विश्वास-प्रस्तुतिः - 33
- धर्मस्याश्लेषनाशौ न हि परभजनानुग्रहेणोपपन्नौ
तस्याघत्वप्रसङ्गाच्छ्रुतिरपि च परं पापनिर्मुक्तिमाह।
भोगैस्तत्पुण्यनाशोऽस्त्विति यदि न यतः काम्यमप्यस्य पापं
तस्मिंस्तल्लक्ष्मसिद्धेर्न सुकृतमिति च श्रूयते पाप्मतास्य॥
३४-तमाहोबिल-यतिः - 33
- धर्मस्येत्यादि। परभजनानुग्रहेण – परमात्मोपासनसंसिद्धसामर्थ्येन। धर्मस् – श्रेयस्साधनतयानुष्ठितस्य पुण्यस्य ।अश्लेषनाशौ – फलाश्लेषकर्मशक्तिनाशौ। उपपन्नौ नहि – युक्तियुक्तौ न भवतः। तस्य – धर्मस्य। अघत्वप्रसङ्गात् –पापत्वप्रसङ्गात्। निवर्तनीयं हि पापमेव भवति पुण्यञ्चेन्न निवर्तनीयं" भवेत् तथा च पुण्यपापव्यवस्थानुपपत्तिरिति भावः। श्रुतिरपि च – प्रत्यक्षादिवत्स्वार्थे प्रमाणतमा श्रुतिरपि च। परं पपनिर्मुक्तिमाह – ‘पाप्मानोऽतो निवर्तन्ते’ इति केवलं पापनिर्मुक्तिमेव वदति। नतु पुण्यस्य च निवृत्तिं वदति। तत् – तस्मात्। भोगैः – फलानुभवैरेव। पुण्यनाशोऽस्तु – पुण्यकर्मणां निवृत्तिर्भवतु। इति यदि न — इति यच्छङ्कनं तन्न युक्तम्।यतः" – यस्मात् कारणात्।अस्य – ब्रह्मप्राप्त्येकाभिलाषिणोऽधिकारिणः। काम्यमपि – ब्रह्मप्राप्तिविरोधिभूतस्वर्गादिक्षुद्रफलसाधनभूतं" काम्यकर्मापि। पापम् –पापशब्दवाच्यमेव। तस्मिन् – काम्यकर्मणि। तल्लक्ष्मसिद्धेः – विरोधिफलकत्वरूपपापलक्षणस्य सिद्धत्वात्। यद्धि यल्लक्षणयुक्तं तत् तत्छब्दवाच्यमेव यथागोमाहिषादि, नहि पुण्यपापयोर्गौत्वादिवत् काचिज्जातिरस्ति अपि त्वनुकूलप्रतिकूलफलकशास्त्रीयकर्मत्वमेव पुण्यपापशब्दप्रवृत्तिनिमित्तम्। तादृशत्वञ्चाधकारिभेदेन देशभेदेन कालभेदेन च भिद्यते। अतो मुमुक्षूणामभिमतमोक्षविरोधिफलकतया काम्यकर्माणि पापशब्दवाच्यान्येवेति भावः। अस्य – काम्यकर्मणः। पाप्मता –पाप्मशब्दवाच्यता। नसुकृतमितिश्रूयते च – ’ न सुकृतं" न दुष्कृतं सर्वे पाप्मनोऽतो निवर्तन्ते’ इति श्रुतौ निर्वतनीयसर्वपाप्मशब्दार्थतया दुष्कृतमिव सुकृतमपि समर्थितं श्रूयते। अतश्च कण्ठोक्त्या सिद्धं काम्यकर्मणां पापशब्दवाच्यत्वमिति भावः॥
कुमार-वरदः - 33
- पूर्वं पापस्याश्लेषविनाशावुक्तौ अधुना सुकृतस्याप्यश्लेषविनाशावुच्येते इत्यातिदेशिका सङ्गतिः।तद र्थविचारस्तु–उत्तरपुर्वसुकृतयाोरश्लेषविनाशौ किं सम्भवतो नेति।किं’ पापं कर्म न श्लिष्यते’ ’ सर्वे पाप्मानः प्रदूयन्ते’ इति वाक्यद्वयं सुकृतदुषकृताश्लषविनाशपरमुत दुष्कृतमात्राश्लेषविनाशपरम्।किमत्र पापकर्मशब्दो निषिद्धपर उत विद्याविरोधफलकर्मपरः।’ सर्वे पाप्मानः’ इति वाक्यं किं पाप्मशब्दस्य विद्याविरोधिफलकर्मपरतामवगमयति नेति।अत्र पूर्व पक्षमाह– धर्मस्ये ति। परभजनानुग्रहेणा नुकपलस्य धर्मस्याश्लनैवोपपन्नौ। अनुपपत्तौ हेतुमाह– तस्ये ति।