17 आसृत्युपक्रमाधिकरणम्

विश्वास-प्रस्तुतिः - 10

10.अत्रैव ब्रह्म विन्दत्यमृत इह भवत्यागमाद्ब्रह्मनिष्ठो
नोत्क्रान्तिस्तस्य युक्तेत्यसदुपनिषदो ह्यस्य गत्याद्युशन्ति।
नान्यप्राप्त्यर्थमेतत् सगुणसमधिकं कुत्रचिन्मानहानेः
तस्मादत्रामृतत्वप्रभृतिवचनतस्तादृशी तद्दशोक्ता॥

३४-तमाहोबिल-यतिः - 10
  1. अत्रैवेत्यादि।अत्रैव ब्रह्म विन्दीत्यागमात् ब्रह्मनिष्ठः इहामृतो भवति – ‘अत्र ब्रह्म समश्नुते’ ‘तमेवं विद्वानमृत इह भवति’ इत्यादिश्रुतेः ब्रह्मोपासक इहैव मुक्तो भवति। तस्य – इहैव मुक्तत्वेनावगतस्य।उत्क्रान्तिः –देहादुत्क्रमणम्। न युक्ता – मुक्तस्य मुक्त्यर्थगमनासम्भवादिति भावः। इत्यसत् – इति शङ्कनमयुक्तम्।हि – यस्मात् कारणात्।उपनिषदः –छान्दोग्यबृहदारण्यकादयः।अस्य – ब्रह्मोपासकस्य।गत्यादि उशन्ति –उत्क्रान्तिरतिविरजातरणदेशविशेषप्राप्तिपरब्रह्मावाप्तिप्रभृति प्रतिपादयन्ति। एतत् – उत्क्रान्तिगत्यादिकम्।अन्यप्राप्त्यर्थं" न – उत्क्रान्तिगतिविरजातरणदेशविशेषप्राप्तिपरब्रह्मावाप्तिप्रभृति प्रतिपादयन्ति।एतत् – उत्क्रान्तिगत्यादिकम्।अन्यप्राप्त्यर्थं" न— सगुणब्रह्मप्राप्त्यर्थमिति कल्पनं न सम्भवति।सगुणसमधिके – सगुणब्रह्मव्यतिरिक्तंतया कल्पिते निर्गुणब्रह्मणि विषये। कुत्रचित् –क्वापि वेदे। मानहानेः –प्रतिपादकप्रमाणवाक्यादर्शनात्।तस्मात् – कारणात्।अत्रामृतत्वप्रभृतिवचनतः –‘अत्र ब्रह्म समश्नुते’ ‘अमृत इह भवति’ इत्यादिवचनेन।तादृशी – मुक्तिशब्दोपचारार्हा। तदृशा –उत्तरपूर्वाघाश्लेषविनाशरूपा उपासकस्यावस्था।उक्ता – प्रतिपादिता। न त्वत्रैवायं साक्षान्मुक्तिमवापेत्युक्तं प्रत्यक्षादिविरोधादिति भावः॥
कुमार-वरदः - 10
  1. इयमुत्क्रान्तिः किं विद्वदविदुषोस्समाना उताविदुष एवेति चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु- ’ तयोर्ध्वमायन् ’ इति श्रुतिः" किं विदुष उत्क्रान्तिमवगमयति नेति। किमेषा श्रुतिरिहामृतत्वश्रुत्युत्क्रान्तिनिषेधश्रुतिभ्यां व्यावहन्ते नेतिः।अमृतत्वं किमुत्तरपूर्वाघाश्लेषविनीशरूपमुत सर्वबन्धमोक्षरूपम्।निषिध्यमानाचोत्क्रान्तिश्शरीरपादाना, उतात्मापादाना।अत्र पूर्वपक्षमारचयति– अत्रे ति। ’ तमेवं विद्वा नमृत इह भवति ’ इत्यागमात् ब्रह्मनिष्ठ इहामृतो भवतीति तस्य नोत्क्रान्तिर्युक्ता। तदेतत्प्रतिक्षिपति– अस दिति।असत्वे हेतुमाह– सगुणे ति। अयमर्थः– मोक्षस्य द्वैविद्ये सति हि गत्यादिवाक्यमन्यार्थकमिति वक्तुं शक्यते । नपुनद्वैविद्यम्। सगुणब्रह्मव्यतिक्ते ब्रहमणितत्प्राप्तौ च प्रमा णाभावात्। तेन मुक्तिश्चेत्सगुणैव। निर्गुणा मुक्तिरिति निर्गुणानामेव प्रवादः। ’ सोऽश्नुते सर्वान्कामान्सह’ इति प्राप्यतया निरिदिश्यते। निर्गुणं तु न श्रूयते नानुसन्धीयते नापि प्राप्यत इति निर्गुणमुक्तिपरिक्लूप्तिरप्रामाणिकत्वादपहास्येत्यभिधीयते। तदिदमाह– सुगुणेति । उपपादितमर्थं निगमयति- त्समा दिति। इहामृतो भवतीत्यनेन तादृशी तदृशोक्ता साक्षान्मुक्तिसदृशी काचिन्मुक्तिदशोक्ता। उत्तरपूर्वाधाश्लेषविनाशरुपावकस्थोक्तेत्य्थः॥
मूलम् - 10

