23 दक्षिणायनाधिकरणम्

विश्वास-प्रस्तुतिः - 23

23.देहं योगीश्वरोऽपि त्यजति यदि रवेर्दक्षिणावृत्तिकाले
विन्देत्सायुज्यमिन्दोरिह भवति पुनस्तच्छ्रुतेस्तत्स्मृतेश्च।
मैवं पूर्वोक्तनीतिस्त्विह नहि विहताथास्य सायुज्यमिन्दौ
विश्रान्त्यै सूर्यनीत्या जगदुपकृतये भीष्मकालप्रतीक्षा॥

३४-तमाहोबिल-यतिः - 23
  1. देहमित्यादि।योगीश्वरोऽपि – ब्रह्मविद्यानिष्ठतया योगिनां श्रेष्ठोऽपि मुमुक्षुः। रवेः – सूर्यस्य। दक्षिणावृत्तिकाले– दक्षिणआदिगावर्तनसमये दक्षिणायन इत्यर्थः। देहं यदि त्यजति – यदि देहं विसृजति म्रियते चेत्।तर्हि इन्दोस्सायुज्यं विन्देत् – चन्द्रसायुज्यं प्राप्नुयात्।‘अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति’ इति श्रुतेरिति भावः। इह पुनर्भवति – अस्मिन् लोके पुनर्जायते। कुत इति चेत् – तच्छ्रुतेस्तत्स्मृतेश्च – ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते’ इति श्रउतेः ‘तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते’ इति स्मृतेश्च। मैवम् – एवं मा शङ्किष्ठाः। इह तु पूर्वक्तनीतिर्न विहता हि —चन्द्रप्राप्तिविषयेऽपि प्रारब्धकर्मावसाने मोक्षो नियत एवेत्युक्तो न्यायो न निरुद्धो हि। तर्हि चन्द्रप्राप्तिः" किंमर्थेति चेत् अथ अस्य इन्दौ सायुज्यं सूर्यनीत्या विश्रान्त्यै – प्रारब्धकर्मावसाने मोक्षनैयत्ये निश्चिते सत्यनन्तरं मुमुक्षोशअचन्द्रसायुज्यत्वं" सूर्यनीत्या उत्तरायणमृतस्य सूर्यसायुज्यन्यायेन विश्रमार्थमिति निश्चीयते। भीष्मकालप्रतीक्षा –भीष्मस्योत्तरायणप्राप्तिपर्यन्तप्रतीक्षणं" तु। जगदुपकृतये – सुकृतिनामुत्तरायणमरणं प्रशस्तमित्येतदर्थप्रदर्शनेन लोकोपकारारार्थम्, नतु दक्षिणायनमृतानां मुक्तत्यभावप्रदर्शनार्थमित्यर्थः॥
कुमार-वरदः - 23
  1. विदुषो मरणे दिवारजनिविभागो नास्तीत्युक्तं येन हेतुना तेनैव हेतुना दक्षिणायनोत्तरायण विभागोऽपि नास्तीत्युच्यत इत्यातिदेशिका सङ्गतिः। तदर्थविचारस्तु—किं दक्षिणायनमृतस्य विदुषो ब्रह्मप्राप्तिस्सम्भवति नेति। किं ’ अथ यो दक्षिणो प्रमीयते’ इति दक्षिणायनमृस्य चन्द्रप्राप्तिवचनं ब्रह्मप्राप्त्यभावं गमयति नेति। चन्द्रं प्राप्तानामावृत्तिवचनं" किं विद्वदविद्वत्साधारणमुताविद्वद्विषयमिति। किं भीष्मादीनां कालप्रतीक्षायां कालविधानस्मरणसहकृतसामान्यश्रुत्यनुरोधेन साधारणत्वसमाश्रयणं" न्याय्यम् उत ’ ब्रह्मणो महिमानम्’ इति वाक्यशेषानुरोधेनाविद्वद्विषयत्वसमाश्रयणं न्याय्यमिति। अत्र चन्द्रं प्राप्तस्य पुनरावृतिरेव नियता भवतीति पूर्वपक्षमनुवदति- देह मिति। योगीश्वरीऽपि दक्षिणावृत्तिकाले देहं त्यजति यदि तदा इन्दोस्सायुज्यं विन्दुत् इन्दुसायुज्यानन्तर मिह पुनर्भवति । कुत इत्यत्राह— तच्छ्रुतेरिति। चन्द्रं प्राप्तानां पुनरावृत्तिश्रुतेः। तथा तत्स्मृतेश्च –’ अथैतमेवाध्वानं" पुनर्निवर्तन्ते’ इति पुनरावृत्तिश्रुतिः। ’ तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तन्ते’ इति स्मृतिः। तदिदं निराकरोति— मैव मिति। तदेवोपपादयति— पूर्वोक्तनीति रिति। प्रारब्धकर्मावसाने सर्वथा मोक्षो नियत एव। चन्द्रं वा प्राप्नोतु सूर्यं वेति साधारणीयं नीतिः।तर्हि चन्द्रं किमर्थं प्राप्नोति ब्रह्मविदिति चेत् सूर्यं वा किमर्थं प्राप्नोति।विश्रान्ता इति चेत्तत्तुल्यमित्याह— विश्रान्त्या इति।तर्हि मुमुक्षो र्भीष्मस्य किमर्थ मुत्तरायणप्रेक्षणमित्याशङ्क्यान्यथासिद्ध्या परिहरति— जग दिति। अयमर्थः—भीष्मो हि धर्मप्रवर्तकत्वेन विश्वोपकारकः।तेन सुकृतिनामुत्तरायणे मरणस्य प्राशस्त्यं दर्शयितुमुत्तरायणं" प्रेक्षितवान्।यथा हि भगवान्लोकसङ्ग्रहार्थं सर्वं कर्माचरति तद्वद्भीष्मस्याप्युत्तरायणप्रतीक्षणं लोकसंग्रहार्थमिति न विरोधः॥
मूलम् - 23

