विश्वास-प्रस्तुतिः - 15
15.जीवोत्क्रान्त्युक्तिकाले विदुषि तु घटते तत्प्रतिक्षेपभङ्गो
भूतोत्क्रान्तेस्तु पश्चात्तदुपनिपतने सङ्गतिस्स्यात्कथंचित्।
तस्मात्साधारणोऽपि ह्ययमुपरि ततस्स्थाप्यते हार्दयोगः
तुल्येऽप्यस्मिन्नतुल्यास्सरणिमुखतया प्राप्यभेदेन नाड्यः॥
३४-तमाहोबिल-यतिः - 15
- जीवोत्क्रान्तीत्यादि।जीवोत्क्रान्त्युक्तिकाले– सामान्येन जीवोत्क्रान्तिप्रतिपादन प्रकरणे।विदुषि – विद्वज्जीवविषये। तत्प्रतिक्षेपभङ्गः – उत्क्रान्तिर्नास्तीत्याशङ्क्य तेषामप्युत्क्रान्तिरस्तीति कथनम्।घटते – सङ्गत्यौचित्यातिशयेन युज्यते।भूतोत्क्रान्तेः" पश्चात् तदुपनिपतने तु सङ्गतिः कथञ्चित् स्यात् – भूतोत्क्रान्तिमुक्त्वा तदनन्तरं विदुष उत्क्रान्तिनिषेधपरिहारकथने किञ्चित्स्वारस्येन सङ्गतिर्भवेत्। तस्मात् – कारणात्। साधारणोऽपि – विद्वदविद्वज्जीवसाधारणभूतोऽपि। अयं हार्दयोगः – ‘तानि परे तथा ह्याह’ इत्युच्यमानो हार्दनामकान्तर्यामिसंश्लेषः। तत उपरि स्थाप्यते हि – विद्वदुत्क्रान्तिस्थापनानन्तरं सूत्रकारैः प्रतिष्ठापितः। सरणिमुखतया – विषूचीननाड्यात्मकमार्गविभागपूर्वदेशतया। अस्मिन्नपि –हार्दसंश्लेषेऽपि। तुल्ये – विद्वदविद्वत्साधारणे सति। प्राप्यभेदेन – गन्तव्यदेशानां परस्परं भिन्नत्वेन। नाड्यः –तद्गमनसाधनभूता नाड्यश्च। अतुल्याः – परस्परविभक्ता इत्यर्थः। यथैकद्वारेण निष्क्रान्तानां" बहूनां पुरुषाणां मार्गभेदेन नानादेशगमनं एमेकस्याद्धार्दस्थानर्गतानां जीवानां नानानाडीमार्गैस्स्वकर्मानुरूपं तत्तन्नानादेशगमनमुपपन्नमिति॥
कुमार-वरदः - 15
- अत्रावान्तरसङ्गतिर्भष्ये मुव्यक्ता ’ सकरणग्रामः सपराणः करणाध्यक्षः प्रत्यगात्मा उत्क्रान्तिवेलायां तेजःप्रभृतिभबतसूक्ष्मेषु सम्पद्यत इत्युक्तम्। सैषा सम्पत्तिर्विदुषा न विद्यत इत्याशहङ्क्य परिहृतम्। तानि पुनर्जीवपरिपरिष्वक्तानि भतसूक्ष्माणि किं" याथाकर्म यथाविद्यञ्च स्वकार्याय गच्छन्ति उत परमात्मनि सम्पद्यत इति विशये’ इति। तदर्थविचारस्तु- किं तेजश्शब्दनिर्दिष्टानि भूतानि यथा कर्म यथाविद्यञ्च गच्छन्ति उत परमात्मनि संपद्यन्ते। किमत्र परदेवताशब्दो गन्तव्यस्थानवस्थपरमात्मपरः उतातदवस्थपरमात्मपरः इति। किमत्र सम्पत्तौ प्रयोजनं संभावति नेति । ननु पूर्वं जीवोत्क्रान्ति मुक्त्वा तदनन्तरं भूतोत्क्रान्तिमुक्त्वा पश्चाद्विदुष उत्क्रान्तिनिषेधपरिहारः" किमिति नोच्यत इत्यत्राह- जीवेति। अयमर्थः—सामान्येन जीवोत्क्रान्ति मुक्तवा जीवविशेषभूतविदुषामुक्रान्तिर्नास्तीत्याशङ्क्य तेषामप्युत्क्रान्तिरस्तीति कथने सङ्गत्यौचित्यातिशयोऽस्ति। जीवोत्क्रान्तिसमनन्तरं भूतोत्क्रान्तिमुक्तवा पश्चाद्विदुष उत्क्रान्तिनिषेधपरिहारकथने सङ्गतिः कथ़ञ्चिदेव स्यात् । तस्मा त्कारणा दयं विद्वदविद्वत् साधारणोऽपि हार्दयोगस्तत उपरि स्थाप्यते विदुष उत्क्रान्तिस्थापनादुपरि स्थाप्यत इति। साधारणोऽपी ति—’ वाङ्मनसि सम्पद्यते’ इत्यादिवद् हार्दयोगोऽपि विद्वदविद्वत्साधारणोऽपीति सङ्गति विशेषेण विदुष उत्क्रान्तिस्थापनानन्तरं" कथ्यत इतीममर्थं प्रकाशयितुमपिशब्दः। तर्हि हार्दयोगे तुल्ये नाड्योऽपि तुल्याः स्यरित्याशङ्क्य नेत्याह— अतुल्या इति। अतुल्यत्वे कारणमाह— प्राप्ये ति। हार्दयोगस्य तुल्यत्वे कारणमाह— सरणिमुखतये ति। अयमर्थः-हार्दयोगस्सरणिमुखं तद्विद्वदविद्वत्तुल्यमेव।ततः" उपरि सरणयो नाड्यस्ता विभक्ताः। यथैकेन द्वारेण निष्क्रान्तानां बहुनां मार्गभेदेन नानादेशगमनम्, एवमेकस्माद् हार्दस्थानान्नानाडीमार्गेण स्वकर्मानुरूपं तत्तन्नानादेशगमनं जायत इति॥
