विश्वास-प्रस्तुतिः - 5
5.कौषीतक्यागमोक्ता वरुणशतमखौ सोऽपि नाथः प्रजानां
क्वापि स्थाप्या निपीड्य श्रुतिमपि विफला ह्यन्यथा तच्छ्रुतिस्स्यात्।
तस्मात्ते वायुलोकात्परमनुपठनात्तत्र सन्त्वित्ययुक्तं
सम्बन्धाद्विद्युतोऽन्वग्वरुण इति परौ पाठतस्तत्परौ स्तः॥
३४-तमाहोबिल-यतिः - 5
- कौषीतक्यागमोक्ता इत्यादि। कौषीतक्यागमोक्ताः –कौषीतकिनां शाखिविशेषाणां आगमे शाखायाम् उक्ताश्श्रुताः। वरुणशतमखौ स प्रजानां" नाथोऽपि –वरुणेन्द्रप्रजापतयः।श्रुतिं निपीड्यापि –अर्चिरादीनां क्रमेण श्रुतत्वात् तादृशक्रमश्रुतिं बाधित्वापि। क्वापि – यत्र क्वचित्। स्थाप्याः –स्थापनीयाः। अन्यथा – क्वचिदप्येषां निवेशानङ्गीकारे। तच्छ्रुतिः –वरुणेन्द्रप्रजापतीनामातिवाहिककोचिनिक्षेपिका कौषीतकिश्रुतिः। विफला स्याद्धि –निष्प्रयोजना भवेद्धि। तस्मात् – कौषीतकिश्रुतिनैष्फल्यपरिहाराय। ते –वरुणेन्द्रप्रजापतयः। वायुलोकात्परमनुपठनात् — वायुलोकादुपरि पठनात्। तत्र सन्तु – तत्रैव सन्तु। यत्र क्वापिक्रमश्रुतिबाधे सोढव्ये पाठक्रमेण वायोरुपरि निवेशो युक्त इति भावः। इत्ययुक्तम् –इति शङ्कनमयुक्तम्। सम्बन्धात् –विद्युद्वरुणयोर्मेघदरवर्तित्वसम्बन्धात्। विद्युतोऽन्वक् –विद्युतः पश्चात्। वरुण इति – वरुणो निवेश्य इति हेतोः। परौ –इन्द्रप्रजापती अपि। पाठतः –कौषीतकिश्रुतौ वरुणानन्तरपाठवशेन। तत्परौ स्तः –अत्रापि वरुणानन्तरौ भवेताम्॥
कुमार-वरदः - 5
- अत्रापि क्रमविशेषचिन्तैव क्रियत इति सङ्गतिः।तदर्थविचारस्तु-किं वरुणादयो यथापाठं निवेशयितव्याः किं विद्युतोऽधीति।किं वरुणस्य विद्युत्सम्बन्धानुरोध उपपन्नो नेति।अत्र पूर्वपक्षीकथयति कौषीतकिवाक्येवरुणश्चेन्द्रश्च प्रजापतिरप्यातिवाहिकत्वेनोपदिश्यन्ते।तेचोपदेशावैयर्थ्याय क्वचिन्निवेशायितव्याः।तेषां सर्वत्रापि श्रुत्या निवेशो बाध्यते।अथापि पाठक्रमानुरोधेन श्रुतिं बाधित्वापि वायोरुपरि वरुणो निवेशयितव्यः।तथा च सत्यनेकश्रुतिबाधाद् वरमेकत्रैव श्रुतिबाध इतिन्यायनुसारेण तेनैवोपदेशावैयर्थ्यहेतुनेन्द्रप्रजापती वरिणानन्तरं निवेशयितव्याविति तयोश्च तत्र पाठक्रमो विद्यते।तदिदमाह- कौषीतकी ति।एवमत्र शब्दान्वयः— कौषीतक्यागमोक्ता वरुणशतमखप्रजानाथाः श्रुतिं बाधत्वापि क्वचिन्निवेशयितव्याः।तत्र हेतुमाह— विफ लेति।क्वचिन्निवेशाभावे तेषां श्रुतिर्विफला स्यात् एवं क्वचिन्निवेश्यत्वे सिद्धे पाठक्रममनुसृत्य वायुलोकात्परं निवेशयितव्याः इति।तदेतद्दूषयति— अयुक्त मिति।तर्हि कुत्र निवेश्यत्वं तेषामित्याशङ्क्याह- संबन्धा दिति।अर्था द्वरुणो विद्युतो ऽधिनिवेश्यः। इन्द्रप्रजापती तु पाठादेव वरुणात्परौ भवतो वरुणानन्तरभाविनौ भवत इत्यर्थः॥
मूलम् - 5
5.कौषीतक्यागमोक्ता वरुणशतमखौ सोऽपि नाथः प्रजानां
क्वापि स्थाप्या निपीड्य श्रुतिमपि विफला ह्यन्यथा तच्छ्रुतिस्स्यात्।
तस्मात्ते वायुलोकात्परमनुपठनात्तत्र सन्त्वित्ययुक्तं
सम्बन्धाद्विद्युतोऽन्वग्वरुण इति परौ पाठतस्तत्परौ स्तः॥
विश्वास-प्रस्तुतिः - 6
6.यत्त्वस्यामानवस्य श्रुतिमिह परसम्प्रापकत्वं भवेत्तत्