10.अत्रैव ब्रह्म विन्दत्यमृत इह भवत्यागमाद्ब्रह्मनिष्ठो
नोत्क्रान्तिस्तस्य युक्तेत्यसदुपनिषदो ह्यस्य गत्याद्युशन्ति।
नान्यप्राप्त्यर्थमेतत् सगुणसमधिकं कुत्रचिन्मानहानेः
तस्मादत्रामृतत्वप्रभृतिवचनतस्तादृशी तद्दशोक्ता॥

विश्वास-प्रस्तुतिः - 11
  1. निश्शेषं भोगहेतौ गलति परविदः कर्मणि प्रायणेऽथो
    गत्यर्थँ सूक्ष्मदेहानुगतिरणुतया निश्चितस्याफला स्यात्।
    मार्गे संवादवादस्तदुचितवपुषा त्वस्त्वितीवानुयोगे
    कृत्स्नाविद्यानिवृत्तिः परपदगमनापेक्षिणीत्यादि वाच्यम्॥
३४-तमाहोबिल-यतिः - 11
  1. निश्शेषमित्यादि। परविदः – ब्रह्मोपासकस्य। प्रायणे –मरणसमये।भोगहेतौ कर्मणि – सुखदुःखानुभवहेतुभूते पुण्यपापरूपे कर्मणि।निश्शेषं" गलति – निरवशेषतया निवृत्ते सति। अथो – तदनन्तरम्। गत्यर्थम् – अर्चिरादिमार्गेण गमनाय।सूक्षअमदेहानुगतिः — सूक्ष्मदेहस्यानुवर्तनकल्पना। अणुतया निश्चितस्य अफला स्यात् –अणुपरिमाणतया निश्चितस्य तत एव शरीरं विनैव क्रियावत्त्वेन गमनयोग्यस्य विफलैव भवेत्।मार्गे – अर्चिरादिमार्गमध्ये। संवादवादः –चन्द्रसंवादप्रतिपादकवचनम्।तदुचितवपुषा तु अस्तु – तावत्पर्यन्तं स्वरूपेण तस्य चन्द्रलोके परिगृह्यीतेन चन्द्रसंवादयोग्येन केनचिच्छरीरेण सार्थकमस्तु। तथा च भोगासम्भवात् स्वरूपेणैव गतिसम्भवाच्चन्द्रसंवादस्य तदातनदेहविशेषसाध्यत्वाच्च पूर्वशरीरगृहीतभूतसूक्ष्मगमन कल्पनमनुपपन्नमिति भावः। इतीवानुयोगे — ఏవంప్రకారరేణాక్షేపే। కృత్స్నావిద్యయానివృత్తిః పరపదగమనాపేక్షిణీ —నిశ్శేషావినిద్యానివృత్తిః స్థానవిశేషగమనసాపేక్షా। ఇత్యాది వాచ్యమ్ – ఇత్యాదికం ప్రత్యుత్తరతయాభిధేయమిత్యర్థః। అయం భావః – దేహాదుత్క్రాన్తస్య పరంజ్యోతిరుపసమ్పన్నస్య పశ్చాదేవ కృత్స్నవిద్యానివృత్తిః, తేన గమనమపేక్షితమ్ తచ్చ గమనం మార్గవిశేషేణ మధ్యే సంవాదికం కృత్వేతి శ్రుత్యైవ స్పష్టమభిధానాత్ విగ్రహవత ఏవేతి స్పష్టమవగమ్యతే। నచ మధ్యే విగ్రహవిశేషపరిగ్రహేణ సంవాదాదికమస్త్వితి వాచ్యమ్ తత్రతత్రాపూర్వపరిగ్రహకల్పనాయాం కల్పనాగౌరవమ్। తేన పూర్వశరీరావయవైస్సానుబన్ధైరేవ విగ్రహవాన్ దేశవిశేషప్రాప్తిపర్యన్తం గచ్ఛతీత్యేవ వక్తుం యుక్తమ్। తస్మాద్ భూతసూక్ష్మైస్సమ్పరిష్వక్త ఏవ గచ్ఛతీతి యుక్తమితి॥
