22 निशाधिकरणम्

विश्वास-प्रस्तुतिः - 21

21.सर्वेषामप्रशस्तं रजनिमरणमित्यह््नि योगी म्रियेत
प्रेयाद्यद्येष रात्रौ न चरममरणं तद्भवेदित्ययुक्तम्।
कर्म प्रारब्धकार्यं ह्यनियतसमयं क्षीयते तावदेवे-
त्युक्तश्चास्मिन्विलम्बोऽहनि निशि च परं विद्यया सोऽश्नुतेऽतः॥

३४-तमाहोबिल-यतिः - 21

21.सर्वेषामित्यादि। रजनिमरणम् – रात्रिमरणम्। सर्वेषाम् –विदुषामविदुषाञ्च।अप्रशस्तम् -निन्दितम्। इति – हेतोः। योगी – मुमुक्षुरूपासकः। अह्नि म्रियेत –अह्नयेव प्रमीयेत। एषः" -मुमुक्षुरुपासकः। रात्रौ प्रेयाद्यदि –रात्रौ म्रियेत चेत्।तत् – रात्रौ मरणम्। चरममरणं न भवेत् –मोक्षार्थमरणं न भवेत्। इत्ययुक्तम् – इति शङ्कनमयुक्तम्। प्रारब्धकार्यं कर्म अनियतसमयं हि क्षीयते – यत्फलभोगेन विद्यावतोऽपि मुक्तिविलम्बः तत् फलप्रदानप्रवृत्तं कर्म अह्नि रात्रावित्यनिर्णेयकालं हि क्षयं प्राप्नोति। अस्मिन् – विषये।तावदेवेत्युक्तो विलम्बश्च – ‘तस्य तावदेव चिरम्’ इति श्रुत्या अनियतप्रारब्धकर्मावसानमात्रपर्यन्ततयोक्तो विलम्बश्च प्रमाणम्। अतः –कारणात्।अहनि निशिच – कालनियमं विना अहनीव रात्रावपि। सः –मुमुक्षुरुपासकः।विद्यया –प्रायणआन्तमावृत्या निष्पन्नया ब्रह्मविद्यया साधनभूता। परम् – स्वरूपगुणविभूतिभिस्सर्वोत्कृष्टं पुरुषोत्तमम्। अश्नुते – प्राप्नोति॥

कुमार-वरदः - 21
  1. निशि मृतस्य सूर्यकिरणसद्भावोऽस्तु नाम अथाप्यात्मविदां निशि मरणस्य शास्रेणैव प्रतिषिदद्धत्वात्तेषां निशि मरणमेव न सम्भवतीति शङ्क्या सङ्गतिः। तदर्थविचारस्तु—किं निशि मृतस्य विदुषो ब्रह्मप्राप्तिस्सम्भवति नेति। किं निशि मरणस्याधोगतिहेतुत्वं निशि मृतस्य ब्रह्मप्राप्त्यभावं ज्ञापयति नेति। निशिमरणनिन्दावचनं किं विद्वदविद्वत्साधारणमुताविद्वद्विषयमिति। अत्र पूर्वपक्षमाह— सर्वेषा मिति। विदुषामविद्षाञ्च सर्वेषां रजनिमरणमप्रशस्तमिति अह्न्येव योगि म्रियेत एष योगि यदिरात्रौ प्रेयात् म्रियेत तन्मरणं चरममरण मेव न भवे दिति। तमिमं पूर्वपक्षं प्रतिक्षिपति— अयुक्त मिति। प्रतिक्षेपमेव विवृणोति— कर्मे ति। अयमर्थः—प्रारब्धकर्मावसाने मोक्ष इति हि निर्णीयम्, तच्च प्रारब्धावसानमनियतसमयमेव निशि वा दिवा वा जायते। अस्मिन्नर्थे ’ तस्य तावदेव चिरम्’ इति श्रुतिरेव प्रमाणमित्याह— ताव दिति। अयमर्थः—कर्मावसानपर्यन्तमेव मोक्षविलम्ब उक्तः। तच्च कर्मावसानं ब्रह्मवित् प्राप्नोतीति॥
मूलम् - 21

21.सर्वेषामप्रशस्तं रजनिमरणमित्यह््नि योगी म्रियेत
प्रेयाद्यद्येष रात्रौ न चरममरणं तद्भवेदित्ययुक्तम्।
कर्म प्रारब्धकार्यं ह्यनियतसमयं क्षीयते तावदेवे-
त्युक्तश्चास्मिन्विलम्बोऽहनि निशि च परं विद्यया सोऽश्नुतेऽतः॥

विश्वास-प्रस्तुतिः - 22

22.यत्रैकस्यापवर्गः प्रतिनियततया गण्यते जातकक्षैः
तत्स्यादन्त्यं शरीरं न तु भवति ततोऽप्यन्ययोगव्युदासः।
न ह्यत्राप्यन्तकाले दिनरजनिभिदा देशभेदादि चैवं
शव्यं कुर्वन्ति चास्मिन् यदुच यदुच नेत्यादि चैवं विभाव्यम्॥

