04 आदित्यादिमत्यधिकरणम्

विश्वास-प्रस्तुतिः - 20

20.तादर्थ्याद् देवतानां फलकरणतया कर्मणश्चोदितत्वात्
आदित्यादौ निकृष्टात्मनि भवतु समुत्कृष्टकर्माङ्गदृष्टिः।
मैवं कर्म प्रधानं विहितमपि यतस्तत्समाराधनं तत्
तत्प्रीता देवतैव प्रदिशति फलमित्यर्थतस्सा प्रधानम्॥

३४-तमाहोबिल-यतिः - 20

20.तादर्थ्यादित्यादि। देवतानाम् – अग्नीन्द्रादीनाम्। तादर्थ्यात् – कर्मशेषभूतत्वात्। कर्मणः – साङ्गस्य यज्ञादिरूपकर्मणः। फलकरणतया चोदितत्वात् – फलसाधनत्वेन विहितत्वात्।निकृष्टात्मनि – निकृष्टः फलसाधनभूतकर्मापेक्षया तच्छेषत्वकृतं फलसाधत्वाभावकृतञ्चापकर्षं प्राप्त आत्मा यस्य तादृशे। आदित्यादौ – आदित्याददेवतायाम्। समुत्कृष्टकर्माङ्गदृष्टिर्भवतु – फलसाधत्वलब्धोत्कर्षकर्माङ्गदृष्टिः कर्तव्या भवतु।मैवम् — एवं माशङ्किष्टाः। कर्म – यज्ञादिकर्म। प्रधानं विहितमपि – शाब्दक्रमेण प्रधानतया विहितमपि। यतः – कारणात्। तत्समाराधनम् – यजदेवपूजायामित्यनुशासनद्देवताराधनात्मकम्। यतश्च तत्प्रीती देवतैव फलं प्रदिशति – यस्माच्च कारणात् तादृशकर्मानुष्ठानेन प्रसन्ना इन्द्रादित्यादिदेवतैव तत्तत्कर्मफलभूतं" स्वर्गादिकं प्रददाति। इत्यर्थस्सा प्रधानम् – एवमर्थस्वभावेनाराधनगताराधअयप्रधानकत्वदेवताद्वारकफलहेतुत्वरूपेण सा देवता प्रधानभूता। तत् – तस्मात्। मैवमित्यन्वयः अतो देवतादृष्टिरेव यज्ञाङ्गभूतोद्गीथादौ कर्तव्यति भावः। यद्वा तच्छब्दः कर्मविशेषणम्। तत्कर्म प्रधानं विहितमपीत्यन्वयः॥

कुमार-वरदः - 20
  1. पूर्वाधिकरणे खल्वपकृष्टेषूत्कृष्टदृष्टिन्याय्येत्युक्तम्। तर्हि फलसाधनतयः उत्कृष्टस्योद्गीथादेरादित्यादौ दृष्टिः करतव्येति शङ्क््या सङ्गतिः। तदर्थविचारस्तु– क्रत्वाङ्गश्रयोपासनेषु किमादित्यादावुद्गीथदृष्टिः उतोद्गीथादावादित्यदृष्टिः। फलसाधनतयोत्कर्षः" किमादित्यादेः, उतोद्गीथादेरिति । अत्र पूर्वपक्षी प्राह – ताद्रथ्या दति । देवतानां कर्मशेषत्वात् कर्मण श्चफलसाधानत्वेन चोदितत्वान्निकृष्टात्मन्यादित्यादौ फलसाधनत्वेनोत्कृष्टकर्माङ््गदृष्टितित्यर्थः।