कुमार-वरदः - 11
  1. अत्र कश्चिच्चोदयति– निश्शेषमपि स्थूलदेहावसाने गलितमेव तस््माद्भोगाभावाद् भूतसूक्ष्मपरिष्वङ्गेण गमनमनर्थकमेव।ननु देहाभावे कथं गमनं स्यादिति न चोदिनीयम् अणुस्वरूपस्य जीवस्य देहाभावेऽपि गमनं युज्यत एवेत्याह— अणुतयानिश्चितस्ये ति।अणोर्जीवस्य स्वभावतः" क्रियावत्त्वात् सूक्ष्मदेहानुवृत्तिमन्तरेणापि गतिस्सम्भवत्येव। तर्हि मार्गे चन्द्रसंवादश्श्रूयते तत्कथं शरीरविधुरस्येत्याशङ्क्य तत्राप्यन्थासिद्धिमाह— मार्ग इति।अयं भावः-चन्द्रलोकपर्यन्तं स्वरूपेण गत्वा तत्र कञ्चिद्देहमपूर्वं परिगृह्य चन्द्रेण संवदेत इति एवमनुयोगे तत्रोत्तरत्वेन कृत्स्नाविद्यानिवृत्तिः परञ्ज्योतिरुपसम्पद्य समनन्तरमुत्पद्यत इत्यादि वाच्यम् ।अयमर्थः—देहादुत्क्रान्तस्य परञ्ज्योतिरुपसम्पन्नस्य पश्चादेव कृत्स्नाविद्यानिवृत्तिः।तेन गमनमपेक्षितम्।तच्च गमनं मार्गविशेषेण मध्ये संवादादिकं कृत्वेति श्रत्यैव स्पष्टमभिधानाद्विग्रहवत एवेति स्पष्टमवलोक्यते।न च मध्ये विग्रहं परिगृह्य संवादान् करोतीति वाच्यम्-तत्रतत्रापूर्वविग्रहपरिकल्पानायां" कल्पनागौरवमापद्येत।अतः पूर्वशरीरावयवैस्सानुहन्धैरेव विग्रहान् देशाविशेषप्राप्तिपर्यन्तं गच्छतीति वक्तुमेव यक्तम्।तस्माद् भूतसूक्ष्मैः पविष्वक्त एव गच्छति, भूतसूक्ष्मपरिष्वङ्गस्यैव देहत्वात् तेनैव देहेनार्चिरादिमार्गगमनम्,अन्तरा व्यवहारः, तत्तदर्चिरादिदेवताविषयगमनम्,तैरतिवहनमित्यादिकं सर्वं सशरीरस्यैव युज्यते।न पुनरत्र परिस्पन्दमात्रं गमनमित्युंच्यते अपितु क्रियाविशेषः।मार्गविशेषेण सशरीरस्यैव देशविशेषप्राप्तेरभिधानात्॥
मूलम् - 11
  1. निश्शेषं भोगहेतौ गलति परविदः कर्मणि प्रायणेऽथो
    गत्यर्थँ सूक्ष्मदेहानुगतिरणुतया निश्चितस्याफला स्यात्।
    मार्गे संवादवादस्तदुचितवपुषा त्वस्त्वितीवानुयोगे
    कृत्स्नाविद्यानिवृत्तिः परपदगमनापेक्षिणीत्यादि वाच्यम्॥
विश्वास-प्रस्तुतिः - 12

