29 कार्याधिकरणम्

विश्वास-प्रस्तुतिः - 11
  1. वैधात्रस्थाननेतॄन्समकथयदिमान्बादरिस्तादृशानां
    गत्यौचित्यं तदा स्यान्न खलु विभुजुषामत्र वेद्यं न लभ्यम्।
    सामीप्याद् ब्रह्म चोक्तस्सरसिजवसतिस्तेन सार्धञ्च मुक्तिः
    युक्तेत्येतन्न नानाश्रुतिपठितपरस्थानगत्याद्यबाधात्॥
३४-तमाहोबिल-यतिः - 11
  1. वैधात्रेत्यादि। बादरिः –एतन्नामा ऋषिः। इमान् –अर्चिरादिकानातिवाहिकान्। वैधात्रस्थाननेतृन् समकथयत् —विधातुश्चतुर्मुखस्येदं" वैधात्रं तादृशं यत्स्थानं तस्य प्रापकान् अभिहितवान्। तादृशानाम् — वैधात्रस्थानप्राप्तियोग्यानामुपासनानाम्।तदा –बादर्यङ्गीकृतपक्षे। गत्यौचित्यं स्यात् — वैधात्रस्थानस्य परिच्छिन्नतया देशविशेषवर्तित्वेन उपासकानां तत्र गमनस्य औचित्यं युक्तत्वं भवेत्।विभुजुषाम् –सर्वव्यापिब्रह्मविदां तु। वेद्यम् –ज्ञेयं ब्रह्म। अत्र न लभ्यं न खलु –अस्मिन् लोके न लभ्यं न। अपितु लभ्यमेवेत्यर्थः। सर्वव्यापकवस्तुलाभाय देशविशेषो गन्तव्यो नहीत्यर्थपरः खल्वितिशब्दः। तर्हि ब्रह्म गमयतीति नपुंसकब्रह्मशब्दप्रयोगोऽनुपपन्नः, तदानीं ब्रह्माणं गमयतीति खलु प्रयोक्तव्यमित्यत्राह —सरसिजवसतिः। चतुर्मुखः। सामीप्यात् – ‘यो ब्रह्माणं विदधाति पूर्वम्’ इति परब्रह्मसम्भवत्वेन तत्सामीप्यात्। ब्रह्म चोक्तः –परब्रह्मनाम्ना नपुंसकब्रह्मशब्देनाभिहित इत्यर्थः। तेन सार्धं मुक्तिश्च युक्ता – ‘ब्रह्मणआ सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्राप्नुवन्ति परं पदम्॥’ इति प्रमाणानुसारेण द्विपरार्धावसाने तेन चतुर्मुखेन साकमस्योपासकस्य परब्रह्मप्राप्तिरूपा मुक्तिरुचिता। इत्येतन्न — एवमाशङ्कनं न युक्तम्। नानाश्रुतिपठितपरस्थआनगत्याद्यबाधात् — ‘सोऽध्वनः" पारमाप्नोति तद्विष्णोः परमं पदम्’ इत्याद्यनेकेश्रुतिषु पठितं यत् परब्रह्मस्थानगमनतत्रत्यभोगादिकं तदबाधाद्धेतोः। अन्यथा तद्वाधस्स्यादित्यर्थः॥
कुमार-वरदः - 11
  1. अत्र सङ्गतिर्भाष्ये ’ अर्चिरादिनैव गच्छन्ति विद्वान्।अर्चिरादिरमानवान्तश्च गणआदिवाहिको विद्वांसं ब्रह्म गमयतीत्यक्तम्।इदमिदानीं" चिन्त्यते।किमयमर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान्नयति उत परं ब्रह्मोपासीनानेव, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं" ब्रह्ममकतयोपासीनांश्चेति विशये’ इति।पूर्वं त्रिभिरधिकरणैरर्चिरादेरेकत्वेन गुणोपसंहार उक्तः अधुना द्वाम्यामधिकरणाभ्यां तस्य स्वरूपं निरुप्यत इति पेटिकाभेदः।तत्र पूर्वपर्चिरादिनामातिवाहिकत्वमुक्तम् इदानीं तेषामातिवाहिकत्वं किंविषयमिति विशेषचिन्ता क्रियत इति द्वयोरेकपेटिकात्वसिद्धिः।तदर्थविचिरस्तु—किमर्चिरादिरातिवाहिको गणः कार्यं हिरण्यगर्भमुपासीनानेव नयति, उत परं" ब्रह्मोपासीनानेव अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांस्चेति।किं परब्रह्मणि प्राप्ये गतिब्रह्मलोकशब्दावुपपद्येते नेति।ब्रह्मोपासीनानामेव गमयतृत्वे ’ तद्य इत्थं विदुर्ये चेमेऽरण्ये’ इत्यादिवाक्यसामञ्चस्यमस्ति न्ति।अत्र पूर्वपक्षमाचष्टे— वैद्यात्रस्थाने ति।बादरिः खल्वत्र पूर्वपक्षवादी स त्वेवं मनुते।आतिवाहिकाः खल्वेते वैद्यात्रस्थाननेतार इति बादरिस्समकथयत् । ताद्दशानाम -विधातृस्थानयोग्यानाम।तत्र हेतुमाह— गत्यौचित्य मिति। ब्रह्मलोकप्राप्तौ पुरुषार्थे गत्यौचित्य मस्ति।परमात्मप्राप्तौ गमनौचित्यं नास्तीत्याह— न खल्वि ति। अयमर्थः—सर्वव्यापकस्य भगवत उपासकाना मत्रैव किं फलं न लभ्यम् ।भगवत्स्वरूपप्राप्तिरेव हि फलम्, सा पुनरत्रैव लभ्यते किमनेन गमनोपदेशेन निरर्थकेन।ननु चतुर्मुखब्रह्मप्राप्तौ विवक्षितायां ’ स एनान् ब्रह्म गमयति’ इति नपुंसकलिङ्गान्तब्रह्मशब्दो नोपपद्यते तदा ब्रह्माणं गमयतीति वक्तव्यत्वादित्यत्राह— सामीप्या दिति।’ यो ब्रह्माणम्’ इति परब्रह्मसम्भवस्य परब्रह्मसामीप्यान्नपुंसिक लिङ्गान्तेन ब्रह्मानाम्ना सोऽप्यभिधीयत इति न विरोधः।अत्र ’ मानस एत्य ब्रह्मलोकान् गमयति’ इति ब्रह्मलोकानिति बहुत्वं पाशाधिकरणन्यायेन नेतव्यम्।लोकशब्दोपादीनञ्च निषादस्थपतिन्यायेन ब्रह्मैव लोको ब्रह्मलोक इति नेयमिति नानुपपत्तिगन्धः।नचात्र मुक्त्युपदेशानुपपत्तिरिति मन्तव्यमित्याह— तेनेति ।अयमर्थः—पूर्वं सरसिजवसतिं प्राप्य तेन सहैव मुक्तितरन्ते स्यादिति।एतत्मर्वं भाष्य एव सुव्यक्तमनूदितमिति नास्माभिः प्रपञ्च्यते।तदेतन्निराकरोति- एतन्नेति ।तत्र हेतुमाह— नाने ति।’ तद्विष्णोः परमं पदम्’ इति श्रुतिपठितपरस्थान गमनस्य नानाश्रुति सिद्धत्वाच्छ्रतिबाधो न न्याय्य इति।शेषं भाष्ये॥
मूलम् - 11
  1. वैधात्रस्थाननेतॄन्समकथयदिमान्बादरिस्तादृशानां
    गत्यौचित्यं तदा स्यान्न खलु विभुजुषामत्र वेद्यं न लभ्यम्।
    सामीप्याद् ब्रह्म चोक्तस्सरसिजवसतिस्तेन सार्धञ्च मुक्तिः
    युक्तेत्येतन्न नानाश्रुतिपठितपरस्थानगत्याद्यबाधात्॥
विश्वास-प्रस्तुतिः - 12

