपि विरोधः। सा तु अविद्यादभङ्गः – अभिनिष्पत्तिविवक्षया सेति स्त्रीलिङ्दनिर्देशः। अभिनिष्पत्तिस्तु अविद्याकर्मवासनारुच्यादिध्वंसात्मिकैव। अतोऽविद्यादिनिवृत्तिरूप साध्यानुविद्धतया स्वरूपस्याप्यभिनिष्पत्तिशब्दवाच्यत्वात् साध्यत्वं युक्तमिति भावः। यद्वा सिद्धस्य वित्तिः" –पक्षान्तरे, सिद्धस्यापि स्वरूपस्य वित्तिर्निश्चय एवाभिनिष्पत्तिः। युक्त्यायमर्थोऽभिनिष्पन्न इत्यादिप्रयोगात् अतो देहादिविविक्तज्ञानानन्दस्वरूपगुणकस्वात्मसाक्षात्कार एवाभिनिष्पत्तिरित्युच्यत इति। तत् – तस्मात् कारणात्। इह – अस्मत्पक्षे।मुक्त इत्यादिसूत्रं न विहतम् – मुक्त प्रतिज्ञानात् इत्यादिसूत्रं न वैय्रथ्यमापादितं किन्तु सार्थकमव। अयं भावः – अस्मत्सिद्धान्ते जीवस्य सगुणत्वात् तद्गुणे सङ्कोचविकाससद्भावात् अत्र पुनर्विकासस्यागन्तुकत्वात् अभिनिष्पत्तिशब्दवाच्यत्वं सङ्कोचनिवृत्तेर्मुक्तशब्दवाचच्यत्वञअच घटते, युष्मत्पक्षे निर्गुणस्यात्मनो नित्यस्वययम्प्रकाशत्दपूर्वाकारप्राप्त्यभावेन पूर्वमुक्तः पश्चान्मुक्त इति वचनमवचनमेव स्यात्, अविद्यानिवृतत्तिरपूर्वा विद्यत इति चेत् सा किं ब्रह्मस्वरूपं उतातिरिक्ता प्रथमे अपूर्वाकारत्वं फलत्वञ्च न स्यात् अतिरिक्तत्वे पारमार्थ्ये सद्वितीयत्वम्, अपारमार्थ्ये तन्मूलाविद्यावत्त्वेन मुक्तिरेव न स्यादत्येवमादिदोषकलुषितत्वात् सूत्राननुरूप्याच्चाविद्यैव गतिरिति॥
कुमार-वरदः - 3
- अत्र मृषावादिनां स्वस्वरूपाविर्भाववचिमघटितमिति दर्शयत् स्वपक्षे तस्य सुघटितत्वमेव स्थापयति— नित्ये ति।अयमत्र भावः-मृषावादिनः" किं नित्यात्मस्थितिमेवाभिनिर्ष्पात्त वदन्ति किंवा अपूर्वाकारप्राप्तिम् उत्तरत्र भेदवादप्रसङ्गः अतः पूर्व एव कल्पोऽवशिष्यते।सोऽपि न सङ्घटते नित्यस्वात्मस्वरूपस्थिति- रियमभिनिष्पत्तिरिति वदन्त स्तन्मात्रं विद्याफलं न भवतीति न विदुः ।तन्मात्रस्यानादिसिद्धत्वाद् विद्याफलस्य फलत्वेनागामित्वात्।न ह्यागामिनः पूर्वसिद्धस्य च तादात्म्यं वक्तुं शक्यते व्याधातादिति। तदिदमाह- नित्यासिद्ध मिति।ननु यद्यस्मत्पक्षेऽभिनिष्पत्तिर्वक्तुं न शक्यते तर्हि त्वत्पक्षे कथं वक्तुं शक्यत इत्याह- सिद्ध मिति।लोके स्वरूपत स्सिद्ध मपि साध्य भूतविशेषणा नुवेधात् साध्यभावमाटीकते।यथा स्पर्शविशेषादशुद्धस्स्नानादिसाध्येन शुद्धस्वरूपेण स्वयं" साध्यत इत्युच्यते एवं कर्मभिरशुद्धो जीवः कर्मसम्बन्धविनिर्मुक्तरूपेण साध्यत इति वचने को विरोधः।तदिदमाह- साध्यानुवेधा दिति। सिद्ध मपि वस्तु साध्यानुवेधा त्साद्यमुत्युच्यते।तथा च प्रोक्षणादिना व्रीह्यादिकं शुद्धभावेन साध्यते।फलस्य स्वरूपमेवात्र दर्शयति- से ति स्त्रीलिङ्गनिर्देशोऽभिनिष्पत्तिविवक्षया।इत्थमभिंनिष्पत्तिशब्दस्याकारान्तरप्राप्तिमर्थमुक्त्वा प्रतीतिप्राप्तिमप्यर्थतयाचष्टे— यद्वे ति।