अनुदितमर्थं निराकरोति-मैवमिति। प्रतिक्षेपप्रकारं विवृणोति- कर्मेति। अयमर्थः– यद्यपि कर्म प्रधानतया विहितमेव तेन शाब्दप्राधान्यं कर्मणयेव वर्तते तथाप्यार्थप्राधान्यं" देवतानामेवेति। तत्र हेतुमाह– यतस्तत्समाराधनं तदिति। यजदेवपूजायामित्यादिषु सर्वत्र कर्म देवतासमाराधनरूपत्वात् देवतां प्रत्यप्रधानमेव, अत्रापि तद्वदेव प्राधनभूतादित्यादीन्प्रति यज्ञाङ्गदृष्टेरप्रधानत्वादप्राधानेषूद्गीथादिषूत्कृष्टरूपादित्यादिदृष्टिन्याय्येति देवतायाः प्राधान्यमेवोपपादयति–तत्प्रीतेति।सर्वमप्यनुष्ठानं" फलार्थमेव। कर्मभिराराधिता देवतैव फलं ददाति। अतो देवतैव प्रधानम्।तस्माद्देवतादृष्टिरेवान्यत्रं कार्या॥
मूलम् - 20

20.तादर्थ्याद् देवतानां फलकरणतया कर्मणश्चोदितत्वात्
आदित्यादौ निकृष्टात्मनि भवतु समुत्कृष्टकर्माङ्गदृष्टिः।
मैवं कर्म प्रधानं विहितमपि यतस्तत्समाराधनं तत्
तत्प्रीता देवतैव प्रदिशति फलमित्यर्थतस्सा प्रधानम्॥

विश्वास-प्रस्तुतिः - 21

21.अन्यस्मिन्नन्यदृष्टेरविधिरिह घटतामन्यथाख्यातिपक्षे
याथार्थ्यं सर्वबोधानुगतमिति मते युज्यते नान्यदृष्टिः।
तन्नात्राद्ये हि न स्याद् विमतिरविमता भ्रान्तिनीतिः परस्मिन्
तादृग्भेदाग्रहोपप्लुतमतियुगलस्थापनायां नियोगात्॥

३४-तमाहोबिल-यतिः - 21
  1. अन्यस्मिन्नन्यदृष्टेरित्यादि। अन्यस्मिन् – उद्गीथादौ। अन्यदृष्टेः — तद्भिन्नादित्यादिरूपेण भावनायाः। विधिः – ‘य एवासौ तपति तमुद्गीथमुपासीत’ इत्येवमादिषु विधानम्। इहान्यथाख्यातिपक्षे – शुक्त्यादौ रजतत्वादिभ्रममङ्गीकुर्वतां सिद्धान्ते। घटताम् – उपपाद्यताम्।तदभाववद्विशेष्यकतत्प्रकारकज्ञानत्वरूपान्यथाख्यातिलक्षणस्य गरुडत्वाभाववन्नरविशेष्यकगरुडत्वप्रकारकज्ञानात्मकगरुडध्याने आदित्यत्वाभाववदुद्गीथविशेष्यकादित्यत्वप्रकारकज्ञानात्मकोद्गीथोपासने च सत्त्वात् अन्यस्मिन्नन्यदृष्टिविधिरुपपन्न इति भावः। याथार्थ्यम् – तद्वद्विशेष्यकतत्प्रकारकज्ञानत्वरूपं याथआर्थ्यम्। सर्वबोधानुगतम् – प्रमात्वेन लोकसिद्धेषु घटपटादिज्ञानेषु भ्रमत्वेन लोकसिद्धेषु शुक्तिरजतरज्जुसर्पादिज्ञानेषु च तुल्यतयानुगतम्। शुक्तिरज्जवोरपि रजतसर्पावयवसद्भावात् तद्वद्विशेष्यकतत्प्रकारकज्ञानत्वरूपयाथार्थ्यस्य शुक्तिरजतरज्जुसर्पज्ञानादावपि सत्त्वात् सर्वं ज्ञानं यथार्थमिति भावः। इति मते – एवमङ्गीकुर्वतां भवतां सिद्धान्ते। अन्यदृष्टिः न युज्यते – मनुष्यादौ उद्गीथादौ च गरुडत्वादित्यत्वादिदृष्टिविधिः नोपपन्नो भवति। कथमिति चेत् दृष्टिविशेषणभूतयोर्गरुडादित्ययोर्निरवयवत्वेन दृष्टिविशेष्ये मनुष्ये उद्गीथादौ च तदवयवसद्भावावार्ताया अप्ययुक्तत्वात् गरुडत्ववद्विशेष्यकत्वमादित्यत्ववद्विशेष्यकत्वञ्च तद्दष्ट्योरसम्भवतीति कथं तयोर्याथार्थ्यम्, अतस्सर्वं ज्ञानं यथार्थमिति पक्षेऽन्यदृष्टिर्विरुध्यत इति।