12.मार्गोऽसावर्चिरादिर्गमयति परमं धाम गत्यादियोगात्
ब्रह्मोक्तेर्मुख्यभावादिति तु निरणयज्जैमिनिर्युक्तमेतत्।
वक्तव्यं त्वत्र किञ्चिन्नयति परविदस्स्वान्वितब्रह्मनिष्ठान्
तद्देहस्वात्मनिष्ठानपि मुखभिदयामी च सम्पूर्णनिष्ठाः॥

३४-तमाहोबिल-यतिः - 12
  1. मार्गोऽसावित्यादि।असावर्चिरादिर्मार्गो गत्यादियोगात् ब्रह्मोक्तेर्मुख्यभावात् परमं धाम गमयति इति तु जैमिनिर्निरणयत् –असावर्चिरादिमार्गः परब्रह्मणोऽपि स्थानविशेषादीनां नानाश्रुतिसिद्धत्वेन तत्र गमनादिसम्भवात् नपुंसकब्रह्मशब्दस्य स्वरूपगुणकृतबृहत्त्वरूपप्रवृत्तिनिमित्तपौष्कल्येन परवस्तुन्येव मुख्यवृत्तेश्च तदीयं तेजोरूपमप्राकृतं स्थानं ब्रह्मात्मकं वा धाम गमयतीत्येवं जैमिनिर्निश्चिकाय। एतत् – जैमिनिमतम्।युक्तम्-युक्तियुक्तं" प्रमाणबद्धञ्चेत्यर्थः। किन्तु अत्र – जैमिनिमते। किञ्चिद्वक्तव्यम् – किञ्चिद्विवरणीयमस्तीत्यर्थः। स्वान्वितब्रह्मनिष्ठान् तद्देहस्वात्मनिष्ठानपि मुखभिदया परविदो नयति – स्वात्मशरीरकब्रह्मोपासका ब्रह्मशरीरभूतस्वात्मोपासकाश्चेति द्विविधाः खलु ब्रह्मनिष्ठाः। एवं प्रकारभेदेन द्विविधानपि परमात्मोपासकान् नयत्यातिवाहिकगणाः। कुत एवमिति चेत् अमी च सम्पूर्णनिष्ठाः –उक्ता द्विविधआ अप्यमी उपासकास्सम्पूर्णब्रह्मोपासकाः। अतो द्विविधानपि नयतीति जैमिनिहृदयमिति। अस्मिन्नुपासनप्रकारद्वयेऽपि ब्रह्मप्राधान्यं जीवस्य तद्विशेषणत्वमप्येकरूपमेवेत्यैकार्थ्यसिद्धेः। ‘रामानुजं लक्ष्मणपूर्वजञ्च’ इतिवदुपदेशद्वयेऽपि अर्थैक्येऽपि सम्भावितविधाद्वयग्रहणं" कार्यमित्यभिप्रायेणैव ‘अप्रतीकालम्बनान्नयतीति बादरायणः’ इति प्रतीकालम्बनभिन्नत्वेनोपाकसंग्रहणस्य सूत्रकारैः कृतत्वाच्च द्विविधानप्युपासकान्नयतीत्ययं" विशेष इति भावः॥
कुमार-वरदः - 12
  1. बादरिमतप्रतिक्षेपकस्य जैमिनेः पक्षमनूद्य शिष्याणां विशदप्रतिपत्त्यर्थं वक्तव्यशेषमपि तत्राचष्टे- मार्ग इति। असावर्चिरादिर्म्र्गः परमं धाम ’ तद्वष्णोः परमं पदम्’ इति श्रुतिसिद्धं वैकुण्ठाख्यं परं धाम गमयति ।अथवा वैकुण्ठवासिनम् ’ अथ यदतः परो दिवो ज्योतिर्दीप्यते’ इति दिव्यलोकवासिनं निरतिशयदीप्तियोगेन धामशब्दवाच्यं परमपुरुषमेव गमयति। तत्र हेतुमाह- गत्यादी ति।दिव्यस्थास्य तत्स्थानवासिनः" परमपुरुषस्य च गमनेन प्राप्यत्वसम्भवात्।न केवलं योग्यत्वेनायमर्थः सिध्यति, अपितु नपुंसलिङ्गान्तस्य ब्रह्मशब्दस्य मुख्यत्वाच्चेति दर्शयति- ब्रह्मोक्ते रिति।भगवाञ्जैमिनिः परं ब्रह्मप्राप्नुवतामेवैषा गतिरिति निरणैषीत्।उक्तमर्थमङ्गीकृत्यैव तत्र कञ्चिद्विशेषं" वक्तुं सत्य (युक्तः?) शब्दं प्रयुक्तवानाचार्यः।तदेवाह- वक्तव्य मिति।प्रतिज्ञातमेव वक्तव्यं प्रकटयति- नयती ति।अयमर्थः-द्विविधाः" खलु ब्रह्मनिष्ठाः।स्वात्मशरीरकपरमात्मोपासकाः केचित्।परमात्मशरीरभूतस्वात्मनिष्ठाः परे।द्विविधानपि तान्व परविदो मुखभेदेन ब्रह्मनिष्ठान र्चिरादिमार्गो गमयतीति जैमिनेरभिप्रेतोऽर्थः।ननु तर्हि विषमोपासकयोर्द्वयोस्सम्पूर्णब्रह्मनिष्ठत्वं कथमित्याशङ्क्याह- अमी चे ति।विशेषणविशेष्यभाववैपरीत्योपदेशमात्रमेवात्र क्रियते।उभयत्रापि ब्रह्मणःप्रधानं जीवस्य तद्विशेषणत्व- -मप्येकरूपमेवेत्यैकार्थ्यसिद्धिः।यथा ’ रामानुजं लक्ष्मणपूर्वजञ्च’ इत्यादिषूपदेशवैपरीत्येऽप्यर्थतत्त्वमेक- -रूपमेव।तदिदं सर्वमभिप्रेत्योक्तं सूक्रकारैः ’ अप्रतिकालम्बनान्नयतीति बादराणः’ इति॥
मूलम् - 12

12.मार्गोऽसावर्चिरादिर्गमयति परमं धाम गत्यादियोगात्
ब्रह्मोक्तेर्मुख्यभावादिति तु निरणयज्जैमिनिर्युक्तमेतत्।
वक्तव्यं त्वत्र किञ्चिन्नयति परविदस्स्वान्वितब्रह्मनिष्ठान्
तद्देहस्वात्मनिष्ठानपि मुखभिदयामी च सम्पूर्णनिष्ठाः॥

विश्वास-प्रस्तुतिः - 13

13.ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान् केवलान्वा यथेष्टं
द्वेधापि ब्रह्मदृष्ट्या जडनिवहमपि स्वेन यद्वान्यदृष्ट्या।
ते सर्वे हि प्रतीकप्रणिहितमनसो नार्चिराद्याध्वयोग्याः
ब्रह्मोपास्तेश्च लिङ्गं गतिरियमनघा सूत्रिता पूर्वमेव॥