वदन्ति हि लोके तत्तदर्थप्रतिपादकाः अयमर्थः एवं निष्पद्यत इति निर्णीयत इति।तथा चात्रापि स्वेन रूपेणाभिनिष्पद्यत इति स्वाभिविकाकारेण ज्ञायत इत्युक्तं भवति।तेन मुक्तिशब्दस्यास्मत्पक्षे सार्थकत्वात् ’ मुक्तः प्रतिज्ञानात् ’ इत्यादि सुत्रमपि सार्थकमेवेति निगमयति-तदिति। अयमर्थः-अस्मत्सिद्धान्ते जीवस्य सगुणत्वात्तद्गुणे सङ्कोचविकाससद्भावादत्रापूर्वाकासस्यागन्तुकत्वाच्च मुक्तिशब्दप्रंयोगस्सुघटित एव।युष्मत्पक्षे निर्गुणस्यात्मनो नित्यस्वयम्प्रकाशत्वादपूर्वाकारप्राप्त्यभावेन पूर्वममुक्तः पश्चान्मुक्त इति वचनमवयनमेव स्यात्।अविद्यानिवृत्तिरपूर्वा विद्यत इति चेत् सा किं ब्रह्मस्वरूपमुत तदतिरिक्ता तदतिरिक्तत्वेऽपि परमार्थरूपा अपरमार्थरूपा वा स्वरूपञ्चेत्तदवस्थमेव दूषणम्।अतिरिक्तत्वेऽप्यपारमार्थ्ये तस्याः प्रध्वंसाभावरूपत्वेनानन्त्यात्।तस्या अपि निवृत्त्यङ्गीकारे निवृत्तिपारम्पर्यादनवस्था।तथा चारोरिततन्निवृत्तिपाम्पर्याङ्गीकारात् तदवस्थ एव नित्यसंसारप्रसङ्गः। परमार्थपक्षे तु द्वैतापत्तिरिति प्रागेवोक्तम्॥
मूलम् - 3
3.नित्यस्वात्मस्वरूपस्थितिरियमभिनिष्पत्तिरित्यूचिवांसः
तन्मात्रं स्यान्न विद्याफलमिति न विदुर्नित्यसिद्धं त्वसाध्यम्।
सिद्धं साध्यानुवेधादपि भवति फलं सा त्वविद्यादिभङ्गो
यद्वा सिद्धस्य वित्तिस्तदिह न विहतं मुक्तइत्यादिसूत्रम्॥
विश्वास-प्रस्तुतिः - 4
4.स्वाकारान्नित्यभातादधिकसुखतया भाति जीवस्तदानीं
सिद्धाविर्भावमात्रेऽप्यनुविदुरभिनिष्पत्तिवाचः प्रयोगम्।
सङ्कोचात्यन्तहानिर्धिय इयमभिनिष्पत्तिरागन्तुरुक्ता
निष्प्रत्यूहस्वरूपोपधिकमपि तदा स्वेनशब्दः प्रवक्ति॥
३४-तमाहोबिल-यतिः - 4
4.स्वाकारादित्यादि। नित्यभातात् – नित्यं भासमानादपि। स्वाकारात् – ज्ञानानन्दरूपगुणात् स्वात्मनः। अधिकसुखतया – पूर्वापेक्षयात्यन्तानुकूलतया। तदानीम् – मोक्षदशायाम्। जीवः – परमात्मा। भाति – भासते। सिद्धाविर्भावमात्रेऽपि – पूर्वमेवसिद्धस्याविर्भावमात्रेऽपि। अभिनिष्पत्तिवाचः – अभिनिष्पत्तिशब्दस्य। प्रयोगम् – वाचकतया व्याहारम्। अनुविदुः –अधिगतवन्तः। परीक्षका इति शेषः। इयम् –अस्माभिरुपपाद्यमाना।आगन्तुः" – बन्धदशायामविद्यमाना मुक्तिदशायां विद्यमाना। धियः – धर्मभूतज्ञानस्य। सङ्कोचात्यन्तहानिः – सङ्कोचस्य सर्ववस्तुसम्बन्धायोगातापादकप्रसरणप्रागभावस्यात्यन्तहानिर्निश्शेषनिवृत्तिः। सर्ववस्तु सम्बन्धरूपो विकास इत्यर्थः। अभिनिष्पत्तिरुक्ता – ‘स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुत्या अभिनिष्पत्तिरित्युक्ता। तदा –सङ्कोचनिवृत्तिरभिनिष्पत्तिरिति निर्कर्षसमये। स्वेनशब्दः – स्वेनरूपेणेति श्रुतौ रूपविशेषणभूतस्स्वेनेति शब्दः। निष्प्रत्यूहस्वरूपोपधिकमपि प्रवक्ति – निष्पत्तिबन्धकस्वरूपोपाधिकं रूपं प्रवदति।न तावता स्वरूपोपाधिकत्वस्य पूर्वोक्तस्य हानिः, अपितु किञ्चिद्विशेषणमेव दीयते अच्छिद्रघटकार्यं जलाहरणमितिवदिति भावः॥