तन्न – तच्छङ्कनं न युक्तम्। अत्र – शङ्कितविषये। आद्ये विमतिर्न स्याद्धि – अन्यथाख्यातिपक्षे विप्रतिपत्तिर्न भवति खलु। पूर्वमुपपादितरीत्या युक्तियुक्तत्वात् अन्यथाख्यातिपक्षे दृष्टिविधेर्युक्तत्वायुक्तत्ववैमत्यं न किलेति भावः। तदस्तु सत्ख्यातिपक्षे का कथेति चेत् तदुच्यते –अविमतेत्यादि।परस्मिन् – द्वितीयपक्षेऽपि।तादृग्भेदाग्रहोपप्लुतमतियुगलस्थापनायाम् – तादृक् अन्यथाख्यातिवत् व्यवहारान्यथाभावसम्पादनसमर्थो यो गरुडमनुष्ययोरादित्योद्गीथयोश्च भेदाग्रहस्तेन उपप्लुतं अयथावस्थितव्यवहारजनकतारूपं कालुष्यमापन्नं" यत् गरुडमनुष्यविषयकं उद्गीथादित्यविषयकं वा मतियुगलं ज्ञानद्वयं तस्य स्थापनायाम् अनुवर्तनौपयिकमनोव्यापारे। नियोगात् – चोदनात्। भ्रान्तिनीतिः – भ्रान्तित्वयुक्तिः। अविमता – अविप्रतिपन्ना सर्वसम्मन्तव्येत्यर्थः। अयं भावः – अस्मत्सिसिद्धान्तेऽन्यथाख्यात्यङ्गीकारो नास्तीति न भ्रमितव्यम्। श्रीभाष्यकारैरेव भाष्ये बहुषु स्थलेषु अन्यथाख्यात्यङ्गीकारप्रकटनात्। तैरुपन्यस्ते नाथमुनिमिश्रादिवेदवित्सम्मते यथार्थख्यातिपक्षेऽपि न सर्वत्रावयवसद्भावेन सत्ख्यादिनिर्वाहस्तदभिमतः, अपितु यत्रावयवसद्भावसम्भवस्तत्रैव तथानिर्वाहः, अन्यत्र तु भेदाग्रहसहकृतज्ञानद्वयात्मकत्वेन प्राभाकरादीनामिव निर्वाहः, तथाचाहं गरुडइति ध्यानम् उद्गीथ आदित्य इत्यादिध्यानञ्चाहन्त्वप्रकारकस्वात्मविशेष्यकगरुडत्वप्रकारकगरुडविशेष्यक" ज्ञानद्वयात्मकं तथोद्गीथत्वप्रकारकोद्गीथविशेष्यकादित्यत्वादिप्रकारकादित्यादिविशेष्यकज्ञानद्वयात्मकञ्च गरुडस्वात्मभेदाग्रहसहितमुद्गीथादित्यादिभेदाग्रहसहितमपिच तदीदृशं ज्ञानद्वयं यथार्थमेव विहितमिति नास्मत्सिद्धान्तैकदेशविरोध ति। नन्वेवं सर्वेषामपि ज्ञानानां तद्वति तत्प्रकारकत्वेन प्रमात्वे लोकसिद्धभ्रमप्रमाभेदोपपदानं कथमिति चेत् त्तसावधानो निशामय। यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमेति प्रमालक्षणम्। अतो विपरीतं" ज्ञानं भ्रम इति सुगमम्। शुक्तिदर्शानन्तरभाविशुक्तिरजतभेदाग्रहशुक्तिरजतज्ञानद्वयेन