विश्वास-प्रस्तुतिः - 7
7.अन्नस्योक्तं विकारो मन इति मनसः प्राणसम्पत्तिवाक्ये
प्राणस्याम्भोमयत्वात् प्रकृतिविकृतितासम्भवात्तल्लयोऽस्तु।
मैवं तत्तन्मयत्वश्रुतिरभिमनुते तत्तदाप्यायनं तैः
प्राग्वत्संश्लेषमात्रं तत इह हि मनः प्राण इत्यामनन्ति॥
३४-तमाहोबिल-यतिः - 7
- अन्नस्योक्तमित्यादि।मनः। अन्नस्य –पृथिव्याः। विकारः –विकारभूतं कार्यभूतम्। इति उक्तम् – ‘अन्नमयं हि सोम्य मनः’ इति विकारार्थमयट्प्रत्ययान्तपृथिवीवाचकान्नशब्देन मनश्शब्जदसमानाधिकरणेन प्रतिपादितम्। प्राणस्याम्भोमयत्वात् – ‘आपोमयः प्राणः’ इति श्रुत्या प्राणस्याम्भोवोविकारत्वात्।प्रकृतिविकृतितासम्भवात् – कार्यकारणभावसम्भवात्। मनसः प्राणसम्पत्तिवाक्ये – ‘मनः" प्राणे’ इति प्राणे मनस्सम्पत्तिवाक्ये।तल्ल्योऽस्तु – ‘ता अन्नमसृजन्त’ इत्यन्नशब्दार्थस्य पृथिव्या जलकार्यत्वात् अन्नकार्यस्य मनसस्स्वकारणभूतान्नद्वारा प्राणशब्दार्थभूते प्राणकारणे जले लयोऽस्तु साक्षाल्लय एवास्तु। मैवम् – एवं मा शङ्किष्ठाः। तत्तन्मयत्वश्रुतिः – अन्नमयत्वापोमयत्वतेजोमयत्वश्रुतिः ‘अन्नमयं हि सोम्य मनः, आपोमयः प्राणः, तेजोमयी वाक्’ इत्याकारिका। तैः – अन्नाप्तेजोभिः। तत्तदाप्यायनम् – मनः प्राणवाचां स्वस्वकार्यनिर्वर्तनौपयिकपुष्टिसम्पादनम्। अभिमनुते –अभिप्रैति।‘अन्नमयं हि’ इत्यादिश्रुतिरन्नाप्तेजोभिर्मनः प्राणवाचामाप्यायनमेवाह नतु कार्यकारणभावम् इन्द्रियाणामाहङ्कारिकत्वात् प्राणस्य वायुरूपत्वेनाकाशकार्यत्वाच्चेति भावः। ततः – तस्मात् कारणात्।इह हि – प्रकरणे। णनः प्राण इति – ‘मनः प्राणे’ इति वाक्येऽपि।प्राग्वत् –‘वाङ्मनसि’ इति पूर्ववाक्य इव। संश्लेशमात्रमामनन्ति – संयोगरूपसम्बन्धमात्रं प्रत्याय्यं नतु लय इति प्रतिपादयन्ति। सूत्रकारादय इति शेषः। यद्वा – प्राग्वसंश्लेषमात्रं प्रत्याय्यम्। ततो हि –संश्लेषमात्राभिप्रायेण हि।इह – लयप्रकरणे।मनः प्रा इत्यामनन्ति – छन्दोगाः ‘मनः प्राणे’ इति पठन्तीत्यर्थः॥
कुमार-वरदः - 7
- ’ वाङ्मनसि सम्पद्यते मनः प्राणे ’ इति श्रुत्यनुक्रमेण चिन्तनात् सङ्गतिर्विशदा। तदर्थविचारस्तु– किमत्र मनसो लय उच्यत उत संयोगः। किमत्र ’ प्राणः ’ इत्यपां निर्देश उत प्राणस्यैव। ’ आपोमयः ’ इति वाक्ये किं प्रकृतिविकृतिभावपरमुताप्यायनपरम्। अत्र पूर्वपक्षी मन्यते– अन्नस्येति। ’ आपोमयः प्राणः ’ इति वाक्येऽप्राणयोः प्रकृतिविकृतिभावसम्भवात् प्राणप्रकृतिभूते जले मनसो लयोस्तु जलं तस्य प्रकृतिः, अन्नञ्च मनसः प्रकृतिः ; ’ अन्नमयं हि सोम्य मनः ’ इति वचनात् तस्मान्मनसो ’ मनः प्राणे’ इति प्राणप्रकृतौ जले लय उच्यत इति। तमिमं पक्षं प्रतिक्षिपति– मैवमिति। तत्र हेतुमाह– तत्तदिति। ’ अन्नमयं हि सोम्य मनः ’ इति न मनसोऽन्नप्रकृतित्वमुच्यते किन्त्वन्नाप्यायितत्वम्। तेन प्रकृतिविकृतिभावप्रसङ्गाभावात् सम्पत्तिशब्देन न प्रलयाभिधानम्। तदिदमाह–तत्तदिति। तर्हि किमुच्यत इत्याशङ्क्याह-प्राग्वदिति। पूर्वं ’ वाङ्मनसि सम्पद्यते ’ इति सप्तम्या संश्लेषमात्रमुक्तं तद्वदत्रापि। तत्कथमित्यत्राह– तत इह हीति। पूर्वं यथा ’ वाङ्मनसि ’ इति सप्तम्या संश्लेषनिर्देशस्तथा इह हि मनः प्राण इति सप्तम्या संश्लेष एव निर्दिश्यते उपक्रमभङ्गस्यान्याय्यत्वादिति॥
मूलम् - 7
7.अन्नस्योक्तं विकारो मन इति मनसः प्राणसम्पत्तिवाक्ये
प्राणस्याम्भोमयत्वात् प्रकृतिविकृतितासम्भवात्तल्लयोऽस्तु।
मैवं तत्तन्मयत्वश्रुतिरभिमनुते तत्तदाप्यायनं तैः
प्राग्वत्संश्लेषमात्रं तत इह हि मनः प्राण इत्यामनन्ति॥