३४-तमाहोबिल-यतिः - 13
  1. प्रतीकालम्बना विव्रियन्ते –ध्यायेयुरित्यादिना।ये च –उपासकाश्च। यथष्टेम् –स्वेच्छानुसारेण। प्रकृतिशबलितान् जीवान् –प्रकृतिसंयुक्तान् जीवात्मनः।केवलान् जीवान् वा — प्रकृतिवियुक्तांश्च द्विविधान् जीवात्मनः ब्रह्मत्वारोपेण ये उपासते। जडनिवहनमपि स्वेन यद्वा अन्यदृष्ट्या ये ध्यायेयुः – प्रकृतिप्राकृतवस्तु जातमपि स्वरूपेण ये उपास्ते पक्षान्तरेण वस्त्वन्तरारोपेण वा उपासते। प्रतीकप्रणिहितमनसस्ते सर्वे अर्चिराद्यध्वयोग्या न हि – प्रतीकोपासनपरा उक्ताष्षड्विधा अप्युपासकाः अर्चिरादिमार्गयोग्या न भवन्ति। अनघा इयं गतिश्च पूर्वमेव ब्रह्मोपास्तेर्लिङ्गं सूत्रिता – पुनरावृत्त्यादिदोषरहितार्चिरादिकेयं सरणिः प्रथमाध्याय एव प्रकरणविशेषस्य ब्रह्मपरत्वस्थापनार्थं ‘श्रुतोपनिषत्कगत्याभिधानाच्च’ इति सूत्रे श्रुतोपनिषत्कानां ब्रह्मविदामसाधारणी या अर्चिरादिगतिस्सास्मिन्नप्रकरणे प्रतिपाद्यते अतोऽपीयं ब्रह्मविद्येत्येवमर्थके ब्रह्मोपासनस्य ज्ञापकलिङ्गतया ब्रह्मविदामेवासाधारणीति सूत्रकारेण प्रत्यपादि। अतश्चेयं गतिर्नावाचीनकल्पितसगुणादिब्रह्मनिष्ठप्रापिकेति भावः॥
कुमार-वरदः - 13
  1. प्रतिकोपसका इति केषां वचनमप्रतीकोपासका इति च केषामित्याशङ्क्य तद्विभागं दर्शयित्वा तत्राप्रतीकोपासकानामेवार्चिरादिमार्गेण मुक्तिनियमं दर्शयति- ध्यायेयु रिति। प्रकृतिशबलिताञ्जीवान् केवलान्वा तानेव जीवान् द्वयोरपि पक्षयो र्ब्रह्मद्दष्ट्या तानेव जीवान् ये ध्यायेयुः ।तथा जडनिवहमपि स्वेन रूपेण वा यद्वा अन्यद्दष्ट्या ध्यायेयुः। ते षड्विधत्वेन विभक्तास्सर्वेऽपि प्रतीकप्राणिहितमनशः । ते षड्विधत्वेन विभक्तास्सर्वेऽपि प्रतीकप्रणिहितमनशः" ।ते पुन रर्चिराद्यध्वयोग्या न भवन्ति।अत एव ’ अप्रतीकालम्बनान्नयति’ इति सूत्रकारः प्राहः।किमियं राजाज्ञेत्याशह्क्य सूत्रकारसम्मत्यैवास्माभिर- -भिधीयत इति दर्शयति- ब्रह्मे ति।अयमर्थः-पूर्वं पञ्चाग्निविद्यानिरूपणप्रकरणे किमियं ब्रह्मविद्या उत जीवविद्येत्याशह्क्य ’ श्रुतिपनिषत्कगत्यभिधानाच्च’ इति सूत्रेण ब्रह्मविद्यात्वं प्रतिष्ठापितम्।अयमत्र सूत्रमारस्य भावः—इयं ब्रह्मविद्या न चेदर्चिरादिमार्गगमनं" नोपदिश्येत ब्रह्मविद्यासाधारणत्वादर्चिरादि- -मार्गगमनस्य।उपदिश्यते चात्रार्चिरादिमार्गगमनम्।तेन पञ्चग्निविद्या ब्रह्मविद्येति।अव्यभिचरितं" हि लोके धूमादिकं लिह्गम्।तेन ब्रंह्मविदामेवार्चिरादिमार्गगनमिति न्याय्योऽयं मार्ग इति सर्वैरप्येतदनुसरणं न्याय्यमिति।ननु ब्रह्मोपासकानामेवार्चिरादि-मार्गेण गमनमित्युक्तम् इदं नोपपद्यते पञ्चाग्निविद्यायां ’ तद्य. इत्थं विदुः’ इति तेषामप्यर्चिरादिराम्नाम्यते।ते च प्रकृतिवियुक्तात्मस्वरूपोपासकाः।तेषां स्वात्मनन्दानुभवरूपः कैवल्याख्योऽपि मोक्षोऽस्तीति।अयमेव मोक्षः श्रीविष्णुपुराणे ’ योगिनाममृतं स्थानं त्वात्मसन्तोषकारिणाम्’ इत्युच्यते।तस्मात्तेऽप्यर्चिरादिमार्गेण परमपदं गत्वा भगवदनुभवरहिताः क्वचिद्देशे स्वात्मानुभववन्तस्तिष्ठिन्तीति तदिदमसारम्।पञ्चाग्निविद्यायाः परमात्मशरीरभूतस्वात्मोपासनपरत्वस्यो- पक्रमादितात्पर्यलिङ्गेन प्रतिपादितत्वात्।विस्तरस्तु भाष्यादौ द्रष्टव्यः।यत्तूक्तं ’ योगिनाममृतं स्थानम्’ इति तत्रापि प्रमाणविरोधोऽस्ति।यथा भगवान्पराशरः" ’ प्राजापत्यं गृहस्थानां ब्राह्मं सन्न्यासिनां स्मृतम्’ इत्यक्तवा ततउपरि ’ योगिनाममृतं स्थानम्’ इति जीवात्मानुसन्धायिनाममृतशब्दवाच्यस्थानविशेषप्राप्ति- मुक्तवा पुनः ’ एकान्तिनस्सदा ब्रह्म द्यायिनो योगिनो हि ये।तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः॥’ इति ब्रह्मोपासकानामेव परमपदप्राप्तिमाह।अत्र ’ योगिनाममृतं स्थानम्’ इत्यमृतशब्दो जीवात्मस्वरूपपरश्चेत् तस्य नित्यत्वादमृतशब्दवाच्यतोपपत्तिः।