विश्वास-प्रस्तुतिः - 40
- निर्दिष्टास्माच्छरीरादिति नियतिरतो यावदित्यादिशब्दः
कर्म प्रारब्धकार्यं कथयति विदुषस्तच्छरीरान्तमेव।
मैवं प्रारब्धचैत्र्यान्न तदवधिविधौ व्याप्रियेतान्यपर्याद्
भूयोदेहस्मृतेश्चान्तिमवपुषि दृढोद्यत्समाधेस्तु मोक्षः॥
३४-तमाहोबिल-यतिः - 40
- निर्दिष्टेत्यादि। अस्माच्छरीरादिति नियतिर्निर्दिष्टा – ‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्जोतिरुपसम्पद्य’ इति वाक्ये अस्माच्छरीरादिति विद्यारम्भशरीरपरामर्शात् तदवसान एव ब्रह्मप्राप्तिनियतिर्निर्दिष्टा। अतः –अस्मात् कारणात्। यावदित्यादिशब्दः" – ‘तस्य ताददेव चिरं यावन्न विमोक्ष्ये’ इत्यत्र विलम्बवाचकोऽपि यावन्नविमोक्ष्य इत्यादिशब्दः। विदुषः – ब्रह्मविदः। प्रारब्घधकार्यं कर्म – आरब्धफलकं कर्म। तच्छरीरान्तमेव कथयति – विद्यारम्भशरीरावसानान्तमित्येव प्रतिपादयति। ‘अस्माच्छरीरात्’ इति श्रुत्यन्तरबलादिति भावः।मैवम् – एवं मा शङ्किष्ठाः। प्रारब्धचैत्र्यात् – ‘यावन्न विमोक्ष्ये’ इत्यादिवाक्यं कर्तृप्रारब्धकर्मणां तत्तत्पुरुषभेदेन एदद्वित्रिचतुरादिशरीररानुभाव्यफलकत्वेन विचित्ररूपत्वात्। आन्यपर्यात् – प्रारब्धकर्मावसानभाविमोक्षविधौ स्वस्य तत्परत्वात्। भूयोदेहस्मृतेश्च – भारतभागवतादिषु डभरतविदुरगाङ्गेयादीनामनेकदेहसम्बन्धस्य महर्षिभिस्मृतत्वाच्च। तदवधिविधौ – धिद्यारम्भशरीरावसान एव मोक्ष इति विधाने न व्याप्रियेत – न प्रवर्तेत। अतश्च प्रार्बधकार्यं" कर्म तत्तत्पुरुषभेदकृततारतम्यादिस्वस्वरूपानुफलानुभवनिवर्ततया नेयच्छररावसानमिति निश्चितुं शक्यम्। अन्तिमवपुषि – तत्र प्रारब्धफलकर्मानुभवावसानदेहे। दृढोद्यत्समाधेस्तु – दृढतरसमुन्मिषत्परभक्तिरूपसमाधेः पुरुषस्य। मोक्षः – तदवसाने सिध्यतीति शेषः॥
कुमार-वरदः - 40
- ’ आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसाने,उत तच्छरीरावसाने शरीरान्तरावसाने वेतेयनियमः’ इति चिन्तनात् भाष्ये सङ्गतिर्व्यक्ता।तदर्थरूरावसाने शरीरान्तरावसाने वेत्यनियमः प्राब्धकर्मफलभोगावसानत्वमवगमयति।अत्र पूर्वपक्षं सोपपत्तिकमभिधाय तदन्यथासिद्ध्या प्रतिक्षिपति– निर्दिष्टे ति।इत्थं किल पूर्वपक्षी मन्यते–’ एष सम्प्रसादोऽस्माच्छरीरात्समुत्थायपरञ्ज्योतिरूपसम्पद्य ’ इत्यस्मिनेवाक्ये खल्वस्माच्छरीरादित्युच्यते तेन विद्यारम्भशरीरावसान एव ब्रह्मप्राप्तिः।तेन ’ यावन्न विमोक्ष्ये’ इत्यावाक्यं प्राब्धकार्यं" कर्म कथय त्येव अथापि विदुषस्त्वच्छरीरान्तमेव तत्कर्म भवति तस्मात् तस्यापि वाक्यस्य न विरोध इति।