07 तदधिगमाधिकरणम्

विश्वास-प्रस्तुतिः - 29
  1. नाभुक्तं कल्पबृन्दैरपि सुपरिहरं कर्म गीतं मुनीन्द्रैः
    पापाश्लेषप्रणाशश्रुतिरपि परविद्वैभवोक्तिस्ततस्स्यात्।
    मैवं नाभुक्तमित्याद्यपि फलजनने कर्मणो दार्ढ्यमाह
    प्रायश्चित्तक्रमेण त्विह परभजनं चोदितं कर्मशान्त्यै॥
३४-तमाहोबिल-यतिः - 29
  1. नाभुक्तमित्यादि। अभुक्तम् –अननुभूतफलकम्। कर्म – पुण्यपापरूपम्। कल्पबृन्दैरपि –ब्रह्मकल्पसमूहैरपि। सुपरिहरं न – सुपरिहरं" न भवतीति। मुनीन्द्रैः— महर्षिभिः। गीतम् – नाभुक्तं क्षीयते कर्म कल्पको़टिशतैरपि इत्यादिवचनैः प्रतिपादितम्। पापाक्ष्लेषप्रणाशश्रुतिरपि – एवंविदि पापं कर्म न क्ष्लिण्यते ,एवं हास्य सर्वे पाप्मानः प्रदूयन्ते इत्यादिरूपा पापाशलेषविनाशश्रुतिरपि। तंतः — तत एव हेतोः। परविद्वैभवोक्तिस्स्यात् — ब्रह्मविदां" माहात्म्यप्रशंसनरूपा भवतु। मैवम् – एवं मा शङ्किष्ठाः। नाभुक्तमित्याधपि – नाभुक्तं क्षीयते, इत्यादिपूर्वादाह्यतवचनजातमपि। कर्मणः – अकृतप्रायक्ष्चित्तस्य कर्मणः। फलजनने – सुखदुःखरूपफलजनने। दाठर्यम् –अवश्यम्भावित्वम्। आह – अभिदधाति। नतु कृतप्रायक्ष्चित्तस्यापि फलजननावश्यम्भावित्वमिति भावः। तर्हि ब्रह्मविदामकृतप्रायक्ष्चित्तत्वात् कर्माणि फलिण्यन्तीत्यत्राह – प्रायक्ष्चित्तेत्यादि । इह- वेदान्ते। परभजनम् –परामात्मोपासनम्। Bप्रायश्चित्तक्रमेण तु –प्रायश्चिन्यायेनैव। कर्मशान्त्यै – निखिलकर्मक्षयाय। चोदितम् – विहितम्।अयमर्थः – द्विविधं खलु प्राश्चित्तं प्रतिपदोक्तं सर्वप्रायश्चित्तञ्चेति, विशेषतस्तत्तन्निमित्तपरिज्ञाने प्रतिपदोक्तं कर्तव्यं सामान्यतः परिज्ञाने तु सर्वप्रायश्चित्तमेव प्रमाणैर्विहितं कर्तव्यं “कृष्मानुस्मरणं परम्” इति कृस्त्नप्रायश्चित्तस्थानीयतया कृष्णानुस्मरणम विहितम्। अत्र ‘शुचिर्भवति संस्मृत्या’ इत्यादिकं सहस्रमैतिहासिकं पौराणिकमागमिकञ्च वचनजातं जाग्रति नहि बहूनां सन्निपाते सोपबृंहणश्रुतिविरोधे च सति “नाभुक्तम्” इत्कृतप्रायश्चित्तकर्मफलदार्ढ्यप्रतिपादनलब्धावकाशवचनमेकं स्पर्धितं शक्नुयादिति
कुमार-वरदः - 29

