विश्वास-प्रस्तुतिः - 7
7.भोगस्थानान्यमूनि ज्वलनदिनमुखान्यध्वचिह्नानि वा स्युः
लोकोक्तिच्छाययैव स्थितमिदमिति नासंभवात्कालशब्दे।
स्पष्टे नेतृत्वपुंस्त्वे क्वचिदतिवहनं तद्वदन्यैश्च कार्यं
सन्दिग्धे वाक्यशेषाद्गतिरिति जगुरग्न्यादिवाचोऽभिम़न्तॄन् ॥
३४-तमाहोबिल-यतिः - 7
- भोगस्थानानीत्यादि। अमूनि – ‘तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः’ इत्यादौ श्रुतान्यमूनि। ज्वलनादिनमुखानि – अग्निदिनादीनि तत्त्वानि। भोगस्थानानि – ब्रह्म प्राप्नुवतां भोगभूमिभूतानि। ‘एत एव लोका यदहोरात्राण्यर्धमासा मासा ऋतवस्संवत्सराः’ इत्यादौ लोकशब्दश्रवणात्। लोकशब्दो हि भोगभूमौ प्रसिद्धः। अध्वचिह्नानि वा स्युः –यद्वा अमूनि मार्गचिह्नभूतानि वा स्युः। कुत इति चेत् इदं लोकोक्तिच्छाययैव स्थितमिति – इदमर्चिराद्याम्नानं" ‘अस्माद्ग्रामान्निष्क्रम्यामुकं वृक्षमतः पर्वतं ततः पाण्डुरसलिलामापरां ततो न्यग्रोधं हरितच्छदञ्च गत्वा राजधानीं गच्छेत्’ इत्यादिरूपपान्थापेक्षितमार्गचिह्नोपदेष्टृवाक्यरीत्यैव स्थितमिति हेतोः। न - इदं न समञ्जसम्। कालशब्दे असम्भवात् –कालवाचिन्यर्चिरादिशब्दे भोगभूमिवाचकत्वस्य मार्गचिह्नवाचकत्वस्य वा असम्भवात्। क्वचित् – आतिवाहिकेष्वन्यतमे वैद्युते पुरुषे। नेतृत्वपुंस्त्वे स्पष्टे – ‘तत्पुरुषोऽमानवस्स एनान्ब्रह्म गमयति’ इतिवाक्यशेषेण ब्रह्मनेतृत्वपुरुषत्वे स्पष्टमवगम्येते। अतः अर्चिरादिष्वस्मात्पूर्वेष्वपि ब्रह्मनेतृत्वं भोगभूमित्वमार्गचिह्नत्वविरोधिभूतं पुरुषत्वञ्चावश्यमङ्गीकार्यमिति भावः। इदमेवोच्यते –तद्वत् । अमानवतुल्यम्। अन्यैश्च – अर्चिरादिभिरस्मात्पूर्वैरपि। अतिवहनम् –गन्तृणां गमयितृत्वरूपं साहाय्यम्। कार्यम् — कर्तव्यम्। अङ्गीकार्यमिति वा अर्थः। सन्दिर्धे वाक्यशेषात् गतिरिति जगुः – तान्त्रिका इति शेषः। ‘अक्ताश्शर्करा उपदधाति’ ितइत्यत्राञ्चनकरणद्रवद्रव्येषु घृततैलदधिपयःप्रभृतिषउ किमत्राञ्जनकरणत्वेनोपादेयमिति सन्देहे ‘तेजो वै घृतम्’ इति तेजस्त्वेन घृतं स्तुवानात् वाक्यशेषादकिञ्चत्कुर्वतस्स्तवनानुपपत्तिसहकृतादञ्चनकरणं" घृतमित्यर्थावगतिरिति मीमांसका अभ्यधुः। अतोऽत्रापि वाक्यशेषेऽतिवहनपुरुषत्वयोश्श्रवणात् तथैवार्चिरादिभिरपि कार्यमित्यवगन्तव्यमित्यर्थः। अग्न्यादिवाचोऽभिमन्तृन् —- जगुरित्यनुषङ्गः। अर्चिरादयोऽग्न्यादिवाचकाश्शब्दास्तत्तदभिममानिदेवता अभिदधतीति। अतश्च तेषामर्चिरादीनामातिवाहिकत्वमुपपन्नञ्चेति भावः॥
कुमार-वरदः - 7
