विश्वास-प्रस्तुतिः - 36
- नश्यत्वारब्धकार्यं परविदि दुरितं नह्यधीतो विशेषः
सर्वे पाप्मान इत्यप्यभिहितमिति चेन्नोपलम्भादिबाधात्।
सद्विद्या तस्य तावच्चिरमिति च वदत्यस्मरंश्चागमज्ञाः
जीवन्मुक्त्यादिशब्दोऽप्युपचरणपरो मोहितास्तेन मन्दाः॥
३४-तमाहोबिल-यतिः - 36
36.नश्यत्वित्यादि।परविदि – परमात्मोपासके। आरब्धकार्यं दुरितम् – फलप्रदानाय प्रवृत्तं दुरितमपि। नश्यतु –अनारब्दकार्यमिवारब्धकार्यमपि दुरितं नश्यत्वित्यर्थः। विशेषोऽधीतो नहि – अनारब्धकार्यमेव नश्यति आरब्धकार्यन्तु न नश्यतीति विशेषो वेदे नाधीतो हि। सर्वे पाप्मान इत्यप्यभिहितम् – ‘सर्वे पाप्मानोऽतो निवर्तन्ते’ इति वाक्ये सर्वे पाप्मानो नश्यन्तीत्यविशेषेण सर्वेषामपि पाप्मनां निर्वतनमभिहितम्। इति चेन्न – इति शङ्क्यते चेत् नैतद्युक्तम्। उपलम्भादिबाधात् –प्रत्यक्षबाधानुमानबाधआदागमबाधाच्चेत्यर्थः। उपलभ्यते हि ब्रह्मविदामपि सुखदुःखानुवृत्तिः। अन्यथा तदनुकूलप्रवृत्तिनिवृत्त्यादिकं न स्यादित्यनुमानबाधः। ‘तस्य तावदेव चिरम्’ ‘स खल्वेवं वर्तयन्यावदायुषम्’ इत्यादिश्रुतिबाधः। आगमबाधमेव विशेषतः प्रकटयति – सद्विद्येत्यादि। सद्विद्या – छान्दोग्यषष्ठप्रपाठकः। तस्य तावच्चिरमिति वदति च – ’ तस्य ’ ब्रह्मविदः ’ तावदेव’ शरीरावसानपर्यन्तमेव ‘चिरम्’ विलम्बः, इति वदति। तथा च विद्यारम्भसमय एवारब्धकार्यकर्मनाशेऽङ्गीकृते तस्याश्श्रुतेर्बाधो भवेदिति भावः। आगमज्ञाः" — पराशरादयः। अस्मरंश्च – पुराणसंहितावचनैस्स्वयोगमहिमसाक्षात्कृतश्रुत्यर्थमस्मार्षुः। यथा श्रीविष्णुपुराणे षष्ठेंऽशे परमयोगिनः" केशिध्वजस्याख्याने “केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः। बुभुजे विषयान् कर्म चक्रे चानभिसंहितम्॥ अकल्याणोपभोगैश् क्षीणपापमलस्तथा। अवाप सिद्धिमत्यन्ततापक्षयफलां द्विज॥“इति। जीवन्मुक्त्यादिशब्दोऽपि — ‘तमेवं विद्वामनृत इह भवति’ इत्याद जीवन्मुक्त्यादीप्रतिपादकशब्दोऽपि। उपचरणपरः – ‘विगतेच्छाभयक्रोधो यस्सदा मुक्त एव सः’ इत्यादिवदासन्नसिद्धितात्पर्याद्युपचारपरः। तेन – एवमौपचारिकार्थपरेणापाततोऽन्यार्थप्रत्यायकेन ‘अमृत इह भवति’ इत्यादिशब्देन। मन्दाः – पूर्वापराविरुद्धार्थनिर्धआरणापटुधियः” परे। मोहिताः –मोहं प्रापिताः। विरुद्धार्थे सदर्थत्वबुद्धिं प्रापिताः॥
कुमार-वरदः - 36