29.’ एवं विद्यास्वरूपं विशेध्य विद्याफलं चिन्तयितुमारभते’ इति भाष्यम्।इयं तु पेटिकासङगतिः।अयमाश यः–ब्रह्मविद्यास्वरुपस्य निरतिसायनन्दरूपत्वेन फलपक्षनिपेक्षेपार्हत्वात् तत्स्वलरूपशोधनमपि फलाधये सङ्गतमिति।तदर्थविचारस्तु–किमश्लेषविनाशशास्त्रयोरभुक्तकर्मापरिक्षयशास्त्रस्य च विरोध एव उतावरोधस्सम्भवतीति।किमश्लेषविनाशशास्त्रं" मोक्षसाधनभुतविद्याभिधायिवाक्यशेषगतं विद्यास्तुतिवादपरत्वेन नेतुं शक्यते नेति।अत्र पूर्वपक्षोक्तिपूर्वकं सिद्धान्तमातषटे– नाभुक्त मिति।’ नाभुक्तं" क्षीयते कर्म कलपकोटिशतैरपि ’ इति फलभोगात् विना कर्म न सुपरिहरमिति मुनीन्द्रै र्गीतम्। तेन पापालेषश्रुति स्तद्विनाशश्रुतिश्च तत एव हेतोर्ब्राह्मविदां वैभवोक्तिंस्सयात्। उक्तं पक्षं दूषयति–मैवमिति।तदेवोपपादयति– नाभुक्तमिति. नाभुक्तमितियादिकमकृताप्रयश्चित्तत्वात् कर्मणा फलिष्यन्तीत्याशङ्क्य परिहरति– प्रायचिक्तक्रमेणेति। अयमर्थः–द्विविधं" खलु प्रायश्चिक्तं प्रतिपादिकं सर्वप्रायश्चित्तञ्चेति। विशेषतस्तत्तन्निमिक्तपरिज्ञाने प्रतिपादिकं प्रायश्चिक्तं कर्तव्यम्।सामान्यतः परिज्ञाने तु सर्वप्रायश्चित्तमेव प्रामाणर्विहितं करतव्यम्। कृष्णानुस्मरणं परम् ।इति कृत्स्नप्रायश्चित्तस्थानीयतया कृष्णानुस्मरणमेव प्रमाणैर्विहितम्। तत्र शुचिर्भवति संस्मृत्या इत्यादिकं सहस्मप्यैतिहाससिकं पौराणिकमागमिकं स्मार्तञ्च वचनजातं पाठ्याम् । नहि बहूनां सन्निपाते नाभक्तमित्येकं वाक्यं सोरॉपबृणश्रुतिविरुद्धं स्वयमतिष्टते। न खलु मार्जारो भवति मातङ्गशतस्य परिस्पर्धीति॥

मूलम् - 29
  1. नाभुक्तं कल्पबृन्दैरपि सुपरिहरं कर्म गीतं मुनीन्द्रैः
    पापाश्लेषप्रणाशश्रुतिरपि परविद्वैभवोक्तिस्ततस्स्यात्।
    मैवं नाभुक्तमित्याद्यपि फलजनने कर्मणो दार्ढ्यमाह
    प्रायश्चित्तक्रमेण त्विह परभजनं चोदितं कर्मशान्त्यै॥
विश्वास-प्रस्तुतिः - 30

30.निष्कृत्यात्मत्वमस्योदितदुरितसमुन्मूलनस्योपपन्नं
नात्र स्वर्गादिनीतिः प्रतिहतिविगमे धीविकासस्स्वतो हि।
पापालेपः प्रमादोदितसहनमिति स्थाप्यमाज्ञानुवृत्त्यै
नो चेन्न स्याद्गतिर्नाविरत इति गिरो योगिनाञ्च प्रवृत्तेः॥

