12 उपोद्घातम्

विश्वास-प्रस्तुतिः - 1
  1. नित्यत्वज्ञत्वपूर्वैर्निपुणमभिहितं जीवतत्त्वं द्वितीये
    जागर्यादौ च खेदो जगदटविमहाजाङ्घिकस्याथ गीतः।
    विद्यारम्भावसानावधि यदपि परं ध्यातुरर्थ्यं तदुक्तं
    प्रारब्धस्यावसाने वपुरिह जहतो गत्युपक्रान्तिमाह॥
३४-तमाहोबिल-यतिः - 1
  1. नित्यत्वज्ञत्वपूर्वैरित्यादि। नित्यत्वज्ञत्वपूर्वैः – नित्यत्वर्ज्ञातृत्वप्रमुखैर्गुणैः। जीवतत्त्वम् –जीवात्मवस्तु। द्वितीयेऽध्याये।निपुणमभिहितम् —स्पष्टतया प्रतपादितम्।जगदटविमहजाङ्घिकस्य – साधनानुष्ठानफलानुभवौपयिकभूस्वर्गादिलोकात्मकमहारण्यगमनैकशीलस्य जीवात्मनः।जागर्यादौ –जाग्रत्स्वप्नसुषुप्तिमुग्धावस्थासु।खेदश्च – दुःखानुभवश्च। अथ –तृतीयाध्याये प्रथमद्वितीयपादयोः। गीतः" –उक्तः। परम् – तचदुपरिशास्त्रांशे च। ध्यातुः – उपासकस्य। अर्थ्यम् –अपेक्षितम्।यत् विद्यारम्भावसानावधि तदप्युक्तम् – विद्यारम्भमुपक्रम्य विद्यावसानपर्यन्तं मध्ये यद्वक्तव्यं तदपि चोक्तम्। प्रारब्धस्य – आरब्धफलस्य कर्मणः। अवसाने – समाप्तौ। इह वपुर्जहतः – अस्मिन् लोके परित्यजतो जीवात्मनः। गत्युपक्रान्तिम् –गमनोपक्रमम्। आह – अतः परं प्रतिपादयति॥
कुमार-वरदः - 1
  1. पूर्वोक्ताध्यायद्वयार्थानुवादपूर्वकं चतुर्थाध्यायद्वतीयपादारम्भे सङ्गतिमाह— नित्यत्वे ति। प्रथमाध्याये परतत्वपिरतिपादनं" कृतम्। नित्यत्वज्ञत्वपूर्वैर्जीवतत्त्व मपि द्वितीया ध्याये निपुणमभिहितम्।तृतीयाध्याये वैराग्यपादे जगदटविमहाजाङ्घिकस्य जीवस्य दुःखमपि प्रोक्तम् । शिष्टे च शास्रांशे पूर्व प्रवृते विद्यारम्भ मुपक्रम्य विद्या वसान पर्यन्तं मध्ये यद्वक्तव्यं तदपि चोक्तम् । अतः परं प्रारब्धावसाने स्थूलशरीरं जहतो जीवस्य गत्यपक्रान्ति प्रकार माहे त्युत्क्रा न्तिपादमवतारयति— प्रारब्धस्येति॥
मूलम् - 1
  1. नित्यत्वज्ञत्वपूर्वैर्निपुणमभिहितं जीवतत्त्वं द्वितीये
    जागर्यादौ च खेदो जगदटविमहाजाङ्घिकस्याथ गीतः।
    विद्यारम्भावसानावधि यदपि परं ध्यातुरर्थ्यं तदुक्तं
    प्रारब्धस्यावसाने वपुरिह जहतो गत्युपक्रान्तिमाह॥
विश्वास-प्रस्तुतिः - 2

2.वर्ण्यो वैराग्यपादे तनुकरणगणक्षोभ ईदृक् तथापि
ब्रह्मज्ञस्यापि काले भवति मृतिरिति ज्ञप्तयेऽत्रानुबन्धः।
तस्योत्क्रान्तौ विशेषं कथयितुमुचिता चात्र साधारणोक्तिः
मध्ये विद्याफलानां मरणमपि वदंस्तत्प्रियं चिन्त्यमाह॥

