19 अविभागाधिकरणम्

विश्वास-प्रस्तुतिः - 17

17.सम्पत्तिर्देवतायां भवतु लय इयं सा हि सर्वस्य योनिः
भूयस्स्रष्टुं क्षमा चेत्यसदनुषजतो वाच्यवैरूप्यदोषात्।
विश्लेषो भूतसूक्ष््मैरिह न च घटते सृष्टिकॢप्तिस्तु गुर्वी
प्रोक्ता धूमादिमार्गे गतिरपि भविनस्तत्परिष्व़ञ्जनेन॥

३४-तमाहोबिल-यतिः - 17
  1. सम्पत्तिरित्यादि।देवतायामिययं सम्पत्तिर्लयो भवतु —परस्यां देवतायामुच्यमाना सम्पत्तिसाक्षाल्लय एव भवतु। सा – परा देवता।सर्वस्य योनिर्हि – सर्वस्य वस्तुनः कारणं हि। तथा च कारणे कार्यस्य सम्पत्तिर्लय एव, नतु केवलसंश्लेषरूपा। भयः – पुनश्शरीरापेक्षायां" सत्याम्।स्रष्टुम् – शरीरमुत्पादयितुम्।क्षमा च –समर्था च। इत्यसत् – इति शङ्कनमसाधु। अनुषजतो वाच्यवैरूप्यदोषात् – ‘वाङ्मनसि सम्पद्यते’ इति वाक्यादनुषज्मानस्य संश्लेषमात्रपरतया प्रतिवाक्यमन्वीयमानस्य सम्पद्यत इतिशब्दस्यात्र लयपरत्वकल्पमे अर्थवैरूप्यदोषापत्तेः। किञ्च इहभूतसूक्ष्मैर्विश्लेषश्च न घटते –विनाशो हि नाम भूतसूक्ष्मैर्विश्लेष एव स च न घटते भूतसूक्ष्मैर्विश्लेॉशे तदुत्तरं" गमनादिव्यापारायोगात्। सृष्टिकॢप्तिस्तु गुर्वी – विद्यमानं शरीरं परित्यक्तवश्शीरान्तरापेक्षायां तच्छरीरं परदेवतैव सृजतीति शरीरान्तरसृष्टिकल्पना च गौरवयुक्ता।स्वरूपेणैवाणुरूपस्य जीवस्य गमनमस्त्वित्याशङ्क्यास्याश्शङ्काया धूमादिमार्गगमनेऽपि तुल्यत्वात् तत्र प्रमाणबलात् भूतसूक्ष्मपरिष्वक्तस्यैव गमनाङ्गीकारेऽत्रापि प्रमामबलादेव भूतसूक्ष्मसम्परिष्वक्तस्यैव गमनमित्यङ्गीकार्यमिति तात्पर्येणाह — प्रोक्तेत्यादि।भविनः –संसरतो जीवस्य। धूमादिमार्हेऽपि – ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इत्याद्याम्नाते धूमादिमार्गेऽपि। गतिः – गमनम्। तत्परिष्विञ्चनेन प्रोक्ता – भूतसूक्ष्मपरिष्वञ्चनेनैव भवतीति पञ्चाग्निविद्यायामभ्यधायि॥
कुमार-वरदः - 17
  1. ’’ सेयं परमात्मनि सम्पत्तिः किं प्राकृतलयवत्कारणापत्तिरूपा। उत ’ वाङ्मनसि’ इत्यादिवदविभाग रूपेति चिन्तायाम्’’ इचि भाष्ये सङ्गतिः।तदर्थविचारस्तु– किमियं सम्पत्तिलयरुपा, उतविभागरूपा। किं ’ तेजः परस्याम् ’ इतिवचनस्य कारणापत्तिपरत्वं न्याय्यमुताविभागमात्रपरत्वमिति। इत्थं किल पूर्वपक्षी मन्यते – अत्र देवतायां" सम्पत्तिरभिंधीयमाना लय एव भव त्वति । तदिदमाह– सम्पत्तिरिति। अत्र हेतुमाह- साहीति। तस्या देवतायास्सर्वकारणत्वाल्लय एवन वक्तुं युज्यत इत्यर्थः। तर्हि देवतायां स्रष्टं क्षमा, तद्दत्तेन गच्छत्वित्यर्थः। तदिदमयुक्तमित्याह-असदिति। तदेवोपपादयति- अनुषदत इति । अत्र हि ’ वाङ्मनसि सम्पद्यते’ इति प्रथमोपात्तस्सम्पद्यत इति शब्दस्सर्वत्रानुषज्यते। अनुषक्तस्यैपबप्यं प्रसज्यते । अवैपूप्येण निर्वाहे सम्भवति वैरूप्यं पुनरन्याय्यमेव । किञ्च विनाशोनाम भूतसूक्ष्मैर्विश्लेष एव स्यात्। स च न घटते भूतसूक्ष्मैर्विश्लेष तदुक्तरं गमनादिव्यापारान्वयायोगात्। ननु सर्वशक्तिः परदेवतैव विनष्टशरीरस्य तस्य शरीरान्तरमारभेतेत्यशङ्क्य कल्यपनागौरवदोषस्स्यादित्यर्थः" किञ्चार्चिरादिमार्गेण गच्छतो ब्रह्मविदो गमनं भूतसूक्ष्मपरिष्वङ्गमन्तरेन न मंभवत्येव। धूमादिमार्गेण गच्छतो जीवस्य गमनं भूतसूक्ष्मपरिष्वङ्गेण पञ्चाग्निविद्यादिषु स्पष्टमेवोक्तम्। तद्वत्रापि भूतसूक्ष्मपरिष्वङ्गेणैव भवति नपुनस्स्वरूपेण । अत एवाणुत्वात्स्वरूपेण गमनमित्यादिकमपास्तं बहुप्रमाणविरुद्धत्वात्॥
मूलम् - 17

17.सम्पत्तिर्देवतायां भवतु लय इयं सा हि सर्वस्य योनिः
भूयस्स्रष्टुं क्षमा चेत्यसदनुषजतो वाच्यवैरूप्यदोषात्।
विश्लेषो भूतसूक्ष््मैरिह न च घटते सृष्टिकॢप्तिस्तु गुर्वी
प्रोक्ता धूमादिमार्गे गतिरपि भविनस्तत्परिष्व़ञ्जनेन॥