नहि सर्वलोकविदितस्य धर्मस्य पापत्वमुपपद्यते। तदा पुण्यपापव्यवस्थानुपपत्तिप्रसङ्गात्।किञ्च श्रुतिरप्याह –अध्यात्मवित् पुण्यफलं सकलमप्यनुभूय पश्चादपवर्गं प्राप्स्यतीति। तदिदमाह– भागै रिति।तदेतत् प्रतिश्रिपति– नेति। तत्र हेतुमाह– यत इति। अस्या ध्यात्मविदः काम्यमपि पाप मेव।ननु काम्यस्य सुकृतस्य पापत्ववचनं साहमेव नहि कर्माचरतोऽपि कर्मठान् पापिन इति वदन्ति प्राज्ञाः तेन काम्यस्य कर्मणः पापत्वमतिसाहसमेवेत्याशङ्क्यं परिहरति– तस्मिन्नि ति।लोके हि सर्वत्र यस्मिन् यल्लक्षणं दृश्यते तदेव तच्छब्देन व्यवह्रियते।गवादिषब्दा घटादिशब्दाश्च तत्तल्लक्षणानुरोधेन व्यवह्रियन्ते विद्वद्भिः।अत्रापि काम्येषु कर्मस्वधिकारिभेदेन कालभेदेनावस्थाभेदेन पापमेव पुण्यं पुण्यमेव पापमितिनियमस्य सर्वलोकप्रसिद्धत्वात् काम्यं कर्माध्यात्मविदां" पापमेव। उपवर्ग एव खल्वध्यात्मविदामभिमतः। तद्विरोधि हि स्वर्गाद्युपभोगः। अत एव स्वर्गादिर्नरकतयोच्यते नारयणपराणां। एते वै निरस्यास्तात स्थास्य परमात्मनः, अर्थकामपरा यूयं नारायणपरा वयम् इतयादिना वचनान्यत्र प्रामाणम्। न केवलं लक्षणादेव काम्यकर्माणां पापत्वमस््माभिरुच्यते न सकृतं न दुष्कृतं" सर्वे पाप्मानोऽतो निवर्तन्ते इत्यादिश्रुतिरपि काम्यकर्मणः पापत्वं कण्ठाोक्त्या प्रकटयति दर्शयति– न सकृत मिति॥
मूलम् - 33
- धर्मस्याश्लेषनाशौ न हि परभजनानुग्रहेणोपपन्नौ
तस्याघत्वप्रसङ्गाच्छ्रुतिरपि च परं पापनिर्मुक्तिमाह।
भोगैस्तत्पुण्यनाशोऽस्त्विति यदि न यतः काम्यमप्यस्य पापं
तस्मिंस्तल्लक्ष्मसिद्धेर्न सुकृतमिति च श्रूयते पाप्मतास्य॥
विश्वास-प्रस्तुतिः - 34
- पुण्यं विद्यानुकूलं यदिह सफलता तस्य विद्याप्रदत्वात्
तस्यां यन्नोपयुक्तं तदपि दुरितवद् बन्धकत्वेन वार्यम्।
कारागारोपरुद्धे निगलयुगलतस्सार्वभौमस्य भृत्ये
हैमं कार्ष्णायसञ्च प्रसदनसमये भञ्जनीयं सहैव॥
३४-तमाहोबिल-यतिः - 34
- पुण्यमित्यादि। इह – ब्रह्मविदि। यत् पुण्यं विद्यानुकूलम् – यत् पुण्यकर्म विद्यानिष्पत्त्यौपयिकशरीरहृषीकवर्धकान्नपानाराग्यादिफलद्वारा विद्यानिष्पत्तिसहकारि भवति। तस्य – कर्मणः। विद्याप्रदत्वात् सफलता – पूर्वोक्तरीत्या विद्यानिष्पादकतया साफल्यं सिद्धम्। यत् – काम्यकर्म। तस्याम् – विद्यायाम्। उपयुक्तं न – फलद्वारोपयुक्तं न भवति। तदपि – तादृशं कर्मापि। बन्धकत्वेन – स्वफलभूतक्षुद्रसुखतृष्णाजननद्वारा मुक्तिविरोधित्वेन बन्धकत्वात्। दुरितवद्वार्यम् – पापमिव निवर्तनीयमेव।तत्र लोकसिद्धान्तः प्रदर्शयते उत्तरार्धेन।