इदं रजतमित्याकारवता जायमान इदं रजतमितिव्यवहारो न यथावस्थितः, पुरोवर्तिवस्तुपरस्येदमादिशब्दस्य तदुत्तररजतादिपदेन सामानाधिकरण्याभावात् यथावस्थितेषु अयं घटोऽयं पट इदं पुष्पमिदं" फलमित्यादिव्यवहारेषु तथादर्शनात् ज्ञाने व्यवहारे चायथावस्थितः परपक्षसिद्धा। व्यवहारमात्रस्यायथावस्थितिरस्मत्सिद्धान्तसिद्धा। तथा च शुक्तिगरतादिज्ञानवदयथावस्थितव्यवहारानुगुणत्वात् निरुक्तं गरुडादिज्ञानद्वयं भ्रान्तिशब्दवाच्याज्ञान विशेषगतायथावस्थितव्यवहारानुगुणत्वरूपभ्रान्तिलक्षणलक्षितमेव। अत एव लोकसिद्धभ्रमप्रमाव्यवहारभेदस्योपपत्तिरिति न किञ्चित्सङ्कटमिति। तथा च न्यायपरिशुद्धावाचार्यपादश्रीसूक्तिः – ‘वयं तु ब्रूमः। यथावस्थितव्यवहारनुगुणं ज्ञानं प्रमेति। यथार्थख्यातमख्यातिमन्यथाख्यातिमेव वा। इच्छद्भिर्न विमन्तव्यमिदं लोकानुसारतः॥ ‘इत्यारभ्य ‘ततश्च प्रतिपत्तौ वा व्यवहारोदयेऽपि वा। तथाभावन्यथात्वाभ्यां प्रमाभ्रान्तिव्यवस्थितिः॥ विपर्ययादेर्व्यावृत्तिरेवमेव हि सिध्यति। यत्किञ्चिदन्यथात्वं हि वैपरीत्यमितीष्यते॥ आत्मख्यात्यादिवादेष्वप्यन्यथात्वमवारितम्। भ्रमप्रवृत्तिबाधादेरन्यथा न हि सम्भवः। एवं सत्यन्यथाधीस्तत्सामग्री वापि लाघवात्॥ अयथाव्यवहारस्य हेतुरित्यवशिष्यते। सर्वैरप्यन्यथाख्यातिर्दुस्त्यजत्वाल्लघोयसी॥ तद्वादिनाप्यवर्ज्यत्वात् ततोऽप्यख्याति लाघवम्। स्वारस्यमन्यथोख्यातावख्यातौ लाघवं स्थितम्॥ इति दर्शयितुं भाष्ये द्वितयं तदनुज्ज्ञितम्॥ इत्यादिः॥
कुमार-वरदः - 21
  1. अत्र कश्चिच्चोदयति– अन्यस्मिन्नेति । युषमाकं सिद्धान्ते भ्रान्तिरस्तीति केषाञ्चिन्मर्यादा। भेदाग्रहमात्रमेव ग्रहणस्मरणयोरस्ति न भ्रान्तिरस्तीत्यपरेषां मर्यादा। यथार्थख्यातिवादिनश्च यूयम्। तथा च सति भ्रान्त्यभावं वदतां भवत्कानां कथं दृष्टिविध्यङ्गीकारोऽन्यदृष्टेभ्रान्तिरूपत्वादिति। अयमत्र शब्दान्वयः– अन्यथाख्यातिपक्षाङ््गिकारे तावदन्यस्मिन्नन्यदृष्टेर्विधिर्घटता मेव। यथार्थं सर्वविज्ञानमिति वेदवितां मतम् इत्यस्मिन्पक्षे नान्यदृष्टिर्युज्यते न दृष्टिविधिर्युज्यते इत्यर्थः।तदेतत्प्रतिक्षिपति–तन्नेति।प्रतिक्षेपपेरकारं" विभज्य दर्शयति– आद्य इति।अन्यथाखयातपक्षे न विप्रपत्तिस्यात्।त्वयैव तस्मिन्पक्षे दृष्टिविधेर्ययुक्तत्वाङ्गीकारात्।