विश्वास-प्रस्तुतिः - 28
- एकस्मिन्नेव घस्रे यदि भवति परध्यानरूपा तु भक्तिः
तद्विश्रान्तो विधिस्स्यादुपरि तु विफला ब्रह्मचिन्तेत्ययुक्तम्।
छान्दोग्ये यावदायुस्सुचरितमुदितं ब्रह्मलोकाप्तिहेतोः
तद्धि ध्यानस्य वृद्ध्यै तदपि च विहितं कुत्रचित्प्रायणान्तम्॥
३४-तमाहोबिल-यतिः - 28
- एकस्मिन्नेवेत्यादि। एकस्मिन्धस्र एव – एकस्मिन् दिन एव। परध्यानरूपा – परमात्मध्यानात्मिका। भक्तिः –उपासना। यदि तु भवति – यदि निण्पन्ना भवति। विधिः — भक्ति विधिः। तद्विश्रान्तस्स्यात् – तावंश एव पर्यवसितस्स्यात्। उपरि तु –तदुपरितनकालेतु। ब्रह्मचिन्ता- –ब्रह्मध्यानरूपा भक्तिः। विफला फलहेतुर्नेत्यर्थः। यावानंशो विहितस्तावानेव हि फलहेतुः। इत्ययुक्तम् – इति शङ्कनमयुक्तम्। छान्दोग्ये – सामागानामुपनिषदि। ब्रह्मलोकमभिसम्धते न च पुनरावर्तते नच पुनरावर्तते, इति वाक्येन प्रतिपादितम्। तत् –सन्निपत्योपकारकतया ध्यानस्वरूपोत्पत्तिहेतोस्तुचरितस्य यावदायुरनुष्ठेयत्वकथनम्। ध्यानस्य वृद्धयै हि –ध्यानस्वरूपविवृद्धयर्थमेव हि। ध्यानस्वरूपोत्पादक" कर्मानुष्ठानस्य यावदायुरनुष्ठानकथनं ब्रह्मविधाया यावदायुरनुष्ठेयत्वमन्तरानुपपधमानं श्रुतार्थापत्त्या ब्रह्म विध्या आप्रायणादनुवर्तनीयत्वमववोधयतीति भावः। अपि च – न केवलं श्रुतार्थापत्यास्यार्थस्य कॢप्तिः, श्रुतिरण्यस्तीत्यर्थः। तत् – ब्रह्मोपासनम्। कुत्रचित् — शाखाभेदे। प्रायणान्तं विहितम् – स यो हवै तद्भगवन्मनुण्येषु प्रायणान्तमोङ्कारमभिध्यायीत इत्यादिवाक्ये प्रायणान्तमनुष्ठेयतया विहितम्। अतो विधिदारीद्रयमपि नेत्यर्थः॥
कुमार-वरदः - 28
- अत्र सङ्गतिभाष्ये तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव सम्पाद्यम्, उतप्रायणात् प्रत्यहमनुवर्तनीयमिति विशये इति।तदर्थविचारस्तु– उक्तलक्षणमुपासनं किमेकस्मिन्नहनि कर्तव्यमुताप्रायणादिति। किमेकदिनानुष्टानेन शास्त्रार्थस्य कृतत्वं नेति। अत्र पूर्वपक्षानिवादपूर्वकं सिद्धान्तमाचष्टे– एकस्मन्नेति ।अयमत्र शब्दान्वयः– एकस्मिन्नेव दिवसे पराध्यानरूपा तु भक्तिर्यादि भवति तत्रैव विधिर्विश्रान्तस्स्यात् उपरि तु ब्रह्मचिन्ता विफलेति पूर्वपक्षः। तमिमं निराकरोति– अयुक्तमिति।तत्र हेतुमाह– छान्दोग्ये हि स खल्ववेवं वर्तयन्यावदायुषम् इत्यादिना यावदायुस्सुचरितमुदितम्। ब्रह्मलोक प्राप्तिहेततोस्सुचर्तस्य ध्याने सन्निपात्योपकारकतया स्वरुपोत्पतेतिसुचरितस्य यावदायुरनुष्टेयत्वं ब्रह्मविद्या यावदायुरनुष्ठेयत्मन्तरेणानुपपद्यमानं" श्रुतार्थापत्त्याब्रह्मविद्याया आप्रायणादनुवर्तनीयत्वमनबोधयति न केवलं श्रुतार्थपत्त्या तत्सिद्धिः, अपि तु तदपि ब्रह्मोपासनं कुत्रापि श्रुतौ प्रायणान्तं विहितं ‘प्रायणान्तमोङ्गारमभिध्यायीत ’ इति॥
मूलम् - 28
- एकस्मिन्नेव घस्रे यदि भवति परध्यानरूपा तु भक्तिः
तद्विश्रान्तो विधिस्स्यादुपरि तु विफला ब्रह्मचिन्तेत्ययुक्तम्।
छान्दोग्ये यावदायुस्सुचरितमुदितं ब्रह्मलोकाप्तिहेतोः
तद्धि ध्यानस्य वृद्ध्यै तदपि च विहितं कुत्रचित्प्रायणान्तम्॥