३४-तमाहोबिल-यतिः - 2
  1. वर्ण्य इत्यादि।ईदृक् तनुकरणगणक्षोभो वैराग्यपादे वर्ण्यः– अत्यन्तदुःखरूपश्शरीरस्य भूतसूक्ष्मग्रहणार्थः इन्द्रियगणानां" तत्तद्गोलकविश्लेषणपृथक्कृतसूक्ष्मपुञ्चावस्थापनार्थश्च भवति यः क्षोभः उद्धरणव्यापारस्सः ‘तदन्तरप्रतिपत्तौ’ इत्यादितृतीयाध्यायप्रथमपादादावेव वर्ण्यः प्रतिपादनीयः। तथापि – एवं युक्तत्वेऽपि। ब्रह्मज्ञस्यापि काले मृतिर्भवतति ज्ञप्तये – ब्रह्मोपासकस्य महानुभावत्वात् मरणमेव नास्तीति कस्यचिन्मन्दमतेर्मतिनिवर्तनाय ब्रह्मोपासकस्यापि प्राप्तकाले मरणं भवतीत्येतदर्थस्य शिष्येभ्यो ज्ञापनाय। अत्रानुबन्धः" –मरणस्यास्मिन् चतुर्थाध्यायद्वितीयपादेऽनुबन्धनं कृतम्। तस्य – ब्रह्मोपासकस्य। उत्क्रान्तौ – उत्क्रमणे। विशेषम् – मूर्धन्यनाडीीनिर्गमनादिरूपमधिकांशम्। कथयितुम् – प्रतिपादयितुम्।अत्र – प्रकरणे। साधारणोक्तिश्च उचिता – विद्वदविद्वत्साधारणस्य मरणस्योक्तिश्च युक्ता। विशेषकथनस्य साधारणसापेक्षत्वादिति भावः। विद्याफलानां मध्ये मरणमपि वदन् तत्प्रियं चिन्त्यमाह – उत्तरपूर्वाघाश्लेषविनाशार्चिरादिगमनब्रह्मप्राप्तिरूपाणां" विद्याफलानां मध्ये द्वितीयपादे मरणमपि प्रतिपादयन् सूत्रकारः" ‘प्रायेणाकृतकृत्यत्वात् मृत्योरुद्विजते जनः। कृतकृत्याः प्रतीक्ष्यन्ते मृत्युं प्रियमिवातिथिम्’ इत्युक्तरीत्या मरणमपि प्रियत्वात् फलकोटिनिवेश्यं तत एव वटोर्विवाह चिनतनवत् कदाकदेतप्रतीक्षणीयं चेत्याह॥
कुमार-वरदः - 2
  1. ननु जाग्रत्स्वप्नसुषुप्तिमूर्छाप्रसङ्गेन वैराग्यपाद एव मरणमपि चिन्तनीयम्, किमर्थमत्र मरणमस्थाने चिन्त्यत इत्याशङ्क्येदमपि स्थानचिन्तनमित्युपपादयति— वर्ण्य इत्यादिना। अयमत्रशब्दान्वयः—यद्यपि वैराग्यपाद एवेद्दङ्मरणरूप स्तनुकरणक्षोभो ऽपि वाच्यः। तथापि ब्रह्मज्ञस्यापि प्राप्त काले मरणं भवतीति ज्ञप्तये फलाध्यायेऽ नुबन्धः । कश्चिन्मनुते बालबुद्धिः—ब्रह्मज्ञस्य महानुभावत्वान्मरणमेव नास्तीति, तत्प्रतीति निवारयितु मत्रानुबन्ध इति । किञ्चात्र सम्बन्धे कारणान्तरमस्तीत्याह— तस्ये ति । ब्रह्मज्ञ स्योत्क्त्रान्तौ मूर्धन्यनाड्या गमन विशेषं कथयितुं सर्व साधारणो त्क्रमणमोक्षविरोधो भवति । इत्यभ्पेतम्— इति भवद्भिरितःपूर्वमङ्गीकृतं हि । परविदि —परमात्मोपासके । तैर्यद्यश्लेषां भवेत् —अग्निहोत्रादिभिस्साकं फलानुभवयोग्यताभावरूपोऽसम्बन्धो यदि भवेत् । परस्तात् पुण्यनिष्टा विफला— उत्तरकालेऽग्निहोत्रादिधर्मानुष्टानं विफलमेव । तस्मात्— उक्तोपपादवान् । धर्मोऽपि— अग्निहोत्रादिधर्मोऽपि । अर्धमक्रमतः —अधर्मतुल्यतया। इह —ब्रह्मविदि विषये। परित्याज्य एव— अननुष्ठेय एव। इत्ययुक्त म् — इति।