निगलयुगलतः" –हैमकार्ष्णायसनिगलद्वयेन गतिविरोधिभूतेन। कारागारोपरुद्धे – बन्दीगृहे स्वप्राप्तगतिशून्ये कृते। भृत्ये – दासे विषये। सार्वभौमस्य –स्वशासित्रन्तरशून्यस्य भृत्यं शिक्षितुं रक्षितुं वा स्वतन्त्रस्य महाराजस्य। प्रसदनसमये –अन्तरङ्गजनान्तरकृतगलितभृत्यापराधक्ष्मापणादिक्रमेणानुग्रहसम्पत्तिसमये। हैमं कार्ष्णायसञ्च – निगलमिति शेषः। हेम्ना सुवर्णेन निर्मितं कृष्णआयसेन निर्मितञ्च निगलं गतिनिरोधी। सहैव - युगपदेव कार्ष्णायसनिगलभञ्जनसमय एव। नतु हैममिति कालान्तरं प्रतीक्ष्यते बन्दीकृतेन, नवा हैममिति विशेषेण कञ्चित्कालं सह्यत इत भावः। भञ्जनीयम् – भेदनीयं ह। तद्वदभिमतविरोधित्वात् काम्यकर्म निर्वतनीयमति भावः॥
कुमार-वरदः - 34
- अत्र पापवत् पुणयस्यापि विरोधिफलसाधन्तवेन निरस्नीयत्वाद् राजभृत्यनिरोधकसौवर्णायसनिगलद्वयन्यायेन पुरुषार्थप्राप्तिदशायां" सर्वस्यापि भञ़्जनीयत्वात्वमेवेत्याह– पणयमिति। द्वविधं हि पुण्यं विद्यानुकूलं केवलोपभोगार्थञ्चेति। तत्र विद्यानुकूलं कर्म विद्याप्राधानेन चरितार्थं भवति। विद्यायामनुपयुक्तं" यत्कर्म काम्यं तत् दुरितवत् वारणीयमित्याह– तस्या मिति। दुरितं" हि दुःखहेतुः कदाचिद्वैराग्यहेतुरपि भवति।काम्यं कर्म सुखहेतुत्वात् तदाशाभिवृद्धिमुखेन संसारभिवृद्धिमेव करोतीति पापदपि काम्यं" कर्म विशेषेण परित्याज्यमिति भावः। पुण्यपापयोः परिहरणीयत्वं लोकदृष्टान्यायेनोप पादयति– कारागारेति ।इदं तु पामराणामपि प्रतीत्यर्थम्॥
मूलम् - 34
- पुण्यं विद्यानुकूलं यदिह सफलता तस्य विद्याप्रदत्वात्
तस्यां यन्नोपयुक्तं तदपि दुरितवद् बन्धकत्वेन वार्यम्।
कारागारोपरुद्धे निगलयुगलतस्सार्वभौमस्य भृत्ये
हैमं कार्ष्णायसञ्च प्रसदनसमये भञ्जनीयं सहैव॥
विश्वास-प्रस्तुतिः - 35
35.काम्यं नेच्छेद्विरक्तो यदि किल कुरुते रागयोगात् फले तत्
नाधीपूर्वञ्च काम्यं किमपि नच दिशेद्बन्धमज्ञातधर्मः।
विद्यार्थैर्लुप्यतेऽतः किमितरदिति चेन्नाधिकैस्सान्तरायैः
अन्यार्थैर्मोहजैः क्वाप्यनुतपनवतो बन्धुजैश्चास्त्वलेपः॥
३४-तमाहोबिल-यतिः - 35
- काम्यमित्यादि। विरक्तः –निरतिशयानन्दरूपब्रह्मप्राप्तिकामतया क्षुद्रफले विरक्तोऽधिकारी। काम्यम् – कर्म। नेच्छेत् – अत एव तन्न कुर्यादित्यर्थः। यदि कल कुरुते – विरक्तोऽपि वासनावशात् कदाचित्काम्यं कर्म यदि च कुर्वीत। फले रागयोगात् तत् –कुरुते तर्हि तत्फले रागवशादेव तादृशं कर्म कुर्यात्। तथा च तत्कर्म फलं प्रयच्छेदेव तेन फलेन विनष्टत्वात् न तदलेपविषयभूतं कर्मेति भावः। किमपि च काम्यमधीपूर्वं न – यत् किञ्चिदपि फलसाधनं कर्म अबुद्धिपूर्वं न भवति फलकामनाया ज्ञानमूलकत्वात्। तेनाबुद्धिपूर्वकत्वे काम्यत्वमेव न स्यादिति भावः। अज्ञातधर्मश्च बन्धं न दिशेत् — अबुद्धिपूर्वको धर्मः फलद्वार बन्धं न दातुं प्रभवति फलोद्देशेनानुष्ठानाभावात्। विधार्थैर्लुप्यते – पूर्वोक्तरीत्या विधानिण्पत्यौपयिकफलैः कर्मभिस्तु लुण्यते दत्तफलतया स्वयमेवानाशीत्यर्थः। अत इतरत् किम् –उक्ताद्भिन्नं किमस्ति काम्यम्, यत् फलाश्लेषवचनास्पदं भवेत्। इति चेन्न— इति शङ्कयते चेत्तन्नयुक्तम्। अधिकैः —यानि विधार्थमनुष्ठितानि कियदपि फलमदत्त्वाधिकानि स्युस्तैः कर्मभिः।