12.कल्पादौ भूतसूक्ष्््मप्रभृतिभिरुदितं वर्ष्म कल्पान्तनाश्यं
प्रत्येकं प्राणिभेदे नियतमनियतस्थूलदेहानुयायि।
लिङ्गाख्यं भस्त्रिकान्तः परुवकवदवस्थायि सांख्यैः प्रगीतं
सूक्ष््मांशः पूर्वमूर्तेरुपरितनतनोर्बीजमत्रेष्यते तत्॥

३४-तमाहोबिल-यतिः - 12

12.कल्पादावित्यादि।कल्पादौ –आदिसृष्टौ। भूतसूक्षअमप्रभृतिभिः –भूतसूक्ष्मैकादशेन्द्रियप्राणदशकादिभिः। उदितम् – उत्पन्नम्।कल्पान्तनाश्यम् – कल्पावसानविनाशि। आप्रालयावस्थायीत्यर्थः। प्राणिभेदे –सर्वप्राणिविशेषे। प्रत्येकं नियतम् – प्रतिजीवमेकैकशो व्यवस्थितम्। अनियतस्थूलदेहानुयायि – अनियता आगन्तुका विसजातीया नश्वराश्च ये स्थूलदेहास्तेषु सर्वेष्वनुवर्तशीलम्।भस्त्रिकान्तः परुवकवदवस्थायि – भस्त्रिकान्तर्निहितकृत्रिमपुत्रिकादिवदवस्थितम्।लिङ्गख्यम् – लिङ्गशब्दाभिधेयम्।वर्ष्म – सूक्ष्मशरीरम्।सांख्यैः प्रगीतम् – निरीश्वरसांख्यसिद्धान्तनिष्ठैः प्रतिपादितम्। अत्र – अस्मत्सिद्धन्ते तु। तत् –लिङ्गशरीरम्।उपरितनतनोर्बीजम् – भाविशरीरोपादानभूतः। पूर्वमूर्तेस्सूक्ष्मांश इष्यते — पूर्वशरीरसूक्ष्मांश इत्यस्माभिरङ्गीकृतः। सांख्योक्तरीत्याङ्गीकारे प्रमाणाभावात् केवलकल्पनाया अयुक्तत्वात् रंहत्धिकरणादौ गीतादौ च सेन्द्रयप्राणभूतसूक्ष्मांशानामेव पूर्वपूर्वशरीरगृहीतानां जीवेन सह गमनादिश्रवणादिति भावः॥

कुमार-वरदः - 12
  1. अत्र किं सूक्ष्मशरीरमित्युच्यत इति शिष्यानुयोगे साङ्ख्योक्तपक्रियामनूद्य तस्याः प्रमाणमूल्त्वाभावात् स्वाभिमतमर्थं ततः" प्रकटयति- कल्पादा विति।इयं किल साङ्ख्यप्रक्रिया– कल्पादौ भूतसूक्ष्मप्रभृतिभिरुतं शरीरं कल्पान्त वि नाश्यम्। तच्च प्रत्येकं प्राणिभेद नियतम्, अनियतस्थूलदेहानुयानि। स्थूलानि शरीराणि देवतिर्यङ्मनुष्यादीनां कर्मानुरूपमनियतानि।सूक्ष्मशरीरं तु कल्पादिमारभ्य कलापावसानपर्यन्तं सर्वेष्वपि श्थूलशरीरेष्वेकमेवावतिष्ठते अनुवर्तते तदिदमनुयायीत्युच्यते।तच्च लिङ्गशरीरमिति चोच्यते।तत्स्वरूपं" दृष्टान्तेन दर्शयति– भस्रिके ति। भस्रिकान्तर्निहतकृत्रिमपुत्रिकावदवतिष्ठत इति हि साङ्ख्यैः प्रगतीम्। अयं तु साङ्ख्यपक्षः" प्रमाणविशेषादर्शनात् परिकल्पनामात्रे परिगृहीतः ।सर्वप्रमाणानुकूलं स्वाभिमतं प्रकारान्रमाह– सुक्ष्मांश इति।उत्तरदेहपरिग्रहार्थं" पूर्वदेहान्निष्क्रान्तः पञ्चभूतसुक्ष्मांशसमुदायविशेष एव सूक्ष्मशरीतमित्युच्यच इति॥
मूलम् - 12