23.देहं योगीश्वरोऽपि त्यजति यदि रवेर्दक्षिणावृत्तिकाले
विन्देत्सायुज्यमिन्दोरिह भवति पुनस्तच्छ्रुतेस्तत्स्मृतेश्च।
मैवं पूर्वोक्तनीतिस्त्विह नहि विहताथास्य सायुज्यमिन्दौ
विश्रान्त्यै सूर्यनीत्या जगदुपकृतये भीष्मकालप्रतीक्षा॥

विश्वास-प्रस्तुतिः - 24

24.किञ्च प्रारब्धकर्मप्रतिनियतमिदं जाह्नवीसम्भवस्य
स्वेच्छा येनैवमासीत् स च वसुरभवन्नै साक्षाद्विमुक्तः।
तस्माद्विन्देत मुक्तिं नरपितृदिविषद्रात्रिकालेऽपि योगी
स्यातां प्राशस्त्यनिन्दे तदितरविषये गीतयोक्तौ तु मार्गौ॥

३४-तमाहोबिल-यतिः - 24
  1. किञ्चेत्यादि। किञ्च – युक्त्यन्तरमप्यस्तीत्यर्थः। जाह्नवीसम्भवस्य – भीष्मस्य। इदम् – युद्धं युद्धमरणमुत्तरायणप्रतीक्षणमित्यादिकम्।प्रारब्धकर्मप्रतिनियतम् – भोगैकनाश्यतथाविधकर्मविशेषेण तस्मिन्नेव व्यवस्थितम्। येन – कर्मणा। स्वेच्छा एवमासीत् – भीष्मस्येच्छा उत्तराणप्रतीक्षणविषयिण्यासीत्। यद्वा येन – प्रारब्धकर्मणा। जाह्नवीसम्भवस्य स्वेच्छा एवमासीत्। तन्मूलभूतमिदं प्रारब्धकर्म प्रतिनियतम् – तस्मन्नेव व्यवस्थितम्।कर्म प्रतिनियतमिति भिन्ने पदे। अन्यत्रादर्शनात् पाण्डानां दारसाधारण्यहेतुकर्मविशेषवदिदमपि भीष्मस्य प्रतिनियतं प्रारब्धकर्मैव तत एव न तस्याचारः प्रमाणमन्येषामिति भावः। स च – भीष्मस्य। वसुरभवत् – वसुष्वष्टस्वेकतमत्वं प्राप्तवानित्यर्थः। तथा भारतादिषउ प्रसिद्धत्वादिति भावः। एष साक्षाद्विमुक्तो न – अत एव एष भीष्मः साक्षान्मुक्तो न। तेन मुमुक्षओः कालविशेषप्रतीक्षा कर्तव्येत्यस्य नायं दृष्टान्तइत्यर्थः। तस्मात् – उक्तोपपादनेन मुमुक्षूणां कालविशेषनियमानपेक्षमुक्तिकत्वात्।योगी – उपासकः। नरपितृदिविषद्रात्रिकालेऽपि – नराणां रात्रिर्निशा पितृणां रात्रिः कृष्णपक्षओ देवानां रात्रिर्दक्षिणायनं तेष्वपि। मुक्तिं विन्देत – मोक्षं लभेतैव। प्राशस्त्यनिन्दे तदितरविषये स्याताम् – ‘दिवा च शुक्लपक्षश्च उत्तरायणमेव च। मुमूर्षतां प्रशस्तानि विपरीतं तु गर्हितम्॥’ इत्यादिभिरुत्तरायणादिप्रशंसन दक्षिणायादिनिन्दने क्रियमाणे अध्यात्मविद्भिन्नविषये भवेताम्। गीतयोक्तौ तु मार्गौ – ‘अग्निर्ज्योतिरहश्शुक्लष्षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः। धूमो रात्र्स्तथा कृष्णष्षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥’ इति गीतायामुक्तौ तु द्विविधौ पक्षो मार्गौ देवयानपितृयाणमार्गावेव तथोच्येते नतु मुमुक्षोः कालविशेष उच्यत इत्यर्थः॥