तदिदं दूषयति– मैव मिति।तत्र हेतुमाह– प्रारब्धे ति।’ यावन्ना विमोक्ष्ये’ इत्यादिवाक्यं प्रारब्भकार्यं कर्म कथय त्वेव अथापि विदूषस्तच्छरीरान्तमेव तत्कर्म भवति तस्मेत् तस्यापि वेक्यस्य न विरोध इति।तदिदं दूषयति– मैव मिति।तत्र हेतिमाह- प्राब्धते ति।’ यावन्न विमोक्ष्ये’ इत्यादिवाक्यात् प्रारब्धा नां कर्माणां वैचित्र्यान्न तच्छरीरावसाने मोक्षः।अस्माच्छरीरादिति वचनं बुद्धिस्थचरमशीरीरावसानपरमिति मन्तव्यम्।
मूलम् - 40
- निर्दिष्टास्माच्छरीरादिति नियतिरतो यावदित्यादिशब्दः
कर्म प्रारब्धकार्यं कथयति विदुषस्तच्छरीरान्तमेव।
मैवं प्रारब्धचैत्र्यान्न तदवधिविधौ व्याप्रियेतान्यपर्याद्
भूयोदेहस्मृतेश्चान्तिमवपुषि दृढोद्यत्समाधेस्तु मोक्षः॥
विश्वास-प्रस्तुतिः - 41
- नन्वत्रास्मादितीदं वितथमिह पदं स्याच्छरीरे न तु स्यात्
कारागारौपमित्यप्रथनपरतया तस्य साफल्यसिद्धेः।
त्याज्यत्वव्यक्तये हि प्रभुरसुखमिमं लोकमित्यप्यगायद्
भूतावासं विशिंषन्निममिति च मनुर्हेयभावं व्यनक्ति॥
३४-तमाहोबिल-यतिः - 41
- नन्वत्रेत्यादि। इह –‘अस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुपसम्पद्य’ इत्यस्मिन्वाक्ये। अत्र शरीरे– विषये। अस्मादितीदं" पदम्– विशेषणतया प्रयुक्तमस्मादित्येतत्पदम्। वितथं स्यान्ननु– वितथमेव। नन्वित्याक्षेपार्थो वा। नतु स्यात्– इदन्तु शङ्कनं" न युक्तं स्यात्। कारागारौपमित्यप्रथनपरतया– शरीरस्य कारागारतौल्यप्रकाशनार्थत्वेन। तस्य– अस्मादितिपदस्य। साफल्यसिद्धेः– सप्रयोजनत्वलाभात्। प्रभुः– श्रीकृष्णः। त्याज्यत्वव्यक्तये– हेयत्वप्रकाशनाय। असुखमिमं लोकमित्यय्यगायद्धि– अनित्यमसुखं लोकमिमं" प्राप्य भजस्य माम् इत्यत्र अनित्यमसुखमिति विशेषयाप्यतृप्त्या अङ्कुलीनिर्देशपूर्वकमिममिति विष्ठामूत्राद्यात्मकत्वादिशरीरदोषप्रदर्शनं" गीतायामकरोद्धि। मनुः भूतावासमिममिति च विशिंषन् हेयभावं व्यनक्ति– स्वायम्भुवमनुश्च स्वस्मृतौ अस्थिस्थूणं स्नायुबन्धं मांसशोणितलेपनम्। चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः॥ जराशोकसमाविष्टं रोगायतनमातुरम्ष रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत्॥ इत्यत्र भूतावासशब्दवाच्यं शरीरमस्थिस्थूणत्वादिभिर्विशेष्याप्यतृप्त्या खलु। तथाचात्राप्यस्मादितिपदस्य प्राप्यविशेषणूभूतपरज्योतीरूपत्वप्रतिकोटिभूतानन्तदोषास्पदत्वप्रदर्शनेन कारागारसाम्यप्रकटनार्थत्वात् साफल्यं सिद्धमिति वैफल्यशङ्कानवकाश इति भावः॥
कुमार-वरदः - 41
