विश्वास-प्रस्तुतिः - 24
- आसीनस्यैव योगश्श्रुतिषु न ददृशे ध्यानमाहुस्सदेति
न्यायश्चेलाजिनादेर्नियमविधिकृतः पाक्षिकासीनतायाम्।
तस्मादेतद्धटेत स्थितिगतिशयनेष्वप्रकम्प्येन्द्रियस्ये-
त्यप्राप्तं यत्ननिद्रान्वयिनि कथमविच्छिन्नधीसन्ततिस्स्यात्॥
३४-तमाहोबिल-यतिः - 24
- आसीनस्यैवेत्यादि।श्रुतिषु आसीनस्यैव। योगः – ध्यानम्। नददृशे – कार्यमिति न दृष्टम्। सदा ध्यानमित्याहुः – सर्वावस्थास्वपि ध्यानं कार्यमिति ‘स खल्वेनं वर्तयन् यावदायुषम्’‘सदा तद्भावभावितः’ ‘तस्मात्सर्वेषु कालेषु मामनुस्मर’ इत्यादिश्रुतिस्मृतयः" प्रतिपादयन्तीत्यर्थः। चेलाजिनादेर्न्यासः पाक्षइकासीनतायां नियमविधिकृतिः – ‘शुचौ देशे’ इत्यारभ्य ‘चेलाजिनकुशोत्तरम्’ इत्यादिवचनैश्चेलाजिनादेर्विन्यासविधिर्न नियतः, अपितु पाक्षिकासीनत्वावस्थायां चेलाजिनकुशोत्तरत्वमनियमविधिकरणम्। तस्मात् – उक्तोपपादनात्। अप्रकम्प्येन्द्रियस्य – विषयाप्राधृष्येन्द्रियस्य योगिनः। स्थितिगतिशयनेषु –आसनगमनशयनावस्थास सर्वास्वपि। एतत् – ध्यानम्। घटेत–सम्भवेत्।इत्यप्राप्तम्— इति शङ्कनमनुचितार्थकम्।यत्ननिद्रान्वयिनि – गमनदशायां" गत्युपयोगिप्रयत्नयोगिनि शयनदशायां निद्रायोगिनि च पुरुषे। अविच्छिन्नधीसन्ततिः –तैलधारावदविच्छिन्नधीसन्तानात्मकं ध्यानम्। कथं स्यात् – कथं सम्भाव्येत। अत आसीनस्यैव तत्सम्भव इति आसीनेनैव ध्यानं कार्यमिति भावः॥
कुमार-वरदः - 24
- अत्र सङ्गतिर्भाष्य एव सुव्युक्ता ’ मोक्षसाधनतया वेदान्तशास्त्रैर्विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृतावृत्तं सन्ततस्मृतिरूपमित्युक्तम्। तदनुतिष्ठन्नासीनश्शयानस्तिष्ठन्गच्छंश्च विशेषाभावादनियमेनानुतिष्ठेत् ’ इति शङ्क्या। समनन्तराधिकरणयोः प्रासङ्गिकत्वात्प्रधानसङ्गतिरेव वाच्येत्यर्थः। तदर्थविचारस्तु– किमासीनश्चिन्तयेदुतासीनश्शयानस्तिष्ठन् गच्छन्वेति। किं गमनादिषु ध्यानं सम्भवति नेति। अत्र पूर्वपक्षमाह– आसीनस्ये ति। अयमत्र शब्दार्थः– आसीनस्यैव योग इति श्रुतिवाक्यं तावन्नास्ति नापि श्रुत्यर्थापत्तिः काचित् ’ स खल्वेवं वर्तयन्यावदायुषम् ’ ’ तद्रूपप्रत्यये चैक् सन्ततिस्चान्यनिस्स्पृहा ’ इत्यादिभिस्सदात्वमपि प्रतिपद्यामहे ध्यानस्य। ननु चेलाजिनकुशोत्तरमित्यासनपरिकल्पऩञ्च योगिनामनुश्रूयत इत्याशङ्क्य