कुमार-वरदः - 24
  1. अत्र प्रकारान्तरेण परिहारमाह— किञ्चि ति। अयमर्थः—लोके ह्येकपुरुषप्रतिनियतधर्मदर्शनेन सर्वेषामपि स एवाचार इति वक्तुं" न शक्यते यथा पाणमडानां पञ्चानामप्येका पत्नी कानीनः कर्णः कानीनो व्यासः, तेन तत्रतत्र नियमो धर्मस्तत्रैव वर्तते। एवं भीष्मस्योत्तरायणप्रेक्षणमस्तीति सर्वेषां ब्रह्मविदामियमेव नीतिरिति कल्पयितुं न शक्यते। अयमात्र शब्दान्वयः— जाह्नवीसम्भवस्य प्रारब्धकर्मप्रतिन्यतं येन कर्मविशेषेण युद्धं युद्धमरणमुत्तरायणकालप्रतीक्षणमित्यादि स्वेच्छैवमासीत्। एतन्न सर्वेषां ब्रह्मविदां साधारणम्। स च भीष्मो वसुरभवत् न पुनस्साक्षाद्विमुक्त इत्याह—स चेति। तेन मुमुक्षोः कालविशेषप्रतीक्षेत्यस्यार्थस्य नायं द्दष्टान्तः। उक्तमर्थं निगमयति— तस्मा दिति।नराणां रात्रिर्निशा, पितॄणां रात्रिः कृष्णपक्षः देवानां रात्रिर्दक्षिणायनम् एतेष्वपि कालेषु योगि देहं त्यक्तवा मुक्ति विन्देत ।तर्हि पुराणादिषूत्तरायणस्य प्राशस्त्वं दक्षिणायनस्य च निन्दा कथं क्रियत इत्याशङ्क्याह- स्याता मिति। तथितरविषये अध्यात्मविद्वयतिरिक्तविषये इत्यर्थः। किञ्च भगवद्गीतायामहरादिशब्देन रात्र्यादिशब्देन चोक्तौ मार्गावेव न पुनः कालविशेषौ तेन ब्रह्मविदामहरादिनियमो नास्तीत्यर्थः॥
मूलम् - 24

24.किञ्च प्रारब्धकर्मप्रतिनियतमिदं जाह्नवीसम्भवस्य
स्वेच्छा येनैवमासीत् स च वसुरभवन्नै साक्षाद्विमुक्तः।
तस्माद्विन्देत मुक्तिं नरपितृदिविषद्रात्रिकालेऽपि योगी
स्यातां प्राशस्त्यनिन्दे तदितरविषये गीतयोक्तौ तु मार्गौ॥

विश्वास-प्रस्तुतिः - 25

25.सम्पद्येतान्यदक्षं मनसि तदपि तत्संयुतं प्राणवायौ
सोऽध्यक्षे तैस्समेतस्स च तदखिलवान् भूतवर्गे तु सूक्ष्मे।
उत्क्रान्तिस्स्यात् समाना युतिरथ च परे सा च संश्लेषमात्रं
निर्गच्छेद् ब्रह्मनाड्या घृणिभिरथ निशादेवरात्र्योश़्च मोक्षी॥