अयमर्थः– ये हि यथार्थख्याति वादिनस्तेषामपि लोकदृष्टया भ्रान्तबद्धेः केनापि प्रकारेण निर्वाहः कार्यः, स निर्वाहोतेरापि दृष्टिविधौ वाच्य इति।अत्र निर्वाहप्रहारं दर्शयति– तादृगिति। अयं भावः–शुक्तिरजतमित्यादौ शुक्तिरजतयोस्तादात्यग्रहं वदन्त्यथाख्यातिवादिनः।अख्यादिवादिनस्तु प्राभाकराश्शुक्तिरजतयारतादात्म्याग्रहकं शुक्तिग्रहणरजतस्मारणयोर्भेदाग्रहञ्च भ्रान्तिस्तानीयं वदन्ति। यथार्थ सर्व विज्ञानम् इति वादिमस्तु शुक्तिरजतयोर्द्वयोरपि सद्भावं पञ्चीकरणन्यायेन पुरोवर्तीति वस्तुनि वदन्ति। तत्र शुक्तिभूयस्त्वाग्रहसहकृतरजतग्रहणं वदन्ति तेनात्र प्रवृत्योर्बाध्यते सामाधिकरण्याभावात्।अयमत्र निर्नयः– भ्रान्तिर्यद्यस्ति तदा दृष्टिविधेर्नानुररत्ति यदि नास्ति तदापि भेदाग्रहसहकृतज्ञानद्वयाङ्गीकारेण प्राभाकारमतस्थानामिवास्माकमपि दृष्टिविधिविधान्,याविरोध इति॥
मूलम् - 21

21.अन्यस्मिन्नन्यदृष्टेरविधिरिह घटतामन्यथाख्यातिपक्षे
याथार्थ्यं सर्वबोधानुगतमिति मते युज्यते नान्यदृष्टिः।
तन्नात्राद्ये हि न स्याद् विमतिरविमता भ्रान्तिनीतिः परस्मिन्
तादृग्भेदाग्रहोपप्लुतमतियुगलस्थापनायां नियोगात्॥

विश्वास-प्रस्तुतिः - 22
  1. द्रष्टव्यापह्नवे न भ्रमदनुविहिता दृष्टिरद्वैतमोहः
    स्यादुत्कृष्टापराधस्तत इह विहिता तादृशत्वस्य दृष्टिः।
    तादृग्दृष्टौ न दोषस्तत इति कतिचित्तार्क्ष्यदृष्ट्यादिनीत्या
    द्वेधान्यत्रान्यदृष्टिर्न किमनधिगता व्यक्तितो जातितश्च॥
३४-तमाहोबिल-यतिः - 22
  1. द्रष्टव्यापह्नव इत्यादि। द्रष्टव्यापह्नवे– चोरस्स्थाणुरित्यत्र सामानाधिकरण्येन चोरत्वं यथा बाध्यते एवं ब्रह्माहमित्त्रापि जीवत्वबाधइति केचित् तथा च तैर्द्रष्टव्यापह्नवोऽङ्गीकृतः। तन्मतरीत्या द्रष्टव्यापह्नवे तत्र च द्रष्टव्यस्य जीवस्यापह्नवे विवक्षिते। भ्रमदनुविहिता– भ्रमता जीवेनानुविहिताकृता। द्दष्टिः– अन्यस्यान्यत्वेनानुसन्धानम्। न- न सम्भवति। अध्यस्यत एव बाधो यदि कथमध्याससिद्धिः, नहि कर्तुरभावे क्रिया सिध्यतीति भावः। अद्वैतमोह उत्कृष्टापराधस्स्यात्– ‘अत्राद्वैतशब्देन ब्रह्माभिधीयते। मोहशब्देन ब्रह्मविषयिणी द्दष्टिः’ इति चिन्तामणिः। तद्रूपः उत्कृष्टापराधः सर्वोत्कृष्टब्रह्मविषयकापराधः। यद्वा उत्कृष्टश्चासावपराधश्चेति सामानाधिकरण्यं वा। ब्रह्ममिथ्यात्वापादनात् कोऽन्य