12.कल्पादौ भूतसूक्ष्््मप्रभृतिभिरुदितं वर्ष्म कल्पान्तनाश्यं
प्रत्येकं प्राणिभेदे नियतमनियतस्थूलदेहानुयायि।
लिङ्गाख्यं भस्त्रिकान्तः परुवकवदवस्थायि सांख्यैः प्रगीतं
सूक्ष््मांशः पूर्वमूर्तेरुपरितनतनोर्बीजमत्रेष्यते तत्॥

विश्वास-प्रस्तुतिः - 13

13.तत्त्वज्ञानेन बन्धः किल गलति पुरा नोत्क्रमेणेत्यसारं
माता वन्ध्येतिवद्धि स्ववचनविहतिर्जीवतो मुक्तिवादे।
मुक्तश्चेत्तत्वबोधात्तनुभृदिह तदा तत्त्वविन्नैष दुःख्येत्
मिथ्या दुःखं तदा चेत्कथय तव कदा तस्य सत्यत्वमिष्टम्॥

३४-तमाहोबिल-यतिः - 13
  1. तत्त्वज्ञानेनेत्यादि। तत्त्वज्ञानेन – तत्त्वमस्यादिवाक्यजन्यतत्त्वज्ञानेन। बन्धः – अविद्यादिरूपो बन्धः। पुरा – उत्क्रमणापूर्वं शरीरावस्थानवेलायामेव। गलति किल – निवर्तते खलु। ‘ज्ञात्वा देवं मुच्यते सर्वपाशैः’‘तमेव विदित्वाति मृत्युमेति’‘तमेव विद्वानमृत इह भवति’ इत्यादिषु त्वाप्रत्ययेहशब्दादिभिस्तत्त्वज्ञानोत्तरमेव बन्झनिवृत्त्यवगमादिति भावः। नोत्क्रमेणेतिवाक्ये बन्धो गलति इति पदयोरनुषङ्गः। उत्क्रमेण बन्धो न गलति। अनाद्यनुवृत्तो बन्धो निवर्तते चेत् ज्ञानेनैव तदुत्पत्त्युत्तरलक्षण एव निवर्तेत चेत् उत्क्रमणादभिर्न निवर्तेत पूर्वमनन्तशरीरेभ्यवचनं तुच्छम्।जीवतो मुक्तवादे माता बन्ध्येतिवत् स्ववचनविहतिर्हि – जीवतोऽविद्याकर्मकार्यभूतदेहात्मभ्रममूलकक्षुत्पिपाताददुःखतन्निवृत्त्यादिजनितसुखाश्रयभूतस्य जीवस्य मुक्तिवादे समूलसकार्याविद्यादिनिश्शेषविध्वंसरूपमुक्तिर्भवतीति वचने मे माता अपत्यहितेति वाक्य इव स्ववचनव्याहतिर्भवति हि। मे मातेत्यनेन स्वमातुस्सापत्यत्वावगमात् तद्विरुद्धतया वन्ध्येत्यनपत्यतारकथनमिव परस्परव्याघात इत्यर्थः। तनुभृत् – बन्धात्मकं शरीरं बिभ्राणो जीवः। तत्त्वबोधात् – तत्त्वज्ञानात्। इह –देहवत्त्वदशायामस्मिन्नेव लोके।