शङ्कनमयुक्तम्। बन्धाय न स्यात् —अग्निहोत्रादिधर्मो बन्धहेतुर्न भवेत्। अग्निहोत्रादिधर्मो विद्याङ्कुरमुपचिनुते हि— अग्निहोत्रादिवर्णाश्रमधर्मो विद्याया अङ्कूरस्थानीयामन्तः करणशुद्धिमभिर्धयति हि।विद्यानिष्पत्त्यर्थमेव तेषामनुष्ठानम्,विद्यानिष्पत्तिरूपं" फलं" न बन्धकम्,अपितु साक्षान्मोक्षहेतुरिति न पूर्वोक्तानुपपत्तिरिति भावः।
मूलम् - 2

2.वर्ण्यो वैराग्यपादे तनुकरणगणक्षोभ ईदृक् तथापि
ब्रह्मज्ञस्यापि काले भवति मृतिरिति ज्ञप्तयेऽत्रानुबन्धः।
तस्योत्क्रान्तौ विशेषं कथयितुमुचिता चात्र साधारणोक्तिः
मध्ये विद्याफलानां मरणमपि वदंस्तत्प्रियं चिन्त्यमाह॥

विश्वास-प्रस्तुतिः - 3
  1. वृत्तिर्वागादिकं वा क्वचन भजतु सम्पत्तिमन्यक्रमां वा
    श्रुत्यैवोक्तक्रमां वा नहि फलमिह तच्चिन्तनस्येति चेन्न।
    सम्पत्त्याम्नानमीदृक्क्रमनियतियुतं युज्यते न ह्यपार्थँ
    तस्मात्तच्चिन्तनं क्वाप्युपकुरुत इति स्थाप्यमेतद्यथार्हम्॥
३४-तमाहोबिल-यतिः - 3
  1. वृत्तिर्वागादिकं इत्यादि।वृत्तिः –वागादिवृत्तिः। वागादिकं वा —वागादीन्द्रियभूतादितत्त्वजातम् वा। क्वचन – क्वापि वस्तुनि। न त्वस्मिन्नेवेति नियन्तव्यमिति भावः। अन्यक्रमां वा – श्रुत्यनुक्तक्रमान्तरयुक्तां वा। श्रुत्यैवोक्तक्रमां" वा – श्रुत्युक्तक्रमयुक्तामेव वा। सम्पत्तिं भजतु – लघुप्रतिपाद्यम्।इह तच्चिन्तनस्य फलं नहि – अत्रपादे तद्विचारस्य प्रयोजनं" नास्ति खलु। यद्वा इह –विद्यानुष्ठानदशायाम्।तच्चिन्तनस्य – उत्क्रान्त्यादि चिन्तनस्य। फलं नहि। न ह्युत्क्रमणगमनादिचिन्तने किञ्चित्फलं सम्भविष्यतीति भावः।इति चेन्न – इति शङ्क्यते चेन्नैतद्युतम्।ईदृक्क्रमनियतियुतम् – एतादृक्रमनियमयुक्तम्।सम्पत्त्याम्नानम् – ‘अस्य प्रयतो वाङ्गनसि सम्पद्यते प्राणस्तेजसि तेजः परस्यां देवतायाम्’ इत्यादिना वागादीनां सम्पत्तिप्रतिपादनम्। अपार्थं" न युज्यते हि – निरर्थकं भवितुं नार्हति हि।तस्मात् – उक्तकारणात्।एतत् तच्चिन्तनम् – श्रुत्युक्तमुत्क्रान्त्यादिचिन्तनम्। यथार्हम् – यथायोग्यम्। क्वाप्युपकुरुत इति स्थाप्यम् – विद्यानिष्पत्त्यादौ यत्र क्वचिदुपकरोतीति स्थापनीयम्॥