उत्कृष्टापराधः। द्रष्टव्यापह्नवशब्देन ब्रह्मापह्नवे विवक्षिते ब्रह्माहमिति ब्रह्मद्दष्टिरूपो मोहो ब्रह्ममिथ्यात्वापादनरूपत्वात् महानपराधस्स्यादिति भावः। ततः– उक्तदोषात्। इह– ब्रह्माहमित्यनुसन्धाने। तादृशत्वस्य– ब्रह्मसादृश्यस्य। द्दष्टिः– भावना। विहिता– विधिविवक्षिता। ‘आदित्यो यूपः’इत्यादिषु प्रत्यक्षविरुद्धयूपादित्यैक्यत्यागेन आदित्यसादृश्यविवक्षावत् जीवब्रह्मणोस्स्वरूपैक्यस्य प्रत्यक्षविरूद्धत्वात् अन्यतरबाधस्य चानुपपन्नत्वात् ब्रह्मसादृष्यानुसन्धानमेव विवक्षितमिति केषाञ्चिन्मतमिति भावः। ततः– तत्र जीवे। इत एहि इतस्ततो वर्तत इत्यादाविव सप्तम्यर्थे तसिः। ताद्दग्द्दष्टौ– ब्रह्मसद्दशता भावनायाम्। न दोषः– पक्षान्तरोक्तदोषो नास्ति। इति कतिचित्– एवं केचिद्वदन्तीत्यर्थः। अन्यत्रान्यद्दष्टिं पक्षान्तरेण द्वेधा दर्शयति– तार्क्ष्येत्यादिना। व्यक्तितो जातितश्च द्वेधा– गरुड एवाहमिति भावनायां व्यक्तितः गरुडजातीयोऽहमिति भावनायां जातितः, एवमन्यत्रापि भावनाभेदेन व्यक्तितो जातितश्चेति द्वेधा प्रकारद्वयेन। अन्यत्र– द्दष्टिविशेष्ये। अन्यद्दष्टिः– द्दष्टिविशेषणीभूतवस्तुत्वभावना। तार्क्ष्यद्दष्ट्यादिनीत्या– गरूडमात्मानं जानीयादित्यादिविहितपूर्वोक्तद्विविधगरूडभावनादिन्यायेन। अनधिगता न किम्– अधिकतेत्यर्थः। वस्तुद्वयभेदाग्रहसहितवस्तुद्वितयविशयकविभिन्न ज्ञावद्वयरूपा या पूर्वमुपपादिता अन्यस्मिन्नन्यद्दष्टिस्सैवात्र द्वेधा प्रतयपादि तेन द्वाप्येतौ पक्षावङ्गीकार्यौ। चकारात् समनन्तरोक्तसाद्दश्यप्रतिपत्तिरप्यङ्गीक्रियते। प्रागुक्तस्तु पक्षः" प्रमाणविरुद्धत्वान्नाङ्गीकार्य इत्यर्थः॥
कुमार-वरदः - 22
  1. अत्र दृष्टिविधौ परोक्तप्रकारं स्वाभिमतं प्राकारद्वयेन निगमयति– द्रष्टव्येति। अत्र केचिदाहुः–चोरस्थाणुरीतच्या यथा चोरत्वं" बाध्यते सामानाधिकरण्येन, तच्च मिथ्या एवं ब्राह्माहमित्यत्रापि द्रष्टव्यापह्नव इति। द्वितीमिह द्रष्टव्यं जीवो ब्रह्म च जीवोपाह्नवे दोषमाह- नेति। भ्रमता जीवेण संघटिता दृष्टिरेव नस्यात्।ब्रह्मपाह्नवेपि दोषमाह– अद्वैतमोह इति।अत्राद्वैत शब्देन ब्रह्मोभिधीयते।मोहशब्देन ब्रह्मविषयिणी दृष्टिः।अत्र द्रष्टव्यापह्नवोक्तौ द्रष्टव्यस्य ब्रह्मण एवापराधस्स्यादिति समानाधिकरण्यम्।