10 अग्निहोत्राद्यधिकरणम्

विश्वास-प्रस्तुतिः - 38

38.श्लेषश्चेदस्य पुण्यैस्स तु भवति तदा बन्ध इत्यभ्युपेत्यं
यद्यश्लेषो भवेत्तैः परविदि विफला पुण्यनिष्ठा परस्तात् ।
तस्माद्धर्मोऽप्यधर्मक्रमत इह परित्याज्य एवेत्ययुक्तं
न स्याद्बन्धाय विद्याङ्कुरमुपचिनुते ह्यग्निहोत्रादिधर्मः॥

३४-तमाहोबिल-यतिः - 38
  1. श्लेषश्चेदित्यादि।अस्य –ब्रह्मविदः। पुण्यैः –अग्निहोत्रादिधर्मैः। श्लेषशअचेत् – फलानुभवयोग्यतारूपस्सम्बन्धोऽङ्गीकृतश्चेत्।स तु – स एव सम्बन्धः। तदा – तदैव। बन्धो भवति –मोक्षविरोधी भवति।इत्यभ्युपेतम् – इति भवद्भिरितः पूर्वमङ्गीकृतं हि। परविदि – परमात्मोपासके।तैर्यद्यश्लेषो भवेत् – अग्निहोत्रादिभिस्साकं फलानुभवयोग्यताभावरूपोऽसम्बन्धो यदि भवेत्। परस्तात् पुण्यनिष्ठा विफला – उत्तरकालेऽग्निहोत्रादिधर्मानुष्ठानं विफलमेव। तस्मात् – उक्तोपपादनात्। धर्मोऽपि – अग्निहोत्रादिधर्मोऽपि। अधर्मक्रमतः – अधर्मतुल्यतया। इह – ब्रह्मविदि विषये। परित्याज्य एव – अननुष्ठेय एव। इत्ययुक्तम् – इति शङ्कनमयुक्तम्। बन्धाय न स्यात् – अग्निहोत्रादिधर्मो बन्धहेतुर्न भवेत्। अग्निहोत्रादिधर्मो विद्याङ्कुरमुपचिनुते हि – अग्निहोत्रादिवर्णाश्रमधर्मो विद्याया अङ्कुरस्थानीयामन्तः करणशुद्धिमभिवर्धयति हि। विद्यानिष्पत्त्यर्थमेव तेषामनुष्ठानम्, विद्यानिष्पत्तिरूपं फलं न बन्धकम्,अपि तु साक्षआन्मोक्षहेतुरिति न पूर्वोक्तानुपपत्तिरिति भावः॥
कुमार-वरदः - 38
  1. अत्र भाष्ये ’’ इतरस्याप्येवमसंश्वेषः’ इति विद्याबलात् सुक-तस्याप्यसंश्लेष उक्तः।अग्निहोत्रादिनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वसामान्येन तत्फलस्याश्लेषादच्छितोऽननुष्ठाने’’ इति शङ्क्या सङ्गतिपुक्ता।तदर्थविचारस्तु–किमग्निहोत्राद्याश्रमधर्मो विदुषः कार्याश्लेषादननुषठेय उतानुष्ठेयः।किमश्लेषवचनं सर्वसुकृतविषयमुत विग्याङ्गाश्रमधर्मव्यतिरिक्तसुकृतविषयं।किंविद्वत्सम्बन्ध्याश्रमधर्मस्यापि फलं विद्याव्यतिरिक्तमुत विद्यैवेति।अत्र पूर्वपक्षमारचरयति– श्लेष इति। यद्यश्लेषस्दा परवि द्याग्निहोत्रादि पुण्यनिष्ठा निष्फला स्यात्।अतःकारणा द्धर्मोऽप्यधर्मक्रमेणैव परित्याज्यः स्यादिति।तदिदं दूषयति– अयुक्त मिति।तत्र हेतुमाह– न स्या दिति।यद्यग्निहोत्रादिर्बन्धाय स्यात् तदा ह्ययुक्तः, स तु बन्धाय न स्यात् अपि तु मोक्षस्योपकुरुत इत्याह– विद्याङ्कुर मिति। ब्रह्मविद्याङ्कुर मन्तः करणशुद्धि मुपचिनुते ह्यग्निहोत्रादिधर्म इति।उपकारके प्रतिकबलत्वबूद्धिर्भवतः पापनूलेतेयर्थः॥
मूलम् - 38