कुमार-वरदः - 3
  1. अस्मिन्पादे " मनसि करणग्रामं प्राणे मनः पुरुषे च तं झटिति घटयन्भूतेष्वेनं परे च तमात्मनि। स्वविदविदुषोरित्थं साधारणे सरणेरेमुख नयति परतो नाडीभेदैयथोचितमीश्वरः॥" इति नियतोत्क्रमणं भवद्भिरेवान्यत्रोक्तम ब्रह्मविद्यामाहात्म्यान्नडीविशेषप्कप्राप्तिरर्चिरादिमार्गेणगमणञ्च स्यादित्याशङ्क्य तन्नेत्याह–वृत्तिरिति। अयमर्थः – वागादिवृत्तिरिति पूर्वपक्षिणोक्तं, वागादिरितिसिद्धान्तिना, तथा क्रमान्तरेण सम्पत्तिरिति पूर्वपक्षिणोक्तम्।’ मनसि करणग्रामम् ’ अत्यक्तप्रकारेण नियमेणैव सम्पत्तिरिति सिद्धान्तिना। किमनेन प्रकारविशेषनियमनेन येनकेनापि प्रकारेणोत्क्रान्तिस्स्यात्।ननूत्क्रान्तिविशेषचिन्तनेन फलविशेषसिद्धस्स्यादिति सिद्धान्त्यभिप्रायमाशङ््क्य तदपि नेत्याह-नहीति।तमिमं पूर्वपक्षं प्रतिक्षिपति- नेति। प्रतिक्षेपमेवोपपादयति– सम्पत्तीति । श्रुतिरेव ह्यस्माकमर्थतत्त्वे प्रामाणम्।अनुसन्धेयविशेष च तदेव तथा प्रामाणम्। आम्नातश्च नियमेनानुक्रमः। नच तस्य नैरर्थक्यं वक्तुं युज्यते।तेन श्रुतिप्रतिपन्नस्य नैरर्थक्यपरिहारार्थं यथा श्रुतमेव सर्वं ग्राह्यम्।तथैव तच्चिन्तनीयमिति गतिचिन्चनादिकं कर्तव्यमिति ’ नैते सृती पार्थ जानन्’ इति भगवतैवोक्तम्। तद्गतिचिन्तनकथनमुत्क्रान्तिचिन्तनस्याप्युपलक्षणं गत्युपक्रमत्वादुत्क्रान्तेः। ईदृक्क्रमनियतियुतं सम्पत्त्याम्नानमपार्थमिति वक्तुं न युज्यते इत्यन्वयः। उक्तमर्थं निगमयति-तस्मादिति। तच्चिन्तनम् उत्क्रान्तिचिन्तनम्। विद्याया उपकुरुत इति यर्थाहं यथाप्रामाणञ्च स्थाप्यत इति॥
मूलम् - 3
  1. वृत्तिर्वागादिकं वा क्वचन भजतु सम्पत्तिमन्यक्रमां वा
    श्रुत्यैवोक्तक्रमां वा नहि फलमिह तच्चिन्तनस्येति चेन्न।
    सम्पत्त्याम्नानमीदृक्क्रमनियतियुतं युज्यते न ह्यपार्थँ
    तस्मात्तच्चिन्तनं क्वाप्युपकुरुत इति स्थाप्यमेतद्यथार्हम्॥
विश्वास-प्रस्तुतिः - 4
  1. जीवं ये नित्यमुक्तं निजगदुरथवा जीवतो मुक्तिमाहुः
    तत्तज्जल्पोपजापप्रचलितनिगमग्रामसंक्षोभशान्त्यै।
    उक्त्वा प्रारब्धकार्यं विदुषि च फलवत्प्रायणञ्चात्र तुल्यं
    नाडीभेदप्रवेशप्रभृति समधिकं वक्ष्यति ब्रह्मगत्यै॥
३४-तमाहोबिल-यतिः - 4
