विश्वास-प्रस्तुतिः - 1
1.उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं
निर्धूतोपाधिराशेर्निरुपधिकमहानन्दमन्त्येन वक्ति।
स्वाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चे-
त्येवं द्वे पेटिके स्तस्स्वत उभयमिदं नोपधेर्नाथनिघ्नम्॥
३४-तमाहोबिल-यतिः - 1
- उक्तं पादैरित्यादि। पादैः – चतुर्थाध्याघत्तैस्त्रिभिः पादैः। इति — प्रतिपादितक्रमेण। अधानां हानं पृथुवपुषो हानं सुक्षममुर्तेर्हानञ्च उक्तम् —- प्रथमपादेन पुण्यपापरूपाणां ब्रह्मवित्सम्बन्धिनां सर्वेषां कर्मणां निरसनमुक्तं द्वितीयपादेन स्थूलदेहनिवृत्तिरूपं" फलपर्वोक्तं तृतीयपादेन सूक्ष्मशरीरनिवृत्तीरूपं फलपर्व प्रत्यपादीत्यर्थः। अन्त्येन निर्धूतोपाधिराशेर्निरूपाधिकमहानन्दं वक्ति – अन्त्येन चतुर्थपादेन निर्धूतो विरजास्नानेन दूरतो निरस्तः उपाधीनां देहसम्बन्धतद्धर्मसम्बन्धादिरूपाणां राशिस्समूहो येन तस्य मुक्तस्य देशकालाघुपाधिशून्यतया निरतिशयं महानन्दं" प्रतिपादयति। अत्रत्रिभिरधिकरणैस्खाविर्भावश्चिन्त्यः त्रिभिश्चाधिकरणैश्छन्दवृत्तिश्चिन्त्या इत्येवं द्वे पोटिके स्तः – अत्र पादे प्रथमतः सम्पघाविर्भावः इत्यादिभिस्त्रिभिरधिकरणैस्स्वस्वरूपाविर्भावो विचार्थः तत उपरि त्रिभिरधिकरणैः स्वच्छन्दकैङ्कर्यभोगो विचारणीयः इत्थमर्थद्वयप्रतिपादनक्रमेण द्वे पेटिके भवतः। इदमुभयं स्वतः उपधेर्न नाथनिध्नम् — उक्तं स्वरूपाविर्भावकैङ्कर्यभोगरूपमिदमर्थद्वयं" स्वतो भवति नतु कर्माधुपाधिमूलकं भवति अथापि भगवदायत्तमेवेत्यर्थः॥
कुमार-वरदः - 1
- अत्र चतुर्थाध्याये गतानां पादानामर्थभेदं विभज्यानूद्य चतुर्थस्य पादस्यार्थविशेषं तदन्तर्गतयोस्त्रि- -कत्वेन विभक्तयोः" पेटिकयोरर्थविशेषञ्च दर्शयति— उक्त मिति।तत्र त्रिपाद्यर्थभेदस्तावत्प्रदर्श्यते- पादै रिति।एवम्प्रकारेणा घानां कर्मणां स्थूलवपुष स्सूक्ष्म वपुषश्च हानं क्रमादुपपादितमिति।चतुर्थस्य पादस्यार्थं विभज्य दर्शयति— निर्धूते ति। उपाधि र्देहसम्बन्धस्तद्धर्मसम्बन्धश्च स तु विरजातरणावस्थायां निर्धूतः ।एवं निर्धूतोपाधि समूहस्य विरतिशया नन्दमन्त्येन पादेन वक्ति ।अत्र पेटिकाविभागं दर्शयति— त्रिभि रिति। त्रिभिरधिकरणैस्स्व स्वरूपा विर्भावश्चिन्त्यः ।पुनस्रिभिरधिकरणैस्स्वच्छन्दकैङ्कर्यभोगोऽ -भिधीयते। इत्येव म्प्रकारे द्वे पेटिके भवतः।स्वरूपाविर्भावकैङ्कर्यभोगरूपमेतद् द्वितयं स्वतो भवति न कर्माधीनम्।तर्हि कारणाभावे कार्यं कथं स्यादित्याशङ्क्य सर्वकारणं परमात्मानमेवात्र पुरस्करोति- नाथनिध्न मिति।अयमर्थः—निश्शेषकृत्स्नप्रतिबन्धनिरासे सति भगवानेव जीवस्य गुणाष्टकाविर्भावादिकं स्वयमेव करोतीति न काचिदनुपपत्तिः॥
मूलम् - 1
1.उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं
निर्धूतोपाधिराशेर्निरुपधिकमहानन्दमन्त्येन वक्ति।
स्वाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चे-
त्येवं द्वे पेटिके स्तस्स्वत उभयमिदं नोपधेर्नाथनिघ्नम्॥