स्थानशब्दस्वारस्याद्देशविशेषपरश्चेत् ’ अपाम सोमममृता अभूम’ इत्यादिवदमृतशब्दस्यौपचारिकत्वम्।वदन्ति हि ’ अभूतसम्प्लवस्थानममृतत्वं हि भाष्यते’ इति ’ ये तु शिष्टास्रयो भक्ताः फलकामा हि ते मताः।सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक्॥’ इति नित्यत्वानित्यत्वनियामकं वचनम।परमपदत्वें युक्तिविरोधमप्युपपादयामः।परिकल्पितः" केवलो नाम जीवोपासकः परमपुरूषं प्राप्यापि तदनुभवं मुक्तवा दिवाकीर्त्यवदवस्थितः किं सर्वकर्मविनिर्मुक्तः, उत कर्मावशेषवान्। सर्वकर्मविनिर्मुक्तशचेत् ब्रह्मानुभववुच्छेदो न स्यात्।स्वाभाविकत्वादसङ्कुचितब्रह्मानुभवस्य तद्विच्छेदस्यचौपाधिकत्वाच्च।सर्वकर्मविनिर्मुक्तस्यापि ब्रह्मानुभवविच्छेदे तस्यैव स्वाभाविकत्वमङ्गीकार्यम्।तथा च सिद्धान्तविरोधः।कर्म मा भूत्कारणम्, अन्यदेव किमपि ब्रह्माननुभवकारणं" स्यादिति चेत् तत् किं विशेषतो वद।भगवन्निग्रह इति चेत् स तु निग्रहस्सहेतुको वा निर्हेतुको वा निर्हेतुकश्चेत् निर्हेतुकानुग्रहं" सिद्धान्तमुक्त्वा निर्हेतुकं निग्रहं वदन् भवानपहास्य एव।सहेतुकश्चेद् हेतुर्वाच्यः।कर्म चेद् दत्तोत्तरमेतत्।भगवदिच्छैव चेत् परमकारुणिको भगवान् सर्वकर्मविनिर्मुक्ते तस्मिन्निग्रहं वाञ्छतीति भवदीयैव वाञ्छा।तर्हि जीवस्तु स्वेच्छया भगवन्तं मुक्त्वा वर्तत इति वदाम इति चेत् तच्चायुक्तम्।सर्वकर्मविनिर्मुक्तो जीवो ’ रसो वै सः।रसं ह्येवायं लब्ध्वानन्दी भवति’ इति निरतिशयानन्दरूपं" परमात्मानं मुक्तंवा खद्योतकल्पं स्वात्मानमनुभवतीत्य- -सम्भवदुक्तिकमेवैतत्।अनादिवासनावशादेतत्सम्भवतीति चेत् सैव दुर्वात्मा पापमिति स्यादयं संसारीति न परमपदप्रवेशप्रसङ्ग इत्युपरम्यते।एवं सत्यम्प्रदायोऽपि निरूप्यः।अत्र केचिदाचक्षते— ’ जीवोपासकानामर्चिरादिगतिरस्ति।भाष्यकारैरेव ब्रह्मोपासकव्यतिरेकेण जीवोपासकमुक्त्वा द्वयोरप्यर्चिरादिगमनमस्तीति भाष्य एव व्यक्तमभिधानात्।तेनासावर्चिरादिमार्गेण गत्वा भगवन्तं प्राप्य यथोपासनं फलमिति न्यायात् त्यक्त्वैव भगवदनुभवं परमपदे क्वापि कोणे स्थित्वा स्वपयोधरपायिधेनुवदात्मानमेवोपभुङ्क्ते।न पुनःपरमपुरुषोपभोगं नियमेन प्रतिपद्यते’ इति।तेन ’ पतिं विश्वस्य’ इत्युक्तपरमपुरुषभोगाभावात् पतिपरित्यक्तयोषित्साधर्म्यमप्यस्याचक्षते तदसारम्—सूत्रविरोधाद् भाष्यवचनविरोधात् प्रमाणविरोधात् युक्तिविरोधात् सम्प्रदायविरोधाच्च।तथा हि पञ्चाग्निविद्यायां ’ श्रुतोपनिषत्कगत्यभिधानाच्च’ इति सूत्रेणार्चिरादिगत्युपदेशात् पञ्चाग्निविद्यायाः केवलजीवविद्यात्वनिराकरणेन ब्रह्मविद्यात्वं प्रसाधितम्।अयमर्थः—अर्चिरादिमार्गस्य ब्रह्मविद्यैकान्तत्वात् सेयं पञ्चाग्निविद्या ब्रह्मविद्येति।तेन जीवपिद्यायां नार्चिरादिमार्गेण परमपदगमनगन्धः।तदधिकरण- भाष्यविरोधोऽपि तत्रैव द्रष्टव्यः।अत एव प्रजापतिवाक्ये ब्रह्मप्राप्तिरूपफलनिर्देशो ब्रह्मविद्यफलेनोपसंहार इति भाष्यकाराः प्राहुः।अत्राप्यातिवाहिकप्रसङ्गे भाष्यकारैरेव ब्रह्मविदामेवार्चिरादिगमनमिनि सुव्यक्तमभिधीयते।अत्र ’ केवलं" वा चिद्वस्तु’ इति सन्धिविशेषादकारप्रश्लेषाप्रश्लेषाभ्यां चिदचितोर्द्वयोरपि ग्रहणम्।अयमत्र भावः—स्वशरीरकपरमात्मोपासनं परमात्मशरीरभूतस्वात्मोपासनमित्युभय- -मप्यर्थादेकमेव।तेन परमात्मशरीरभूतस्वात्मोपासकस्यापि ब्रह्मोपासकत्वादर्चिरादिगमनोपदेशो न विरुध्यते।केवलचिन्मात्रोपासकस्तु प्रतीकोपासकत्वात् प्रागेव निरस्तः।प्रतीक एकदेशः चिदचिच्छरीरके ब्रह्मणि चिदचितोरेकदेशत्वात्।अतो जीवोपासकोऽपि प्रतीकोपासकः।एवमेतस्मिन्नधिकरणे त्वेतस्यार्थस्य भाष्यकारैरेव द्विस्रिरभिधानात् केवलजीवोपासकस्य प्रतीकोपासकत्वेन निरस्तत्वात् परमात्मशरीरभूत- स्वात्मोपासकस्याप्रतीकोपासकत्वेन ब्रह्मवित्त्वादर्चिरादिमार्गेण ब्रह्मप्राप्तिरभिहितेत्यलं विस्तरेण।
मूलम् - 13