मूलम् - 15
15.जीवोत्क्रान्त्युक्तिकाले विदुषि तु घटते तत्प्रतिक्षेपभङ्गो
भूतोत्क्रान्तेस्तु पश्चात्तदुपनिपतने सङ्गतिस्स्यात्कथंचित्।
तस्मात्साधारणोऽपि ह्ययमुपरि ततस्स्थाप्यते हार्दयोगः
तुल्येऽप्यस्मिन्नतुल्यास्सरणिमुखतया प्राप्यभेदेन नाड्यः॥
विश्वास-प्रस्तुतिः - 16
16.प्राप्तुं भोगापवर्गौ प्रयति तनुभृति प्राप्तसूक्ष्मस्वदेहे
सम्पत्त्या किं परस्यां श्रितहृदयसुषौ लभ्यते देवतायाम्।
आतस्तेजः परस्यामिति चिरघटितेऽप्यस्तु सिद्धानुवादो
मैवं मानानुसारात्फलमिति परमे संक्रमश्श्रान्तिशान्त्यै॥
३४-तमाहोबिल-यतिः - 16
- प्राप्तुमित्यादि। भोगापवर्गौ प्राप्तुम् — भोगापवर्गात्मकफललाभाय।प्राप्तसूक्ष्मस्वदेहे – प्राप्तः पूर्वशरीरस्थभूतसूक्ष्मात्मकस्स्वदेहे येन तादृशे।तनुभृति — जीवे। प्रयति – उत्क्रामति सति। श्रितहृदयसुषौ परस्यां देवतायां संपत्त्या किं लभ्यते – संश्रितहृदयाकाशायां" हार्दरूपिण्यां परस्यां देवतायां संश्लेशविशेषेण किं" प्रयोजनं लभ्यते।आतः – अतः।तेजः परस्यामिति – ‘तेजः परस्यां देवतायां’इति वचनम्। चिरघटितेऽपि – सदातनेऽप परमात्मसंश्लेषे। सिद्धानुवादोऽस्तु – पूर्वमेव सिद्धस्यानुवादः नत्विदानीमपूर्वसंश्लेषपरम् अस्तु। मैवम् – एवं मा शङ्किष्ठाः। मानानुसारात् फलमिति – नतु प्रयोजनानुसारिणी प्रमाणप्रवृत्तिः प्रमाणानुसारेण प्रयोजनं कल्पनीयमिति न्यायेन। परमे संक्रमः – परमात्मनीदनीमपूर्व एवैष संश्लेषः। श्रान्तिशान्त्यै – करणकलेबरक्षोभजनित श्रमपरिहारायेति योजनीयम्॥
कुमार-वरदः - 16
- अत्र हार्दप्राप्तौ प्रयोजनाभावाद् यथाकर्म यथाविद्यं गमनमेवास्तु किमनया निरर्थिकया हार्दप्राप्तयेत्याशङ्क्य तत्प्राप्तौ प्रयोजनविशेषमाह- प्राप्तु मिति। अममन्वयः- भोगापवर्गौ प्राप्तु प्राप्तसूक्ष्मस्वदेहे तनुभृति जीवे प्रयति सति श्रियहृदयसुषौ श्रितहृदयाकाशायां परस्यां देवतायां स म्पत्या किं फलं स्यात् अतस्सम्पत्तिरेव नास्ति। आतः- एतस्मात्कारणात्। तेजः परस्यां देवतायामिति वचनं चिरघटिते सर्वदासंघटिते परमात्मनि सिद्धानुवाद एव। नपुनरपूर्वं संघटनं किञ्चिदत्रास्ति निष्फलत्वादिति। तदिदं प्रतिपक्षति- मैव मिति। प्रतिक्षेपमेवोपपादयति— मानानुसारा दिति। प्रमाणसिद्धेऽर्थे हि प्रमाणनुसारात् प्रयोजनमेव परिकल्प्म्। नपुनरापाततः" प्रयोजनादर्शनात् प्रमाणसिद्धोऽर्थः परित्याज्य इति नीतिविदां मर्यादा। किमत्र तर्हि प्रयोजनमित्याशङ्क्याह- परम इति। परमात्मनि संक्र मश्श्रान्तिशान्त्यै देहादुत्क्रान्तिमये जायते श्रान्तिः तच्छ्रान्तिशान्तिः परमात्मनि संक्रमादुत्पद्यते तेनोत्क्रान्तिजनितश्रान्तिशान्त्यर्थं" हार्दे विश्रस्य स्वाभिमतफलप्राप्त्यर्थं तत्तन्मार्गेण गच्छतीत्यर्थः॥
मूलम् - 16
16.प्राप्तुं भोगापवर्गौ प्रयति तनुभृति प्राप्तसूक्ष्मस्वदेहे
सम्पत्त्या किं परस्यां श्रितहृदयसुषौ लभ्यते देवतायाम्।
आतस्तेजः परस्यामिति चिरघटितेऽप्यस्तु सिद्धानुवादो
मैवं मानानुसारात्फलमिति परमे संक्रमश्श्रान्तिशान्त्यै॥