३४-तमाहोबिल-यतिः - 30
  1. निष्कृत्यात्मत्वमित्यादि।अस्य – ब्रह्मोपासनस्य। निष्कृत्यात्मत्वम् – सर्वपापप्रायश्चित्तरूपत्वम्। उदितदुरितमुन्मूलनस्य – हेत्वर्थं विशेषणम्। उत्पन्नदुरितसमुन्मूलनात्मक्तवात्। उपपन्नम् – युक्तम्।अस्तु ब्रह्मोपासनं प्रायश्चित्तम्, अथापि स्वर्गादिसाधनयागानुष्ठानवत् परमानन्दलक्षणज्ञानविकासाय साधनान्तरमनुष्ठेयमापततीत्यात्राह – नात्रेति। हि – यस्मात् कारणात्। प्रतिहतिविगमे – प्रतिबन्धकनिवृत्तौ सत्याम्। धीविकासः –धर्मभूतज्ञानविकासः। स्वतः – स्वयमेव प्रयत्नान्तरनिरपेक्षस्सम्पद्यते। अतः कारणात्।अत्र – स्वाभाविकज्ञानविकालविषये। स्वर्गादिनीतिः – कर्मोपाधिमूलकस्वर्गादिन्यायः। न – न प्रसरतीति।यदि ब्रह्मविदां पापालेपस्तर्हि तेषआमुत्पथवर्तित्वं स्यादित्यत्राह –पापालेप इत्यादि।आज्ञानुवृत्त्यै – कलञ्जभक्षणादिनिवर्तकनित्यादिसत्कर्मप्रवर्तकभगवन्निग्राह्यतापादकस्वोल्लङ्घनकश्रुतिस्मृत्यात्मकभगवदाज्ञानुवृत्तिसिद्ध्यै, तदुल्लङ्घनजनितभगवन्निग्रहानापत्त्यैव। पापालेपः – पापकर्मफलासम्बन्धः।प्रमादोदितसहनमिति – प्रमादजनिताकृत्यकरणकृत्याकरणरूप्स्व्लपापरध सहनरूपमिति। स्थाप्यम् – व्यव्सथापनीयम्। नो चेत् — एवं प्रामादिकविषयत्वं विना बुद्धिपूर्वकपापस्याप्यश्लेषविषयत्वे। नाविरत इति गिरो गरिर्न स्यात् – ‘नाविरतो दुश्चरितान्निवृत्तिं प्रतिपदायतश्श्रुतिवाक्यस्य गतिः फलं न स्यात्। आनर्थक्यमेव स्यादिति भावः। योगिनां प्रवृत्तेश्च–युक्तानामपि पापाचरणभयेन सावधानं विहितमाचरतां निषिद्धं त्यजताञ्च प्रवृत्तेराचारस्यापि गतिः फलं न स्यात्। बुद्धिपूर्वकस्य पापस्याप्यश्लेषे योगिनामपि ‘कामो म उदमानं पाप्मना नोत्संसृजै’ इत्यादिरीत्या दुश्चरितभयात् सावधानवर्तनस्य वेफल्यमेव भवेदिति भावः॥
कुमार-वरदः - 30
  1. परब्रह्मोपासनस्य सर्वपापप्रायश्चित्तात्मकत्वमुक्तं लक्षणतोऽपि प्रदर्शयन् पापलेपविषयमपि परिशोधयति– निष््कृतीति । अस्य ब्रह्मोपासनस्य प्रायश्चित्तात्मकत्वमुतपन्नदुरितसमुन्मूलात्मकत्वा उपपन्नमेव। इदमेव हि पारयश्चित्तस्य लक्षणमितयर्थः। नन्वस्तु ब्रह्मोपासनं प्रायश्चित्तं, अथापि स्वर्घादि पुरुषार्थ साघनानुष्टानवदसङ्कुचितब्रह्मानुभवरूपज्ञानविकासार्थं साधनान्तरमनुष्टेयं" स्यादित्याशङ्क्यप्रतिक्षिपति– नात्रेति। तदेव स्थापयति- प्रतिहतिविगम इति।अयं भावः–स्वर्गाद्यनुभवो हि कर्मरूपोपाधिप्रयक्तत्वादस्वाभाविकः। तेन साधनानुष्टानमपेक्षते। ब्रह्मप्राप्तिस्तु सर्वेषामप्यात्मनां स्वाभाविकी। अथापि केषाञ्चितनादिपापप्रवाहवशादनादिप्रतिबन्धवति। प्रतिबन्धाभावे स्वयमेवाविर्भवति। अत एवोच्यते– यथा न क्रयते ज्योत्स्ना मलप्रक्षालनान्मणेः। दोषप्हाणान्न ज्ञानमात्मनः क्रियते तथा। एवञ्च स्वर्गादिभ्यः वैषम्यं परब्रह्मप्राप्तेः, न हि प्रामाणप्रातिपन्नेत्यर्थः न विश्वशनीयम् किञ्चिदस्ति। यक्त्याभासस्तु प्रमाणविरुद्धत्वात् वादेनादरनीयः। अत्र हिशब्दः प्रसिद्धिं दर्शयति। यथा दीपादेरावारक" घटाद्यपगमने प्रकाशविकासस्वत एव, एवमात्मनेति प्रतिबन्धकाभावे धर्मभतज्ञीनविकीस इत्यर्थः।अत्र कश्चिच्चोदयति–यदि ब्रह्मविदां पापातेस्तर्हि तेषामुत्पथप्रवृत्तिरेव स्यादिति, अत्राह–पापतेप इति।प्रमादिकपापालेप एव ब्रह्मविदामस्माभिरुच्यते न पुनर्बुद्धिपूर्वकपापालेपः। तत् किमर्थमित्यत्राह- आज्ञानुवृत्या इति । श्रुतिस्मृति ममैवाज्ञा इत्यध्यात्मविदामपि भगवताज्ञरूप श्रुतिस्मृत्यनुलिङ्गनस्य भगवतैवोक्तत्वादित्यर्थः। एवमनङ्गिकारे नाविरोतो दुश्चरितात् इति वचन्स्यगतिर्नस्यात्। योगिनाञ्च नियमेव स्वाधिकरनानुष्टानुरूपप्रवृत्तेच गतिर्न स्यात्। चकारसमुच्चयार्थः। भ्रान्तत्वं नाटयन्भरतोऽपि सतां मार्गमदूषयन् इति सन्मार्गवर्तित्वेन ह्युच्यते॥
मूलम् - 30

