विश्वास-प्रस्तुतिः - 4
4.सम्प्राप्तो देवलोको मरुदपि च समं वत्सरादित्यमध्ये
नैकत्वं रूढिभेदात्तत इह तु तयोस्तुल्यभावाद्विकल्पः।
मैवं योऽयं प्रसिद्धः पवत इति मरुद्देवतानां गृहत्वं
तस्योक्तं धारकत्वात्तत उचितमिदं निर्विकल्पं तदैक्यम्॥
३४-तमाहोबिल-यतिः - 4
4.सम्प्राप्त इत्यादि।वत्सरादित्यमध्ये–संवत्सरादित्ययोर्मध्ये।देवलोकः-देवलोकपदार्थः।मरुदपि च–वायुश्च।समम्–तुल्यतया एकस्थानापत्त्या।सम्प्राप्तः–श्रुत्या प्रतिपन्नः।कस्याञ्चित् श्रुतौ संवत्सकादित्ययोर्मध्ये देवलोकश्श्रुत्तः, कस्याञ्चित्तत्रैव स्थाने वायुश्श्रुत इत्यर्थः।रूढिभेदात्– देवलोकवायुशब्दयोर्देवानां लोके वायौ च प्रत्येकं रूढिशक्तिभेदात्।तयोः–देवलोकवायुशब्दार्थयोः।एकत्वं न– ऐक्यं न सम्भवति।ततः–तस्मत्कारणात्।इह–अतिवहने।तुल्यभावात्तु–तुल्यप्रमाणकत्वाद्रुढितौल्याच्च।विकल्पः- कदाचिद्देवलोकस्यातिवहनं कदाचिद्वायोरिति पक्षेऽन्तरबाधोऽन्यतरपरिग्रहश्चेत्यर्थः।मैवम्–एवं मा शङ्किष्ठाः। इह–लोके।योऽयं" प्रसिद्धो मरुत् पवते –य एष सर्वजनविदितो वायुर्वाति। तस्य – वायोः। धारकत्वात् –स्वर्गादिलोकधारकत्वाद्धेतोः। देवतानां गृहत्वमुक्तम् –‘योऽयं पवत एष देवतानां गृहाः’ इति श्रुत्या देवानां स्थानभूतत्वमाम्नातम्। ततः –कारणात्। निर्विकल्पम्– अष्टदोषदुष्टविक्लपशून्यम्।उचितम् –तथआग्राह्यतम्। इदं तदैक्यम् – तयोर्देवलोकवाय्योरैक्यम्। सिद्धमिति शेषः। देवलोकशब्देनापि देवस्थानत्वगुणेन वायुरेवोच्यत इत्यर्थः॥
कुमार-वरदः - 4
- भिन्नदेशाम्नातस्यार्चिरादिमार्गस्यैकत्वे स्थिते तत्र क्रमचिन्तने प्राप्ते संवत्सरादित्ययोर्मध्ये श्रुत्या प्राप्तयोर्वायुदेवलोकयोर्भेदमङ्गीकृत्यान्यमेन क्रमोऽकर्तव्यः उत प्रमाणबलादेकत्वमेवाङ्गीकृत्यैकी- भूतयोरेकस्थानापन्नत्वमिति चिन्त्यत इति सङ्गतिः।तदर्थविचारस्तु—संवत्सरादित्ययोर्मध्योर्मध्यप्राप्तौ वायुदेवलोकावनियतक्रमेण निवेशयितव्यावुत नेति।किं वायुदेवलोकशब्दावर्थान्तरपरावुत नेति।किं देवलोकशब्दस्य देवावासपरत्वं न्याय्यमुत वायोर्देवगृहत्वश्रवणानुरोधेन वायुपरत्वं प्राप्तौ नच तयोरेकत्वं वक्तुं शक्यते लोके रूढिभेदस्य द्दष्टत्वात् तेनैकस्मिन्स्थाने तुल्यप्रमाणसिद्धत्वाद्विकल्प एव स्यात्। ’ योऽयं पवत ए, देवानां गृहाः’ इति वायोर्देवगृहत्वं श्रुतिप्रसिद्धम्।कथं देवलोकत्वमित्याशङ्क्याह— धारकत्वा दिति।स्वर्गलोको वायुनैव धृत इति पुराणादिषु प्रसिद्धमेतत्।एवमुपपादितमर्थं न्यायतो निगमयति- अत इति विकल्पो ह्यष्टदोषदुष्टत्वात्कष्ट एवेतीममर्थं दर्शयितुं निर्विकल्प मिति विशेषणं प्रोक्तम्।अयमर्थः—वायदेवलोकयोरैक्यं विकल्पप्रयुक्तदोषपरिहारार्थमङ्गीकर्तव्यमिति॥
मूलम् - 4
4.सम्प्राप्तो देवलोको मरुदपि च समं वत्सरादित्यमध्ये
नैकत्वं रूढिभेदात्तत इह तु तयोस्तुल्यभावाद्विकल्पः।
मैवं योऽयं प्रसिद्धः पवत इति मरुद्देवतानां गृहत्वं
तस्योक्तं धारकत्वात्तत उचितमिदं निर्विकल्पं तदैक्यम्॥