परहरति– न्यास इति। अयमर्थः–आसनपरिकल्पनं न नियतम्, अपित्वासीनत्वावस्थायां कादाचित्कमेव भवति तत्र ’ चेलाजिन कुशोत्तरम् ’ इति नियमविधिः क्रियते तेन गच्छन्नासीनश्शयानो वा ध्यानं कुर्यादिति। तदिदमाह– तस्मा दिति। अत्रा प्रगम्प्येन्द्रियस्य पुरुषस्य स्थितौ वा गतौ वा शयने वा ध्याने सम्भवेदिति। तदेतद्दूषयति– अप्राप्त मिति। अप्राप्तत्वमेव प्रकटयति– यत्ने ति। गमने हि यत्न एव शयने निद्रान्वयादप्रबोदो भूयानुपजायते तस्मादौचित्यादासीस्यैव ब्रह्मध्यानं प्रकल्पनीयमित्यर्थः॥
मूलम् - 24
- आसीनस्यैव योगश्श्रुतिषु न ददृशे ध्यानमाहुस्सदेति
न्यायश्चेलाजिनादेर्नियमविधिकृतः पाक्षिकासीनतायाम्।
तस्मादेतद्धटेत स्थितिगतिशयनेष्वप्रकम्प्येन्द्रियस्ये-
त्यप्राप्तं यत्ननिद्रान्वयिनि कथमविच्छिन्नधीसन्ततिस्स्यात्॥
विश्वास-प्रस्तुतिः - 25
- चित्तैकाग्र्योपपत्त्यै विदधति नियतिं देशकालासनादेः
सच्छिद्रं त्वन्यदापि क्षममिति सततं चिन्तनं संस्मरन्ति।
प्रत्यक्संस्कारभूम्ना परनिहितधियस्तादधीन्यादिबुद्ध्या
जुष्टं व्यासक्तनीत्या भवति हि समये योगिनः कर्म सर्वम्॥
३४-तमाहोबिल-यतिः - 25
- चित्तैकाग्र्योपपत्त्या इत्यादि। चित्तैकाग्र्योपपत्त्यै — योगदशायां चित्तैकाग्र्यसम्पत्तये।देशकालासनादेः – शुद्धदेशविहितकालचेलाद्यासनापाक्षययोगपट्टादीनाम्। नियतिम् – आवश्यकत्वम्। विदधति –महर्षय इति शेषः। सच्छिद्रं तु अन्यदापि क्षममिति सततं चिन्तनं संस्मरन्ति – सच्छिद्रं चिन्तनं" देशकालवैगुण्येऽपि कर्तुं शक्यमिति वाचोयुक्त्या देशकालवैगुण्याभावे सततमेव चिन्तनमव्याक्षेपेण कर्तव्यमिति च संस्मरन्ति। पूर्ववत् महर्षय इति शेषः। प्रत्यक्संस्कारभूम्ना –दृढतरात्मचिन्रनजनितसंस्कारपाटवातिशयेन। परनिहितधियो योगिनः– ‘सदातद्भावभावितः’ इत्युक्तरबत्या आत्मन्येन समर्पितबुद्वेरधिकारिणः। व्यासक्तनीत्या– एकस्मिन्कार्ये व्यासक्तहृदयस्य तदुपयोगीन्यन्यान्यपि कार्याण्यविरुद्वानि कुर्वतः" पुरुषस्य न्यायेन। तादधीन्यादिबुद्वया जुष्टम् –कर्तरि स्वस्मिन् अनुष्ठीयमाने कर्मणि तत्परिकरे देहादौ कर्मफले च भगवत्पारतन्त्र्यतादथ्र्यादिबुद्वया युक्तम् । सर्वं" कर्म – नित्यनैमित्तिकानिषिद्वकाम्यविशेषरूपं सकलमपि कर्मदातम्।समये – तत्तत्समये। भवति हि – अनुष्टातुं सम्भावितं भवति । प्रसिद्वमेतदिति भावः॥