कुमार-वरदः - 4
- ननु जीवस्य स्वरूपाविर्भावो मोक्षश्चेत् तत्सवरूपं संसारदशायामप्याविर्भूतं मोक्षदशायां को विशेषः? तत्रोत्तरमाह— स्वाकारा दिति।लोके ह्येकमेव वस्तु पुरस्तात्किञ्चिदनुकूलतयमातम् उत्तरोत्तरं पश्यतः" पश्चादानुकूल्याधिक्येनावलोक्यते एवं जावत्मस्वरूपं नित्यभातमपि प्रथममेकदेशानुकूल्येन प्रतीयते मुक्तिदशायां त्वत्यन्तानुकूल्येन।अयमत्र शब्दान्वयः- नित्यभातात् स्वाकारात् अधिकसुखतया तदानीं मोक्षदशायां जीवो भाती ति।न चाभिनिष्पत्तिशब्दस्वारस्यं नास्तीति मन्तव्यमित्याह— सिद्धे ति।प्रयोग एव हि शब्दार्थनिर्णये प्रमाणम् अभिनिष्पत्तिशब्दस्याविर्भावमात्रेऽपि प्रयोगप्राचुर्यमस्तीति प्रागेवोक्तम्। नन्वभिनिष्पत्तिशब्दो ह्यागनतुकमेव कञ्चिदर्थं वक्ति कोऽयमागन्तुकोऽर्थ इत्याशङ्क्याह— सङ्कोचि ति। सङ्कोचात्यन्तहानिः —विकास इत्यर्थः।पूर्वं स्वरूपोपाधिकत्वमुक्तम् इदानीमभिनिष्पत्तिशब्देन सङ्कोचात्यन्ताहानेरभिधाना न्निष्प्रत्यूह स्वरूपोपाधिकं रूपं" स्वेनेतिशब्दः प्रवक्तीत्यर्थः॥
मूलम् - 4
4.स्वाकारान्नित्यभातादधिकसुखतया भाति जीवस्तदानीं
सिद्धाविर्भावमात्रेऽप्यनुविदुरभिनिष्पत्तिवाचः प्रयोगम्।
सङ्कोचात्यन्तहानिर्धिय इयमभिनिष्पत्तिरागन्तुरुक्ता
निष्प्रत्यूहस्वरूपोपधिकमपि तदा स्वेनशब्दः प्रवक्ति॥
विश्वास-प्रस्तुतिः - 5
5.प्रायस्स्वस्मिन् स्वदेहिन्यनघगुणनिधौ तद्विभूतिद्वये वा
दृष्टं यत्स्यात्समाधौ भवति पृषतवत्तद्धि मुक्तानुभूतेः।
कृत्स्नं तच्छर्करौघव्यतिकरितसुधासिन्धुवत् स्वादुभूतं
तस्मात्स्वात्मप्रकाशे न फलमिति वदन् कूपकूर्मो घृणार्हः॥
३४-तमाहोबिल-यतिः - 5
- प्राय इत्यादि।स्वस्मिन् – स्वात्मनि जीवात्मनीत्यर्थः। अनघगुणनिधौ – निर्दोषानन्तज्ञानान्दादिकल्पायगुणाकरभूते। स्वदेहिनि – स्वान्तर्यामिणि परमात्मनि। तद्विभूतिद्वये वा – तदीयं यत् लीलाभोगविभूतिद्वयं तस्मिन्वा।समाधौ — यमनियमादिसप्ताङ्गविशिष्टसमाधिनिष्पत्तिसमये। प्रायः – बाहुल्येन श्रवणमननादिदशातोऽतीव बहुलतया। यत् द्दष्टं स्यात् – यदतुभुतं भवेत्। तत् –तत् सर्वम्। मुक्तानुभूतेः" पृषतवद्धिं भवति – समाध्यवस्थालम्बनीयं सकलमपि सौरव्यं वैकुण्ठवासिनो देवीभूषायुधपरिजनपरिच्छदादिसकलविशेषणविशिष्टस्य सर्वतः परिबृढस्य समस्तकल्याणगुणनिधेरनवधिकज्ञानानन्दस्वरूपस्य उभयविभूतिविशिष्टस्य भगवतोऽनुभवसिन्धौ पृषतलवायत इत्यर्थः। तत् कृत्स्नम् –मुक्तानुभूतिविषयभूतं भोगविभूतिवस्तुजातमिव लीलविभूतिवस्तुजातमपि सकलम्। पूर्वमल्पानुकूलतया प्रतिकूलतयानुभूतमपीति भावः। शर्करौघव्यतिकरितसुधासिन्धुवत् स्वादुभूतम् — शर्करौघमिश्रितसुधासमुद्रतुल्यतया