विश्वास-प्रस्तुतिः - 1
1.निर्गत्य ब्रह्मरन्ध्रात् तपनकरमथालम्ब्य नाडीनिबद्धं
प्रत्युद्यद्देवबृन्दप्रहितबलिरसौ येन योगी प्रयाति ।
मौकुन्दस्स्थाप्यतेऽसौ परमिह मुनिना पञ्चभिर्न्यायभेदैः
मोहाकूपारपारं पुरमभिगमयन्मुक्तिघण्टापथो नः॥
३४-तमाहोबिल-यतिः - 1
- निर्गत्येत्यादि। ब्रह्मरन्ध्रात् –शिरःकपालमध्यरन्ध्रात्। निर्गत्य –उपरि बहुर्निष्क्रम्य। अथ -तदनन्तरम्। नाडीनिबद्धम् –ब्रह्मनाड्या सम्बद्धम्। तपनकरम् – सूर्यकिरणम्। आलम्ब्य –उपरि गतिसाधनत्वेनावलम्ब्य। प्रत्युद्यद्देवबृन्दप्रहितबलिः – प्रत्युद्यद्भिर्मार्गातिवहनायाभिमुखमारतैर्देवबृन्दैरर्तिर्दिनादिदेवसमूहैः प्रहितबलिः समर्पितोपहारः। ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इति श्रुतेरति भावः। असौ – प्रकृत उत्क्रान्तः। योगी –ब्रह्मवित्। येन – मार्गेण। प्रयाति – गच्छति। मौकुन्दः —मुक्तिभूमिदो मुकुन्दस्तं प्रापयतीति मौकुन्दः। मोहाकूपारपारम् – मोहः अज्ञानान्यथाज्ञानविपरीतज्ञानरूपस्स एवकूपारसमुद्रस्तस्य पारं परतटभूतम्। पुरम् – मुक्तिस्थानभूतं" श्रीवैकुण्ठाख्यं दिव्यनगरम्। नः –अस्मान्। अभिगमयन् – प्रापयन्। असौ – बुद्धिस्थोऽर्चिरादिरूपः। मुक्तिघण्टापथः" –मोक्षप्रापकमहापथः। इह– अस्मिन्नध्याये। परम् – इत उपरि तृतीयपादे। मुनिना –सर्वोपनिषदर्थणननशीलेन व्यासेन। पञ्चभर्न्यायभेदैः" –पञ्चसङ्ख्ाकैरधिकरणविशेषैः। स्थाप्यते — पूर्वपक्षनिरसनपूर्वकं सिद्धान्तीक्रियते॥
कुमार-वरदः - 1
- अथ वक्ष्यमाणपादार्थं सङ्कलय्य दर्शयति- निर्गत्ये ति। अयमर्थः -ब्रह्मरन्ध्रान्निर्गत्य नाडीनिबद्धं तपनकरमथालम्ब्य प्रत्युद्यद्देवबृन्दैः" ’ सर्वेऽस्मै देवा बलिमावहन्ति’ इति प्रमाणानुसारेण प्रहितबलिः प्रहितोपहारो योगि येन मार्गेण गच्छति। मौकुन्दो मुकुन्दप्रापकोऽसौ मार्गो मुनिना पाराशर्येण पञ्चभिर्न्यायभेदै रधिकरणै स्स्थाप्यते । किं कुर्वन् मोहाकूपारपारं पुरं परमपदं नोऽभिगमयन् । मुक्तिघण्टापथः- अर्चिरादिमार्ग इत्यर्थः॥
मूलम् - 1
1.निर्गत्य ब्रह्मरन्ध्रात् तपनकरमथालम्ब्य नाडीनिबद्धं
प्रत्युद्यद्देवबृन्दप्रहितबलिरसौ येन योगी प्रयाति ।
मौकुन्दस्स्थाप्यतेऽसौ परमिह मुनिना पञ्चभिर्न्यायभेदैः
मोहाकूपारपारं पुरमभिगमयन्मुक्तिघण्टापथो नः॥