- अत्र सङ्गतिर्भाष्ये ’ किमार्चिरादयो मार्गचिह्नभूता उत भोगभूमयः, अथवा विदुषां ब्रह्मप्रेप्सतामतिवोढार इति इति।तदर्थविचारस्तु—किं" अर्चिरादयो मार्गचिह्नभूता इति चिन्तायां पुनरपि चिन्त्यते—किं" लौकिककोपदेशप्रक्रमानुरोधो न्याय्यः उत ’ एत एव लोका यदहोरात्राण्यर्धमासा मासा ऋतवस्संवत्सराः’ इति वाक्यानुरोधो न्याय्यः, उत गमयितृत्वलिङ्गानुरोध उचित इति।तत्रोभयप्रकारेण पूर्वपक्षमुपन्यस्य तयोः प्रकारयोः प्रमाणविरुद्धत्वादातिवाहिकत्वपक्षमेव प्रतिष्ठापयति— भोगस्थानानी ति। अयमत्र शब्दान्वयः— अमूनि ज्वलनदिनमुखानि भोगस्थाना न्येव स्युः अथ वा मार्ग चिह्नानि स्युः। कुत इत्यत्राह— लोकोक्ती ति।लोकोक्तिप्रकारो भाष्य एव सुव्यक्तमुक्तः।तदिदं प्रतिपक्षति—नेति। तत्र हेतुमाह— असम्भवा दिति।नहि कालवाचिशब्दे मार्गचिह्नवाचित्वं भोगभूमिवाचित्वं वा सम्भवति।तर्हि त्वत्पक्षे किं नियामकमित्यत्राह— स्पष्टे इति।’ तत्पुरुषोऽमानवस्स एनान्ब्रह्म गमयति’ वैद्युतात्पुरुषो मानस एत्य ब्रह्मलोकन्गमयति’ इति क्वचि दमानवस्य नेतृत्वपुंस्त्वे स्पष्टे इति तद्वदन्यैरप्यतिनहनमेव कार्यम् ।अस्मिन्नर्थे न्यायानुसारमेव दर्शयति— सन्दिग्ध इति। सन्दिग्ध तु वाक्यशेषाद् गतिरिति हि नीतिविदः प्राहुः।ननु तर्ह्यग्न्यादिशब्दानामातिवाहिकपुरुषविशेषवाचित्वं" कथमित्याशङ्क्य तेषाभिमानि- देवताविशेषवाचित्वात् पुरुषवाचित्वं सुप्रसिद्धमित्याह— अग्न्यादी ति।अत्रापि जगु रित्यनुषज्यते। लोकऽप्यग्न्यादिशब्दानां दिक्पालवाचित्वमभिधानकोशकारैरपि पठ्यते॥
मूलम् - 7
7.भोगस्थानान्यमूनि ज्वलनदिनमुखान्यध्वचिह्नानि वा स्युः
लोकोक्तिच्छाययैव स्थितमिदमिति नासंभवात्कालशब्दे।
स्पष्टे नेतृत्वपुंस्त्वे क्वचिदतिवहनं तद्वदन्यैश्च कार्यं
सन्दिग्धे वाक्यशेषाद्गतिरिति जगुरग्न्यादिवाचोऽभिम़न्तॄन् ॥
विश्वास-प्रस्तुतिः - 8
8.यां श्रुत्वा धर्मसूनुर्न्यपतदभिपतेत्तामसौ तामसौघो
वर्गस्त्रैवर्गिकाणां पितृसरणिघटीयन्त्रचक्रे विघूर्णेत्।
वर्तन्येषार्चिरादिश्श्रुतिभिरपुनरावर्तिनां संविभक्ता
तत्र ब्रूतेऽतिवोढॄंस्तदितरवदहः पक्षमासादिशब्दः॥
३४-तमाहोबिल-यतिः - 8
- यां श्रुत्वेत्यादि। धर्मसूनुः –युधिष्ठिरः। याम्– निरयगतिम्। श्रुत्वा न्यपतत् –नरकयातनाश्रवणजनितभातिशयेन मूर्छितः पपात। ताम् – तादृशीं निरयगतिम्। असौ तामसौघः –तामसपुरुषवर्गः। अभिपतेत् – अभिगच्छेत्। त्रैवर्गिकाणां वर्गः – धर्मार्थकामरूपं" त्रिवर्गमेव पुरुषार्थत्वेन स्वीकृत्य काम्यं कर्माचरतां" पुरुषाणां वर्गः। पितृसरणिघटीयन्त्रचक्रे – पितृसरणिर्धूमादिमार्ग एव घटीयन्त्रचक्रं घटीयन्त्रनिबद्धघटपरिवर्तनक्रमः तत्र। विघूर्णेत् – पुनः पुनर्निपतेत्। अर्चिरादिरेषा वर्तनी अपुनरावर्तिनां श्रुतिभिः संविभक्ता – अर्चिरादिका एषा सरणिस्तु पुनरावृत्तिशून्यानां" ब्रह्म प्राप्नुवतां महात्मनां श्रुतिभिस्सम्यर्विभज्य दर्शिता। तत् – तस्मात्। अहःपक्षमासादिशब्दः। इतरवत् – धूमादिमार्गश्रुतिश्रुतरात्र्यादिशब्दवत् । तत्र -अर्चिरादिमार्गे। अतिवोढृन् – आतिवाहिकानेव। ब्रूते –प्रतिपादयति। नतु भोगभूमीर्वा मार्गचिह्नानि वा प्रतिपादयतीत्यर्थः॥