अत्यन्तभोग्यभुतं भवति। विभूतिदूयं सुधासिन्धुस्थानीयं शर्करौधस्थानीयो भगवान्। यद्वा भगवानेव सुघासिन्धुस्थानीयः कल्याणगुणविभूतिद्वयवस्तुजातं" शर्करौघस्थानीयं तथा च भगवचछेषतयानुभूयमानं लीलविभूतिवस्तुजातमपि निवृत्तपित्तोपसर्गसशर्करदुग्धन्यायेन भोग्यतममेव भवेदिति भावः। तस्मात् – अर्थस्थितेरेवंरूपत्वात्। स्वात्मप्रकाशे – आत्मानुभवे। फलं नेति वदन् — किमपि सुखं नास्तीति प्रलपन्। कूपकूर्मः" – अचिक्षुद्रान्धकूपमात्र सञ्चरणेनात्मानं धन्यम्मन्यमानोऽन्यल्लोके किमपि नास्तीति च निश्चिन्वानः कूर्म इव मन्दमतिः। धृणार्हः" – आत्मविद्भिरनुग्राह्यः। स्मर्यते हि आत्मद्रुहममर्यादं मूढमुञ्झितसत्पथम्। सुतरामनुकम्पेत नरकार्चिण्मदिन्धनम्॥ इतीति भावः॥
कुमार-वरदः - 5
- अत्र कश्चिच्चोदयति ’ वेदान्तविदिनामात्माविर्भावो मोक्ष इति सर्वसम्मतम्।तथा च यथा चिन्मात्रब्रह्मस्वरूपाविर्भावस्य पुरुषार्थत्वं" वदतां पुरुषार्थाभावोऽविशिष्टः, यद्यपि जीवातिरिक्तः परमात्मा द्रष्टव्यतया भवद्भिरङगीकियते सोऽपि योगदशायां द्दष्ट एव तथा च मोक्षदशायां विशेषतो द्रष्टव्याभावात् पुरुषार्थाभाव इति समानमेतत्’ इति।तदेतत्प्रतिक्षिपति- प्राय इति। अयमर्थः— -जीवस्वरूपसामान्यमहमिति सर्वलोकविदितम्।तथापि स जीवो विभूर्वा अणुर्वा भगवच्छेषभूतो वा अन्यशेषो वा स्वतन्त्रो वा परतन्त्रो वा ज्ञानरूपो वा जडरूपो वा ज्ञानगुणको वा निर्गुणो वा आनन्दाद्मको वा आनन्दस्वरूपो वा स च क्षणिकसन्तानमात्रउत स्थिरः स्थिरत्वेऽप्यामोक्षस्थायी अथवा अनुदयास्तमयस्स च कल्पितो वा अकल्पितो वा भिन्नो वा अभिन्नो वा भिन्नाभिन्नो वा इति बहुधा बम्भ्रम्यमाणैर्वादिभिरन्यथान्यथा अभिधानादनवधारितस्वरूप एव।तथा च तत्स्वरूपं भगवच्छेषत्वादिना मुक्तिदशायामेव विशेषतोऽवलोक्यते।आस्तामिदं जीवस्वरूपं नेदमोवास्माकं मुक्तिदशायां प्रकाश्यम् अपि तु तदन्तर्यामी पुरुषोत्तमः।तदिदमाह- स्वदोहिनी ति।’ यस्यात्मा शरीरम्’ ’ अन्तःप्रविष्टश्शास्तचा जनानाम्’ इति निगमशतनिगदतेन सर्वशरीरत्वेनावगन्तव्यः।तत्स्वरूपमपि श्रवणदशायां यावदवगम्यते न तावदेव मननदशायाम्।यच्च मननदशायामप्यवगम्यते न तावन्मात्रमेव निदिध्यासनदशायाम्।यदुच्यते ’ तत्रापि दह्नं गगनं विशोकस्तस्मिन्यदन्तस्तदुपाकितव्यम्’ इति अत्राप्यपहतपाप्मत्वादिगुणाष्टकाविर्भावे सत्यपि समाध्यवस्थावलम्बनीयं सकलमपि सोख्यं वैकुण्ठविसिनो देवीभूषणायुधपरिजनपरिच्छदादिसकल- -विशेषणविशिष्टस्य सर्वतः परिबृढस्य ’ पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि’ इति विभूतिद्वयाधिपत्येन निर्णीतस्य भगवतोऽनुभवसिन्धौ पृषतलवायते।अयमत्र शब्दान्वयः— स्वस्मिन् स्वात्मिनि अनघगुणनिधौ स्वदोहिनि परमात्मनि तद्विभूतिद्वये वा नित्यविभूतौ लीलाविभूतौ वा यत् समाधौ योगदशायां द्दष्टं तन्मुक्तानुभूतेः पृष्टवदेव भवतीति ।