  1. जीव इत्यादि। ये – सांख्या मृषावादिनश्च। जीवं नित्यमुक्तं निजगदुः – जीवात्मानं बद्धदशायामपि सदा बन्धरहितमभ्यधुः। अथवा जीवतो मुक्तिमाहुः – तत्त्वज्ञाने सम्पन्ने जीवत एव मुक्तिरिति वा वदन्ति।तत्तज्जल्पोपजापप्रपचलितनिगमसंक्षोभशान्त्यै – तेषांतेषां" सांख्यमृषावादि प्रभृतीनां जल्पा एव उपजाताः ऐकमत्यभेदकव्यापारास्तैः प्रचलिता विरुद्धगतिं प्राप्ता निगमा वेदा एव ग्रामास्तेषां" संक्षोभः कलहस्तछान्त्यै तन्निवर्तनाय। विदुषि च प्रारब्धकार्यं फलवत् – ब्रह्मोपासकेऽपि प्रारब्धकार्यं कर्म फलवत् फलप्रदमेव नतु तूष्णीं नश्यतीतीममर्थम्। अत्र – विदुषि।प्रायणञ्च तुल्यम् – उत्क्रमणादिकञ्च समानमित्यमुमर्थञ्च।उक्त्वा –प्रतिपाद्य। ब्रह्मगत्यै – ब्रह्मप्राप्त्यै।नाडीभेदप्रवेशप्रभृति –मूर्धन्यनाडीविशेषप्रवेशादिकम्।समधिकम् – ब्रह्मविदोऽधिकमिति।वक्ष्यति – उपरि प्परतिपादयिष्यति। सूत्रकार इति शेषः॥
कुमार-वरदः - 4
  1. एव मुत्क्रमणादिवचनस्य मृषावादिप्रवृत्तिनिराकरणं विशेषप्रयोजनमिति दर्शयति–जीवमिति। जिवो नत्यमुक्त इति साङ्ख्यामृषावादिनश्च प्राहुः। तत्र मृषावादिनो जीवन्मुक्तिमपि चाहुः। तत्त्वज्ञाने सम्पन्ने जीवत एव मुक्तिरिति। अनयोरर्द्वयोरपि पक्षयोर्निराकरणोर्थं" तत्तज्जल्पसङ्घातोपजापप्रतलितनिगमग्रामस्य सङ्क्षोभशान्त्यै च प्रारब्धकार्य कर्म विदुषिच फलवत् प्रायणमुत्क्रमण़ञ्च द्वयोविदब्रह्मविदोरपि तुल्यमितियुक्त्वा ब्रह्मगत्यै ब्रह्मप्राप्त्यै ब्रह्मनाडीप्रवेशप्रभृति ब्रह्मविदस्समधिकमिति सूत्रकारः वक्ष्यति इत्यन्वयः॥
मूलम् - 4
  1. जीवं ये नित्यमुक्तं निजगदुरथवा जीवतो मुक्तिमाहुः
    तत्तज्जल्पोपजापप्रचलितनिगमग्रामसंक्षोभशान्त्यै।
    उक्त्वा प्रारब्धकार्यं विदुषि च फलवत्प्रायणञ्चात्र तुल्यं
    नाडीभेदप्रवेशप्रभृति समधिकं वक्ष्यति ब्रह्मगत्यै॥
विश्वास-प्रस्तुतिः - 5

5.आयुस्सीमामनिष्टैरिह बहुभिरसावात्मनः प्रेक्ष्य योगी
यत्कुर्याद्यच्च पुत्रप्रभृतिषु नहि तत्तर्क्यमत्रेत्यनुक्तिः।
गीतादिष्वन्त्यकाले यदगणि तदपि प्राच्ययोगप्रकारं
तत्तत्प्राप्यानुरूपे नियतमिति यथापूर्वधीरत्र भाव्या॥

३४-तमाहोबिल-यतिः - 5
