25 अर्चिराद्यधिकरणम्

विश्वास-प्रस्तुतिः - 2

2.शाखाभेदेषु भिन्नां गतिमुपनिषदोऽधीयते तन्मुमुक्षोः
विद्यावैषम्यनीत्या गतिरपि विषमा न व्यवस्थार्चिरादेः।
नैतत्सर्वत्र तैस्तैरिह तदिदमिति प्रत्यभिज्ञानसिद्धौ
भाव्यं न्यूनाधिकत्वप्रभृति निखिलमप्यत्र सिद्धाविरुद्धम्॥

३४-तमाहोबिल-यतिः - 2

2.शाखाभेदेष्वित्यादि।उपनिषदः—वेदान्तभागाः।शाखाभेदेषु–ऋग्यजुस्सामादिशाखाभेदेषु। गतिम्–ब्रह्मविदां मार्गम्।भिन्नाम्–परस्परन्यौन्याधिक्यव्यत्ययैर्विलक्षणामेव।अधीयते– आमनन्ति।तत्–तस्मात्।मुमुक्षोः– ब्रह्मविदः।विद्यावैषम्यनीत्या–विद्यवैषम्यन्यायेन।गतिरपि–मार्गोऽपि।विषमा–परस्परभिन्नभिन्नैव भवितुमर्हति। अतः अर्चिरादेः–अर्चिरादिमार्गस्य।व्यवस्था–ऐकरूप्यनियमः।न–नास्ति।एतत् न–इदं शङ्कनं न युक्तम्। इह– अर्चिरादिगतिविषये।सर्वत्र–शाखाविशेषेषु सर्वत्र।तैस्तैः–अग्निवाय्वादित्यचन्द्रविद्युत्प्रभृतिभिः।तदिदमिति प्रत्यभिज्ञानसिद्धौ–तदेवेदमपीत्येकत्वेन प्रत्यभिज्ञासिद्धौ सत्याम्।न्यूनाधिकत्वुप्रभृति निखिलमपि अत्र सिद्धाविरूद्धं भाव्यम्–न्यूनत्वमधिकत्वं व्यत्ययेन कथनमित्यादि सर्वमपि न्यायसिद्धाविरूद्धतया चिन्तनीयम्॥

कुमार-वरदः - 2
  1. अत्र सङ्गतिर्भाष्ये ’ विदुष उत्क्रान्तस्य नाडीविशेषण हादार्नुग्रहाद् गत्युपक्रम उक्तः। तस्य गच्छतो मार्ग इदानीं निर्णीयते’ इति। तदर्थविचारस्तु- किं विद्वानर्चिरादिमार्गेणैव गच्छति, उत तेन वा मार्गान्तरेण वेत्यनियमः।किं सर्वविद्यास्वेको मार्ग आम्नायते, उत नानामार्ग इति । किं क्रमान्तरपदार्थान्तराम्नानात् नानामार्गसमाश्रयणं न्याय्यमुतादित्यादिप्रत्यपिज्ञानेन मार्गैकत्वाश्रयणं" न्याय्यमिति।अत्र पूर्वपक्षमाह- शाखाभेदे ष्विति। छान्दोग्ये वादसनेयके कौषीतकिब्राह्मणे च तत्रतत्र शाखाभेदेषूपनिषदो भिन्नमिव ब्रह्मविदां गतिमधीयते। तत्र भिन्नप्रकारार्थं भाष्य एव सुव्यक्तमुक्तम्।तेन मुमुक्षोर्ब्रह्मविद्यावैषम्यन्यायेन गतिचिन्तनमपि विषममेव। तेनार्चिरादेव व्यवस्था नियमेनैकरूरप्यं नास्तीति। तदिदं प्रतिक्षिपति- नैत दिति। सर्वत्र तैस्तैरग्निवाय्वादित्य.चन्द्रविद्युत्प्रभृतिभिस्तदेव देवयानामिति प्रत्यभिज्ञानेन सिद्धे सति न्यूनाधिकत्वप्रभृति न्यूनत्वमधिकत्वं व्यत्ययेन कथनमपि निखिलं न्याय विरुद्धं भाव्यं" भावनीयम्॥
मूलम् - 2

2.शाखाभेदेषु भिन्नां गतिमुपनिषदोऽधीयते तन्मुमुक्षोः
विद्यावैषम्यनीत्या गतिरपि विषमा न व्यवस्थार्चिरादेः।
नैतत्सर्वत्र तैस्तैरिह तदिदमिति प्रत्यभिज्ञानसिद्धौ
भाव्यं न्यूनाधिकत्वप्रभृति निखिलमप्यत्र सिद्धाविरुद्धम्॥

विश्वास-प्रस्तुतिः - 3

3.चैद्यादीनामयोध्यास्थिरचरजनुषां पुण्डरीकादिकानां
भीष्मादीनामुपास्तिक्रमभवविभवव्यूहलोकस्थितानाम् ।
धातॄणां तत्सुतानामिधिकृतिविगमे ब्रह्मसम्प्रेप्सताम-
प्यन्येषां प्रस्थितिस्सा शितपृथुमतिभिश्चिन्तनीया यथार्हम्॥