- नन्वत्रास्माच्छरीरादिति पदस्य साफल्यं सम्यगेव भवता नोक्तमित्याशङ्क्य तस्य पदस्यात्यान्ततसाफल्यमस्तीति समाधातुमारभते– नन्वित। शरीरे विशेषणतया प्रयुक्तमस्मादिति पदं वितथमित्याशङ्का। इदमवितथमित्याह – नन्विति। शरीरविशेषणस्यास्मादिति पदस्य तादात्विकदुरवस्थाप्रकाशनपरत्वेन साफल्यमस्त्येव। अनन्तगरुडविष्वक्सेनादिवदनवरतभगवदुभव भवयोग्यस्य कारागारनिवास इव कश्मले पुनस्स्मिन्देहे निवासः। तमिममर्थं भगवानेव साक्षात्प्राहेति दर्शयति – त्याज्यत््वेति।“अनित्यमसुखंलोकमिमं “इति ह्युच्यते भगवतैव। देहस्य त्याज्यत्वं न केवलं भगवता गतम महर्षयोऽप्याहुरित्याह – भूतावासमिति। अस्थिस्थूणं स्नायुबन्धं मांसशोणितलेपनम्। चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीशयोः।जराशोन्न्तकसमाविष्टं” रोगायतमनातुरम्। रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत्॥ इति भगवतामनुनोक्तम्॥
मूलम् - 41
- नन्वत्रास्मादितीदं वितथमिह पदं स्याच्छरीरे न तु स्यात्
कारागारौपमित्यप्रथनपरतया तस्य साफल्यसिद्धेः।
त्याज्यत्वव्यक्तये हि प्रभुरसुखमिमं लोकमित्यप्यगायद्
भूतावासं विशिंषन्निममिति च मनुर्हेयभावं व्यनक्ति॥
विश्वास-प्रस्तुतिः - 42
42.सर्वे जीवास्समानास्स्वत इह विविधं कर्म चानादितुल्यं
वैषम्यादिश्च दोषो न भवति भगवत्यन्यथा शास्त्रभङ्गः।
मुक्तौ नातो विलम्बप्रभृति घटत इत्यल्पसारोऽनुयोगः
चित्रे कर्मप्रवाहे फलसमयभिदा ह्याश्रिता सर्वतन्त्रैः॥
३४-तमाहोबिल-यतिः - 42
- सर्वे जीवा इत्यादि। सर्वे जीवाः– सर्वे जीवात्मनः। स्वतः-स्वरूपेण। समानाः– तुल्याः। इह–लोके। विविधं कर्मच– तेषां पुण्यपापारूपं” कर्म च। अनादि– अनादित्वेन। तुल्यम्– समम्। भगवति– सर्वेषामप्युपास्ये फलप्रदे च भगवति पुरुषोत्तमे। वैषम्यादिर्दोषश्च न भवति– वैषम्यनैघृण्यदोषश्च भगवतस्सर्वसमत्वेन न सम्भवति। अन्यथा शास्त्रभङ्गः– यदि भगवतो वैषम्यमुच्यते तर्हि वैषम्यवारकशास्त्रस्य भङ्गस्स्यात्। अतः– उक्तकारणात्। मुक्तौ– मुक्तिविषये। विलम्बप्रभृति– जन्मान्तरादिविलम्बस्तज्जन्मन्येव केषांचिन्मुक्तिः" केषाञ्चिज्जन्मान्तरे केषाञ्चित्कल्पवसान इति वैषम्यमित्यर्थः। न घटते– न युज्यते। इत्यनुयोगः– एवं प्रश्नः। अल्पसारः– असार इत्यर्थः। कर्मप्रवाहे चित्रे फलसमयभिदा सर्वतन्त्रैराश्रिता हि– जीवकर्मप्रवाहे विचित्रे सति फलानां नरकस्वर्गमोक्षादिरूपाणां" कालभेदव्यवस्था सर्वतन्त्रैस्सर्वतान्त्रिकैरप्यङ्गीकृता खलु। अद्य कश्चिज्जीवश्चतुर्मुखपदं प्राप्नोति पूर्वमेव कश्चित्तत्पदं प्राप ततःपूर्वमेव च कश्चित्तत्पदं प्राप एवं नरकस्वर्गादिविषयेऽपि अनुयोज्यम्। तद्वदेव कालभेदेन मुमुक्षा तत्साधनानुष्ठानं फलावाप्तिश्चेति न कोऽपि मुक्तिमात्रे विशेषः। अनादिकर्मप्रवाहवैचित्र्यादिति तु तत्र चात्र च तुल्यमिति भावः॥