- अत्र सङ्गतिर्भाष्ये ’ ब्रह्मविद्योत्पत्तेः पूर्वोत्तरभाविनोस्सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ। ततः पूर्वभाविनोस्सुकृतदुष्कृतयोः” किमविशेषेण विनाशः उतानारब्धकार्ययोरेवेति विशये ’ इति। तदर्थविचारस्तु- किं पूर्वे सुकृतदुष्कृते अविशेषेण नश्यत उतानारब्दफले। किं ’ सर्वं पाप्मानः ’ इति सर्वशब्दस्यानुरोधो न्याय्य उत ’ तस्य तावत् ’ विलम्बश्रुत्यनुरोधः। किं कुलालचक्रभ्रमणवत् कर्मविनाशेऽपि संस्कारेण शरीरधारणमुपपद्यते नेति। किमीश्वरप्रीत्यप्रीतिव्यतिरेकेण संस्कारकल्पनायां" प्रमाणमस्ति नेति। अत्र पूर्वपक्षमनुवदति– नश्य त्विति। अनारब्धकार्यव दारब्धकार्य मपि दुरितं नश्यत्येव। तत्र विशेषाभावादिति हेतुमाह- नही ति। अनारब्धकार्यमेव नश्यति आरब्धकार्यं तु न नश्यतीति विशेषो न ह्यधीत इत्यर्थः। कथमनधीत इत्याशङ्क्य साधारण्येनाध्ययनमाह- सर्व इति। पाप्मानस्सर्व इति हि साधारण्येनोक्तत्वादुभयमपि नश्यतीति वक्तव्यमिति। तमिमं पूर्वपक्षं प्रतिक्षिपति- नेति। तत्र हेतुमाह- उपालम्भादी ति। प्रत्यक्षबाधादनुमानबाधादागमबाधाच्चेत्यर्थः। उपलभ्यते हि ब्रह्मविदामपि सुखदुःखानुवृत्तिः। अन्यथा तदनुकूलप्रवृत्तिनिवृत्यादिकं न स्यादित्यनुमानबाधः। आगमबाधोऽपि ’ तस्य तावदेव चिरम् ’ ’ स खल्वेवं वर्तयन् ’ इत्यादिवचनबाधः। आगमबाधमेव विशेषतः प्रकटयति- सद्विद्ये ति। अस्मरंश्चागमज्ञा इति- पराशरपाराशर्यादयः ’ स्वकर्मणा तमभ्यच्य सिद्धिं विन्दति मानवः’ इति वचनसहस्रैर्ब्रह्मविदामपि भगवदाराधनरूपेण विद्याङ्गकर्मणामवश्यकर्तव्यता मस्मरन् । तर्हि ’ तमेवं विद्वानमृत इह भवति ’ इति जीवन्मुक्तिवचनं कथं स्यादित्याशङ्क्याह- जीवन्मुक्ती ति। इहामृतत्ववचनममृतप्रायत्वादौपचारिकमित्यर्थः। तर्हि मृषावादिनो जीवन्मुक्तिमेवात्यादरेण प्रतिष्ठापयन्ति, तत्कथमिति वदतस्तु शिष्यस्य कस्यचित् गतानुगतिकस्योत्तरमाह- मोहिता इति। श्रुतिवाक्यस्याभिप्रायमजानाना मन्दा जीवन्मुक्तिवादं मौढ्यादेव प्रलपन्तीत्यर्थः॥
मूलम् - 36
- नश्यत्वारब्धकार्यं परविदि दुरितं नह्यधीतो विशेषः
सर्वे पाप्मान इत्यप्यभिहितमिति चेन्नोपलम्भादिबाधात्।
सद्विद्या तस्य तावच्चिरमिति च वदत्यस्मरंश्चागमज्ञाः
जीवन्मुक्त्यादिशब्दोऽप्युपचरणपरो मोहितास्तेन मन्दाः॥
विश्वास-प्रस्तुतिः - 37
37.रोगाद्यारम्भकाणां प्रशमनविधयस्सन्ति दानार्चनाद्याः
प्रत्येतुस्स्वावताराद्यपि विभुरपुनर्जन्मतामप्यगायत्।
तस्मादारब्धकार्ये फलनियतिवचो दुर्घटं भाति मैवं
प्रायश्चित्तोज्झितानां ननु फलनियतिस्सूत्रकाराद्यभीष्टा॥
३४-तमाहोबिल-यतिः - 37