३४-तमाहोबिल-यतिः - 3

3.चैद्यादीनामित्यादि।चैद्यादीनाम्-शिशुपालुप्रभृतीनाम्।अयोध्यास्थिरचरजनुषाम्—अयोध्यासम्बन्धिनां स्थावरजङ्गमजन्मभाजां प्राणिनाम्।पुण्डरीकादिकानाम्–पुण्डरीकाख्यमहर्षिप्रभृतीनाम्।भीष्मादीनाम्। उपास्तिक्रमभवविभवव्यूहलोकस्थितानाम्-‘विभवार्चनीद्व्यूहार्चनं प्राप्य व्यूहार्चनात् परं ब्रह्म वासुदैवाख्यं सूक्ष्मं प्राप्यत इति वदन्ति’ इति पाञ्चरात्राधिकरणभाष्योक्तरीत्या उपास्तिक्रमेण भवतीत्युपास्तिक्रमभवं विभवव्यूहलोकयोः स्थितम् अवस्थानं येषां" ते उपास्तिक्रमभवविभवव्यूहलोकस्थितास्तेषाम्।विभवो रामकृष्णादिप्रादुर्भावगणः।रामकृष्णादीनां विभवानामपि लोकास्सन्ति।व्यूहो वासुदेवादिमूर्तिचतुष्टयम्। वासुदेवादीनामपि प्रत्येकं लोकास्सन्ति।उदाहृतभाष्यस्य तन्मूलभूतसंहितादिवचनानाञ्च विद्यमानत्वात्।धातॄणाम् –प्रतिप्राकृतसृष्टि भिन्नभिन्नानां चतुर्मुखानाम्।तत्सुतानाम्–चतुर्मुखसुतानां पुलस्त्यनारदप्रभृतीनाम्। अधिकृतिविगमे-स्वस्वाधिकारावसाने।ब्रह्मसम्प्रेत्सतामन्येषामपि–ब्रह्मप्राप्तिकामानामिन्द्रादीनामपि।सा- पुराणादिषु प्रसिद्धा।प्रस्थितिः–प्रस्थीयते अनयेति प्रस्थितिस्सरणिः।शितपृथुमतिभिः-निशितमहाबुद्धिभिः पण्डितैः।यथार्हम्–यथायोग्यम्, उपरितनलोकस्थितानामधोलोकस्थितार्चिरादिदेवतातिवहनपरत्यागाद्यर्थौचित्येन। चिन्तनीया-आलोचनीया।तथा चायमर्चिरादिमार्गस्सामान्यः" केषाञ्चित् ब्रह्मविदां गतिभेदाश्च सन्ति तथा च तुल्यप्रमाणकानामितरेतरबाधश्च नास्तीति भावः॥

कुमार-वरदः - 3
  1. एवमर्चिरादिमार्गेण ब्रह्मविदां गमनमिति भगवत्प्राप्तौ गमननियमो भवतोक्तः परमपदं गच्छतां नानाप्रकारेण गमनं द्दश्यते प्रमाणवाक्येषु तत्कथमित्याशङ्क्य प्रमाणसिद्धार्थप्रहाणायोगात् तत्र तत्रोचितमेव प्रकारवैषम्यं प्रतिभावद्भिश्चिन्तनीयमित्याह- चैद्यादीना मिति। अयमत्र भावः-सामान्यन्यायोऽयं ब्रह्मनाड्योत्क्रम्य ब्रह्मविदामर्चिरादिमार्गेण गमनमिति ब्रह्मविद्विशेषाणां तुल्यप्रमाणसिद्धं" गमनवैषम्यमपि नापह्नोतव्यम्, नैतावता ब्रह्मविदामर्चिरादिमार्गेण गमनमिति सामान्योऽयं महामार्गोऽपह्नोतव्य इति। चैद्यस्य तदानीमेव वासुदेवपदप्राप्तिः। अयोध्यास्थिरचरजनुषां" भगवता रामभद्रेण सह यावद्ब्रह्मलोकगमनम्।पुण्डरीकादीनां तत्तत्संवादोक्तप्रकारेण पुरुषविशेषाणामपवर्गप्राप्तिः।भीष्मादीनां वस्वादिपदप्राप्तिपूर्वकपरमपदप्राप्तिः।उपास्तिक्रमेण भगव द्विभव्यूहलोकस्थितानां स्वाभिमतकाले फलप्राप्तिः। धातॄणां चतुर्मखादीनां स्वस्माल्लोकात्परमपदप्राप्तिः।एवमन्यत्रापि विद्वद्भिञ्चिन्तनीयमिति।एवं" सामान्यगमनोरपदेशमात्रेण यथोचितविशेषगमनं नापह्नोतव्यमित्यक्तं भवति॥
मूलम् - 3

3.चैद्यादीनामयोध्यास्थिरचरजनुषां पुण्डरीकादिकानां
भीष्मादीनामुपास्तिक्रमभवविभवव्यूहलोकस्थितानाम् ।
धातॄणां तत्सुतानामिधिकृतिविगमे ब्रह्मसम्प्रेप्सताम-
प्यन्येषां प्रस्थितिस्सा शितपृथुमतिभिश्चिन्तनीया यथार्हम्॥