13.ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान् केवलान्वा यथेष्टं
द्वेधापि ब्रह्मदृष्ट्या जडनिवहमपि स्वेन यद्वान्यदृष्ट्या।
ते सर्वे हि प्रतीकप्रणिहितमनसो नार्चिराद्याध्वयोग्याः
ब्रह्मोपास्तेश्च लिङ्गं गतिरियमनघा सूत्रिता पूर्वमेव॥

विश्वास-प्रस्तुतिः - 14
  1. प्रत्यापत्तिप्रकारः प्रतिनियतिमती कर्मयोगादिनिष्ठा
    विद्याभेदाधिकारः परभजनबलान्मुक्तिविघ्नोपशान्तिः।
    अन्त्यावस्थाव्यवस्था पृथगयनगतौ विश्रमाप्तिर्विभक्ता
    साक्षान्मुक्तिः क्रमाद्वेत्यखिलमगतिकैरप्रणोद्यं परैश्च॥
३४-तमाहोबिल-यतिः - 14
  1. प्रत्यापत्तिप्रकार इत्यादि।प्रत्यापत्तिप्रकारः –अनादिकालं संसरतो जीवस्य अविज्ञातसुकृतादियोगात् मोक्षमार्गे प्रवृत्तिः। प्रतिनियतिमती कर्मयोगादिनिष्ठा – अधिकारिभेदेन व्यवस्थायुक्ता कर्मयोगज्ञानयोयोरन्यतरनिष्ठा क्रमेणोभयनिष्ठा च तया लब्धाधिकारस्य भक्तियोगनिष्ठा त्रिष्वेतेष्वज्ञानाशक्त्यादिभिरनधिकरणो न्यासाख्यविद्याविशेषनिष्ठा चेत्यर्थः। विद्याभेदाधिकारः – सदक्षरदहरमधुविद्यादिषु साक्षाद्ब्रह्मप्राप्तिकामनावसुत्वादिप्राप्तिकामनारूपाधिकारविशेषः। परभजनबलात् मुक्तिविध्नोपशान्तिः —परमात्मोपासनसामर्थ्यैनैव निसर्गप्राप्तपरमपुरुषार्थविरोधिनिश्शेषकर्मविनाशः। अन्त्यावस्थाव्यवस्था – अन्तिमप्रत्ययस्य भक्तविषयए व्यवस्थितत्वम्।चिन्तामणिस्त्वेवम् –‘अनत्यावस्थाव्यवस्था’ केचित्प्रारब्धदेहावसाने मुच्यन्ते अपरे तु कर्मानुसारात् तद्देहाद्देहान्तरे’ इति। अयनगतौ पृथग्विभक्ता विश्रमाप्तिः — देवयानपितृयाणरूपमार्मगगमनसमये भिन्नभिन्नाकारतया पूर्वमस्माभिर्विभक्ता आदित्यचन्द्रादिषु विश्रमप्राप्तिः। मुक्तिस्साक्षात् , यद्वा क्रमात् – वसुत्वादिप्राप्तिक्रमात्।इति – एवंरीत्या प्रतीयमानम्।अखिलम् – अर्थजातम्।अगतिकैः – स्फुटप्रमाणप्रतिपन्नत्वेनातीन्द्रियार्थविषयत्वेन प्रमाणान्तराविरोधेन च आन्तपर्यकल्पकहेतुशून्यैः। परैश्च –मृषावादिभिरपि। अप्रणोद्यम् – अप्रत्याख्येयमेव। प्रमाणप्रतिपन्नस्य सर्वथा त्याज्यत्वायोगादिति भावः॥
कुमार-वरदः - 14
  1. अत्र सर्वं मिथ्येति वादिनां मृषावादिनामपि श्रुतिप्रतिपन्नास्सर्वेऽर्थाः प्रमाणानुसारेण स्वीकर्तव्या एव। अथापि व्यावहारिकमिदमथवा सगुणब्रह्मविषयमित्यादिकुत्सितालापः केवलं क्रियते।व्यावहारिकत्वं विकल्पासहत्वाद् ध्वस्तमेव।सगुणमेव ब्रह्म न निर्गुणं तस्याप्रामाणिकत्वात्।अतो विषयविभागकथनमपि व्यावहारिकत्वकथनवदपास्तमेव।न्यायनिरूपकाणामितमेव तत्त्वम्।अथाप्यस्माभिरभिधीयमानमर्थजातं परैरपि केनापि प्रकारेणङ्गीक्रियत इति मवसिद्धानतस्यानतिलङ्घनीयत्वमाह— प्रत्यापत्ती ति। प्रत्यापत्तिप्रकारः -अनादिकालं संसरतो जीवस्याविज्ञातसुकृतादियोगात् मोक्षमार्गे प्रवृत्तिः।* कर्मयोगा दीति-कर्मज्ञानभक्तिनिष्ठा एवं सद्विद्यामधुविद्यान्यासविद्येत्यादिविद्याविशेषेष्वधिकारनियमः। भगवद्भक्त्यैव मोक्षविधातकदुरितोपशान्तिः। अन्त्यावस्थाव्यवस्था केचित्प्रारब्धदेहावसाने मुच्यन्ते अपरेतु कर्मानुसारात् तद्देहाद्देहान्तरे। पृथगयनगतौ धूमादिमार्गेऽर्चिरादिमार्गे वा चन्द्रसूर्यादिदेशविशेषे विश्रमाप्तिः केषाञ्चित् साक्षान्मुक्तिः सद्विद्यादहरविद्यानिष्ठानाम्, क्रमात् मधुविद्यानिष्ठानम्।एताद्दशं सर्वमप्यौपनिषदवाक्यप्रसिद्धं भेदात्मकं कार्यजातं निर्विशेषवादिभिरपि तत्तदर्थप्रतिपादकश्रुतिनिर्वाहार्थम- प्रणोद्यमेव।केवलं व्यावहारिकत्वाद्युद्धोषणमेवावशिष्यत इति॥
मूलम् - 14
  1. प्रत्यापत्तिप्रकारः प्रतिनियतिमती कर्मयोगादिनिष्ठा
    विद्याभेदाधिकारः परभजनबलान्मुक्तिविघ्नोपशान्तिः।
    अन्त्यावस्थाव्यवस्था पृथगयनगतौ विश्रमाप्तिर्विभक्ता
    साक्षान्मुक्तिः क्रमाद्वेत्यखिलमगतिकैरप्रणोद्यं परैश्च॥
विश्वास-प्रस्तुतिः - 15

15.पन्थानं देवयानं तमिममधिगतः पश्चिमे देहपाते
तत्त्वस्तोमांस्तमोऽन्तानतिपतति तरत्यापगां तत्र दिव्याम्।
दिव्यं देहादि लब्ध्वा जनिलयरहितं याति विष्णोः पदं तत्
पर्यङ्कारोहणान्तां भजति बहुमतिं ब्रह्मसंवादधन्यः॥

३४-तमाहोबिल-यतिः - 15
  1. पन्थानमित्यादि।पश्चिमे –चरमे।देहपाते – प्रारब्धदेहावसाने।तमिमं देवयानं पन्थानमधिगतः –एतावता विचारितं श्रुतिसिद्धं" देवयानाख्यं मार्गं प्राप्तो ब्रह्मवित्। तमोऽन्तान् — मूलप्रकृतिपर्यन्तान्।तत्त्वस्तोमान् – पृथिव्यादितत्त्वप्रपञ्चान्। अतिपतति –अतिक्रामति । तत्र – प्राकृताप्राकृतदेशमध्ये। दिव्याम् – स्वावगाहिनां सूक्ष्मकर्मवासनानिवर्तनीम् इतरगङ्गादिनदीभ्योऽतिविलक्षणम्। आपगाम् – विरजानदीम्।तरति। दिव्यम् – अप्राकृतम्।देहादि – देहेन्द्रियादिकम्।लब्ध्वा –प्राप्य। जनिलयरहितं विष्णोस्तत्पदं" याति – ‘अकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि’ इत्यादिप्रमाणेन नित्यत्वेनावगतयोत्पत्तिनाशरहितं भगवतश्श्रुतिप्रसिद्धं स्थानविशेषं" प्राप्नोति। ब्रह्मसंवादधन्यः – तत्र परब्रह्मणा साकं संवादेन कृतार्थोऽयं मुक्तः। पर्यङ्कारोहणान्तां बहुमतिं भजति – तत्तादृशपरब्रह्माधिष्ठितदिव्यपर्यङ्कारोहणपर्यन्तां" तत्कृतां बहुमतिं संमानं प्राप्नोतीत्यर्थः॥
कुमार-वरदः - 15
  1. इत्थमर्चिरादिमार्गेणोत्क्रान्तः क्रमाद् भगवतो वासुदेवस्य दिव्यसिंहासनोपान्तमधिगच्छतीत्याह— पन्थान मिति। तमिमं देवयाना भिधानां पन्धानं पश्चिमे देहपाते प्राप्तस्तमोऽन्तान् पृथिव्युपक्रमां- - स्तत्त्वस्तोमा नमिक्रामति।विरजाभिधानां दिव्यामापगाञ्च तरति ।तदनन्तरं दिव्यं देहादि लब्ध्वा जनिलयरहित मुत्पत्तिविनाशरहितं विष्णोस्तत्पदं याति ’ अकृतं कृतात्मा ब्रह्मलोकभिसम्भवामि’ इति श्रुतेः।अयं तु ब्रह्मंसवादधन्यः पर्यङ्कारोहणान्तां बहुमतिञ्च भजति ॥
मूलम् - 15