सान्तरायैः – कर्मभिः। अन्यार्थैः — लोकसङ्गहाधर्थमनुष्ठितैः कर्मभिः। क्वापि मोहजैः" – कदाचिन्मोहवशेनाकृतफलत्यागैरनुष्ठितैः कर्मभिः। बन्धुजैश्च — स्नेहवशेन बन्धुजनानुष्ठितैश्च बन्धकफलैः कर्मभिः। अनुतपनवतः" –सुकृतेष्वपि स्वकृतेषु दुण्कृतेष्विव विरोधिफलकत्वमनुचिन्त्यानुतप्यमानस्याधिकारीणः। अलेपोऽस्तु – फलाशलेषो भवतु। एवमलेपस्यावकाशोऽस्तीत्यर्थः॥
कुमार-वरदः - 35
- अत्राध्यात्मविदामलेपविषयं सुकृतं न सम्भवतीत्याक्षिप्य प्रकार भेदन सम्भवतीत्युपपादयति- काम्य मिति। अयमत्राक्षेपकस्य भावः– अध्यात्मविद् विरक्तत्वात् काम्यं कर्म नेच्छेत्। अत एव तन्न करोति। तस्मादकृतेन करमणा तावदलेपो न वाच्यः। ननु विरोक्तोऽपि वासनावशात् कदाचित् काम्यं" कर्म कुर्यादित्याशङ्क्य यदि कुर्यात् तत्कर्म फलं प्रयच्छेदेव, तेन फलेन विनष्टत्वात् तेनापि कर्माणा अलेपो न वाच्य इत्याह– यदि किले ति।तर्ह्यबुद्धिपूर्वकं काम्यमस्ति तेनालेप उच्यत इत्याशङ्क्यतदपि निराकरोति– निधीपूर्व मिति।काम्यं चेद् बुद्धिपूर्वकमेव कामनाया बुद्धिविशेषजन्यत्वात्, तेनाबुद्धिपूर्वकत्वे काम्यत्वं न स्यदित्यर्थः। तर्हि ज्ञातान्यज्ञातानि च सुकृतानि सन्ति तत्राज्ञातसुकृतैरेवालेप उच्यत इत्याशङ्क्य तदपि परिहरति–न चेति। अज्ञातधर्मो हि काम्यं फलं न दिशति फलोद्देशेनानुष्टानाभावात्। तर्हि विद्यार्थैधर्मै रेवालेप उच्यत इति चेत् तदपि नेत्याह- विद्यार्थैरिति।विद्यानिष्पत्या लुप्तत्वात् विद्यार्थानि कर्मणि विद्यानिष्पत्यैव दत्त्यैव दत्तफलान्येव।अत इतरत्कर्म नास्ति, केनालेपः कथ्यत इत्याह– अत इति। अत्रोत्तरमाह–नेति। अयमर्थः– विद्यार्थमनुष्टितानि कर्माणि विद्याफलमदत्त्वाधिकान्यवतिष्टन्ते वीतरागत्वेऽपि वासनावशआदन्यार्थतया मोहतोऽनुष्टितानि सान्तरायत्वाद दत्तफलानि कर्माणयपि कानिचिदवतिष्टन्ते अध्यात्मविदि स्नाहाद्बन्धुभिरनुष्टितानि सुकृतानि बहून्यवतिष्टन्ते तानि सुकृतान्यपि तस्य दुष्कृतान्येव तस्मादनुतापवतस्तस्याध्यात्मविदस्तैलेन उच्यत इत्यलेपवचनस्यावकाशोऽस्तीति॥
मूलम् - 35
35.काम्यं नेच्छेद्विरक्तो यदि किल कुरुते रागयोगात् फले तत्
नाधीपूर्वञ्च काम्यं किमपि नच दिशेद्बन्धमज्ञातधर्मः।
विद्यार्थैर्लुप्यतेऽतः किमितरदिति चेन्नाधिकैस्सान्तरायैः
अन्यार्थैर्मोहजैः क्वाप्यनुतपनवतो बन्धुजैश्चास्त्वलेपः॥