कुमार-वरदः - 42
42.अत्र कश्चिदनुयुङ्क्ते – नन्वेतन्नोपपद्यते भगवति सर्वसमत्वेन वर्तमाने परमकारुणिके सति कथमेकस्याधुनामुक्तिरतरस्य श्वो वा परश्वो वेति तथा च सति सर्वेषामेकदैव मुक्तिस्स्सयात् अथवा कदाचिदपि न मुक्तिस्स्यादिति।तदिदमाह – सर्वेइति। सर्वेऽपि जीवास्समानाः, विविधमपि कर्मानादित्वेन तुल्यम्। कर्मणस्तुल्यत्वेऽपि भगवतो वैषम्यादिदोऽस्तीति वक्तुमपि न शक्यते। यदि वैषम्यमुच्यते तदा वैषम्यनैर्घृण्यादिनिवारकशास्र्भङ्गस्स्यात्। अतो मुक्तौ कस्यचित्पूर्वं कस्यचिदुपरिष्टादिति वैषम्यं न स्यादेवेति। अयमनुयोगोऽत्यन्तमल्पसार इव। एतावन्तं कालमनेकविधन्यायश्रवणपरिपक्त्रिमचेतसस्तु भवतः कोऽयमनुयोग इत्यपहासेनाह – अल्पसार इति। अल्पसारत्वमेव प्रकटयति – चित्र इति। कर्मप्रवाहे विचित्रे सति फलकालविभागस्सर्वैरपि तान्त्रिकैराश्रीयते। कश्चिदधुना चतुर्मुखपदं प्राप्नोति, पूर्वमेव कश्चित्, कश्चित्पुनश्चिरकालान्तरं प्राप्स्यतीति सोऽययं विभागः केन कारणेन। एवं स्वर्गनरकादिप्राप्तावप्यनुयोज्यम्। अननुयोज्यैवेयमनादिकर्मप्रवाहवैचत्री प्रमाणप्रतिपन्नेति चेत् तर्हि कालभेदेन मुमुक्षुत्वसिद्धावपि तदेवाननुयोज्यत्वमुत्तरत्वेन प्रयोज्यमिति मूकीभवन्तु भवन्त इति॥
मूलम् - 42
42.सर्वे जीवास्समानास्स्वत इह विविधं कर्म चानादितुल्यं
वैषम्यादिश्च दोषो न भवति भगवत्यन्यथा शास्त्रभङ्गः।
मुक्तौ नातो विलम्बप्रभृति घटत इत्यल्पसारोऽनुयोगः
चित्रे कर्मप्रवाहे फलसमयभिदा ह्याश्रिता सर्वतन्त्रैः॥
विश्वास-प्रस्तुतिः - 43
43.आवर्त्या ब्रह्मविद्या त्वसकृदहमिति स्याच्च न स्यात्प्रतीके
कर्माङ्गेऽर्कादिदृष्टिः प्रणिधिरपि भवेत्सासनः प्रत्यहञ्च।
पापे पुण्ये च नाशादिकमथ तु तयोर्भोग्यतारब्धकार्ये
कार्यत्वं स्वार्हवृत्तेरिति कथितमिहारब्धशान्तौ च मोक्षः॥
३४-तमाहोबिल-यतिः - 43
- आवर्त्येत्यादि। ब्रह्मविद्या तु– ब्रह्मविषयिणी तत्प्राप्तिहेतुभूता च विद्या साधारणासाधारणगुणस्थानादिविषयिणी स्मृतिः। असकृदावर्त्या– असकृदावर्तनीयेति। अयम् ’ आवृत्तिरसकृदुपदेशात् ’ इत्यादेः प्रथमाधिकरणस्यार्थः। अहमितिच आवर्त्या स्यात्– अहमित्यहङ्ग्रहेणानुसन्धानं कार्यमिति। अयम् ’ आत्मेति तूपगच्छन्ति ’ इत्यादेर्द्वितीयाधिकरणस्यार्थः। प्रतीकेऽहमिति न स्यात्– प्रतीकोपासनेऽहमिति बुद्धिर्न कार्येति।