कुमार-वरदः - 8
- उक्तमर्चिरादिमार्गमितरस्मात् पुण्यपापमार्गद्वयात् वैलक्षण्येन दर्शयित्वा अहःपक्षमासादिशब्दानां देवताविशेषपरत्वमेव द्रढयति- या मिति। धर्मसूनु र्हि यां नरकमार्गं श्रुत्वा दुःखेन निपपात। तामसौतासौघ स्तामसपुरुषसमूहः स्वय मभिपतेत् प्रतिपद्येत। त्रैवर्गिकाणां" त्रिवर्गमेव पुरुषार्थत्वेन स्वीकृत्य काम्यं कर्माचरतां वर्गः पुनर्धूमादिमार्ग घटीयन्त्रचक्रे विघूर्णेत् ।काम्यकर्मानुष्ठाता घटीयन्त्रघटवदूर्ध्वमुखमुत्क्रम्य कर्मफलानुभवान्ते तद्वदेव निपतेत्। एषा पुन रपुनरावर्तिनां वर्तनी श्रुति भिः संविभक्तैव प्रतिपाद्यते।नन्वत्रातिवाहिप्रसक्तौ अहःपक्षमासादिशब्दा न घटन्ते पुरुषविशेषवाचकत्वाभावादित्याशङ्क्य कतिपयपदेषु पुरुषविशेषवाचकत्वे निर्णीते सति तन्नयायेन सर्वत्र पुरुषविशेषवाचकत्वमेव स्वीकार्यमित्याह— तत्रे ति॥
मूलम् - 8
8.यां श्रुत्वा धर्मसूनुर्न्यपतदभिपतेत्तामसौ तामसौघो
वर्गस्त्रैवर्गिकाणां पितृसरणिघटीयन्त्रचक्रे विघूर्णेत्।
वर्तन्येषार्चिरादिश्श्रुतिभिरपुनरावर्तिनां संविभक्ता
तत्र ब्रूतेऽतिवोढॄंस्तदितरवदहः पक्षमासादिशब्दः॥
विश्वास-प्रस्तुतिः - 9
9.पूर्वं धूमादिमार्गे सुकृतिषु कथिता चन्द्रमःप्राप्तिरन्या
सायुज्यं न्यासविद्याप्रकरणपठितं चान्द्रमन्यादृगुक्तम्।
अन्यात्रार्चिर्मुखानामतिवहनकृतामष्टमस्याप्तिरिन्दो-
रित्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च सूहम्॥
३४-तमाहोबिल-यतिः - 9
- पूर्वमित्यादि। पूर्वम् – तृतीयाध्ययतृतीयपादे। धूमादिमार्गे – ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इत्याम्नाते धूमादिमार्गे। सुकृतिषु – तन्मार्गगामिषु सुकृतिषु। कथिता चन्द्रमःप्राप्तिरन्या – ‘आकाशाच्चन्द्रमयमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति’ इत्युक्ता चन्द्रप्राप्तिः स्वर् भोगयोग्यदिव्येहयोगार्थत्वेन विलक्षणा।न्यासविद्याप्रकरणपठितं चान्द्रं सायुज्यमन्यादृगुक्तम् –‘ओमित्यात्मानं युञ्जीत’ इति विहितन्यासाख्यब्रह्मविद्याप्रकरणभूते ‘तस्यैवं विदुषः’ इत्यादौ ‘अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं" गच्छति’ इत्याम्नातं चन्द्रसंबन्धि सायुज्यं सम्बन्धविशेषात्मकं हार्दसंश्लेवदतिशीतलामृतमयसुधाकरसंश्लेषरूपत्वाद्विश्रमार्थतया पूर्वोक्तात् चन्द्रसंबनधाद्वि लक्षणमित्यस्माभि र्ग्रन्थान्तरे प्रतिपादितम्। अत्र