30.निष्कृत्यात्मत्वमस्योदितदुरितसमुन्मूलनस्योपपन्नं
नात्र स्वर्गादिनीतिः प्रतिहतिविगमे धीविकासस्स्वतो हि।
पापालेपः प्रमादोदितसहनमिति स्थाप्यमाज्ञानुवृत्त्यै
नो चेन्न स्याद्गतिर्नाविरत इति गिरो योगिनाञ्च प्रवृत्तेः॥

विश्वास-प्रस्तुतिः - 31

31.अश्लेषः कर्मशक्तेरनुदय उदये तन्निवृत्तिर्विनाशः
शक्तिस्सा च प्रणेतुस्तदुचितफलकृन्निग्रहानुग्रहात्मा।
प्रायश्चित्तं निमित्ते कथमनुदित इत्यत्र नैवानुयोज्यं
नाधर्मस्तस्य तत्स्यादिति खलु हृदयं ग्राह्यमश्लेषवाचः॥

३४-तमाहोबिल-यतिः - 31

31.अश्लेष इत्यादि। कर्मशक्तेरनुदयोऽश्लेषः—कर्मणां या फलजननद्वारभूता शक्तिस्तस्या अनुत्पत्तिरेवाश्लेषशब्दवाच्यः। उदये तन्निवृत्तिर्विनाशः—ताद्दशकर्मशक्त्युत्त्यनन्तरं" तस्याश्शक्तेर्नाश एव कर्मविनाशशब्दार्थः। सा शक्तिश्च। तदुचितफलकृत् प्रणेतुर्निग्रहानुग्रहात्मा—तत्तत्कर्मानुगुणफल- जनकमीश्वरस्य निग्रहानुग्रहस्वरूपमेव। अत्र -विषये। निमित्तऽनुदिते—उत्तराघरूपे निमित्तेऽनुत्पन्नेऽपि। कथं प्रायश्चित्तमिति नैवानुयोज्यम्—कथं" तत्प्रायश्चित्तरूपत्वं विद्यायाः, निमित्तोदयानन्तरं हि नैमित्तिकमिति खलु तान्त्रिकप्रवाद इति नैव प्रष्टव्यम्। तस्य–उत्तराघम्। अधर्मो न स्यात्–पापमेव न स्यात्। इति खलु। अश्लेषवाचः—ब्रह्मविद उत्तराघाश्लेषं वदन्त्याः श्रुतेः। हृदयम्–तात्पर्यम्। ग्राह्यम्—तथा च पूर्वोक्तानुपपत्तिरेव न लगतीत्यर्थः॥

कुमार-वरदः - 31
  1. अत्राश्लेषविनाशशब्दयोरर्थविशेषं दरेशयित्वा ब्रह्मविद्यायाम्त्तराधं प्रयापि प्रायस्चित्तत्वमाक्षिप्य समाधते– अश्लेष इति। अत्र कर्मशक्तेरनुदयोऽश्लेषः उदये तन्नवृत्तिर्विनाशः इह कर्मशक्तिरपि प्रणेतुस्सर्वनेतुर्भगवतस्तत्तत्कर्मोचितफलकृन्निग्रङवेव तेन न सिद्धान्तविरोधः। तदिदमाह– शक्ति रित्यादिना । अत्र केनचिदुक्तानां शङ्कां निवारयति– प्रयाश्चित्तमिति। अबुद्धिपूर्वकस्योत्तराघसायोपायानुष्ठानदशायमुत्पत्तिरेव नास्ति अनुत्पन्नस्य पापस्य कथमितं ब्रह्मविद्या प्रायश्चित्तमिचि चोदकाभिप्रायः। इमां प्रतिक्षिपति– नैवानुयोज्य मिति। अननुयोज्यत्वमेव दर्शयति-नधर्म इति। ब्रह्मविद्यानिष्टस्य तस्याबुद्धिपूर्वोत्तराधे पापमेव न स्यदिति ब्रह्मविद्यायास्सर्वपापप्रायश्चित्तत्वं" वदतां हृदय मित्यर्थः॥
मूलम् - 31