मुक्तश्चेत् – मुक्तिं प्राप्त इति यद्यङ्गीक्रियते। तर्हि एष तत्त्ववित् तदा न दुःख्येत् – यो जीवन्मुक्तत्वेनाभिमत एष तत्त्वज्ञानी यदा जीवनमुक्त इत्युच्यते तदा दुःखं नानुभवेत्। दृश्यते ह जीवन्मुक्तत्वेन व्यवह्रियमाणानां भावत्कानां देहानुबन्धिक्षुत्पिपासाक्रोधादिमूलं" दुःखम्। तदा दुःखं मिथ्या चेत् –जीवन्मुक्तिदशायां तस्यात्मानो दुःखं मिथ्येति वदाम इति चेत्। तव कदा तस्य सत्यत्वमिष्टं कथय – ब्रह्मव्यतिरिक्तं सर्वं सर्वदा मिथ्येति वदतस्तव कस्मिन्काले दुःखानुभवस्य सत्यत्वमङ्गीकृतं ब्रूहि तेन पूर्वोत्तरकालयोर्न वैषम्यमित्यर्थः। सर्वदापि दुःखं मिथ्येति ह भवतां सिद्धान्तः। मिथ्याभूतं तदेव दुःखं संसार इति च भवतोच्यते अतस्संसरतो मुक्तिरिति विरुद्धमिति भावः॥
कुमार-वरदः - 13
  1. अत्र जीवन्मुक्तिवादी पुनरुत्क्रमणवार्तामसहमानः प्रत्यवतिष्ठते– तत्त्वज्ञानेनाति। तत्त्वमसायादिवाक्यदन्यतत्त्वाज्ञानेन पूर्वमेव संसारो गलत्येव न पुनरुत्क्रमणेन संसारो गलति तेन तत्त्वविदामुत्क्रान्तिवचनमनर्थकमेवेति। तदिदमसारमित्याह– असार मिति।असारत्वमेवोपपादयति– माते ति। जीवत इति संसारबन्धः उभयस्याप्येकदैकनिष्ठंत्ववचनं मम माता वन्ध्येति वचनवदसम्बद्धमेव।व्याहितमेवानिष्टप्रसङ्गपूर्वकं दर्शयति– मुक्त श्चेदिति।जीवन्मुक्त इति भवता कथ्यमानो मुक्तश्चेत्तत्त्वबोधमात्रेण तदा तत्परं नैष दःख्येत तत उत्तरस्मिन्काले स पुरुषो न दःख्येत।दृश्यते हि जीवन्मुक्तत्वेन भवता व्यवह्रियमाणानां भावत्कानां देहानुबन्धिक्षुत्पिपासाक्रोधादिमूलं दःखम्।तर्हि तदा तेषां दुःखं मिथ्येति वदाम इति चेत् तन््न पूर्वमेव तेषां दुःखस्य मिथ्यात्वात्।तेन पूर्वोत्तरकालयोर्न वैषम्यमित्यर्थः।तदिदमाह– कथ्ये ति।सर्वदापि दुःखं मिथ्येति हि भवतां सिद्धान्तः।मिथ्याभूतं तदेव दुःखं संसार इति च भवतोच्यते।तेन संसारतो न मुक्तिरिति॥
मूलम् - 13