15.पन्थानं देवयानं तमिममधिगतः पश्चिमे देहपाते
तत्त्वस्तोमांस्तमोऽन्तानतिपतति तरत्यापगां तत्र दिव्याम्।
दिव्यं देहादि लब्ध्वा जनिलयरहितं याति विष्णोः पदं तत्
पर्यङ्कारोहणान्तां भजति बहुमतिं ब्रह्मसंवादधन्यः॥

विश्वास-प्रस्तुतिः - 16

16.संघाते नित्यता न क्वचिदपि न पृथिव्यादिभावस्तथात्वे
पर्यङ्काद्यैर्न साध्यं किमपि भगवतः पूर्णनिस्सीमशक्तेः।
व्याप्तप्राप्त्यर्थमूर्ध्वं गतिरपि विफलेत्यादिकान् हैतुकानां
क्षोदिष्ठक्षीबजल्पाञ्छ्रुतिरुपशमयेदद्भुतार्थस्वतन्त्रा॥

३४-तमाहोबिल-यतिः - 16
  1. संङ्घात इत्यादि। क्वचिदपि सङ्घाते नित्यता न तथात्वे पृथिव्यादिभावो न — भागवताः खलु भगवतः पञअचशक्तिमयं दिव्यदेशमाचक्षते तत्र शक्तिशब्देन दिव्यानि पञ्चभूतान्यभिधीयन्ते तानि दिव्यानि भूतानि सङ्घातात्मकानि वा उत असङ्घातात्मकानि वा सङ्घातात्मकत्वे नित्यमेव नास्ति कृत्स्नस्यापि सङ्घातात्मनो विनाशित्वेनोपलम्भात् नित्यत्वे च तेषां परमाणुरूपत्वेन पृथिव्यादिरूपेण विभज्य दर्शनं न स्यात्।पूर्णनिस्सीमशक्तेर्भगवतः पर्यङ्काद्यैस्साध्यं किमपि न –परिपूर्णनिरतिशयशक्तिकस्य भगवतः" पर्यङ्काद्यैस्साधनीयं किमपि फलं नास्ति। राजादीनां पर्यङ्कादिकल्पनं जाड्यादिहेतुभूतायासादिपरिहारार्थं शयनासनादिशेषतया शयनासनादिशेषतया दृश्यते भगवतस्तु परिपूर्णनिस्सीमशक्तिकतया किमनेन पर्यङ्कादिकल्पनेनेति भावः। व्याप्तप्राप्त्यर्थमूर्ध्वं गतिरपि विफला –किञ्च सर्वदेशव्याप्तियुक्तब्रह्मप्राप्तिसिद्ध्यर्थं देशविशेषवर्तिपरिच्छिन्नवस्तुप्राप्त्यर्थमिवोर्ध्वगतिरपि निष्प्रयोजना। इत्यादिकान् – एवमादिकान् । हैतुकानाम् –हेतुप्रयोक्तृणाम्।क्षोदिष्ठक्षीबजल्पान् – क्षुद्रतममत्तप्रलापान्।अद्भुतार्थस्वतन्त्रा —लोकदृष्टविसजातीयतया अद्भुतमर्थजातं प्रतिपादयितं प्रत्यक्षादिप्रमाणवत् समर्थतमा। श्रुतिः –नित्यं श्रूयमाणतया निर्दोषा निगमवाणी। उपशमयेत् –निर्मूलयेत्।अयं भावः – लोके हि द्वीपान्तराद्यागतानां लौकिकार्थप्रतिपादकान्यपि वाक्यान्यपूर्वेष्वर्थेषु प्रमाणभूतान्येव परिगृह्यन्ते एवमेव वैदिकान्यप्यद्भुतार्थप्रतिपादकानि वाक्यानि किमर्थं तथा न परिगृह्यन्ते कारणदोषस्यानाशङ्कनीयत्वात् बाधकप्रमाणस्य चादृष्टत्वात्। निर्मूलमेवाप्रामाण्यशङ्कायां सर्वोपप्लवप्रसङ्गादिति॥
कुमार-वरदः - 16
  1. अत्र पञ्चशक्तिमयं दिव्यदेशादिकमनङ्गीकुर्वाणः कश्चिदाह— सङ्घात इति।भवन्तः खलु पञ्चशक्तिमयं दिव्यदेशमाचक्षते।अत्र शक्तिशब्देन दिव्यानि पञ्चभूतान्यभिधीयते।तानि दिव्यानि भूतानि सङ्घातात्मकान्यसङ्घातात्मकानि वा।सङ्घातात्मकत्वे नित्यत्वमेव नास्ति।कृत्स्नस्यापि सङ्घातात्मनो वस्तुनो विनाशित्वेनोपलम्भात्।एवमनित्यत्वे सति नित्य पृथिव्यादिभावो न स्यादित्याह— ने ति। अयमर्थः—नित्यानि पृथिव्यादिभूतानि वैकुण्ठस्थानीति भवन्तो वदन्ति तेषां परमाणुरूपत्वे पृथिव्यादिरूपेण विभज्य दर्शनं न स्यात् सङ्घातात्मकत्वे नित्यत्वं न स्यादिति।किञ्च भगवतः" पर्यङ्कादिकमप्यस्तीति भवतां सिद्धान्तः तच्च निष्प्रयोजनमित्याह— पर्यङ्काद्यै रिति।अत्र हेतुमाह— पूर्णनिस्सीमशक्ते रिति।राजीदीनां" पर्यङ्कादिपरिकल्पनं देहजाड्यादिहेतुभूतायासादिपरिहारार्थं शयनासनशेषतया हि द्दश्यते परिपू र्णनिस्सीमशक्तेर्भगवतः कि मनेन पर्यङ्कादिपरिकल्पनेन।अपि च कृत्स्नदेशव्याप्तिमतो भगवतः प्राप्तयर्थमूर्ध्वं गतिरपि विफलेत्यादिकान् हैतुकानां हैतुप्रयोक्तॄणां क्षोदिष्ठक्षीबजल्पान् क्षुद्रतममत्तजल्पान्श्रुतिरेवो पशमयोत् ।श्रुतिप्रतिपन्नेऽर्थे निर्मूलाशङ्का निर्मतीनां दुर्मतीनां वा जायत इति श्रुतिप्रामाण्यवेदिभिरनादरणीयमेव।श्रुतेरीद्दशसामर्थ्यं" कुत इत्याशङ्क्य परिहरति -अद्भुतेति।अपूर्वार्थाभिधायित्वं श्रुतेर्भूषणं तत्राप्यद्भुतार्थाभिधायित्वमत्यन्तभूषणम् अद्भुतत्वं" ह्यत्यन्तद्दष्टविसजातीयत्वं तेन बाधकाभावे यथाश्रुतमर्थतत्त्वं निर्णेतव्यं नीतिमद्भिः परवाद्युक्तानि तु बाधकानुमानान्यागमविरुद्धत्वात् स्वयमेवाप्रमाणतामश्नुवत इत्यर्थः।लोके हि द्वीपान्तराद्यगतानां" लौकिकार्थप्रतिपादकान्यपि वाक्यान्यपूर्वेष्वर्थेषु प्रमाणभूतान्योव परिगृह्यन्ते।एवञ्च सति वैदिकानि वाक्यानि अद्भुतार्थप्रतिपादकानि किमर्थं तथात्वेन न परिगृह्यन्ते।कारणदोषस्यानाशङ्कनीयत्वाद् बाधकप्रमाणस्य चाद्दष्टत्वात्।निर्मूलमेवाप्रामाण्यशङ्कायां सर्वोपप्लवप्रसङ्गादिति॥
मूलम् - 16