31.अश्लेषः कर्मशक्तेरनुदय उदये तन्निवृत्तिर्विनाशः
शक्तिस्सा च प्रणेतुस्तदुचितफलकृन्निग्रहानुग्रहात्मा।
प्रायश्चित्तं निमित्ते कथमनुदित इत्यत्र नैवानुयोज्यं
नाधर्मस्तस्य तत्स्यादिति खलु हृदयं ग्राह्यमश्लेषवाचः॥

विश्वास-प्रस्तुतिः - 32
  1. धीपूर्वं तूत्तराघं न सृजति परवित्सर्वदा सावधानो
    जातं नैमित्तिकैश्च क्षिपति समुचितैराशु भुञ्जीत वा तत्।
    वृत्रादौ दृष्टमेतन्नियतिविभवतश्चेदिराजादिसिद्धिः
    युक्ताद्यैवान्यदा वा मुनिरिह मनुते ब्रह्मनिष्ठस्य मुक्तिम्॥
३४-तमाहोबिल-यतिः - 32

32.धीपूर्वं त्वित्यादि। सर्वदा —सर्वावस्थास्वपि। सावधानः—किमेनो भविष्यतीत्यवधानयुक्तः। परवित् —परमात्मोपासनपरः। धीपूर्वम्–बुद्धिपूर्वकम्। उत्तराघम्–विद्यारम्भोत्तरकालिकं पापम्। न सृजति तु—न कुर्यादेव। सदा पापरिहारजागरूकत्वादिति भावः। जातम् –कादाचित् देशकालवैगुण्यादिनिमित्तविशेषैर्बुद्धपूर्वकतया जातञ्च पापम्। समुचितैर्नैमित्तिकैश्च – तत्तत्पापानुगुणैः रहस्यापापे रह्स्यरूपै) परिषद्वरणादिरहितैः प्रायश्चित्तैर्बहिर्व्यक्तपापविषये यथाशास्त्रं परिषद्वरणादशास्त्रीयक्रमयुक्तैः प्रायश्चत्तैस्तत्र च प्रतिपदोक्तप्रायश्चित्तानुष्ठानाशक्तौ भगवच्छरणागतिरूपैश्च प्रायश्चित्तैः। आशु – स्वल्पकाल एव। क्षिपति – निवर्तयेदित्यर्थः। तत् भुञ्जीत वा – आश्विति पदमत्राप्यन्वेतुं युज्यते।अकृतप्रायश्चित्तश्चेत् तत् बुद्धिपूर्वमुत्तराघमब्रह्मविदां कल्पादिचिरकालानुभाव्यमपि शीघ्रमेवानुभवेद्वा। ‘लघुर्दण्डः प्रपन्नस्य राजपुत्रापराधवत्’‘नखलु भगवता यमविषयं गच्छन्ति’ इत्यादिप्रमाणैर्लघुदण्डो हि ब्रह्मविदामवहगम्यत इति भावः। एतत् – ब्रह्मविदो लघुदण्डेन महापापापनोदनपूर्वकं यथावस्थितमुक्तिलाभ इत्येतत्। वृत्रादौ — वृत्राख्येऽसुरे क्षत्रबन्ध्वाख्ये क्षुद्रक्षत्रिये च। दृष्टम् – पुराणादिभिरवगतम्।वृत्रो हि पूर्वं भागवतोऽपचारविशेषेणासुरं देहं लब्ध्वा तज्जात्यानुगुण्येन देवानामपराधँ कुर्वाण इन्द्रेण हतो यथापूर्वं भगवन्निष्ठयैव मुक्तिमाप। क्षत्रबन्धुनामा च क्षत्रियो क्षत्रियो नानाग्रहारग्रामाद्यवलुम्पनादिनिरतोऽपि महर्षिकटाक्षविशेषजनितपरमार्तिपूर्वकभगवन्नामोच्चारणमाहात्म्येन विध्वस्ताखिलपापञ्चरस्तत्क्षणएव भगवन्तमापेति विष्णुधर्मोत्तरादिप्रसिद्धम्। चेदिराजादिसिद्धिः – चेदिर्नाम देशविशेषस्तद्राजश्शिशुपालः। आदिशब्देन दन्तवक्रादीनां ग्रहणम्। तेषां सिद्धिस्तत्तच्छरीरावसान एव भगवत्प्राप्तिरूपमुक्तिसिद्धिः। नियतव विभवतः – पूर्वमेव जन्मत्रयमात्रानुवृत्तशात्रवाचरणरूपभगवदाज्ञानुपालनमाहात्म्यात्। यद्वा अन्ते कृष्णदिव्यमङ्गलविद्रहदर्शनरूपसर्वपापप्रायश्चित्वैभवादित्यर्थः। एवमेव चिन्तामणौ दृश्यते। युक्ता – उपपन्नैव। इह – विषये। मुनिः - व्यासः। ब्रह्मनिष्ठस्य मुक्तिमद्यैवान्यदा वा मनुते – ब्रह्मविदां स्वस्वप्राचीनसुकृतविशेषमूलकविद्यानिष्पत्त्यानुगुण्येन कालनियमाभावादनियतकालेन मोक्षसिद्धिरिति निश्चतवानित्यर्थः॥