कुमार-वरदः - 25
- अत्र ध्यानस्य नित्यानुष्ठानमेव विहितम्, अथाप्यवर्जनीयकर्मान्तरसद्भावे सच्छिद्रमपि चिन्तनं क्रियमाणं विहितस्य नित्यचिन्तनस्य न विरोधमापादयतीत्याह– चित्तैकाग्र येत्यादिना। अयमत्र शब्दान्वयः– योगदशायां चित्तैकाग्रयोपपत्त्यै देशकालासनादेर्नियतिं विदधति महर्षयः। सच्छिद्रं चिन्तनं देशकालादिवैगुण्येऽपि कर्तुं शक्यत इति देशकालादिसाद्गुण्ये सतत मेव चिन्तनमव्याक्षेपेण कर्तव्यमिति ते संस्मरन्ति। तर्हि निरन्तरध्यानतत्परस्य कर्मान्तराणि न कर्तव्यानीत्याशङ्क्यावश्यकर्तव्यानां कर्मणां परित्यागायोगात् प्रमाणानुसारेण भगवत्प्रेरितत्वानुसन्धानपूर्वकं सर्वमपि देहसंरक्षणादिशेषभूतं कर्म योगसिद्ध्यर्थत्वात्कर्तव्यमेव। यानि तु प्रतिषिद्धानि तानि न कर्तव्यान्येव। यानि पुनः काम्यानि तान्यपि तथा न कर्तव्यान्येव। तान्येव पापापाकरणद्वारेण विनियोगपृथक्त्वेव योगसिद्धयर्थतया विहितानि चेत् न परित्याज्यान्येव। नैतावता योसिद्धेर्विरोधः। यथाकासं योगार्थानां कर्मणामनुष्ठानस्य विहितत्वादित्याह – व्यासक्तनीत्ये ति। यथा लोके प्रधानभूते कस्मिंश्चित् कर्मणि वर्तमानाएव मध्ये तदनुबन्धिषु कार्येष्वपि परस्पराविरोधेन वर्तन्ते तद्वदत्रापीत्यर्थः॥
मूलम् - 25
- चित्तैकाग्र्योपपत्त्यै विदधति नियतिं देशकालासनादेः
सच्छिद्रं त्वन्यदापि क्षममिति सततं चिन्तनं संस्मरन्ति।
प्रत्यक्संस्कारभूम्ना परनिहितधियस्तादधीन्यादिबुद्ध्या
जुष्टं व्यासक्तनीत्या भवति हि समये योगिनः कर्म सर्वम्॥
विश्वास-प्रस्तुतिः - 26
26.कर्मोपास्त्यङ्गभूतं यदिह निगदितं तत्परे पूर्वपादे
योगेन ब्रह्मदृष्टिर्यदपि च परमो धर्म इत्युक्तमाप्तैः।
तेन प्राधान्यसिद्धावितरदनुगुणं तस्य नेयं तथा च
प्रायः प्रकान्तयोगे पटिमलघुतया कल्पितः कालयोगः॥
३४-तमाहोबिल-यतिः - 26
- कर्मेत्यादि। इह –शरारीकशास्त्रे । तत्परे– विद्याङ्गतत्परे । पूर्वपादे – पुरुषार्थपादे। कर्म–नित्यनैमित्तिकादिकं कर्म। उपास्त्यङ्गभूतम् –उपासनाङ्गभूतमिति। यत् – यस्मात्कारणात्। निगदितम् –प्रतिपादितम्।अपिच योगेन – यमनियमाद्यङ्गकेन समाधिना । ब्रह्मदृष्टिः – ब्रह्मसाक्षात्कारः।परमो धर्म इति – उत्तमधर्म इति।