अतिवहनकृतामर्चिर्मुखानामष्टमस्येन्दोराप्तिरन्या –अस्मिन्नर्चिरादिमार्गप्रकरणे आतिवाहिकानामर्चिरादीनामष्टमभूतस्य चन्द्रस्य प्राप्तिश्च अतिवहनार्थत्वेन विक्षणा। इत्थं व्यवस्था सुस्था – उक्तप्रकारेण फलभेदेन व्यवस्था सुप्रतिष्ठिता। प्राणिहितहृदयैरेवमन्यच्च सूहम् – अवधानयुक्तमनस्कैस्स्मदन्तेवासिभिः" पूर्वोक्तरीत्यार्चिरादिषु उपयोगविशेषादिकं सर्वमूहनीयम्॥
कुमार-वरदः - 9
- अत्र चन्द्रप्राप्तिस्त्रेधोच्यते किं तदेकमुत भिन्नामिति विशये तिसृणामपि चन्द्रप्राप्तीनां तत्रतत्रोक्तानां वैषम्यं दर्शयित्वा सर्वत्रापि सन्देहविषये सूक्ष्मबुद्धिभिरन्तेवासिभिस्स्वयमेव वैषम्यं द्रष्टव्यमित्याह- पूर्व मिति।धू मादिमार्गे चन्द्रसायुज्यप्राप्तिरूपा काचिच्चिन्द्रप्राप्तिरुच्यते सा चान्या।इयं तु दक्षिणायनमृतानामुत्तरायणमृतानां वा सर्वेषामपि ब्रह्मविदामविशेषेणातिवाहिकानामष्टामस्य चन्द्रस्य प्राप्तिरभिधीयते।इदमपि ताभ्यां चिन्द्रप्राप्तिभ्यामन्या काचिदपवर्गगामिनां सर्वेषामविशेषेण पञ्चाग्निविद्यायामभिहिता।तदिदमाह- अन्यात्रेति ।एवं शिष्यानुग्रहेणाव्यक्तार्थं विशदीकृत्य वक्तव्यानामीद्दशानामर्थानां बहुत्वात् सूक्ष्मबूद्धिभिरन्तेवासिभिस्स्वयमेवाशेषविशेषप्रतिपत्तिः" कार्येति निगमयति— प्रणिहिते ति॥
मूलम् - 9
9.पूर्वं धूमादिमार्गे सुकृतिषु कथिता चन्द्रमःप्राप्तिरन्या
सायुज्यं न्यासविद्याप्रकरणपठितं चान्द्रमन्यादृगुक्तम्।
अन्यात्रार्चिर्मुखानामतिवहनकृतामष्टमस्याप्तिरिन्दो-
रित्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च सूहम्॥
विश्वास-प्रस्तुतिः - 10
10.भूलोकेशाग्निपूर्वान्कतिचन भविनः केऽपि मन्यन्त एतान्
शब्दैक्ये ह्यत्र गुर्वी भवति तदभिमन्त्रन्तराणां प्रकॢप्तिः।
अन्ये चामानवस्य स्वपदगतपरब्रह्मनेतृत्वदृष्ट्या
नित्यत्वात् तद्वदेतान्निजगदुरखिलन्नित्यवैकुण्ठभृत्यान्॥
३४-तमाहोबिल-यतिः - 10
- भूलोकेशेत्यादि।केऽपि – केचित् पण्डिताः। एतान् –अर्चिरादिकान्। भूलोकेशाग्निपूर्वान् –भूलोकेशो योऽग्निः भुवराख्यान्तरिक्षलोकेशो यो वायुः सुवराख्यलोकेशो य आदित्यः एवमादीन् प्रसिद्धान्। कतिचन भविनो मन्यन्ते – कतिचन सांसारिकदेवविशेषान्मन्यते। तत्र युक्तिमाह शब्दैक्ये अत्र तदभिमन्त्रन्तराणां प्रकॢप्तिर्गुर्वी भवति हि –अग्न्यादिशब्दानां स्थलान्तर इव एकरूपत्वे सत्यपि अत्र केवलं" अग्न्यादिदेवताभिमन्त्रन्तराणामसांसारिकाणामग्न्यादिशब्दवाच्यत्वकल्पनायां गौरवं स्पष्टं हि। तस्मात् प्रसिद्धसांसारिकाग्न्यादय एवैतेऽर्चिरादय इत्यर्थः। अन्ये च – न्यायविचक्षणा अन्ये आचार्यास्तु। अमानवस्य –आतिवाहिकेष्वन्तमस्य विद्युत्पुरुषस्यामानवसंज्ञस्य। स्वपदगतपरब्रह्मनेतृत्वदृष्ट्या –श्रीवैकुण्ठाख्यस्वस्थानावस्थितपरब्रह्मभूतवासुदेवप्रापकत्वदर्शनेन। नित्यत्वात् – अप्राकृतत्वात्।