कुमार-वरदः - 32
  1. एवमबद्धिपूर्वोक्तराधमुक्त्वा बुद्धिपूर्वोत्तराधस्याध्यात्मवित्सु केषुचिदनुत्पत्तिमपरेत्पन्नस्य प्रायश्चित्तमन्येषु केषुचिदप्रायश्चित्तेऽप्याशूपभोगमुपपादयन् सर्वाथापि भागवतस्य सापरादस्यपि क्रमशो मुक्तिं दर्शयति–धीपूर्व मिति। सर्वदा सावदानो ब्रह्मवित् बुद्धिपूर्वमुक्तराधं न सृजत्येव।मध्यमस्तु ब्रह्मवित् जातं पापं प्रायशअचित्तेन क्षिपतीत्याह– जात मिति।अपरोऽपि ब्रह्मवित् न खलु भागवता यमविषयं गच्छति। इहैवैषां केचिदुपप्लवा भवन्ति काणा भवन्ति खञ्जा भवन्ति इत्यादिश्रुत्यक्तप्राकारेण प्रतिपदप्रायश्चित्ताकारणे लघुदण्जमुपभुञ्जीत। इदं तदु वृत्रासुरप्रभृतिषु दृष्टमेव । वृत्रः खलु भागवतः, अथापि केनाप्यपचारेणासुरं देहं प्राप्तस्तत्रापि जातिस्वभावाद्देवप्रकृतीनां" अपराधं कुर्वन्नपराधानुरूपोपभोगमप्यन्ते पेराप्य भगवन्तमेव ध्याय न्नभिमतफलं प्राप्तवानिति पौोराणिकी प्रसिद्धिः। नन्वथाप्यपराधशतमनुतिष्टतश्चेदिरादस्याकृतप्रायश्चित्तस्य कथमिव ब्रह्मप्राप्ति -रभूदित्याशङ्क्य तत्रापि प्राचोनसुकृतवशैदन्ते कृष्मावतारकाव्ये— सुकृतेन पुराकृतेन चद्यः प्रतिपन्नप्रकृतिर्विलीनवैरः। क्षणमद्भुतकृष्णरूपदर्शीं शिथिलाकृष्टशिलीमुखाऽवतस्थे॥ इति। तदिदमाह– नियतिविभवत इति। अस्तु सिद्धः, अथाप्यद्यैव वा कालान्तरे वा सिद्धिरित्याशङ्क्य प्राचीनकर्मानुरूपभगव्संकल्पानुविधानेनानियमेन फलसिद्धिंकिल भगवान्बादरायणो मन्यत इत्याह – अद्यैवेति॥
मूलम् - 32
  1. धीपूर्वं तूत्तराघं न सृजति परवित्सर्वदा सावधानो
    जातं नैमित्तिकैश्च क्षिपति समुचितैराशु भुञ्जीत वा तत्।
    वृत्रादौ दृष्टमेतन्नियतिविभवतश्चेदिराजादिसिद्धिः
    युक्ताद्यैवान्यदा वा मुनिरिह मनुते ब्रह्मनिष्ठस्य मुक्तिम्॥