03 प्रतीकाधिकरणम्

विश्वास-प्रस्तुतिः - 18
  1. नामादिब्रह्मदृष्टावपि तदहमिति प्रत्ययः पूर्ववत्स्यात्
    ब्रह्मध्यानत्वसाम्यादिति यदि न न खल्वन्तरात्मा प्रतीकः।
    न ब्रह्मण्यन्यदृष्टिः कथमपि घटते तस्य सर्वाधिकत्वात्
    अन्यस्मिन्ब्रह्मदृष्टौ परमिह नियतैर्लक्षणैस्तद्ग्रहोऽर्थ्यः॥
३४-तमाहोबिल-यतिः - 18
  1. नामादीत्यादि। नामादिब्रह्मदृष्टावपि – ‘नाम ब्रह्मेत्युपासीत’ इत्यादिविहिता या नामादौ नाममनः प्रभृतौ ब्रह्मदृष्टिर्ब्रह्मत्वेनोपासना तस्यापि। तत् – नामादिकम्। अहमिति, प्रत्ययः – अनुसन्धानम्। पूर्ववत् स्यात् – ब्रह्माहमस्मीतिवत् स्यात्। कुत इति चेत् ब्रह्मध्यानत्वसाम्यात् –उभयोरपि ब्रह्मध्यानत्वाविशेषात्। इति यदि –एवं शङ्क्यते चेत्। न - तन्न युक्तम्। प्रतीकःऋ – नामादिः। अन्तरात्मा न खलु – स्वस्यान्तरात्मा नभवति खलु। अन्तरात्मा चेत् अहंशब्दस्तत्पर्यन्तस्स्यात् ततश्च तदमितिसामानाधिकरण्यसम्भवात् अहमित्यनुसन्धीयेत प्रतीकस्यान्तरात्मत्वाभावात् न तस्मिन्नहमित्यनुसन्धानमिति भावः। ननु नामादौ ब्रह्मदृष्ट्यङ्गीकारे हि विशेषस्य नामादेर्नान्तरात्ममित्यहंशब्दायोग" उच्यते ब्रह्मण्येव नामादिदृष्ट्यङ्गीकारे ब्रह्मणो विशेष्यस्यान्तरात्मत्वादहंग्रहोपपत्तिरित्यत्राह – न ब्रह्मणीत्यादि। तस्य – ब्रह्मणः। सर्वाधिकत्वात् – सर्वोत्कृष्टत्वात्।ब्रह्मणि – तादृशे ब्रह्मणि। अन्यदृष्टिः – निकृष्टनामादिदृष्टिः। कथमपि – केनापि प्रकारेण। न घटते – न युज्यते। अन्यस्मिन् — ब्रह्मणोऽन्यस्मिन्नामादौ। ब्रह्मदृष्टौ – ब्रह्मदृष्ट्यङ्गीकारे। इह – ब्रह्मणि।नियतैः" – असाधारणतया नित्यसिद्धैः। लक्षणैः —जगत्कारणत्वादिव्यावर्तकधर्मैः । तद्ग्रहः – तत्तत्पदार्थग्रहणम्। परम् – अतिशयेन। अर्थ्यः – अर्थात्फलादनपेतः फलहेतुर्भवति। यथा राजभृत्ये राजदृष्टिरपकृष्टविषयोत्कृष्टदृष्टिरूपत्वात् फलहेतुर्भवति एवमपकृष्टेषु नामादिषूत्कृष्टब्रह्मदृष्टिरभमतफलहेतर्भवतीति भावः॥
कुमार-वरदः - 18