३४-तमाहोबिल-यतिः - 22
  1. यत्रैकस्येत्यादि।यत्र –शरीरे। एकस्य – कस्यचिच्चेतनस्य। जातकज्ञैः – जातकस्वरूपवेदिभिर्ज्योतिषिकैः।अपवर्गः –मोक्षः।प्रतिनियततया– अवश्यम्भावितया।गण्यते – व्ययस्थानतद्गुणटचिन्तनेन निश्चीयते।तच्छरीरं अन्त्यं स्यात् – चरमशरीरं स्यात्।ततोऽपि –तावताऽपि।अन्ययोगव्युदासस्तु न भवति – शरीरान्तरसम्बन्धनिषेधस्तु न सम्भवति।मध्ये मोक्षप्रतिबन्धककर्मानुष्ठाने शरीरान्तरसम्बन्धस्यापि सम्भवादिति भावः। अत्रापि –अस्मिन् तरमशरीरेऽपि। अन्तकाले – मरणकाले। दिनरजनिभिदा – दिवारात्र्योरह्ना मोक्षो रात्र्या तु न मोक्ष इति मोक्षसाधनत्वतदभावाभ्यां" भेदः। नहि – नास्ति खलु। एवम् – तन्न्यायेनैव। देशभेदादि च– प्रशस्तकाश्यादिदेशे मरण एव मुक्तिः कुत्सितग्रामादिदेशे मरणे न मुक्तिः, एवमतिसारादिनैव मरणे मुक्तिः नतु विद्युदशनिसलिलादिभिः रोगान्तरैश्च मरणे मुक्तिरिति देशनिमित्तभेदादिकमपि नैव।अस्मिंश्च – मुमुक्षुविषये।यदुच शव्यं कुर्वन्ति यदुच न – शवसम्बन्धि संस्कारादिकं कर्मास्य पुत्रादयो नॉयदि च कुर्वन्ति यदि च ते तन्न कुर्वन्ति। इत्यादि च – उक्तार्थप्रतिपादिकया ‘अथख यदुचास्मिन् शव्यं कुर्वन्ति यदु च न तेऽर्चिषमेवाभिसम्भवन्ति’ इत्यादिकया श्रुत्या प्रतिपन्नं शवसंस्कारादिकरणे अकरणे च ब्रह्मविदो मुक्तिर्लभ्यत एवेत्यादिकं ब्रह्मविद्वैभवञ्चे।एवम् –देशकालाद्यनियमन्यायेन। विभाव्यम् – परचिन्तनीयमित्यर्थः॥
कुमार-वरदः - 22
  1. चरमशरीराभिव्यञ्जकप्रमाणपूर्वकं चरमशरीरमुक्तवा तत्रापि दिनरजनिदेशकालनिमित्तादिनियमाभावं देहव्योगस्य दर्शयन् शव्यकर्मानुष्ठानेऽप्यध्यात्मविदामर्चिरादिमार्गेण गत्वापरमपुरुष- प्राप्तिमप्यावेदयति— यत्रे ति। यत्र जातकज्ञैः पुरुषैर्यस्मिन् शरीरे कस्यचिदधिकारिणोऽ पवर्गः प्रतिनियततया गण्यते तदन्त्यं" शरीरं स्यात् । अथापि तावन्मात्रेण शरीरान्तरम नास्तीति निर्णेतुं न शक्यते मध्ये पापविशेषसम्भवेन जन्मान्तरस्यापि सम्भवादित्याह— न त्वि ति। अत्र दिनरजनिभिदावद्देशादिभेदो नास्तीति दर्शयति- न ही त्यादिना। हि शब्देन दिवरजनिभिदाभावस्य पूर्वोक्तस्य द्दष्टान्तत्वेनोपादानमिदमिति दर्शयति। देशभेदादी ति—अस्मिन्देशे मरणमनेन निमित्तेन मरणमित्यादि च नास्ति यथा दिनरजनिभिदा नास्ति तद्वदित्यर्थः। एवंशवसम्बन्धिकर्मानुष्ठान- नियमोऽप्यध्यात्मविदामपवर्गप्राप्तावनपेक्षित इत्याह— शव्य मिति। ’ यदु चास्मिन् शव्यं कुर्वन्ति यदु च न तेऽर्चिषमेवाभिसम्भवन्ति’ इत्यादिकं वाक्यं श्रूयते। एवं विभाव्यम्- एवमध्यात्मविद्विषयासाधारण- वाक्यमनुसन्धेयमित्यर्थः। ननु यद्यध्यात्मविदश्शव्यं कर्म नियमनाकर्तव्यं तर्हि तन्मरणे कदाचित् पुत्राश्शिष्याश्च तन्मरणानुबन्धि कर्मजातं न कुर्युः तथा च अलेपकसिद्धान्तप्रसङ्गः—न प्रसङ्गः। तत्पुत्राणामेव वैदिकानां तदुद्देशेन कृस्त्नकर्मकलापस्यानुष्ठेयत्वात्। तदननुष्ठानं तेषां विहितानुष्ठानपरित्यागेन प्रत्यवायस्स्यादित्यवश्यकर्तव्यमेव पुत्रादीनां पित्राद्युद्देशेन सर्वमपि कर्मजातम् अतो नालेपकमतप्रसङ्गः। यथा रामकृष्णादिविषये कुशलवाद्यनुष्ठतं कर्म स्वकुशलार्थमेव एवं मुक्तविषये पुत्राद्यनुष्ठितं कर्म स्वाभिवृद्धिहेतुरिति निरवद्यम्॥
मूलम् - 22

22.यत्रैकस्यापवर्गः प्रतिनियततया गण्यते जातकक्षैः
तत्स्यादन्त्यं शरीरं न तु भवति ततोऽप्यन्ययोगव्युदासः।
न ह्यत्राप्यन्तकाले दिनरजनिभिदा देशभेदादि चैवं
शव्यं कुर्वन्ति चास्मिन् यदुच यदुच नेत्यादि चैवं विभाव्यम्॥