ब्रह्मणो मिथ्यात्वापराधात् कोऽयमुत्कृष्टोऽपराधः।तेन ब्रह्माहमस्मि इत्यादिषु विहिता ब्रह्मसमानात्वबुद्धिरित्याह– तत इति। अस्मिन्पक्षे पूर्वोक्तो दोषोनास्ति इति केचिन्मन्यन्ते तदिदमाह–कतिचिदिति।अत्रान्यत्रान्यदृष्टिं पक्षान्तरेण द्वेधा दर्शयति– द्वेधे ति। गरुडात्मनां जानीयादित्यादौ द्वेधा दृष्टिर्न किमनधइगता अदिगतेतेयरेथः।द्वैविद्यमेव दर्श्यति-व्यक्तितो जातितश्चेति। गरूड एवाहमिति यदि प्रतिपाध्यत तदा व्यक्तितः, यदि च गरुडजातीयोऽहमिचति प्रतिपध्यत तदा जातितः, तेन द्वाप्येतौ पक्षावङ्गीकारे चकरात् समनन्तरोक्त सादृश्यप्रतिपक्तिरप्यङ्गीक्रियते प्रागुक्तस्तु पक्षः प्रमाणविरुद्धत्वान्नाङ्गीकार्य इत्यर्थः॥
मूलम् - 22
  1. द्रष्टव्यापह्नवे न भ्रमदनुविहिता दृष्टिरद्वैतमोहः
    स्यादुत्कृष्टापराधस्तत इह विहिता तादृशत्वस्य दृष्टिः।
    तादृग्दृष्टौ न दोषस्तत इति कतिचित्तार्क्ष्यदृष्ट्यादिनीत्या
    द्वेधान्यत्रान्यदृष्टिर्न किमनधिगता व्यक्तितो जातितश्च॥
विश्वास-प्रस्तुतिः - 23
  1. मुख्यं ब्रह्मैकमेवेत्यवहितमनसां ब्रह्मदृष्टिः कथं स्यात्
    एकत्वेनेति केचिन्नहि बलिनि विधौ शङ्कनीयोऽपराधः।
    स्वेच्छापूर्वद्विचन्द्रभ्रमवदिह भिदाकल्पनामाहुरन्ये
    बम्भ्रम्यन्ते यथा च श्रुतिषु बहुविधं ब्रह्म भातीति बालाः॥
३४-तमाहोबिल-यतिः - 23
  1. मुख्यमित्यादि। मुख्यं ब्रह्मैकमेवेति, अवहितमनसाम्– अवधानयुक्तमनस्कानामधिकारि विशेषणम्। इतरत्र ब्रह्मदृष्टिः कथं स्यादिति। एकत्वेनेति –भोक्तृभोग्यादिभावेन विभक्तं सकलमेकत्वात् ब्रह्मैव, अतो ब्रह्मदृष्टिः कर्तुं" शक्यत इति। केचित् —भास्करमतानुसारिणः। ऊचुरिति शेषः। विरुद्धत्वात् कथमिदं वक्तुं शक्यत इत्याशङ्क्याह – न हीति।बलिनि विधऔ" नह्यपराधश्शङ्कनीयः–‘मनो ब्रह्मत्युपासीत"‘नामब्रह्मेत्युपासीत’ इति बलवति विधौ जाग्रति नहि कश्चिदपराधश्शङ्कनीयः। विधिबलाद्ब्रह्मण्यनेकत्वमे सर्वात्मना संग्राह्यम्। नहि श्रुतिप्रतिपन्नेऽर्थे कश्चिदपराधो दोषश्शङ्कनीय इति भावः। अन्ये – केचित्।इह स्वेच्छापूर्वद्विचन्द्रभ्रमवत् भिदाकल्पनामाहुः – अङ्गुल्युपष्टम्भादिभिस्स्वेच्छापूर्वचन्द्रद्वित्वादिपरिकल्पनवत् ब्रह्मैकत्वे परिज्ञातेऽपि ब्रह्यनानात्तवं" परकल्प्य इत्याहुः। यथा च – येन प्रकारेण। बालाः –बालप्रायाः,अल्पज्ञाः इत्यर्थः। श्रुतिषु — वेदान्तेषु। ब्रह्म। बहुविधम् — ब्रह्मविष्णुशिवरूपबहुप्रकारम्।