38.श्लेषश्चेदस्य पुण्यैस्स तु भवति तदा बन्ध इत्यभ्युपेत्यं
यद्यश्लेषो भवेत्तैः परविदि विफला पुण्यनिष्ठा परस्तात् ।
तस्माद्धर्मोऽप्यधर्मक्रमत इह परित्याज्य एवेत्ययुक्तं
न स्याद्बन्धाय विद्याङ्कुरमुपचिनुते ह्यग्निहोत्रादिधर्मः॥

विश्वास-प्रस्तुतिः - 39
  1. सर्वापेक्षेत्यवोचन्ननु परभजने कर्मणामङ्गभावं
    भूयो वक्त्यग्निहोत्रेत्यपि तदिति मुधा ह्येकमत्रेति चेन्न।
    विद्याया नैरपेक्ष्यात्तदपरिकरता शङ्किता प्रागपास्ता
    श्लेषाभावप्रसक्ता त्विह पुनरिति तन्नीतिवैषम्यसिद्धेः॥
३४-तमाहोबिल-यतिः - 39
  1. सर्वापेक्षेत्यादि।ननु –प्रश्ने। परभजने – परमातमोपासने। कर्मणाम् – अग्निहोत्रादिवर्णाश्रमधर्माणाम्। अङ्गभावम् – अङ्गत्वम्। सर्वापेक्षेत्यवोचत् — ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ इति सूत्रेण पूर्वमुक्तवान्। तत् – उक्तमेव धर्माणां विद्याङ्गत्वम्। अग्निहोत्रेति – ‘अग्निहोत्ारदिषु तत्कार्यायैव तद्दर्शनात्’ इति प्रकृतसूत्रेण।भूयोऽपि वक्ति – पुनश्चाभिदधाति। इति अत्र – एवंरूपे सूत्रद्वये। एकं मुधा हि – अन्यतरेण पर्याप्तेरितरद्विफलं ह। इति चेन्न – इति शङ्क्यते चेन्नैतद्युक्तम्। विद्यायाः" – उपासनायाः। नैरपेक्ष्यात् – अङ्गनिरपेक्षत्वात्। शङ्किता – पूर्वपक्षिता। तदपरिकरता – अग्निहोत्राद्यङ्गकत्वाभावः। प्रागपास्ता – ‘सर्वापेक्षा’ इति सूत्रेण पर्यहारि। इह पुनस्तु – ‘अग्निहोत्रादि’ इत्यस्मिन् सूत्रे तु। श्लेषाभावप्रसक्ता – फलसम्बन्धासम्भवप्रसङ्गापतिता तदपरिकरता अपास्ता। इति तन्नीतिवैषम्यसिद्धेः – एवं न्यायप्रवृत्तिप्रकारवैषम्यसिद्धेरित्यर्थः॥
कुमार-वरदः - 39
  1. अत्र पौनरुक्त्यमाशङ्क्य पिरहरति– सर्वे ति।’ सर्वापेक्षा’ इत्यस्मिन्सूत्रे कर्मणाभङ्गभावं परभजने ह्यकथयत् अधुनापि ’ अगिनिहोत्रादि’ इत्यनेन तदेवाभिधियते तेनोभयो रेकं निरर्थकमिति।तदेतद्दुषयति– ने ति।अत्रोभयोः प्रयोजनविशेषाभिधानेन पौनरुक्त्यं परिहरति– विद्याया इति।तत्र हि विद्याया नैरपेक्ष्या भिधानेन सापेक्षत्वमुक्तम्। तदपरिकरता विद्याया निरङ्गत्वाभिधानं सामान्येन प्रागप्रास्ता ।अधुना पुनस्सुकृताश्लेषप्रसङ्गे सुकृतत्वाविशेषादग्निहोत्रादिनां परित्याज्यत्वमाशङ्क्य तदेव पुनः प्रतिषिध्यत इति न पौनरुक्त्यप्रसङ्गः। नीतिवैषम्यसिद्धेरितिरथः ॥
मूलम् - 39
  1. सर्वापेक्षेत्यवोचन्ननु परभजने कर्मणामङ्गभावं
    भूयो वक्त्यग्निहोत्रेत्यपि तदिति मुधा ह्येकमत्रेति चेन्न।
    विद्याया नैरपेक्ष्यात्तदपरिकरता शङ्किता प्रागपास्ता
    श्लेषाभावप्रसक्ता त्विह पुनरिति तन्नीतिवैषम्यसिद्धेः॥