आप्तैः – महर्षिभिः। यत् – यस्मात्कारणात्। उक्तम् –‘अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् इत्युक्तम्। तेन – कारणेन। प्राधान्यसिद्धौ– उपासनस्य प्राधान्यसिद्धौ सत्याम्। इतरत् – कर्म।तस्य – प्रधानस्योपासनस्य। अनुगुणम् – अनुगुणतया अविरोधेन। नेयम् —अनुष्टेयम्।तथाच– एवञ्च सति। प्रायः – बाहुल्येन। प्रक्रान्तयोगे – उपक्रान्तयोगानुष्ठाने युञ्जाने पुरुष इत्यर्थः। पटिमलघुतया – योगानुष्ठानपाटवाल्पत्वेन तत्पाटवातिशयसिद्ध्यर्थम्।कालयोगः — कर्मणामनुष्ठानकालनियमः। कल्पितः – स्वीकर्तव्यः। ‘अनुक्रमात्पाटवे जायमाने तदानीमपि यथायोगं कर्म कर्तव्यमित्याशयः’ इति चिन्तामणिः॥
कुमार-वरदः - 26
- उक्तस्यैवार्थस्य द्रढिम्ने योगस्य प्राधान्यमनूद्य प्रधानानुसारेणैव तदङ्गस्य कालयोगः कल्पनीय इति प्रदर्शयन् प्रधानभूतयोगस्वरूपनिष्पत्त्यर्थत्वात् सर्वकर्मणोऽपि काले कर्तव्यत्वं निगमयति- कर्मे ति। अयमत्र शब्दान्वयः – कर्मोपास्त्यङ्गभूत मिति विद्याङ्ग पादे विगदित मिति यत् ’ अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ’ इत्याप्तैर्महर्षिभिरुक्तमिति यत् तेन योगस्य प्राधान्यसिद्धावितरत् कर्म तदनुगुणतया योज्यम्। अयमर्थः– अङ्गाङ्गिनोर्विरोधे सत्यङ्गयनुष्ठानाविरोधेनैवेतरानुष्ठानं" कर्तव्यमिति। एवञ्च सति प्रक्रान्तयोगो पुरुषे पटिमसघुतया योगपटुत्वाभावेन तत्पाटवसिद्धयर्थं कर्मणां कालयोग स्स्वीकर्तव्यः। अनुक्रमात् पाटवे जायमाने तदानीमपि यथायोगं कर्म कर्तव्यमित्याशयः। अयमर्थः– ’ स खल्वेवं वर्तयन्यावदायुषम् ’ इति वचनमङ्गिभूताया विद्यायास्तदङ्गत्वेनानस्थितानां कर्मणाञ्च तुल्यमिति॥
मूलम् - 26
26.कर्मोपास्त्यङ्गभूतं यदिह निगदितं तत्परे पूर्वपादे
योगेन ब्रह्मदृष्टिर्यदपि च परमो धर्म इत्युक्तमाप्तैः।
तेन प्राधान्यसिद्धावितरदनुगुणं तस्य नेयं तथा च
प्रायः प्रकान्तयोगे पटिमलघुतया कल्पितः कालयोगः॥
विश्वास-प्रस्तुतिः - 27
27.विद्याङ्गं पूर्वमुक्तं किमिहं पुनरसावासनाद्यङ्गचिन्ता
दृष्टार्थांशं विभज्य प्रथयितुमपि न प्राक्शमाद्यङ्गवादात्।
सत्यं ध्यानाख्यधारावहनमतिदशा त्वन्वहं साधनीया
चित्तैकाग्र्येण सर्वप्रयतनविरहे स्यादितीदं प्रकाश्यम्॥
३४-तमाहोबिल-यतिः - 27