अयं" ’ न प्रतीके ’ इत्यादेस्तृतीयाधिकरणस्यार्थः। कर्माङ्गेऽर्कादिद्दष्टिः– यज्ञाङ्गभूतोद्गीथादौ आदित्यादिभावनैव कार्या न त्वादित्यादावुद्गीथादिभावनेति। अयम् ’ आदित्यादिमतयश्चाङ्गउपपत्तेः ’ इत्यस्य चतुर्थाधिकरणस्यार्थः। प्रणिधिरपि सासनो भवेत्– उपासनमासनसहितमेव कार्यमिति। अयम् ’ आसीनस्सम्भवात् ’ इत्यादेः पञ्चमाधिकरणस्यार्थः। प्रणिधिः प्रत्यहञ्च भवेत्– तदेतदुपासनं प्रत्यहं प्रायणान्तं कार्यमिति। अयम् ’ आप्रायणात्तत्रापि हि द्दष्टम्’ इत्यादेष्षष्टाधिकरणस्यार्थः। पापे पुण्ये च नाशादिकम्– विद्यायाः पूर्वमुत्तरञ्चानुष्ठीते पापे नाशोऽश्लेषश्च, एवं विद्यायाः पूर्वमुत्तरञ्चानुष्ठीते पुण्ये च नाशोऽश्लेषश्च। इदमर्थद्वयं क्रमात् ’ तदधिगम उत्तरपूर्वाधयोः’ इत्यादेस्सप्तमाधिकरणस्य इतरस्याप्येवम् इत्यादेरष्टमाधिकरणस्य चावगन्तव्यम्। अथ तु– तदुपरितने अनारब्धकार्ये एव तु इत्यादिके नवमाधिकरणे तु। तयोः– पुण्यपापयोः। आरब्धकार्ये– फलप्रदानप्रवृत्ते कर्मणि विषये। भोग्यता– फलानुभवेनैव नाश्यता। स्वार्हवृत्तेः" कार्यत्वम्– स्वस्ववर्णाश्रमाद्यनुरूपधर्मस्य विद्यावृद्ध्यर्थत्वेनानुष्ठेयत्वमिति। अयम् ‘अग्निहोत्रादि तु’ इत्यादेर्दशमाधिकरणस्यार्थः। आरब्धशान्तौ मोक्षश्च– तत्तत्पुरुषभेदाधीनतारतम्ययुक्तप्रारब्धकर्मनिवृत्तौ मोक्षलाभ इति च। अयं ’ भोगेन त्वितरे ’ इत्यादेरेकादशाधिकरणस्यार्थः. इति– एवं क्रमेणोक्तमर्थजातम्। इह- अस्मिंश्चतुर्थाध्याये प्रथमपादे। कथितम्– प्रतिपादितम्। सूत्रकारैरिति शेषः॥ इति चतुर्थाध्यायस्य प्रथम पादः॥ चतुर्थाध्यायस्य द्वितीयः पादः"
कुमार-वरदः - 43
- चतुर्थाद्यपादाधिकरणानां प्रधानार्थभेदान् परिगणयति – आवर्त्येति। असकृतावर्त्या ब्रह्मविद्येत्याद्यधकरणार्थः। अहमित्यनुसन्धानं" कर्तव्यमित्यनन्तराधिकरणे निर्णीतम्। तृतीये पुनः प्रतकोपासने नाहमितिबुद्धिः कर्तव्येत्यभिहितम्। चतुर्थे कर्माङ्गेष् वादित्यादमतिः" कर्तव्येति। पञ्चमे त्वासनसहितस्य प्रणिधिः। षष्ठे प्रत्यहमनुसन्धानम्। सप्तमाष्टमयोः पुनरुत्तरपूर्वपुण्टपापयोरश्लेषविनाशौ। नवमे तु तयोः पुण्यपापयोरारब्धकार्ये एव भोग्यत्वम्। दशमे वर्णाश्रमधर्मयोरवश्यानुष्ठेयत्वम्। चरमाधिकरणे प्रारब्धकर्मावसाने मोक्ष इति कथितमिदमर्थजातम्॥ चतुर्थस्य अध्यायस्य द्वितीय पादः"
मूलम् - 43
43.आवर्त्या ब्रह्मविद्या त्वसकृदहमिति स्याच्च न स्यात्प्रतीके
कर्माङ्गेऽर्कादिदृष्टिः प्रणिधिरपि भवेत्सासनः प्रत्यहञ्च।
पापे पुण्ये च नाशादिकमथ तु तयोर्भोग्यतारब्धकार्ये
कार्यत्वं स्वार्हवृत्तेरिति कथितमिहारब्धशान्तौ च मोक्षः॥