विश्वास-प्रस्तुतिः - 18
18.नाडीजालेऽतिसूक्ष्मे न भवति सुशका मुक्तिनाडी विवेक्तुं
तस्मान्मूर्धन्यनाडीगतिरनियमतो मुच्यमानस्य पुंसः।
वाक्यं गन्तुस्तयोर्ध्वं प्रवददमृततां सम्भवादस्तु मैवं
विद्यासम्प्रीतहार्दप्रसदनमहसा स्वार्हनाडीप्रवेशात्॥
३४-तमाहोबिल-यतिः - 18
- नाडीजालइत्यादि।अतिसूक्ष्मे – अतिसौक्ष्म्येणातीन्द्रियवेतॄणामपीयं सा इयं सेति परिज्ञानानर्हे।नाडीजाले – नाडीसमूहे। मुक्तिनाडी – मोक्षमार्गभूता मूर्ध्यनाडी। विवेक्तुं सुशका नभवति – इयं मूर्धन्यनाडीति पृथक्कृत्यावगन्तुं शक्या न भवति। तस्मात् – कारणात्। मुच्यमानस्य पुंसः – मोक्षं प्राप्नुवतः" पुरुषस्य मूर्धन्यनाडीगति – मूर्धन्यनाड्या गमनम्। अनियतः – नियमेन न भवति। तया – नाड्या। ऊर्ध्वं गन्तुः – उर्ध्वलोकं गच्छतः पुरुषस्य। अमृततां प्रवदत् – मुक्तिं प्रतिपादयत्। वाक्यम् – ‘तयोर्ध्वमायन्नमृतत्वमेति’ इत्यादि वाक्यम्।सम्वादस्तु – कदाचित्तयापि नाड्या गमनसम्भवाभिप्रायेणास्तु।मैवम् – एवं मा शङ्किष्ठाः। विद्यासम्प्रतीहार्दप्रसदनमहसा स्वार्हनाजीप्रवेशात् –विद्यया उपासनेन सम्प्रीतस्य सन्तुष्टस्य हार्दस्य परमात्मनः प्रसदनं प्रसाद एवमहः प्रकाशकं तेजः तेन स्वगमनयोग्यमूर्धन्यनाडीप्रवेशसम्भवात्। मैवमिति सम्बन्धः॥
कुमार-वरदः - 18
- ’ एवं गत्युपक्रमावधि विद्वदविदुषोस्समानाकार उत्क्रान्तिप्रकार उक्तः। इदानीं विदुषो विशेष उच्यते’ इति भाष्ये सङ्गतिरुक्ता। तदर्थविचारस्तु- किं विदुषो मूर्धन्यमाड्यैव गमननियमस्सम्भवति नेति। किं ’ तयोर्ध्वमायन्’ इति यादृच्छिकगमनानुवादः, उत नाडीविशेषेण गमननियमविधिः।किं नाड्यो दुर्वेवेचा उत सुवेवेचा इति । अत्र पूर्वपक्षमनुवदति- नाडीजाल इति । अतिसीक्ष्मे नाडीजाले मुक्तिनाडी देहादुत्क्रान्तेन गच्छता पुरुषेण विवेक्तुं सुशका न भवति। तेन ’ तयोर्ध्वमायन्’ इत्यादिवाक्यं कादाचित्कसम्भावितार्थविषयम्, नपुनर्नियतार्थविषयमिति। तदिदमाह— तस्माव दिति। मूर्धन्यनाडीगतिर्मुच्यमानस्य पुंसः कदाचि दनियमनो भवति। कदाचिमूर्धन्यनाड्यापि मुच्यमानस्य पुंसो गमनं स्यादित्यर्थः। तेन तयोर्ध्वं गन्तुरमृततां प्रवदत् ’ तयोर्ध्वमायमन्’ इत्यादि वाक्यं सम्भवा देवास्तु। तमिमं पूर्वपक्षं दूषयति- मैव मिति। तत्र हेतुमाह- विद्ये ति। ब्रह्म विद्यासम्प्रीत स्य प्रसन्नस्य हार्द स्य प्रभया स्वार्हनाडी परिज्ञानं जायते। तेन स्वकीयां नाडी प्रविस्य स्वाभिलषितपुरुषार्थाय गच्छतीतियर्थः॥
मूलम् - 18
18.नाडीजालेऽतिसूक्ष्मे न भवति सुशका मुक्तिनाडी विवेक्तुं
तस्मान्मूर्धन्यनाडीगतिरनियमतो मुच्यमानस्य पुंसः।
वाक्यं गन्तुस्तयोर्ध्वं प्रवददमृततां सम्भवादस्तु मैवं
विद्यासम्प्रीतहार्दप्रसदनमहसा स्वार्हनाडीप्रवेशात्॥
विश्वास-प्रस्तुतिः - 19
19.स्वाधीनो हार्दसंज्ञस्स्वयमविकलया सम्पदा साकमेकः