सद्वारत्वेऽप्यबाधं तदपि सहकृतौ तच्छ्रुतौचित्यभूमा।
यश्चोक्तो मानसाख्यस्तटित उपरि तु ब्रह्मलोकाप्तिहेतुः
तस्मान्नेता स नान्यो विदुरतिवहनं वैद्युतेनैव तस्मात्॥
३४-तमाहोबिल-यतिः - 6
- यत्त्वस्येत्यादि।अस्य – ‘तत्पुरुषोऽमानवस्स एनान्ब्रह्म गमयति ’ इति श्रुत्या बुद्धिस्थस्य। अमानवस्य –अमानवसंज्ञस्य विद्युत्सम्बन्धिपुरुषस्य । इह –श्रुतिवाक्ये। यत्तु परसम्प्रापकत्वं श्रुतम् – यत् ब्रह्मप्रापकत्वमवगतम्। तत् – ब्रह्मप्रापकत्वम्। सद्वारत्वेऽपि –वरुणेन्द्रप्रजापतिद्वारकं तदित्यङ्गीकारेऽपि। अबाधं भवेत् – निर्बाधमेव। भ्रमिद्वारा घटकारणीभूतोऽपि दण्डो घटकारणमिति खलु व्यवह्रियत इति भावः। तदपि –तथापि। सहकृतौ –वरुणेन्द्रप्रजापतीनां सहकारित्वङ्गीकारेण वैद्युतस्यैव गमयितृत्वङ्गीकारे। तच्छ्रुतौचित्यभूमा –तस्या मानवस्य श्रुतं ’ स एनान्ब्रह्म गमयति’ इति यत् ब्रह्मप्रापकत्वम्, तस्यौचित्यंप्रतिपत्तिसौकर्यं तस्य भूमा अतिशयः। अस्तीति शेषः। अद्वारकं ब्रह्मप्रापकत्वं हि प्रतिपत्तुं सुशकम्, सद्वारकं तु द्वारभूतवस्तुज्ञानतदीयकारणत्वादिज्ञावसापेक्षत्वाद्दुश्शकमिति भावः। तटितः —विद्युत। उपरितु – उपरिष्टात्। ब्रह्मलोकाप्तिहेतुः – ब्रह्मात्मकलोकप्राप्तिहेतुः। यश्च मानसाख्य उक्तः – उपनिषद्विशेषे यश्च मानसनामा प्रतिपादितः। तस्मात् – मानसात्। नेता सः – ब्रह्मप्रापकोऽमानवः। नान्यः –अन्यो न। किन्तु तस्यैव नामद्वयमित्यर्थः। तस्माद्वैद्युतेनैवातिवहनं विदुः — यस्माद्वैद्युतस्य पुरुषस्यैकस्यैव मानसामानवाख्यनामद्वयवत्त्वेन स्वरूपैक्यं" तस्मादेव कारणात् विद्युत्पुरुषेणैकेनैवातिवहनं सूत्रकारादयोऽभ्यधुः ‘वैद्युतेनैव ततस्तच्छ्रुतेरिति॥
कुमार-वरदः - 6
- अत्रामानवस्याव्यवहितब्रह्मप्रापकत्वं मा भूत् इन्द्रप्रजापतिद्वारेण भवत्वित्याशङ्क्य वाक्यस्वारस्यानुरोधेनेन्द्रप्रजापतिभ्यां" सहकारित्वेनावस्थिताभ्यां सहकृतस्यामानवस्यैव ब्रह्मप्रापकत्वं समुचितमिति स्थापयति— यत्त्वस्ये ति।शब्दार्थस्तु— अस्यामानवस्य श्रुतं यद् ब्रह्म प्रापकत्वं तदिन्द्रप्रजापतिभ्यां सद्वारत्वेऽपि यद्यप्यबाधं भवति तथापि तैरमानवेन्द्रप्रजापतिभिस्सहितैरेव ब्रह्मप्राप्तिकरणे श्रुतौचित्यभूमा स्ति।’ स एनान् ब्रह्म गमयति’ इत्यमानवकर्तृकत्वेन श्रुतब्रह्मप्राप्ति प्रतिपत्त्यौचित्यभूमास्ति।अयमर्थः—अमानव एव प्राधान्येन ब्रह्म गमयति इन्द्रप्रजापती तु मानसस्य तत्कथमित्याशङ्क्यामानव एव मानसशब्देनाभिधीयते ततो नामभेदमात्रमिति वदति- यश्चोक्त इति। शब्दान्वयस्तु तटित उपरि ब्रह्मलोकाप्तिहेतुर्यश्च मानसाख्य उक्तस्तस्मा न्मानसा न्नेता अमानवो नान्यः ।तत्र हेतुमाह— विदु रिति।अमानवो विद्युत्सम्बन्धी पुरुषविशेषः मानसोऽपि तथा तस्माद् विद्युत्सम्बन्धिना पुरुषणैकेनैवातिवहनमाहुः॥
मूलम् - 6
6.यत्त्वस्यामानवस्य श्रुतिमिह परसम्प्रापकत्वं भवेत्तत्
सद्वारत्वेऽप्यबाधं तदपि सहकृतौ तच्छ्रुतौचित्यभूमा।
यश्चोक्तो मानसाख्यस्तटित उपरि तु ब्रह्मलोकाप्तिहेतुः
तस्मान्नेता स नान्यो विदुरतिवहनं वैद्युतेनैव तस्मात्॥