16.संघाते नित्यता न क्वचिदपि न पृथिव्यादिभावस्तथात्वे
पर्यङ्काद्यैर्न साध्यं किमपि भगवतः पूर्णनिस्सीमशक्तेः।
व्याप्तप्राप्त्यर्थमूर्ध्वं गतिरपि विफलेत्यादिकान् हैतुकानां
क्षोदिष्ठक्षीबजल्पाञ्छ्रुतिरुपशमयेदद्भुतार्थस्वतन्त्रा॥

विश्वास-प्रस्तुतिः - 17

17.भावोऽभावश्च यत्रानुपधि समुदितौ तत्र भावी विरोधः
प्रज्ञातव्याप्तरोधेऽप्यधिकनिजबलान्मानतस्स्वार्थसिद्धिः।
दृष्टं सर्वेष्टमेतन्न यदि न हि भवेन्मानमध्यक्षतोऽन्यत्
बाधोऽध्यक्षे मिथो वा वटदलशयनाद्यद्भुतं चैवमूह्यम्॥

३४-तमाहोबिल-यतिः - 17
  1. भावोऽभावश्चेत्यादि। ननु दृष्टविरोधेऽप्येवं विरोधाभावकथने कुत्रापि विरोध एव न स्यादित्याशङ्क्य विरोधसद्भावोदाहरणं प्रदर्शयते – भावोऽभावश्चेत्यादिना।यत्र भावोऽभावश्चानुपधइ समुदितौ तत्र विरोधो भावी – यस्मिन्नुदाहरणे प्रतियोगी अभावश्च अनुपधि भिन्नदेशकालाद्यपाधिं" विनैव प्रतीयेते तत्र परस्परं विरोधो नियतःऋ। यथा घटोऽस्ति घटोनास्ति अत्राद्य घटोस्ति अत्राद्य घटोनास्तीत्यादौ। इत्थं मिथोविरोधोदाहरणमुक्त्वा प्रकृतानुगुण्येन दुर्बलस्यैकस्य प्रबलेनापरेण विरोधोहरणमाह –प्रज्ञातेति। प्रज्ञातव्याप्तरोधेऽपि अधिकनिजबलात् मानतस्स्वार्थसिद्धिः" – ’ न हिंस्यात् सर्वा भूतानि’ इति व्याप्तविषयं प्रज्ञातं वाक्यम्, एतद्वाक्यार्थस्य व्याप्तिमतोऽपि वैधहिंसारूपार्थस्य विरोधेऽपि सङ्कोचेऽपि विशेषविषयतया नियतनिजबलात् ‘आलभेत’ इति वाक्यात् स्वार्थसिद्धिरेव स्यात्। एवं यस्साङ्घातस्स विनाशीति दृष्टानुसारेण व्याप्तिदिव्यभूतनित्यत्वप्रतिपादकप्रमाणबाध्या यथा नरशिरःपवित्रत्वेन प्राण्यङ्गत्वव्याप्तिः कपालपवित्रत्वप्रतिपादकप्रमाणेन बाध्यते तेन दिव्यविभूतिनित्यत्वप्रतिपादकप्रमाणान्यर्थवन्त्येव। दृष्टमेतत्सर्वेषाम् –लोकदृष्टमिदं सर्वसिद्धान्तिनामपीष्टमेव। न यदि अध्यक्षतोऽन्यत् मानं नहि भवेत् – उक्तरीत्या प्रमाणव्यवस्थानङ्गीकारे प्रत्यक्षभिन्नं शास्त्रादिकं किमपि प्रमाणं न सिध्येत्। अध्यक्षतोऽन्यमिति सामान्यनिर्देशात् अनुमानमप्युपलक्ष्यते। उपलभ्यमानेऽप्यर्थे युक्त्यापि विशेषोदाहरणेन बाधोऽभिधीयते हि न्यायविद्भिः तन्न घटेतेत्यर्थः। अध्यक्षे मिथो बाधो वा न हि भवेत् – सामान्यविशेषविषययोः प्रमाणयोर्विशेषण सामान्यस्य बाध्यत्वाभावे सामान्यविशेषविषययोः प्रत्यक्षयोरपि आपातदर्शनरूपं सामान्यं सावधाननिपुणनिरूपणपूर्वकदर्शात्मकविशेषदर्शनेन बाध्यं" न स्यात्। ननु वटदलशायिनो भगवतो बालस्य जठरे विश्वमिदं वर्तत इत्यन्तविरुद्धमभिधीयते तत्कथं शास्त्रसिद्धमिति तथैवाङ्गीकर्तुं" शक्यत इत्यत्राह –वटदलेत्यादि। वटदलशयनाद्यद्भुतञ्च एवमूह्यम् – वटदलशयनबालोदरविश्ववर्तनाद्याश्चर्यमपि यथा अत्यन्तविरुद्धं" न भवति तथैव बुद्धिमद्भिरुचतप्रकारेणालोच्यमित्यर्थः॥
कुमार-वरदः - 17
  1. ननु द्दष्टविरोधेऽप्येवं विरोधाभावकथने न कुत्रापि विरोधः स्यादित्याशङ्क्य विरोधसद्भावोदाहरण- -माह- भाव इति।यस्मिन्नदाहरणो भावश्चाभावश्च देशकालाद्युपाधिभेदेनोपदेशान्न विरुद्धौ द्दश्येते तौ तूपाधिभेदमन्तरेण यद्यभिधीयेते तदा विरोधस्सयात्।यथै घटस्स्वदेशेऽस्ति नास्ति परदेशे तथा स्वकालेऽस्ति नास्ति परकाले तथा स्वात्मानास्ति नास्चत्यन्यात्मनेत्यविरोधोदाहरणमेतत्।विरोधोदाहरणं तु घटः" क्वापि देशेऽस्ति न क्वाप्यस्ति स्वकालेऽस्ति न कदाचिदप्यस्ति स्वात्मनास्ति न सर्वात्मनासतीति अथवा घटोऽस्ति घटो नास्तीति देशकालादिविभागव्यवच्छेदमन्तरेण अस्तिनास्तीति व्यपदिश्यते।एताद्दशान्युदाहरणानि विरुद्धानि।तेन विरोधोदाहरणं नास्तीति न मन्तव्यमित्यर्थः।इत्थं" मिथोविरोधोदाहरणमुक्त्वा प्रकृतानुगुण्येन दुर्बलस्यैकस्य प्रबलेनापरेण विरोधोदाहरणमाह— प्रज्ञाते ति। ’ न हिंस्यात्सर्वा भूतानि’ इति व्याप्तविषयमिदं वाक्यम् एतद्वाक्यार्थस्य व्याप्तिमतोऽपि क्वचिद्वैधहिंसायामुपरोधेऽपि सङ्कोचेऽपि विशेषविषयतया नियतनिजबलात् ’ आलभेत’ इति वाक्यात् स्वार्थसिद्धि रेव स्यात्।एवं यस्सङ्घातस्स विनाशीति द्दष्टानुसारेण व्याप्तिर्दिव्यविभूतिनित्यत्वप्रतिपादक- -प्रमाणबाध्या।यथा नरशिरःपवित्रत्वेन प्राण्यङ्गत्वव्याप्तिः कपालापवित्रत्वप्रतिपादकप्रमाणबलाद् बाध्यते। तेन दिव्यविभूतिनित्यत्वप्रतिपादकप्रमाणान्यर्थवन्त्येव।इदं" तु लोकद्दष्टं सर्वसिद्धान्तिनामपीष्टमिति दर्शयति- द्दष्ट मिति।एवं प्रकारेणानङ्गीकारे दोषमाह— न यदी ति।द्दष्टप्रक्रियामात्रमेवाङ्गीकृत्य विशेषशास्त्रस्य बाधकत्वानङ्गीकारे शास्त्रं प्रमाणमेव न स्यात्। अध्यक्षतोऽन्य दिति सामान्यनिर्देशोऽनु- -मानुस्याप्युपलक्षणार्थः।उपलम्यमानेऽप्यर्थ युक्त्यापि तत्रतत्र विशेषोदाहरणे बाधोऽभीधीयते न्यायविद्भिरित्यर्थः।अत्र दोषान्तरमप्याह— बाध इति।सामान्यविशेषविषययोः प्रमाणयोर्विशेषेण सामान्यस्य बाध्यत्वाभावे सामान्यविशेषविषययोः प्रत्यक्षयोरपि सामान्यस्य विशेषप्रत्यक्षेण बाधो न भवेत्।आपातदर्शतं सामान्यं" सावधाननिपुणनिरूपणपूर्ककदर्शनं विशेषदर्शनमिति।ननु वटदल शायिनो भगवतो बालस्य जठरे विश्वमिदं वर्तत इत्यत्यन्तविरुद्धमभिधीयते तत् कथं शास्त्रसिद्धमिति तथैवाङ्गीकर्तुं शक्यत इत्याशङ्क्याह— वटदले ति।तच्च यथात्यन्तविरुद्धं न भवति तथैव बुद्धिमद्भिरुचितप्रकारेण योज्यमित्यर्थः॥
मूलम् - 17

