16 भूताधिकरणम्

विश्वास-प्रस्तुतिः - 9

9.तेजस्येवास्तु युक्तश्श्रिततनुभृदनस्तेजसीत्याद्यबाधात्
छत्रिन्यायोऽपि नास्मिन्निति यदि न तथान्यत्र भूतान्तरोक्तेः।
विश्वारम्भाय देवस्त्रिवृतमकृत च प्रागिमं भूतपूर्वं
प्राचुर्यात्तत्तेदकव्यवहृतिरिति चासूत्रयत्पूर्वमेव॥

३४-तमाहोबिल-यतिः - 9
  1. तेजस्येवेत्यादि।श्रिततनुभृत् –आश्रितजीवात्मा।अनः – प्राणः। तेजस्येव युक्तोऽस्तु –तेजोमात्रे सम्पद्यत इत्यर्थोऽस्तु प्राणस्तेजसीति वाक्यस्येत्यर्थः। तेजसीत्याद्यबाधात् – तेजसि सम्पद्यत इति या श्रुतिस्तस्या अबाधायेत्यर्थः। अन्यथा बाधस्स्यादिति भावः। अस्मिन् – तेजश्शब्दे।छत्रिन्यायोऽपि न – छत्रिणो गच्छन्तीत्यत्र यथा छत्रिशब्दस्यच्छत्र्यच्छत्रिलक्षकत्वं तद्वत् तेजस्तदितरभूतलक्षकत्वमपि न सम्भवति। तत्राच्छत्रिणां गमनस्य प्रत्यक्षेणोपलम्भात् तत्संग्रहाय लक्षणा युक्ता, अत्र तु तेजोव्यतिरिक्तभूतान्तरसद्भावे प्रमाणभावादिति भावः। इति यदि न – इति यच्छङ्कनं तदसत।अन्यत्र – श्रुत्यन्तरे। तथा –तेज्सतुल्यतया।भूतान्तरोक्तेः – ‘पृथिवीमय आपोमयस्तेजोमयः’ इति भूतान्तरयोरपि सञ्चरता जीवेन सह संयोहवचनात्। देवः –परमात्मा।प्राक् – सृष्टिकाले। इमं भूतवर्गम् – एनं तेजोऽबन्नादिभूतवर्गम्। विश्वारम्भाय – अण्डादिसृष्टये। त्रिवृतमकृत च – एकैकं भूतं त्र्यात्मकमकरोच्च। तत्तदेकव्यवहृतिः प्राचुर्यादिति च पूर्वमेवासूत्रयत् – सर्वस्यापि भूतस्य त्रिवृत्करणादिभिः पञ्चभूतात्मकत्वेऽपि तेषांतेषां पृथिव्याद्येभूतवाचकशब्दैर्व्यवहारश्च प्राचुर्येण यद्भूतांशवत् यद्वस्तु तस्य तद्भूतवाचकशब्देन व्यवहार इति तृतीयाध्यायस्य एव ‘त्र्यात्मकत्वात्तु भूयस्त्वात्’ इति सूत्रतः प्रत्यपादयत्। सूत्रकार इति शेषः। तथा च सर्वेषामपि भूतानां पञअचभूतात्मकत्वादत्र तेदश्शब्द इतरभूतचतुष्टयलक्षक िति पञ्चभूतसूक्ष्मेष्वेव पुञ्चीकृतेषु सजीवस्य सेन्द्रस्य प्राणस्य संयोगरूपा सम्पत्तिरिति भावः॥
कुमार-वरदः - 9
  1. ’ प्राणस्तेजसि ’ इति प्राणस्य तेजसि सम्पत्तिरुक्ता सा सम्पत्तिः किं तेजोमात्रे उत सर्वेष्वपि भूतेष्विति चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु– किं भूतान्तरसंसृष्टतेजस्संयोग उत तेजोमात्रसंयोग इति।किं तेजश्शब्दस्तेजोमात्रपर उत संसृष्टपर इति । किं पृथिवी मय आपोमय इत्यादिवाक्यं युगपदनेकभूतसंसर्गं दर्शयति नेति । किं त्रिवृत्कृरणश्रुतिः पञ्चीकरणस्मृतिश्च संहतानामेव कार्यसामर्थ्यं" दर्शयतो नेति।अत्र पूर्वपक्षी ’ तेजसि सम्पद्यते’ इति प्रत्येकं तेजस एवोपादानात् तेजस्येव सम्पत्तिरस्त्वित्याह– तेजसीति। युक्तश्श्रिततनुभृत् अन इति प्राण उच्यते उपसर्गाणां धातुलीनार्थद्योतकत्वात्। आश्रितजीवः प्राणः तेजस्येव सम्बद्धोऽस्त्वित्यर्थः। अत्र हेतुमाह– तेजसी ति। छत्रिन्यायेन तेजोव्यतिरिक्तानामप्युपादानं स्यादितेयाशङ्क्य नेत्याह– छत्रिन्याय इति। तत्र ह्यच्छत्रिणामपि गमनस्य प्रत्यक्षोपलम्भाल्लक्षणया सर्वेषामपुयपादानाम्। अत्र पुनस्तेजोव्यतिरिक्तसद्भावे प्रमाणाभावात् कथं तन्न्याय इति। इमं पक्षं प्रतिक्षिपति– नेति। तत्र हेतुमाह– तथान्य त्रेति। ’ पृथिवीमय आपोमयस्तेजामयः’ इति जीवस्य संचरतस्सर्वभूतमयत्वश्रुतेरित्यर्थः। अत्र ’ तासां त्रिवृतं त्रिवृतमेकैकां करवाणि ’ इति त्रिवृत्करणश्रुतिमपि प्रमाणयति– विश्वारम्भाये ति। सूत्रकारोऽपूममर्थं प्राहेति दर्शयति– प्राचुर्या दिति। ’ त्र्यांत्मकत्वात्तु भूयस्त्वात् ’ इति सूत्रेणेत्यर्थः। तेनैकस्य भूतस्य कार्यकरत्वाभावाद् भूतान्तरसंसृष्टे तेजसि प्राणस्यसम्पद्यत इत्यवगन्तव्यमिति। अत्र पञ्चीकरणोपादानां पञ्चीकृतपञ्चभूतानामप्युपलक्षणम्। लोके हि देहाद्यारम्भो न पञ्चीकृतपञ्चभूतमात्रेण अपितु पञ्चीकृतपञ्चभूतोपादानेनेति स्फुटतरमुपलभ्यते॥
मूलम् - 9

9.तेजस्येवास्तु युक्तश्श्रिततनुभृदनस्तेजसीत्याद्यबाधात्
छत्रिन्यायोऽपि नास्मिन्निति यदि न तथान्यत्र भूतान्तरोक्तेः।
विश्वारम्भाय देवस्त्रिवृतमकृत च प्रागिमं भूतपूर्वं
प्राचुर्यात्तत्तेदकव्यवहृतिरिति चासूत्रयत्पूर्वमेव॥