15 अध्यक्षाधिकरणम्

विश्वास-प्रस्तुतिः - 8

8.प्राणस्सैकादशाक्षस्तदनु निविशते तेजसीत्थं श्रुतत्वात्
मध्येऽन्यप्राप्तिक्लृप्तौ श्रुतिहतिरिति चेन्नात्मयोगस्य चोक्तेः।
प्राणस्य स्वाप्तजीवे मिलति निजतनोरुद्धृतैर्भूतसूक्ष्मैः
तेजः प्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्तिवत्स्यात्॥

३४-तमाहोबिल-यतिः - 8
  1. प्राण्स्सैकादशाक्ष इत्यादि। सैकादशाक्षः – ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चक मनोरूपैकादशेन्द्रिय संयुक्तः। प्राणः। तदनु – मनसस्स्वसम्पत्त्यनन्तरम्। तेजसि निविशते – तेजसि सम्पद्यते।इत्थं श्रुतत्वात् –‘प्राणस्तेजसि’ इति प्राणस्य तेजस्सम्पत्तेरेव श्रुतत्वात्।मध्ये – मनः प्राणसम्पत्तेः पश्चात् प्राणतेजस्सम्पत्तेः पूर्वं" मध्ये।अन्यप्राप्तिक्लप्तौ – जीवात्मप्राप्तिकल्पने।श्रुतिहतिः –‘प्राणस्तेजसि’ इति प्राणस्य तेजसि सम्पत्तिं वदन्त्याश्श्रुतेर्व्याहतिः" स्यात्। इति चेन्न – इति शङ्क्यते चेत् तन्न सम्भवति। आत्मयोगस्य चोक्तेः –‘एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति’ इति श्रुत्या प्राणस्य जीवात्मयोगस्य प्रतिपादनात्। प्राणस्य स्वाप्तजीवे निजतनोरुद्धृतैर्भूतूसक्ष्मैर्मिलतितेजःप्राप्तिश्च – प्राणस्य स्वसम्बन्धाद्धजीवे निजस्थूवशरीरादुद्धृतैः पञ्चभूतसूक्ष्मांशैस्सह मिलति संयुज्यमाने सति तेजस्सम्पत्तिश्च। गङ्गानिपततितद्ययमुनासागरप्राप्तिवत्स्यात् – गङ्गासंयुक्ताया यमुनाया गङ्गाद्वारा यथा सागरगमनं तद्वत् सद्वारकं स्यात्। नतु गङ्गायास्सागरप्राप्तिवत् साक्षात्सम्भवेदित्यर्थः॥
कुमार-वरदः - 8
  1. ’ मनः प्राणे प्राणस्तेजसि इत्यनुक्रमवचनात् श्रुतिक्रमानुसारेण सङ्गतिस्स्फुटा। तदर्थवीचारस्तु– किं प्राणस्तेजसि सम्पद्यते उत जीवे। किं ’ प्राणस्तेजसि ’ इति वाक्यं जीवसम्पत्तिपूर्वकतेजस्सम्पत्तिपरमुत केवलतेजःसम्पत्तिपरम्। जीवसम्पत्तिपूर्वकतेजस्सम्पत्तिपरत्वे ’ प्राणस्तेजसि ’ इति वाक्यस्वारस्यं किं हीयते नेति। अत्रैवं पूर्वपक्षी मन्यते– एकादशाक्षसहितस्य प्राणस्य तेजसि संश्लेषस्य साक्षाच्छ्रुतत्वात् मध्ये नात्मनि सम्पत्तिरिति। तदिदमाह– प्राण इति। सैकादशाक्षः प्राणस्तदनु तेजस्येव निविशते। तत्र हेतुमाह– इत्थं श्रुतत्वादिति। यथैव श्रूयते तथैव स्वीकर्तव्यमिति हि नीतिविदां मर्यादा। मध्ये पुनरात्मप्राप्तिक्लृप्तौ श्रुतहानं स्यादित्याह– मध्य इति। अत्रोत्तरम्– नेति। तत्र हेतुमाह– आत्मयोगस्य चोक्त रिति। यदि तेजस्येव योगश्श्रूयेत तदा भवदुक्ता प्रक्रिया स्वीक्रियेत मध्ये पुनरात्मयोगोऽपि ’ एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति ’ इति श्रुत्यैव साक्षादभिधीयते। तेन द्वयोरपि कार्ययोश्श्रवणस्य श्रुतत्वेनाविशेशादविरोधेन निर्वाहः कर्तव्य इति। कथमविरोध इत्यत्राह– प्राणस्ये ति। स्वाप्तजीवे स्वसम्बद्धजीवे निजतनोरुद्धृतैर्भूतसूक्ष्मैस्सह मिलति सति प्राणस्य तेजः प्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्ति न्यायेन परम्परया स्यात् नपुनर्गङ्गासागरप्राप्तिन्यायेन साक्षात्प्राप्तिः। अयमर्थः– सर्वेन्द्रियसहितः" प्राणो जीवं प्राप्य जीवेन सह तेजसि सम्पद्यत इति प्रमाणद्वयोविरोधाय संग्राह्यमिति॥
मूलम् - 8

8.प्राणस्सैकादशाक्षस्तदनु निविशते तेजसीत्थं श्रुतत्वात्
मध्येऽन्यप्राप्तिक्लृप्तौ श्रुतिहतिरिति चेन्नात्मयोगस्य चोक्तेः।
प्राणस्य स्वाप्तजीवे मिलति निजतनोरुद्धृतैर्भूतसूक्ष्मैः
तेजः प्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्तिवत्स्यात्॥