17.भावोऽभावश्च यत्रानुपधि समुदितौ तत्र भावी विरोधः
प्रज्ञातव्याप्तरोधेऽप्यधिकनिजबलान्मानतस्स्वार्थसिद्धिः।
दृष्टं सर्वेष्टमेतन्न यदि न हि भवेन्मानमध्यक्षतोऽन्यत्
बाधोऽध्यक्षे मिथो वा वटदलशयनाद्यद्भुतं चैवमूह्यम्॥

विश्वास-प्रस्तुतिः - 18

18.एकत्वं ब्रह्मविद्यापरिषदि सुपथोऽधीयमानस्य तस्मिन्
वायौ स्याद्देवलोकश्रुतिरपि वरुणाद्यन्वयो विद्युतोऽधि।
नेतारोऽमानवान्ताः परपदगमने तद्विदां सोऽयमध्वा
तुर्याध्यायस्य पादे सृतिरधिकरणैरित्थमुक्ता तृतीये॥

३४-तमाहोबिल-यतिः - 18
  1. एकत्वमित्यादि। ब्रह्मविद्यापरिषदि अधीयमानस्य सुपथ एकत्वम् – ब्रह्मविद्याप्रकरणेषु बहुष्वाम्नायमानस्यार्चिरादिरूपस्य सत्पथस्यैकत्वं किञ्चिन्न्यूनाधिकभावेऽपि बह्वंशप्रत्यभिज्ञयानुक्तोपसंहारेण सर्वत्रार्चिरादिरेक एव मार्ग इति। अयं ‘अर्चिरादिना तत्प्रथितेः’ इत्यस्य प्रथमस्याधिकरणार्थः। देवलोकश्रुतिरपि तस्मिन्वायो स्यात् – वायुशब्दस्थाने श्रुतो देवलोकशब्दोऽपि देवानां" लोक इति व्युत्पत्त्या वायुशब्दिते सदागतावेव स्यादिति। अयं ‘वायुमब्दात्’ इत्यादेर्द्वितीयस्यधिकरणास्यार्थः। वरुणाद्यन्वयो विद्युऽतोधि– वरुणेन्द्रप्रजापतीनां निवेशो विद्युद्देवताया उपरीति। अयं ‘तटिरोऽधिवरुणः’ इत्यादेस्तृतीयस्याधिकरणार्थः। अमानवान्ताः" परपदगमने नेतारः — अर्चिरादयोऽमानवपर्यन्ता इमे ब्रह्मलोकगमने गन्तृणां प्रापयितारो नतु भोगभूमयो मार्गचिह्नानि वेति। अयं" ‘आचिवाहिकाः’ इत्यादिचतुर्थस्याधिकरणास्यार्थः। सोऽयं तद्विदामध्वा –उक्तोऽयमर्चिरादिरूपो मार्गः परब्रह्मविदामेवेति। अयं ‘कार्यं बादरिः’ इत्यादेः पञ्चमस्याधिकरणस्यार्थः। तुर्याध्यास्य तृतीये पादे इत्थमधिकरणैस्सृतिरुक्ता — चतुर्थाध्यायस्य तृतीये पादे उक्तरीत्या प्रवृत्तैः पञ्चभिरधिकरणैर्र्चिरादसरणिः प्रत्यपादीत्यर्थः॥ ॥इति चतुर्थाध्यायस्य तृतीयः पादः समाप्तः॥ अथ चतुर्थाध्यायस्य चतुर्थ पादः॥
कुमार-वरदः - 18
  1. अस्मिन्पादे प्रत्यधिकरणे प्रतिपाद्यानामर्थान्मनुक्रमं दर्शयति- एकत्व मिति।प्रथमादिकरणार्थमाह- ब्रह्मविद्यापरिषद्यधीयमानस्य सुपथ स्सत्पथस्यैकत्वमिति।अनन्तरं वायुलोकशब्दाभिहितो वायुर्देवलोकश्रुत्याभिधीयते।तृतीयाधिकरणे विद्युत उपरि वरुणेन्द्रप्रजापतीनामन्वयः।चतुर्थे त्वधिकरणे ऽमानवान्ताःपरपदगमने नेतार इत्यभिधीयते।प़ञ्चमस्यार्थमाह—ब्रह्मविदामेवायमध्वेति। पादार्थं" सङ्कल्य्याब—तुर्येति।चतुर्थस्या ध्यायस्य तृतीये पादे सृति रर्चिरादिसरणिः पञ्चभि रधिकरणै- -रित्थमुक्तेति॥ चतुर्थध्याध्यायस्य तृतीयः पादः"
मूलम् - 18

18.एकत्वं ब्रह्मविद्यापरिषदि सुपथोऽधीयमानस्य तस्मिन्
वायौ स्याद्देवलोकश्रुतिरपि वरुणाद्यन्वयो विद्युतोऽधि।
नेतारोऽमानवान्ताः परपदगमने तद्विदां सोऽयमध्वा
तुर्याध्यायस्य पादे सृतिरधिकरणैरित्थमुक्ता तृतीये॥