तद्वत् – तत्तुल्यतयैव। अखिलनेतान् – सर्वानेतानर्चरादिपुरुषान्। नित्यवैकुण्ठभृत्यान् – नित्यसूरिभूतान् ब्रह्मविगतिवहने वैकुण्ठेन भगवता नियुक्तान्। निजगदुः । अयमाशयः – अमानवस्य दिव्यलोकगतभगवत्प्रापकत्वेन नित्यसूरित्वस्यावश्यकत्वात् तदितरेषां प्राकृतत्वे वैरुप्यापत्तेस्सर्वेऽप्येतेऽर्चिरादयो नित्यसूरिविशेषा एवाग्रनयनादिप्रवृत्तिनिमित्तपौष्कल्येनाग्न्यादिशब्दमुख्यार्थभूताः। प्रसिद्धाग्न्यादयस्तु तन्नामधारिणस्तदाज्ञानुवर्तिन इति॥
कुमार-वरदः - 10
- अत्र पूर्वप्रसक्तानामातिवाहिकानां सांसारिकाग्न्यादिदेवतारूपत्वम्, अथवा परमपुरुषाज्ञानुपारका- प्राकृतदेवतारूपत्वं वेत्याशङ्कमानस्य कस्यचिच्छिष्यस्य पक्षद्वयमपि प्रतिपत्तृभेदेन विभज्य दर्शयित्वोत्तरस्यैव पक्षस्य प्रमाणकत्वं निगमयति— भूलोकेशे ति।’ पृथिव्यन्तरिक्षं" द्यौः’ इत्यत्र ’ अग्निर्वामुरादित्यः’ इत्यग्न्यादीनां त्राणामनुक्रमेण देवतात्वनिर्देशाद् भूलोकेशः प्रसिद्धाग्निः। एवमन्तरिक्षदिवोर्वाय्वादित्यौ।एतानातिवाहिकान्कतिचन पुरुषाः प्रसिद्धा ग्निपूर्वान् भविनस्सा रिणो देवताविशेषान्मन्यन्ते।तत्र हेतुमाह दर्शयति— शब्दैक्य इति।अग्निशब्दादीनामैक्ये सति संसारिणोऽग्न्यादयः केचित् असंसारिणोऽग्न्यादयोऽपरे इत्यर्थभेदकॢप्तिर्गुर्वी।शब्दस्यानुवृत्तार्थनमेव न्याय्यमिति भावः। तदभिमन्त्राणां संसारिकाग्न्यादिदेवताभिमन्त्रन्तराणामप्राकृताग्न्यादिदेवतानां प्रकॢप्तिर्गुर्वी ति तेषां भावः।अन्ये पुनराचार्या न्यायानुसारेण प्रकारान्तरमाहुः।तत्प्राकामेव दर्शयति— अन्य इति।अयमर्थः—अमानवो हि वैकुण्ठवासिनं भगवन्तमेव प्रापयति।तस्मादमानवोऽप्रापयति। तस्मादमानवोऽप्राकृतः।तत्सहभावेन प्रापकौ ताविन्द्रप्रजापतिचाप्राकृतौ।एवञ्च सत्यन्तेषामातिवाहिकानां प्राकृतत्वकल्पनं वैरूप्यादत्यन्तसाहसमेव।तस्मात्ते सर्वेऽप्यातिवाहिका दिव्यपुरुषा एवेति निर्धारयामः। अन्वयस्तु- अन्ये न्यायनिरूपणबुद्धयः पुनराचार्या अमानवस्य वैकुण्ठवासिपरमपुरुषप्रापकत्व द्दष्ट्या नित्येष्वन्यतमत्वान्नित्यत्वं सिद्धमेव तद्धदचिंरादिकानन्यान्नित्यवैकुण्ठभृत्यान्निजगदुः।तेन त एव मुख्या अर्चिरादयः।प्रसिद्धाग्न्यादयस्तु तन्नामधारिणस्तदाज्ञानुवर्तिन इति मर्वं रमणीयम्॥
मूलम् - 10
10.भूलोकेशाग्निपूर्वान्कतिचन भविनः केऽपि मन्यन्त एतान्
शब्दैक्ये ह्यत्र गुर्वी भवति तदभिमन्त्रन्तराणां प्रकॢप्तिः।
अन्ये चामानवस्य स्वपदगतपरब्रह्मनेतृत्वदृष्ट्या
नित्यत्वात् तद्वदेतान्निजगदुरखिलन्नित्यवैकुण्ठभृत्यान्॥