भाति – प्रकाशते प्रतीयते।इति बम्भ्रन्यन्ते – आपातप्रतीत्या त्रिमूर्त्यादिषु तत्रतत्र नानात्वेन ब्रह्मभावं" प्रतिपाद्यन्ते। तथा भिदाकल्पनामाहुरित्यन्वयः। अत्र चिन्तामणिः “एतत्सर्वं परपक्षानुवादमात्रमेव तत्त्वतस्तु तत्रतत्र नामादिष ब्रह्मसदृशत्वं तज्जातयत्वं तदेकत्वं वा दृष्टिमात्रेण परिकल्प्यत इति दृष्टि मात्रेण परिकल्प्यत इति दृष्टिविधइप्रक्रिया इदमेव लौकिकवैदिकसकलोदाहरणाविरुद्धत्वादित्थमेव स्वीकार्यम्।इति॥
कुमार-वरदः - 23
  1. अत्र ब्रह्मैकमेवेति यथावस्थितप्रतिपत्तिमतामितरत्र ब्रह्मदृष्टिः कथं स्यादितयनुयोगे सति परेषां पक्षेण प्रतिवचनमाह– मुख्य मितयादिना।अयमत्र शाब्दान्वयः– मुख्यं ब्रह्मैकमेवेत्यवहितमनसा मितरत्र ब्रह्मदृष्टिः कथं स्यादि त्यानुयोगः। अत्र भासकरमतानुसार्णः” केचित प्राहुः– एकत्वेने ति। भोक्तृभाग्यादिभावेन विभक्तं सकलमेतत्वात् ब्रह्मैव, अतो ब्रह्मदृष्टि कर्तुं शक्यत इति। विरुद्धत्वात्कथमिदं वक्तुं शक्यत इत्याशङ्क्याह– बलिनीति। विधिर्हि सर्वप्रमाणानां बलवतारः।तेन मनोब्रह्मेत्युपासीत , नामब्रह्मेत्यपासीत इति विधिबलात् ब्रह्मनैकत्वे सर्वात्मना संग्राह्यम्।न हि श्रुतिप्रतिपन्नेऽर्थ कश्चिदपराधो दोषश्शङ्कनीय इति केषा़ञ्चित्परेषां पक्षः। अन्ये त्वाहुः– अङ्कुल्युपष्टम्भादिभिश्चचन्द्रैकत्वेपि द्वित्वादिपरिकल्पनवद् ब्रह्मैकत्वे परिज्ञातेपि ब्रह्मनानाकत्वं" परिकल्प्यते। अमुष्यार्थस्य लोकदृष्टप्रक्रियया दृष्टान्तमाह– बम्भ्रम्यन्त इति । तत्वतो ब्रह्मण एकत्वेपि बाला बालप्रायाश्श्रुतिमृत्यादिष्वापाततः" प्रतीत्या त्रिमूर्त्यादिषु तत्रतत्र नानात्वेन ब्रह्मभावं प्रतिपाद्यन्ते। एतत्सर्वं परपक्षानुवादमात्रमेव तत्वतस्तु तत्रतत्र नामादिषु ब्रह्मसदृशत्वं तज्जातीयत्वं तदेकत्वं वा दृष्टिमात्रेण परिकल्प्यत इति दृष्टिविधिप्रक्रिया इदमेव लौकिकवैदिकसकलोदाहरणाविरुद्धत्वादित्थमेव स्वीकार्यम्॥
मूलम् - 23
  1. मुख्यं ब्रह्मैकमेवेत्यवहितमनसां ब्रह्मदृष्टिः कथं स्यात्
    एकत्वेनेति केचिन्नहि बलिनि विधौ शङ्कनीयोऽपराधः।
    स्वेच्छापूर्वद्विचन्द्रभ्रमवदिह भिदाकल्पनामाहुरन्ये
    बम्भ्रम्यन्ते यथा च श्रुतिषु बहुविधं ब्रह्म भातीति बालाः॥