स्थित्वा हृतपद्ममध्ये स्थगितनिजतनुस्सप्तलोकीगृहस्थः।
नाडीचक्रे सुषुम्नां निखिलधृतिकरीं नाभिमूर्धान्तरूपां
भित्त्वा तन्मध्यरन्ध्रप्रहितमिषुमिवोत्क्षिप्य नेता मुमुक्षुम्॥
३४-तमाहोबिल-यतिः - 19
- स्वाधीनं इत्यादि।स्वाधीनः –स्वतन्त्रः। अविकलया सम्पदा साकम् —- स्वाभिमतनित्यनिरवद्यानुरूपस्वरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासङ्ख्येखकल्याणगुणया लक्ष्म्या सहेत्यर्थः। यद्वा निरतिशयैश्वर्येण युक्त इत्यर्थः। एकः – प्रधानभूतः। हृत्पद्ममध्ये स्थित्वा – हृदयपुण़्डरीकमध्ये।अस्मदनुजिघृक्षया कालप्रतीक्षया अवस्थितः। स्थगतिनिजतनुः –अभक्तानामप्रकाशितनिजविग्रहः। यद्वा – अस्थरितिजतनुरिति च्छेदः। भक्तानां प्रकाशितनिजविग्रह इत्यर्थः। सप्तलोकीगृहस्थः – यथा गृहस्थस्स्वगृहमविकलं परिपालयति तथा सप्तलोकोपलक्षिताण्डान्तर्वर्तिनिखिलचेतनसंरक्षणागरूक इत्यर्थः। हार्दसंज्ञः – हृदयावस्थानात् हार्दसंज्ञितो भगवान्। स्वयम्– साक्षादेव। नाडीचक्रे – स्थितमिति शेषः। निखिलधृतिकरीम् — निखिलसन्तोषकरीमिति चिन्तामणिः। प्रधाननाडीत्वेन सर्वनाडीधारणकरीमित्यर्थः। नाभिमूर्धान्तरूपाम् – नाभिप्रभृतिमूर्धपर्यन्तमवस्थिताम्।नाभिमूर्धानौ अन्तौ आद्यान्तावधिभूतौ यस्य तादृशं रूपं स्वरूपं" यस्यास्ताम्।सुषुम्नाम् – सुषुम्नाभिधानां नाडीम्। भित्त्वा –अनावृतमुखीं कृत्वा।तन्मध्यरन्ध्रप्रहितम् – तन्मध्यनवर्तिरन्ध्रे स्वेनैव प्रवेशितम्। मुमुक्षुम् – चेतनम्। इषुमिवोत्क्षिप्य –धानुषअकप्रयुक्तं बाणमिवोत्क्षिब्य। नेता – परमपदं नेता॥
कुमार-वरदः - 19
- भगवत्प्रसादलब्दपरिज्ञानस्य भगवत्प्रेरणेनैव मूर्धन्यानाड्या ब्रह्मलोकपर्यन्तमिषुवत्सहसैव गमनमाह— स्वाधीन इति। स्वतन्त्रो हार्दसंज्ञो भगवान् स्वमविकलया सम्पदा साकं सम्पदे ति सर्वैश्वर्यप्रदायिनी सहधर्मचारिणी लक्ष्मीरभिधीयते ’ लक्ष्म्या सह हृषीकेशः’ इति हि वदन्ति। अथवा भगवदैश्वर्यमेव वाभिधीयते। एक शब्दः प्राधान्यवाची। हृत्पद्ममध्ये स्थित्वा स्थगितनिजतनुः— अभक्तानामप्रकाशितनिजतनुः। अस्थागितनिजतनु रिति वा—भक्तानां प्रकाशितनिजतनुः ’ अतिदूरमभक्तानां भक्तानां पुरतः स्थितम्’ इति हि वदन्ति। सप्तलोकीगृहस्थ इति वचनं सर्वेषां पितृत्वेन संरक्षकत्वं प्रदर्शयति। अयं खलु नाडीचक्रे बह्वीषु नाडीषु विद्यमानास्वपि निखिलधृतिकरीं निखिलसन्तोषकरीं" नामिमूर्धान्तरूपां सुषुम्नां नाडी भित्त्वा अनावृतमुखीं कृत्वा तन्मध्यरन्ध्रप्रहितं जीवं धानुष्कप्रयुक्त भिषुमिवोत्क्षिप्य मुमुक्षुं परमपदपर्यन्तं नेतेत्यर्थः॥
मूलम् - 19
19.स्वाधीनो हार्दसंज्ञस्स्वयमविकलया सम्पदा साकमेकः
स्थित्वा हृतपद्ममध्ये स्थगितनिजतनुस्सप्तलोकीगृहस्थः।
नाडीचक्रे सुषुम्नां निखिलधृतिकरीं नाभिमूर्धान्तरूपां
भित्त्वा तन्मध्यरन्ध्रप्रहितमिषुमिवोत्क्षिप्य नेता मुमुक्षुम्॥