तेनोभयविभूतिविशिष्टपरब्रह्मानुभूतेरूत्तर कालेभावित्वेन पुरुषार्थत्वं युज्यत इति भावः।ननु पूर्वं दुःखत्वेन द्दष्टमेव पश्चादपि द्दश्यते कथं तस्य पुरुषार्थत्वमित्याशङ्क्याह— कृत्स्न मिति।भगवद्विभूत्यन्तर्गतं वस्तु स्वभावतः प्रतिकूलमेव किञ्चिन्नास्ति अपि तु पित्तोपहतस्य क्षीरमिव कर्मानुबन्धादेतावन्तं कालं प्रतिकूलतया भाता सेयं विभूतिः नित्यविभूतेस्तु भानमेव नाभूत् परञ्ज्योतिरुपसम्पन्नस्य तु सा चेयञ्च विभूतिद्वयं भगवच्छेषत्वानुसम्धानाविर्भाबेन निरतिशयसुखात्मकतया भाति।तत्र द्दष्टान्तमाह— शर्करे ति। विभूतिद्वय मत्र सुधासिन्धुः शर्करौधः पुनरपहतपाप्मत्वादिगुणाष्टकविशिष्टो भगवान्।अथवा भगवानेव सुधासिन्धुः अपहतपाप्मत्वादिगुणाष्टक -पूर्वकाप्राकृतदेवीभूषणायुधपरिच्छददेशविशेषादयश्शर्करास्थानीयाः।तथा च सकलविशेषणसम्पन्नस्य श्रीनिवासस्य भगवतो वैकुण्ठवासिनोऽनन्तगरुडविष्वक्सेनादिभिरन्तरङ्गपरिकरैरनवरतसेव्यमानस्य नित्यसेवाहेवाकिनामस्माकं पुरुषार्थाभावमनुवदन्नत्यन्ताप्रसिद्धदेशवासित्वादशेषानुपलम्भेन कूपोदरकूर्म इत्यपहसन्त्याचार्याः।तस्मादति घृणार्हः कृपायोग्यः।अनर्थप्रवणजनाः" खल्वात्मविद्भिरनुग्राह्याः स्मर्यते हि- ’ आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम्।सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्॥’ इति॥
मूलम् - 5
5.प्रायस्स्वस्मिन् स्वदेहिन्यनघगुणनिधौ तद्विभूतिद्वये वा
दृष्टं यत्स्यात्समाधौ भवति पृषतवत्तद्धि मुक्तानुभूतेः।
कृत्स्नं तच्छर्करौघव्यतिकरितसुधासिन्धुवत् स्वादुभूतं
तस्मात्स्वात्मप्रकाशे न फलमिति वदन् कूपकूर्मो घृणार्हः॥
विश्वास-प्रस्तुतिः - 6
6.मल्ली शुद्धं प्रसूनं जनयति समये रञ्जकोपाधिमुक्ते
तद्वन्नाथानुकम्पा फलमुपशमितावग्रहं सूरितुल्यम्।
तस्मादागन्तुकेऽपि प्रतिहतिविरहात्तादृशे धीविकासे
प्रत्यापन्नस्वदायक्रम इह कथितः प्राप्तसिद्धेः प्रतीचः॥
३४-तमाहोबिल-यतिः - 6
- मल्ली शुद्धमित्यादि । मल्ली –मल्ली नाम पुष्पलता। रञ्चकोपाधिमुक्ते समये – रञ्चको रक्तपुष्पत्वादिहेतुः उपाधिः उपाधीयतइत्युपाधिः" किंशुकवृक्षसुषिरप्रवेशनाघुपायः, तने मुक्ते विरहिते समये काले। शुद्धम् –श्वेतवर्णम्। प्रसुनम् — कुसुमम्। जनयति –यथा उत्पादयति। ताद्दशोपाधियुक्तसमये रक्तं पुष्पमुत्पादितवत्यपि मल्ली उपाधिनिवृत्तिसमये शुद्धवर्णं पुष्यं यथोत्पादयति। तद्वत् – तद्रीत्या। नाथानुकम्पा — भगवत्कृपा। उपशमितावग्रहम् – उपासनादिप्रसदनव्यापारौर्निवर्तित भगवन्निग्रहरूपप्रतिबन्धकम्। सुरितुल्यम् – अनन्तगरुडादिनित्यसुरीणामिव स्वरूपप्राप्तम्। फलम् – कैङ्कर्यपर्यन्ताविच्छिन्न भगवदनु भवरूपमोक्षात्मकं फलम्। जनयति— उत्पादयति। तस्मात् –उक्तोपपादनात्। प्राप्तसिद्धेः —- लब्धमोक्षसिद्धेः। प्रतीचः – चेतनस्य। प्रतिहतिविरहात् – प्रतिबन्धकनिवृतेः कारणात्। आगन्तुकेऽपि —- तदानीन्तनेऽपि। ताद्दशे – शाणोल्लीढमणिप्रभाप्रसरणवत् स्वाभाविके। इह – अस्मिन्। धीविकासे – धर्मभूतज्ञानविकासे। प्रत्यापन्नखदायक्रमः" कथितः — सार्वभौमपुत्रस्य कस्यचित् पिशुनवचनादिक्षोभकलुषितपितृकोपप्रतिबद्धस्वदायस्य पश्चात् तत्प्रसदनेन निवृत्तमनः कालुण्यात् पितुस्सार्वभौमात् प्रत्यापन्नः पुनर्लब्धः यः स्वदायस्स्वभागः तस्यः क्रमः कथितः। शाश्त्रौरिति शेषः॥
कुमार-वरदः - 6
- अनादिसिद्धस्य स्वाभाविकस्वरूपस्योपाधिवशादन्यथाभावे सिद्धे पश्चादुपाध्यपगमे सिद्धे पुनः पूर्वाकारप्राप्तिस्स्यात् सचाकार उत्तरस्मिन्काले नित्यमेवानुवर्तत इत्यस्मिन्नर्थे लोकद्दष्टान्तमाह— मल्लि ति।मल्लिका हि मध्ये किंशुकादिसुषिरप्रवेशरूपोपाधिवशात् शुद्धप्रसून जनकस्वभावं मुक्त्वा रक्तप्रसूनं जनयति पुनश्च रञ्जकोपाधिमुक्ते समये सञ्जाते शुद्ध मेव प्रसूनं जनयति एवमनन्तगरुडविष्वक्सेनादिवज्जीवोऽपि शुद्धस्वभावस्स्वयमनादिकर्मवशात् स्भाविकरूपतिरोधानं प्राप्नोति उपाधिविनिर्मोक्षे पश्चाज्ज्ञानविकासमुपलभते।तदिदमाह— तद्व दिति। नाथानुकम्पा सू रितुल्यं फलं जनयती त्यन्वयः।अत्रायं विशेषः—जीवानां नित्यमेव सूरिवद्भगवदनुभवयोग्यत्वे सत्यपि अनादिप्रतिबन्धादननुभवः" प्रतिबन्धनिवृत्तौ सूरितुल्यानुभवसिद्धिः।मल्लीपुष्पादौ पूर्वमपि शुद्धिर्मध्ये त्वौपाधिकाकाराविशेषप्राप्तिः पश्चात्स्वाभाविकस्वरूपसम्बन्ध इति।अत्र साक्षाद्द्दष्टान्तो ’ यथा न क्रियते ज्योत्स्ना’ इत्याद्युक्तो मणिरेव।मणेः खलूत्पत्तिसिद्ध एव प्रकाशः।स तु प्रकाशः" कस्यचिन्मणेरुत्पत्तिमारभ्य मलतिरोहितो भवति।कस्यचित्तवदित आरभ्य मलसम्बन्ध एव नास्ति तत्तुल्या नित्याः।संसारिणस्त्वादित आरभ्य मलसम्बन्धवन्मणिप्रायाः।तेषांतु शाणोल्लेखनेन मणेरिव भगवदुपासनात्मक शाणोल्लेखनात् स्वाभाविकप्रकाशाविर्भावो भवति।उक्तमर्थं निगमयति– तस्मा दिति। प्रतिहतिविरहात् स्वाभाविकरूपावि- -र्भावस्य तस्य च पुनः प्रतिबन्धाभावात् नित्यमेवावस्थानस्य लोके द्दष्टत्वात् ताद्दशधीविकासस्यागन्तु- -कत्वे सत्यपि प्राप्तसिद्धेः प्रतीचः प्राप्तफलस्य प्रत्यगात्मनः प्रत्यापन्नस्वदायक्रम इह कथितः । अयमर्थः-कस्यचित्पुत्रस्य पितृधनं स्वभावतः प्राप्तं तदन्येन बलवता कुत्सितेन केनाप्युपरुध्यते पश्चादुपरोधनिवृत्तौ स्वभावप्राप्तं" स्वधनं पुत्रः प्राप्नोति एवं भगवदनुभवस्य सर्वात्मनां स्वभावतः प्राप्तत्वात् तत्प्रतिबन्धककर्मनिवृत्तौ प्रतिबन्धकान्तरप्रसङ्गाभावान्नित्यमेवासावनुवर्तत इति निष्कण्टकोऽयं नीतिमार्गः।कृतकत्वेनानित्यत्वानुमानं तु ’ नच पुनरावर्तते’ इति प्रमाणबाधितत्वान्नरशिरःपवित्रत्वाद्युनुमान- -सौभ्रात्रमेवलभते॥
मूलम् - 6