- विद्याङ्गमित्यादि।पूर्वम् –पूर्वपादे।विद्याङ्गम् – उपासनाङ्गं सकलमपि। उक्तम् –प्रतिपादितम्।इह – अस्मिन्पादेऽपि। पुनः –पुनश्च। असौ आसनाद्यङ्गचिन्ता – आसनाद्युपासनाङ्गविचारः। किम् –किमिति क्रियते।उक्तस्य पुनरुक्तिरयुक्तेति भावः। दृष्टार्थाशं" विभज्य प्रथयितुमपि न – उपासनाङ्गं द्विविधं दृष्टार्थमदृष्टार्थञ्च तत्र दृष्टार्थाङ्गरूपमंशं प्रथयितुं प्रकाशयितुमत्रोक्तिः" अदृष्टार्थाङ्गरूपमंशं प्रकाशयितुं पूर्वमुक्तिरित्यपि न युक्तम्। प्राक् – पूर्वपादेऽपि। शमाद्यङ्गवादात् – दृष्टार्थानां" शमाद्यङ्गानां वादात् प्रतिपादनात्। सत्यम् – दृष्टादृष्टार्थमुभयविधमप्यङ्गजातं पूर्वापादोक्तमित्यनुमन्यामहे तथापि। अन्वहम् – अनुदिनम्। साधनीया –यावदायुरुत्तरोत्तरमवधानेन प्रसाधनीयेर्थः। ध्यानारव्यधारावहनमतिदशा तु — ध्यानारव्या या धारावाहिकबुद्धिस्तद्दशा तु। चितैकाग्रधेण — चित्तस्य मनस ऐकाग्रधेण विषयान्तरव्यासह्गनिशशेषत्यागसंवलितध्येयैकप्रावण्येन। सर्वप्रयतनविरहे – प्रयत्नसामान्याभाव एव। स्यात् –सम्भवेत्। इति –एवमाकारम्। इदम्– शिण्येभ्यो ज्ञापनीयं तत्त्वम्। प्रकाश्यम् – सुत्रकारस्य प्रकाशनीयत्वेनाभिमतम्। अतः फलभेदान्न पुनरुक्तिरिति भावः॥
कुमार-वरदः - 27
- अत्र कश्चित्पौनरुक्त्यशङ्क्या विद्याङ्गचिन्तनमत्र न कर्तव्यमिति ब्रूते– विद्याङ्गमिति। अयमत्र शब्दार्थः– विद्याङ्गं पूर्वपाद एवोक्तं किमिह पुनरसावानाद्यङ्गचिन्ता क्रियत इति।अत्र पूर्वपक्षी पराभिप्रायमाशङ्क्य निराकरोति– दृष्टेति। तत्रादृष्टार्थाङ्गचिन्ता कृता इह पुनर्दृष्टार्थासनाद्यङ्गचिन्ता क्रियत इति विभागे न वक्तव्यः।तत्र हेतुमाह– प्रागिति। पर्वपक्षमिति दृष्टार्तआनां शमादीमनामुक्तत्वादयं विभागो न घटत इति भावः। उक्तमर्थमाघाङ्गीकारेण प्रतिक्षिपति– सत्य मिति।अयमर्थः– दृष्टार्थमदृष्टार्थमुभायमङ्गदातं" विद्याङ्गपादोक्तमित्यनुमन्यमाहे तथापि ध्यानाख्यघारानहनमतिदशातूपासकैरन्वहं साधनीयः यावदायुरुत्तरोत्तरमवधानेन प्रसाधनीयेत्यर्थः, सा च दशा चित्तैराग्रयेणेतरविषयसर्वप्रयत्नविरहे सत्येव सेत्स्यतीतीममर्थं विशेषतः प्रकाशयितुं अनुग्रहविशेषात् सूत्रकारः पुनःपुनः" शिष्यमाणां प्रकाशयतीति॥
मूलम् - 27
27.विद्याङ्गं पूर्वमुक्तं किमिहं पुनरसावासनाद्यङ्गचिन्ता
दृष्टार्थांशं विभज्य प्रथयितुमपि न प्राक्शमाद्यङ्गवादात्।
सत्यं ध्यानाख्यधारावहनमतिदशा त्वन्वहं साधनीया
चित्तैकाग्र्येण सर्वप्रयतनविरहे स्यादितीदं प्रकाश्यम्॥