- रोगाद्यारम्भकाणामित्यादि। रोगाद्यारम्भकाणाम् –रोगा ज्वरातिसारादयः, आदि शब्देन कलत्रपुत्रादिमरणपरिभवधनभूमिहानिप्रभृतिविपत्परम्परा ग्राह्या एवमाद्यारम्भकाणां पापानाम्। दानार्चनाद्या – गोभूतिलहिरण्यादीदानानि भगवदर्चना आद्याशब्देन सहस्रनामजपादिर्ग्राह्यः एतद्रूपाः। प्रशमनविधयः – निवर्तनोपायाः।सन्ति – ‘जन्मान्तरकृतं पापं व्याधिरूपेण बाधते। तच्छान्तिरौषधैर्दानैर्जपहोमार्चनादिभिः॥’ इत्यादिषु प्रतिपादितास्सन्ति। स्वावताराद्यपि – स्वावतारसत्यत्वम्, अजहत्स्वस्वभावत्वं" शुद्धसत्त्वमयत्वं स्वेच्छामात्रनिदानत्वं धर्मग्लानिकालिकत्वं साधुसंरक्षणार्थत्वमित्येवं रूपमवताररहस्यमवतारादिशब्दार्थः। तत्।प्रत्येतुः" – विदितवतोऽधिकारिणः। अपुनर्जन्मतामपि – पुनर्जन्माभावमपि। विभुः – श्रीकृष्णरूपपुरुषोत्तमः। अगायत् – ‘अडोऽपि सन्नव्ययात्मा’ इत्यारभ्य ‘जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन॥’ इति श्रीगीतावचनेन प्रतिपादितवान्।तस्मात् – आरब्धकार्यस्य कर्मणो भोगभिन्नैरप्युपायैर्नाशदर्शनादित्यर्थः।आरब्धकार्ये –प्रदीयमानफले कर्मणि विषये।फलनियतिवचः" –फलानुभवनियमवचनम्।दुघटं भाति – अशक्यघटनतया प्रतीयते। मैवम् – एवं मा शङ्किष्ठाः। प्रायश्चित्तोज्झितानां ननु – अकृतप्रायश्चित्तानां" कर्माणामेव। फलनियतिः –फलानुभवनियतत।ा सूत्रकाराद्यभीष्टा – सूत्रकारस्य स्मृतिपुराणकाराणामन्येषाञ्च महर्षिणामभिमता। न पुनः" कृतप्रायश्चित्तानामपि। तेन न कश्चिदपि विरोध इति भावः॥
कुमार-वरदः - 37
- अत्र कश्चिच्चोदयति– ’ ननु प्रारब्धकार्ययोः पुण्यपापयोर्भोगेन विनाश इति भवद्भिरुच्यते, तन्नोपपद्यते कृतप्रायश्चित्तानां" भोगाभावात् ’ इति। तदिदमाह- रोगादी ति। लोके हि प्रारब्दानामपि पापानां भोगमन्तरेण विनाशो द्दश्यते ’ जन्मान्तरकृतं पापं व्यधिरूपेण बाधते। तच्छान्तिरौषधेर्दानैर्जपहोमार्चनादिभिः॥’ इति। किंच ’ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं" पुनर्जन्म नैति मामेति सोऽर्जुन॥ ’ इत्यवताररहस्यवेदिनां प्रारब्धशेषनुभानेनापवर्गप्राप्तिरुच्यते तत् कथं प्रारब्धस्योपभोग" इति। तदप्याह- प्रत्येतु रिति। स्वावतारादि प्रेत्येतुरि त्यन्वयः। तस्मादारब्धकार्ये कर्मणि फलनियतिवचो दुर्घटं भाती ति शब्दान्वयः। तत्रोत्तरमाह-मैवमिति। तदेव विवृणोति- प्रायश्चित्तोज्झितानामिति। अकृतप्रायश्चित्तानां कर्मणां फलावश्यम्भावस्सूत्रकाराभ्रिप्रेतोनपुनः" कृतप्रायश्चित्तानामपु,तेन न कश्चिदपि विरोध इति भावः।
मूलम् - 37
37.रोगाद्यारम्भकाणां प्रशमनविधयस्सन्ति दानार्चनाद्याः
प्रत्येतुस्स्वावताराद्यपि विभुरपुनर्जन्मतामप्यगायत्।
तस्मादारब्धकार्ये फलनियतिवचो दुर्घटं भाति मैवं
प्रायश्चित्तोज्झितानां ननु फलनियतिस्सूत्रकाराद्यभीष्टा॥