  1. एवं ब्राह्मोपासेन स्वात्मतयोपासनं कर्तव्यमित्युक्तम्।एवं मनो ब्रह्मेत्युमासीत इतयादिषु प्रतीकोपासनेषु अपि ब्रह्मोपाससनत्वाविशेषात् स्वात्मतयोपासनं कर्तव्यमित्याशङ्क्या सङ्गतिः। तदर्थविचारस्तु– किं मनो ब्रह्मेत्युपासीत इत्यादिषु प्रतीकोपासनेष्वात्मवेनानुसन्धानं कर्तव्यमुतन्ति।तषूपास्यं किमुपासितुरात्मा नेति।किं ब्राह्मणः प्रतीको दृष्टिविशेणमुत प्रतीकस्य ब्रह्मदृष्टिविशेषणमिति।अत्र पूर्वपक्षमाह – नामे ति। प्रतिक्षेपहेतुमाह– न खल्विति। अयमर्थः" साक्षाद्ब्रह्मोपासनेषु ब्राह्मणो अन्तर्यामित्वात् ब्रह्मात्मकत्वानुसन्धानं युक्तमेव नामाद्युपासनेषु नामादीनामन्तर्यामित्वाभावान्न नामाद्यात्मकत्वानुसन्धनं युक्तमिति। ननु ब्रह्मन्येवान्यदृष्टिस्स्यात् तथआ च ब्रह्मणः प्रधानत्वेन दृष्टिविधावपि ब्रह्मात्मकत्वानुसन्धानं" स्यदित्याशङ्क्य परिहरति– न ब्रह्मणी त। ब्रह्मण्यदृष्ट्याभावे हेतुमाह– तस्यति।अयं भावः- मनो ब्रह्मेत्युपासीत इत्यादिष्वपकृष्टेषूत्कृष्टदृष्टिरेव हि दृष्टिविधिरितयुच्यते तथा चब्पह्मण्यन्यदृष्टावुत्कृष्टे स्यादपकृष्टदृष्टिरितिदृष्टिविधिलक्षणं न स्यादिति। अन्यस्मिन्ब्रह्मदृष्टौ दृष्टिविधइलक्षणं स्यादेवेतेयाह– अन्यस्मिन्नेति। नामादिष््वन्येषु ब्रह्मदृष्टौ केवलं जगत्कारणत्वादिभि निर्यतैर्ब्रह्मलक्षणैस्तत्तत्पदार्थग्रहोऽथ्यर्योऽर्थादनपेतो भवतीत्यर्थः" यथा राजभृत्ये राजदृष्टिरपकृष्टविषयोत्कृष्टदृष्टिरूपत्वात् फलहेतुर्भवति, एवमपकृष्टेषूत्कृष्टब्रह्मदृष्टिस्तत्रतत्राभिमतफलहेतुर्भवतीत्यर्थः॥
मूलम् - 18
  1. नामादिब्रह्मदृष्टावपि तदहमिति प्रत्ययः पूर्ववत्स्यात्
    ब्रह्मध्यानत्वसाम्यादिति यदि न न खल्वन्तरात्मा प्रतीकः।
    न ब्रह्मण्यन्यदृष्टिः कथमपि घटते तस्य सर्वाधिकत्वात्
    अन्यस्मिन्ब्रह्मदृष्टौ परमिह नियतैर्लक्षणैस्तद्ग्रहोऽर्थ्यः॥
विश्वास-प्रस्तुतिः - 19
  1. आत्मन्यब्रह्मभूते भवतु फलवती कुत्रचिद् ब्रह्मदृष्टिः
    नैषा वस्तुव्यवस्थां शिथिलयति नरे वैनतेयत्वधीवत्।
    एतावन्मात्रमोहादिदमहमिति तु स्थापयन् क्षिप्रमृच्छेत्
    इन्द्रत्वारोपदर्पोद्धतनहुषमहाभोगिसंस्थामवस्थाम्॥
३४-तमाहोबिल-यतिः - 19