३४-तमाहोबिल-यतिः - 25
  1. सम्पद्येतेत्यादि।अन्यत् –मनोव्यतिरिक्तम्। अक्षम् – इन्द्रियम्। जात्येकवचनम्। कर्मज्ञानेन्द्रियदशकमित्यर्थः। मनसि सम्पद्येत — मनसि संश्लेषविशेषरूपं लयं प्रतिपाद्येत। अयं ‘वाङ्मनसि दर्शनात्’ इत्यादिप्रथमाधिकरणार्थः। तत्संयुक्तम् –वागादीन्द्रियदशकसंयुतम्। तदपि -मनश्च। प्राणवायौ –प्राणाख्ये वायुविशेषे। सम्पद्येतेति सर्वत्रानुषङ्गः। अयं ‘तन्मनः प्राण उत्तरात्’ इत्यस्य द्वितीयस्याधिकरणार्थः। तैः – वागादीन्द्रियमनोभिः।समेतः – संयुक्तः। सः – प्राणः। अध्यक्षे –करणकलेबराधिष्ठातरि जीवे सम्पद्येत। अयं ‘सोऽध्यक्षे तदुपगमादिभ्यः – इत्यस्य तृतीयस्याधिकरणार्थः।’ तदखिलवान् – एकादशेन्द्रियप्राणसंयुक्तः।स च – जीवात्मा च। सूक्ष्मे भूतवर्गे तु –स्थूलदेहादुद्धुते सूक्ष्मे पृथिव्यादिभूतवर्गे सम्पद्यते। अयं ‘भूतेषु तच्छ्रुतेः’ इत्यस्य चतुर्थस्याधिकरणस्यार्थः। उत्क्रान्तिः" – इयमुत्क्रान्तिः। समाना स्यात् –ब्रह्मविदोऽब्रह्मविदश्च तुल्या भवेत्। अयं ‘समाना चासृत्युपक्रमदामृतत्वं चानुपोष्य’ इत्यस्य पञ्चमस्याधिकरणस्यार्थः। अथ च – तदुपरितने ‘तानिपरे तथा ह्याह ’ इत्यस्मिन् षष्ठेऽधिकरणे तु। परे – हार्दरूपे परमात्मनि। युक्तिः" – संपत्तिः। साच – परमात्मनि सम्पत्तिश्च। संश्लेषमात्रम् –पृथग्व्यवहारानर्हसंसर्गमात्रमेव नतु लय इत्यर्थः। अयं ‘अविभागो वचनात्’ इत्यस्य सप्तमस्याधिकरणस्यार्थः। मोक्षी –मोक्षभाग्विद्यानिष्ठस्तु। ब्रह्मनाड्या निर्गच्छेत् –मूर्धन्यनाड्या निष्क्रामेत्। एतदादिविदुषो विशेष इत्यर्थः। अयं ‘तदोक्रोग्रज्वलनम्’ इत्यादेरष्टमस्याधिकरणस्यार्थः। अथ – तदुपरितने ‘रश्म्यनुसारी’ इत्यस्मिन्नऽधिकरणे। धूणिभिः– सूर्यकिरणैरबलम्बनभूतैर्निर्गच्छेदित। निशादेवरात्र्योश्च – निशायां निर्गच्छेत् देवरात्र्याञ्च निर्गच्छेत्। निशा मनुष्यरात्रिः देवरात्रिर्दक्षिणायनम्। तत्र निशायां निर्गच्छदित्ययं ‘निशि नेति चेत्’ इत्यादेर्दशमस्याधिकरणस्यार्थः। देवरात्र्यां" निर्गच्छेदित्ययं ‘अतश्चायनेऽपि दक्षिणे’ इत्यस्यैकादशाधिकरणस्यार्थः। अस्मिन्पादे अधिकरणान्येकादश॥ इति चतुर्थाध्यायस्य द्वितीयः पादः" ॥चतुर्थाध्यायस्य तृतीयः पादः॥
कुमार-वरदः - 25
  1. उक्तानामधिकरणानां प्रधानार्थान्सङ्कलय्य दर्शयति— सम्भद्येते ति।वागादिक मन्यदक्षं मनसि सम्पद्येते त्याद्याधिकरणार्थः। एवमुत्तरेष्वप्यधिकरणेष्वर्थान् क्रमेणाचष्टे—वागादीन्द्रिय संयुतं तदपि मनः प्राणे सम्पद्येत। स च प्राणवायुः तैस्समेतोऽध्यक्षे जीवे। स च जीव स्तदखिलवान् पूर्वोक्तसर्वसंयुक्तस् सूक्ष्मे भूतवर्गे । उत्क्रान्ति स्सेयं ब्रह्मविदब्रह्मविदो स्समाना । अनन्तरं" युतिस्संयोगः। परे ब्रह्मणि सम्पत्तिः। सा च परमात्मनि संयोगमात्रम्। ब्रह्मनाड्या निर्गमनम्। घृणिभि स्सूर्यश्मिभिर्गमनम्। अनन्तरं" निशायां देवरात्रौ दक्षिणायनेऽपि मोक्षो निर्गच्छेदित्यर्थः॥ चतुर्थस्याध्यायस्य तृतीयः पादः॥
मूलम् - 25

25.सम्पद्येतान्यदक्षं मनसि तदपि तत्संयुतं प्राणवायौ
सोऽध्यक्षे तैस्समेतस्स च तदखिलवान् भूतवर्गे तु सूक्ष्मे।
उत्क्रान्तिस्स्यात् समाना युतिरथ च परे सा च संश्लेषमात्रं
निर्गच्छेद् ब्रह्मनाड्या घृणिभिरथ निशादेवरात्र्योश़्च मोक्षी॥