6.मल्ली शुद्धं प्रसूनं जनयति समये रञ्जकोपाधिमुक्ते
तद्वन्नाथानुकम्पा फलमुपशमितावग्रहं सूरितुल्यम्।
तस्मादागन्तुकेऽपि प्रतिहतिविरहात्तादृशे धीविकासे
प्रत्यापन्नस्वदायक्रम इह कथितः प्राप्तसिद्धेः प्रतीचः॥
विश्वास-प्रस्तुतिः - 7
7.अर्वाञ्चं मुक्तिभेदं कतिचिदगणयन्् स्वात्ममात्रामनुभूतिं
तत्र ब्रह्मानुभूतेर्विहतिरुपधितस्स्यात्स्वतो वेति चिन्त्यम्।
सन्ति द्वेधापि दोषास्तत उपचरणान्मुक्तिशब्दोऽत्र युक्तः
सालोक्यादिप्रभेदेष्वपि सरणिरियं सावधानैर्विभाव्या॥
३४-तमाहोबिल-यतिः - 7
- अर्वाञ्चमित्यादि। कतिचित् – केचिदविचारकाः। स्वात्ममात्रानुभूतिम् – जीवात्ममात्रानुभवत्। अर्वाञ्चं मुक्तिभेदम् अगणयन् – साक्षान्मुक्तेरान्तरं मुक्तिविशेओषं निश्चितवन्तः। तत्र– ताद्दशमुक्तिविशेषे। ब्रह्मनुभुतेर्विहतिः — परमात्मानुग्वविच्छेदः। उपधितस्स्यात् स्वतो वा स्यादिति चिन्त्यम् –कर्मोपाधिमूलको वा स्वाभाविक एव वा भवेदिति विकल्प्य विचारणीयम्। द्वेधापि — कैवल्यानुभवकालिकपरमात्मानुभवविच्छेदस्य कर्मोपाधिकत्वे स्वाभाविकत्वेऽपि। दोषास्सन्ति – कर्मोपाधिकत्वे निश्शेषकर्माविच्छेदान्निश्शेषकर्मक्षयरूपा मुक्तिस्सा न स्यात्। स्वाभाविकत्वे अपसिद्धान्तः। सर्वेषामपि चेतनानां नित्यसूरितुल्यतया भगवदनुभवयोग्यता हि सिद्धान्तसिद्धा भगवदनुभवविच्छदस्यैव केषांचित्स्वाभाविकत्वे सा भज्येत एवमादिदोषास्सन्तीत्यर्थः। ततः=तस्मात्कारणात्। अत्र-कैवल्ये। मुक्तिशब्दः-‘स्वात्मानुभूतिरिति या किल मुक्तिरुक्ता’ इत्यादिषु प्रयुक्तो मुक्तिशब्दः।उपचरणाद्युक्तः – ‘विगतेच्छाभयक्रोधो यस्सदा मुक्त एव सः’ इत्यादाविवौपचारिक इत्येव युक्तः। लाक्षणिक" इत्यर्थः। सालोक्यादिप्रभेदेष्वपि इयं सरणिस्सावधानैर्विभाव्या – ‘लोकेषु विष्णोर्निवसन्ति केचित् समीपमृच्छन्ति च केटिदन्ये। अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये सतु मोक्ष उक्तः॥‘इत्यादौ ‘मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन। इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत॥’ इत्यादौ च सायज्यस्यैव साक्षान्मुक्तित्वेन ग्राह्यत्वनिश्चयात् सालोक्यादौ क्वाचित्को मुक्तिशब्दोऽपि साकोल्यसामीप्य सारूप्यसार्ष्टिताविशिष्टब्रह्मानुभाव्यानुभोक्तृत्वरूपसाक्षान्मुक्त्येकदेशत्वात् पूर्ववदौपचारिक एवेति तत्त्वावधानचतुरैर्निदर्शिता सरणिरनुसन्धेयेत्यर्थः। नित्यकैवल्यदूषणानि ‘ध्यायेयुर्येच’ इत्यादिपूर्वपादश्लोकव्याख्यानावसरे चिन्तामण्यां सविस्तरमभिहितानि तत्रैव द्रष्टव्यानि।न्यायसिद्धाञ्जनादौ च कैवल्यविभागतद्दूषणगीताभाष्यनिर्वाहादिकं तात्पर्यचन्द्रिकायाञ्च सकुतहलैस्समीक्षणीयम्॥
कुमार-वरदः - 7