  1. आत्मनीत्यादि।आब्रह्मभूते आत्मनि–ब्रह्मभिन्ने जीवात्मनि।ब्रह्मदृष्टिः–ब्रह्मत्वमारोप्योपासना। कुत्रचित् फलवती भवतु–क्वचित् फलयुक्त्वा स्यान्नाम।नरे वैनतेयत्वधीवत्–यथागरुडमात्मानां जानीयादिति वचनेन मनुष्ये गरु़डत्वभावना विषनिवृत्त्यागदिफवसाधनभूतापि न मनुष्यगरुडयोर्भेदं निवर्तयति यथा।एषा–ब्रह्मभिन्ने जीवे ब्रह्मदृषअटिरपि।वस्तुव्यवस्थाम्—-वस्तुनोः परपस्परभेदम्।न शिथिलयति –न निरीकरोति।विधिशक्तेरपर्यनुयोज्यस्वभावत्त्वात् गरूडध्यानेन सर्पादिवषनिवृत्तिस्सेत्स्यति।एवान्मात्रमोहात्—एवमर्थस्थितावपि तृष्टिविधइमात्रस्य फलवत्त्वदर्शनकृतमोहात्।इदम्–ब्रह्म।अहम्–मदभिन्नम्।इति तु स्थापयन्—एवमुपपादयन् पुरुषः।इन्द्रत्वारोपदर्पोद्धतनहुषमहाभोगिसंस्थामवस्थां क्षिप्रमृच्छेत्–स्वात्मनीन्द्रत्वाध्यासेन यो दर्पस्तने उद्धतः उद्धृतः" अगस्त्यादिमहत्तरान््रति त्वरितवहनचोदनाय प्रवृत्तो यो नहुषाख्यो राजा तस्यागस्त्यशापप्राप्तमहासर्पाकृतित्वरूपामवस्थां शीघ्रं" प्राप्नुयादित्यर्थः।शास्त्रविधिबलेनैवान्यस्मिन्नन्यदृष्टिरपि फलाय भवति, नतु स्वेच्छया क्वचिदन्यत्वाध्यास फलवान्भवेत्।तथा सति आत्मनां सार्वभौमं मन्यमानो भिक्षुस्सार्वभौमपदं लभेत।अत एवं नहुष्स्य स्वस्मिन्निन्द्रत्वभावना विपरीतप्रवृत्तिद्वारा घोरतरानर्थसाधनं" बभूव।ततश्चाध्यासोऽपि दोषहेतुरेवेति न तावता जीवब्र्हमैक्यावादप्रवृत्तिर्युक्तेति भावः॥
कुमार-वरदः - 19
  1. अत्र मृषावादी मन्यते यथा दृष्टिविधौ स्ववाभिमतं फलं दृश्यते एवं ब्रह्मैकेयानुसन्धानमिच्छितामाकमपवर्गस्यादिति।तदिदमाशङ्क्य प्रतिक्षिपति– आत्मनीत्यादीना । अयमर्थः– अब्रह्मभूतेऽप्यात्मनि ब्रह्मदृष्टिः फलवती भवतु नाम तथापि वस्तुव्यवस्था नापलपितुं शक्यते यथा गरुडात्मानं जानीयात् इत्यत्र न गरुडत्वं प्राप्यते अपि त्वपर्यनुयोज्यत्वाद् विधिशक्तेर्गरुडानुधयानेन सर्पादिविषनिवृत्तिस्सेत्स्यतीत्येतावन्मात्रमेव। एतद्दृष्टान्तमात्रदर्शनेन मोहाद् ब्रह्माहमसमि इतीममर्थं स्वरूपैक्यावलम्बनेन परमार्तत्वेन स्थापयन्मृषावादी नमुचिसूदनभावनोद्धतनहुषन्यायेन प्रभ्रष्टपदो निकृष्टावस्थां नियतयेव भजत इत्याह– एतावन्मात्रे ति। अपवर्गार्थं प्रवृत्तः कुटिलगतीनां भोगिनां साम्यं भजतीति पारिहासकोयं प्रवादः॥
मूलम् - 19
  1. आत्मन्यब्रह्मभूते भवतु फलवती कुत्रचिद् ब्रह्मदृष्टिः
    नैषा वस्तुव्यवस्थां शिथिलयति नरे वैनतेयत्वधीवत्।
    एतावन्मात्रमोहादिदमहमिति तु स्थापयन् क्षिप्रमृच्छेत्
    इन्द्रत्वारोपदर्पोद्धतनहुषमहाभोगिसंस्थामवस्थाम्॥