13.तत्त्वज्ञानेन बन्धः किल गलति पुरा नोत्क्रमेणेत्यसारं
माता वन्ध्येतिवद्धि स्ववचनविहतिर्जीवतो मुक्तिवादे।
मुक्तश्चेत्तत्वबोधात्तनुभृदिह तदा तत्त्वविन्नैष दुःख्येत्
मिथ्या दुःखं तदा चेत्कथय तव कदा तस्य सत्यत्वमिष्टम्॥

विश्वास-प्रस्तुतिः - 14

14.यं यं भावं स्मरन्तो जहति वपुरिदं देहिनो यान्ति तं तं
तस्मादुत्क्रान्तिसाम्यं न घटत इति चेत्तन्न तन्मात्रसाम्यात्।
विद्याभेदादिनीत्या भवति विषमता ह्यन्तिमप्रत्ययादौ
कॢञ्चित्साधर्म्यवादे न च नियतिमती सर्वथा साम्यसिद्धिः॥

३४-तमाहोबिल-यतिः - 14
  1. यं यमिति। देहिनः – प्राणिनः। यं यं भावं स्मरन्त इदं वपुर्जहति तं तं यान्ति –देवत्वमनुष्यत्वादिकं यं यं भावं स्मरन्तस्सन्त इदं शरीरं विसृजन्ति तं तं भावं प्राप्नुवन्ति। तस्मात् – कारणात्।उत्क्रान्तिसाम्यं न घटते – विद्वदविदुषोरुत्क्रान्तिसाम्यं" भवदुक्तं न युज्यते। इति चेत् -एवं शङ्क्यते यदि।तन्न –तन्न सम्भवति।तन्मात्रसाम्यात् – कर्मानुरूपमुत्क्रान्तिविशेषोऽस्तु नाम, अथापि देहादुत्क्रमणमात्रसाम्यस्यास्मदुक्तस्यानपायात्। अन्तिमप्रत्ययदौ विषमता विद्याभेदादिनीत्या भवति हि -अन्तिमप्रत्ययादिवैषम्यं सद्विद्यादहरविद्यादीनां वेद्यकारभेदकृतभेदवत् ब्रह्मविद्यात्वसामान्यकृताभेदवच्च सम्भवति। सद्विद्यादहरविद्यादौ वेद्याकारभेदात् भेदोऽस्ति अथापि ब्रह्मविद्येति सामान्यादैक्यमप्यस्ति एवमत्राप्युत्रक्रमणमेकमेव, अथापि तत्तद्भावनाविशेषात् भेदोऽप्यस्तीति न कश्चिद्विरोध इति भावः। किञ्चित्साधर्म्यवादे सर्वधासाम्यसिद्धिश्च न नियतिमती – एकदेशसाधर्म्यवदा सर्वथासाम्यं" न सिध्यतीत्यर्थः॥
कुमार-वरदः - 14
  1. ननु यदुत्क्रान्तिसाम्यमुक्तं तन्नास्ति विद्वदविदुषोरुत्क्रान्तिर्विशेषस्यैव भगवताभिधानात् ’ यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ’ तस्मात्कथमुत्क्रान्तिस्समानेत्युच्यते।तदिदमाह– यं य मिति। अयमन्वयः– यं यं भावं स्मरन्तो देहिन इदं वपुर्जहति तं" तं भावं यान्ती ति विषमस्व भावैवोत्क्रान्तिरुच्यते तस्मादुत्क्रान्तिसाम्यं न घटते। तदिदं प्रतिक्षिपति– तन्ने ति।तत्र हेतुमाह– तन्मात्रसाम्या दिति।अयमर्थः–कर्मानुरूपमत्क्रान्तिविशेषोऽस्तु नाम अथापि देहादुत्क्रान्तिमित्येतावन्मात्रं तुल्यमित्युक्तमस्माभिरिति।तर्ह्यन्तिमप्रत्यये वैषम्यमङ्गीकृतं भवता तत्कथमित्याशङ्कय प्रतिबन्ध्या परिहरति– विद्ये ति।सद्विद्यादहरविद्यादौ वेद्याकारभेदाद्भेदौऽस्ति। अथापि ब्रह्मविद्येति सामान्याद् लिद्यैक्यमप्यस्ति।एवमत्राप्युत्क्रमणमेकमेव।अथापि तत्तद्भावनाविशेषाद् भेदोऽस्तीति न कश्चिद्विरोधः।उक्तमर्थं लोकदृष्टप्रक्रिया स्थापयति– किञ्चि दिति।एकदेश साधर्म्यवादे सर्वथा साम्य सिद्धिर्न च नियतिमती न सिद्ध्यतीत्यर्थः।साधर्म्यवैधर्म्ययोः" प्रमाणानुसारेण लोकवेदयोः प्रलिद्धत्वादिति। साधर्म्यवैधर्म्योः प्रमाणानुसारेण लोकवेदयोः प्रसिद्धत्वादिति। अयमाशयः-वाजसनेके’ न तस्य प्राणा उत्क्रमन्ति ’ इत्यध्यात्मविदि प्रणोत्क्रमणनिषेधादुत्क्रमणमविद्वविषयमिति यदुक्तं तत्तत्रैव स्थलान्तरे ’ न तस्मात्प्राणा उत्क्रामन्ति’ इति जीवात्प्रणोत्क्रान्तिनिषेधेन दत्तोत्तरमिति भष्य एव सुख्य्क्तमुपपादितम्। तस्मादस्माभिर्नात्र वक्तव्यं कॢञ्चिदवशिष्यते । अन्तेवासिभिरधिकरणचिन्तनमेव नियमेव कर्तव्यम्। तेन प्राणसहितो वाद्वानपि मूर्धन्यनाड्योत्क्रम्यार्चिरादिना मार्गेन गच्छतीत्ययमेव शारीरकशास्त्रनिर्णयः॥
मूलम् - 14

14.यं यं भावं स्मरन्तो जहति वपुरिदं देहिनो यान्ति तं तं
तस्मादुत्क्रान्तिसाम्यं न घटत इति चेत्तन्न तन्मात्रसाम्यात्।
विद्याभेदादिनीत्या भवति विषमता ह्यन्तिमप्रत्ययादौ
कॢञ्चित्साधर्म्यवादे न च नियतिमती सर्वथा साम्यसिद्धिः॥