विश्वास-प्रस्तुतिः - 20
- एतैरेवेति वाक्ये दिनकरकिरणालम्बनेनोर्ध्वयानं
यत्प्रोक्तं योगिनस्तद्दिनमृतिनियतं निश्ययुक्त्येति चेन्न।
अह्नि च्छायासु रात्रिष्वपि हि लधुतरा रश्मयस्सन्ति लिङ्गात्
तापो वर्षादिरात्रौ न यदि हिमदिनन्यायतो नेयमेतत्॥
३४-तमाहोबिल-यतिः - 20
- एतैरेवेत्यादि।योगिनः – मुमुक्षोः। एतैरेवेति वाक्ये – ‘एतैरेव रश्मिभिरूर्ध्वमाक्रमते’इति वाक्ये। दिनकरकिरणालम्बनेन – सूर्यकिरणावलम्बनेन।यत् ऊर्ध्वयानं प्रोक्तम् – यदूर्ध्वगमनं प्रतिपादितम्। तत् –सूर्यकिरणवलम्बनेनोर्ध्वगमनम्।निशि अयुक्त्या – रात्रावसम्भवात्। दिनमृतिनियतम् – दिवामरणविषय एव व्यवस्थितम्। इति चेन्न – एवंशङ्क्यते चेत् तन्न सम्भवति। अह्नि – दिवापि। छायासु– गाढतमवृक्षगुल्मादच्छायायुक्तदेशेषु। रात्रिष्वपि – रात्रिषु सर्वदेशेष्वपि। लिङ्गाद्धि – औष्ण्यादेव लिङ्गात्। लघुतराः – स्फुटानुपलम्भात् लघुतराः सूक्ष्मतराः। रश्मयः – सूर्यकिरणाः। सन्ति – सन्तीत्वगम्यते।वर्षादिरात्रौ तापो न यदि – वर्षाशरद्रात्रिषु औष्ण्यं नोपलभ्यते यदि। एतत् – औष्ण्यानुपलम्भनम्।हिमदिनन्यायतः" – हिमयुक्तदिने दिवापि तापानुपलभ्यो यथा हिमाभिभवेनैव नतु सूर्यकिरणाभावेन एवमेव सूक्ष्महिमवर्षाम्बुशीकराभिभवेनैव वर्षादिरात्रिष्वपि औष्ण्यानुपलम्भ इति।नेयम् – आलोच्य समाधेयमित्यर्थः॥
कुमार-वरदः - 20
- विदुषो हृदयाच्छकाधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसृत्य गमनं चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु—किं रश्म्यनुसारेण कमननियमो विदुषस्सम्भवति नेति। किं ’ रश्मिभिरूर्ध्वमाक्रमते’ इति वाक्यं पाक्षिकगमनानुवादकम्, उत नियमविधिपरम्। किं निशि मृतस्य रश्म्यनुसारेण कमनं सम्भवति नेति। किं निशि रश्म्यनुसम्भवन्ति नेति। अत्र पूर्वपक्षमनुवदति— एतै रिति। ’ एतैरेव रश्मिभिपूर्ध्वमाक्रमते’ इत्यस्मि न्वाक्ये योगिनो दिनकरकिरणालम्बनेन यदु र्ध्वयानमुक्तं तंद्दिनमृतिनियत मिति। तत्र हेतुमाह— निश्ययुक्त्ये ति। निशायां" सूर्यकिरणस्यासम्भवेनायुक्तत्वादित्यर्थः। तदेतत्प्रतिक्षिपति- ने ति। तदेवोपपादयति- अह्नी ति। अह्नि यथा छायायामौष्ण्यलिङ्गाद्दिनकरकिरणसद्भावः, एवं निश्यप्यौष्ण्यादेवलिङ्गाद्दिनकरकिरण- सद्भावोऽस्त्येव। ननु किमर्थं स्फुटं नोपलभ्यत इत्याशङ्क्याह— लधुतरा इति। तत्राप्यह्निच्छायेव द्दष्टान्तः। ननु वर्षादिरात्रौ तापो नास्ति कथं तत्र दिनकरकिरणसद्भावः तत्राह— हिमदिनन्यायत इति। हेमन्तकाले दिवसेऽपि तापो नास्ति किमेतावता सूर्यकिरणसद्भावो न स्यादित्यर्थः॥
मूलम् - 20
- एतैरेवेति वाक्ये दिनकरकिरणालम्बनेनोर्ध्वयानं
यत्प्रोक्तं योगिनस्तद्दिनमृतिनियतं निश्ययुक्त्येति चेन्न।
अह्नि च्छायासु रात्रिष्वपि हि लधुतरा रश्मयस्सन्ति लिङ्गात्
तापो वर्षादिरात्रौ न यदि हिमदिनन्यायतो नेयमेतत्॥