13 वागधिकरणम्

विश्वास-प्रस्तुतिः - 6

6.कर्मज्ञानाक्षवर्गो मनसि न विलयं यात्यतत्संभवत्वात्
तद्वृत्तेस्तादधीन्यात्तदुपरतिमिह प्राह सम्पत्तिशब्दः।
इत्येतन्नोपपन्नं तदुभयविलये चोद्यनिस्तारसाम्यात्
सम्पत्तिश्श्लेषमात्रं करणविषयवाक्शब्दमुख्यत्वसिद्ध्यै॥

३४-तमाहोबिल-यतिः - 6
  1. कर्मज्ञानाक्षवर्ग इत्यादि।कर्मज्ञानाक्षवर्गः – कर्मेन्द्रियज्ञानेन्द्रियसङ्घातः। मनसि न विलयं याति। कुतः अतत्सम्भवत्वात् — इन्द्रियाणां मनोजन्यत्वाभावात्।मनोजन्यत्वे खलु मनसीन्द्रियाणां लयो वक्तुं शक्यत इति भावः। तद्वृत्तेः" – इन्द्रियवृत्तेः। तादधीन्यात् – मनोऽधीनत्वात्।तदुपरतिम् – इन्द्रियवृत्त्युपरतिम्।इह –अस्मिन्वाक्ये।सम्पत्तिशब्दः – सम्पद्यत इति सम्पत्तिशब्दः प्राह – प्रतिपादयति। इत्येतन्नोपपन्नम् – एवमाशङ्कनमुपपन्नं न भवति।तदुभयविलये चोद्यनिस्तारसाम्यात् – मनसीन्द्रियाणां विलये इन्द्रियवृत्तीनां विलयेऽपि कार्यत्वाभावाद्विलयो न सम्भवतीत्याक्षेपस्य यथाकथञ्चिदौपचारिकसम्पत्तिकल्पनरूपस्य परिहारस्य च तुल्यत्वात्। करणविषयवाक्शब्दमुख्यत्वसिद्ध्यै – इन्द्रियपरस्य वाक्शब्दस्य मुख्यर्थत्वसिद्ध्यर्थम्। सम्पत्तिः" श्लेषमात्रम् – सम्पत्तिशब्दार्थस्संयोगरूपसंश्लेषएव वक्तव्यः॥
कुमार-वरदः - 6
  1. स्थूलशरीरस्थितिसमये यद्विद्याफलं तदुक्तम् अधुना तद्विनशयदवस्थायां गत्युपक्रमे यतफलं तच्चिन्त्यत इति पादसङ्गतिः। अत्रोत्क्रान्त्युपक्रमकथनात्प्रथमाधिकरणसङ्गतिश्च भवति। तदर्थविचारस्तु– किमियं सम्पत्तिर्वाग्वृत्तिविषया उत वाक्स्वरूपविषयेति प्रथमो विचारः। तदर्थं विचार्यते- किं वाक्शब्दस्य मुख्यार्थपरिग्रह उपपन्नो नेति। किमियं सम्पत्तिर्लयरूपा उत व्यापारनिवृत्तिपूर्वकसंयोगरूपेति। इन्द्रियान्तरसम्पत्तिवचनं किं" लयपरत्वेऽप्युपपद्यते उत संयोगपरत्व इति। अत्र पूर्वपक्ष्यभिप्रायमनुवदति– कर्मेपि। अयमर्थः– कर्मेन्द्रियवर्गो ज्ञानेन्द्रियवर्गश्च मनइन्द्रिये विलयं न याति। तत्र हेतुमाह– अतत्सम्भवत्वादिति। नहीन्द्रियाणि मनसस्सम्भवन्ति येन विलयो मनसि वक्तुं शक्यते। तर्हि कस्य सम्पत्तिरुच्यत इत्याशङ्क्येन्द्रियवृत्तेरेव, तस्या मनोऽधीनत्वान्मनसि विलयो वक्तुं शक्यत इति वदति– तद्वृत्तेरिति। तेन सम्पत्तिशब्दो वाग्वृत्तेरुपरतिमेवाहेति मन्तव्यम्। एतत्प्रतिक्षिपति– इत्येतदिति। अत्र हेतुमाह– तदुभयेति। वाग्वृत्तिविलये वागिन्द्रिय विलयेच चोद्यं समानम्, परिहारेऽपि समान एव। तथा च यत्रोभयोस्समो दोष इति न्यायविषय इत्यर्थः। यथा वाचो मनः प्रकृतित्वाभावात् सम्पत्तिर्वक्तुं न शक्यते, तथा वाग्वृत्तेरपि मनःप्रकृतित्वाभावात् सम्पत्तिवचनं न घटते यथा कथंचित् समाधानमुभयत्रापि समानम्। तर्हि पक्षद्वयेऽपि गुणदोषसाम्ये किमेकः पक्षः परिगृह्यते कथं वा तस्मिन्पक्षे सम्पत्तिशब्दस्यस्यौचित्यमित्याशङ्क्याह–सम्त्तिरिति।सम्पत्तिशब्दो धातूपसर्गाभ्यां सम्बन्धमेवाह।सम्बन्धस्य वगीन्धर्स्य मनइन्द्रियेन सम्भवत्येव। अस्मिन्पक्षे विशेषहेतुमाह– करणेति।वाक्शब्दो वागिन्द्रियस्य मुख्य एव तद्वृत्तौ तद्धर्मत्वादौपचारिकः।तेन वाक्शब्दमुक्यत्वसिद्ध्यर्थमस्मत्पक्ष एव संग्राह्य इति भावः॥
मूलम् - 6

6.कर्मज्ञानाक्षवर्गो मनसि न विलयं यात्यतत्संभवत्वात्
तद्वृत्तेस्तादधीन्यात्तदुपरतिमिह प्राह सम्पत्तिशब्दः।
इत्येतन्नोपपन्नं तदुभयविलये चोद्यनिस्तारसाम्यात्
सम्पत्तिश्श्लेषमात्रं करणविषयवाक्शब्दमुख्यत्वसिद्ध्यै॥