  1. आयुस्सीमामित्यादि। असौ योगी – बुद्धिस्थः उपासकः। इह – शरीरे।बहुभिरनिष्टैः – नानाविधैरनिष्टैः। शारीरिदिव्यभौमादिभेदभिन्नैर्देहविश्लेषसूचकैः।आत्मनः — स्वस्य।आयुस्सीमाम् – शरीरिसम्बन्धविवृत्तिसमयम्।प्रेक्ष्य –सम्यगवधार्य। यत् – प्रायश्चितत्दानादिकं यत् कर्तव्यम्।कुर्यात् – आचरेत्। पुत्रप्रभृतिषु च यत् कुर्यात् – पुत्रकलत्रबन्ध्वादिषु विषये यत् दायविभागादिकं अभिमतदानहितानुशासनादिकं च कुर्यात्। तन्न हि तर्क्यम् – तन्न चिन्तनीयं हि।इति – हेतोः। अत्रानुक्तिः" – अस्मिन्प्रकरणे तेषामप्रतिपादनमित्यर्थः। यदुपासकस्याहरश्चिन्तनीयं तदेवात्रोच्यते अन्यदन्त्यकाले वक्तव्यमप्यचिन्त्यमित्यत्रानुक्तमिति भावः। गीतादिषु अन्त्यकाले यदगणि –गीतादिग्रन्थेषु देहावसानसमये कर्तव्यतया यच्चिन्तनमगणि। गीतायामष्टमाध्याये ऐश्वर्याक्षरयाथात्म्यभगवच्चरणार्थिनां" वेद्योपादेयप्रतिपादनपरे ‘कविं पुराणम्’ इत्यादिभिश्लोकैः ऐश्वर्यार्थिप्रभृत्युपासकानां व्यवस्थितततत्तद्गुणविशिष्टतया यच्चिन्तनं" प्रत्यपादि। तचदपि तत्तत्प्राप्यानुरूपे प्राच्ययोगप्रकारे नियतम् – तदपि नष्टैश्वर्यापूर्वैर्यकैवल्यात्मकतत्तत्प्राप्यफलानुरूपे तत्पूर्वोक्तयोगविशेषे प्रतिनियतम्। इति - हेतोः। अत्र – मुमुक्षुविषये तु। यथआपूर्वधीर्भाव्या – उपक्रान्तयोगस्याविच्छेदेनानुसन्धानं" सम्पादनीयमित्यर्थः॥
कुमार-वरदः - 5
  1. योगिनो भाविचिन्ता कर्तव्या चेत् पुत्रादिषु नियमनादिकमपि भावित्वाच्चिन्तनीयमित्याशङ्क्य सर्वं भावि न चिन्त्यम्, यावन्मात्रं" चिन्त्यत्वेन भगवद्गीताषूक्तं तावदेव चिन्त्यमित्याह–आयुरिति। अयमर्थः— बहुभिरनिष्टै र्निमित्तविशेषैरात्मन आयुस्सीमां मरणं" प्रेक्ष्ये योगी यत् कर्म तदुचितं मध्ये कुर्यात् यच्च पुत्रप्रभृतिषु भावि कृत्याकृत्यनियमनं कुर्यत् तन्न तर्क्यम्– नहि तच्चिन्तनीयम्।इति तस्यात्रनुक्तिरेव। नहि योगिनः भावि सर्वं कार्यं दृष्टमड़ृष्टं वा चिन्तनीयमिति प्रमाणमस्ति। किं तर्हि चिन्तनीयमित्याशङ्क्य चिन्त्यविशेषमाह- गीतादिष्विति। भगवद्गीतादिष्वन्त्यकाले कर्तव्यतया यत् चिन्तनमगणि तदपि पूर्वसिद्ध योगप्रकारे तच्चत्प्राप्यानुरूपे नियत मेव भवती ति यथापूर्वधीरत्र भाव्या उपक्रान्तयोगस्याविच्छेदेनानुसन्धानमत्र भाव्यमित्यर्थः। अन्त्यकाले चिन्त्यं सर्वं भगवद्घीतादिषेवेव विस्तरेण द्रष्टव्यम्॥
मूलम् - 5

5.आयुस्सीमामनिष्टैरिह बहुभिरसावात्मनः प्रेक्ष्य योगी
यत्कुर्याद्यच्च पुत्रप्रभृतिषु नहि तत्तर्क्यमत्रेत्यनुक्तिः।
गीतादिष्वन्त्यकाले यदगणि तदपि प्राच्ययोगप्रकारं
तत्तत्प्राप्यानुरूपे नियतमिति यथापूर्वधीरत्र भाव्या॥