- अत्र केचिदाहुः ’ जीवात्ममात्रप्राप्तिरिति काचिन्मक्तिरस्तीति, सा पुनर्मुक्तिरेव न भवतीति दर्शयितुं तत्पक्षमनुवदति— अर्वाञ्च मिति। कदिचि दविचारकाः स्वात्ममात्रानुभूतिं मुक्तिविशेषमगणयन् । अत्रोत्तरमाह—तत्रेति।अत्र ब्रह्मानुभूतिविच्छेदस्स्वाभाविकः कर्ममूलो वेति विकल्प्योभयत्रापि दूषणमभिधेयम्।किं दूषणमित्युयोगे पूर्वमस्माभिरुक्तान्दोषानिहाचष्टे— सन्ती ति।तर्हि कैवल्यं" मुक्तिरिति कथयन्त्यैतिहासिकाः पौराणिकाश्च न केवलं त एव भवत्पक्षानुसारिणोऽपि केचिदूचुरित्याशङ्क्य सर्वोऽयं व्यवहार औपचारिक" इत्याह— तत इति।अस्तु कैवल्यं मुक्तिरौपचारिकी अथापि सालोक्यसामीप्यसारूप्यरूपेण मोक्षविशेषा भावत्कैरेवाभिधीयन्ते तत् कथमित्याशङ्क्याह— सालोक्येति । तत्राप्यौपचारिको मुक्तिशब्दइत्यर्थः।अस्ति चात्र प्रमाणम्—’ लोकेषु विष्णोर्निवसन्ति केचित् समीपमृच्छन्ति च केचिदन्ये।अन्येतु रूपं सद्दशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः॥’ इति।अयमर्थः—न केवलं सालोक्यादिकं मोक्षः,तत्र तु मोक्षशब्द औपचारिकः।यस्तु सायुज्यं प्राप्तः, तस्य तु सालोक्यादित्रयमपि सायुज्यान्तर्गतत्वेन मुक्तिशब्दवाच्यतामुपलभते।अतः प्राप्ताप्राप्तविवेकेन सायुज्यमेव मोक्षशब्दार्थः।अन्यानि तु सायुज्यसम्बन्धादेव मुक्तिशब्दवाच्यतामुपलभन्ताम्।का नो हानिः सायुज्यं तु ’ सोऽश्नुते सर्वान्कामान्सह’ इति श्रुत्यैव निरुक्तम्।’ भोगमात्रसाम्यलिङ्गाच्च’ इति सूत्रकारोऽपि भाग्यसाम्यमेव सायुज्यमित्याह।यस्तु मोक्षदशायां" सार्ष्टितेति कश्चिद्विशेषोऽभिधीयते सोऽप्याचार्यैरेवान्यत्र विविच्य दर्शितः—’ सायुज्यमुभयोरत्र भोक्तवयस्याविशिष्टता । सार्ष्टिता तत्र भोगस्य तारतम्यविहीनता ॥’ इति।लोके हि भोग्यस्यैक्येऽपि भोक्तृतृष्णावैषम्यमस्ति तदप्यत्र नास्तीतीममर्थं दर्शयितुं" सायुज्यान्तर्गतमेव सार्ष्टित्वमनुकथयन्ति सन्तः।मृषावादिनां तु सायुज्यप्रसङ्ग एव नास्ति।उपसर्गस्य तावत्सहशब्दपर्यायत्वेव तन्मतविरोधस्सुप्रसिद्ध एव।युजिर्योग इति धातोरपि भेदगर्भत्वमविवादमेव सर्वेषामेव बादिनाम्।सयुजो भावस्सायुज्यमिति प्रत्ययोऽपि सप्रत्ययं भेदमेवाचष्टे।तस्मात्सायुज्यं" मुक्तितर्मृषावादिनामित्यवयुत्पन्नानामेवालापः।तर्हि सायुज्यमित्यैक्यमभिधीयत इति रूढिशक्तिमभिदध्मह इति चेत् तदपि न रूढिशक्तिप्रतिपादकप्रमाणाभावात्, प्रत्युत ’ द्वा सुपर्णा सयुजा सखाया’ ’ आदित्यस्य सायुज्यम्’ इति वैदिकप्रयोगेषु भेदपूर्वकमेवाभिधानात्।लोके चैक्यमेव सायुज्यमिति पामरा अपि न प्रवदन्ति किं पुनः कवयः।यदि वदन्ति भवाद्दशाः, ते पुनरवयो वा कपयो वेति॥
मूलम् - 7
7.अर्वाञ्चं मुक्तिभेदं कतिचिदगणयन्् स्वात्ममात्रामनुभूतिं
तत्र ब्रह्मानुभूतेर्विहतिरुपधितस्स्यात्स्वतो वेति चिन्त्यम्।
सन्ति द्वेधापि दोषास्तत उपचरणान्मुक्तिशब्दोऽत्र युक्तः
सालोक्यादिप्रभेदेष्वपि सरणिरियं सावधानैर्विभाव्या॥