02 आत्मत्वोपासनाधिकरणम्

विश्वास-प्रस्तुतिः - 13
  1. जीवादत्यन्तभिन्नस्स विभुरभिदधे लक्षणैस्साधनान्तैः
    मुक्त्यर्थोपासनेऽस्मिन्मुषिततमसि न ब्रह्मदृष्ट्यादियुक्तिः ।
    तत्त्वज्ञे वीतरागे तदिह न घटते सोऽहमस्मीत्युपास्तिः
    तन्न स्वात्मान्तरात्मन्यहमिति वचसोऽप्यत्र मुख्यप्रवृत्तेः ॥
३४-तमाहोबिल-यतिः - 13
  1. जीवादित्यादि। साधनान्तैः- साधनपर्यवसानैः। यद्वा साधनशब्दस्साधनपरतृतीयाध्यायवाची। सः अन्तः, अन्ते वा येषां तैस्साधनान्तैः। तद्गुणसंविज्ञानः। लक्षणैः– अध्यायैः। तथा च त्रिभिरध्यायैरित्यर्थः। सः- प्रसिध्दः। जिज्ञास्यत्वेन कारणत्वेन दुर्घर्षप्रमाणगम्यत्वेन सकलपरविद्योपास्यत्वेन च प्रकृतः। विभुः– परमात्मा। जीवादत्यन्तभिन्नोऽभिदधे– संसारभयार्तात् तच्छान्त्यर्थं ब्रह्मजिज्ञासोर्ब्रह्मसृज्यात् जाग्रत्स्वप्नसुषुप्तिमुग्धिप्रभृतिदुरवस्थापन्नादुपासकात् स्वशरीरभूतात् जीवात्मनः अत्यन्तभिन्नः तिमिरात्तेज इव छायाया आतप इव पापात्पुण्यमिव शरीराच्छरीरीव कान्तेः रत्नमिव घटत्वादिजातेर्घटादिरिव सर्वदावैजात्यं प्राप्त इति वेदान्तवाक्यैस्सर्वैरपि सूत्रैः कण्ठोक्त्या तात्पर्येन चाभ्यधायि। मुषिततमसि– निश्शेषविध्वस्तनिखिलाज्ञाने। अस्मिन्– प्रकृते। मुक्त्यर्थोपासने– क्षुद्रफलकनामाद्युपासनेभ्योऽत्यन्तविलक्षणे मोक्षार्थोपासने। ब्रह्मदृष्ट्यादियुक्तिर्न– अब्रह्मणि नादाविव अब्रह्मण्यपि जीवे ब्रह्मदृष्ट्यादियोगो न सम्भवति। क्षुद्रफलविषये दृष्टिविधेरुपयोगेऽपि मुक्त्यर्तोपासने दृष्टिविधिर्हि सर्वथा न सम्भवति तथा सति अयथाभूता मुक्तिस्स्यादिति भावः।तत्– तस्मात् कारणात्। तत्वज्ञे– सकलक्षुद्रफलसाधनवैलक्षण्यज्ञानशालिनि। वीतरागे– अत एव दोषसप्तकयुक्तेषु त्रैवर्गिकेषु फलेषु तृष्णारहिते। इह- मुमुक्षावधिकारिविशेषे। सोऽहमस्मीत्युपास्तिः– अहं परमात्मास्मीत्युपासनम्। न घटते– न युज्यते। तन्न– उक्तं शङ्कनं न युक्तम्। स्वात्मान्तरात्मनि- स्वात्मनोऽन्तरात्मनि परमात्मनि। अत्र– उपासने। अहमिति वचसोऽपि– उपासनसमेयेऽनुसन्धीयमानस्याहमितिशब्दस्यापि। मुख्यप्रवृत्तेः- शक्त्यैव बोधनात्। तथा चाहमित्यादिशब्दस्यापि जीवान्तरात्मभूतपरमात्मनि मुख्यत्वात् स्वन्तर्योमित्वेन भगवदनुसन्धानमेवेदमिति नाब्रह्मणि ब्रह्मदृष्टेर्वा जीवब्रह्मणोस्स्वरूपैक्यस्य वा प्रसङ्ग इति भावः॥
कुमार-वरदः - 13
  1. पूर्वं परब्रह्मोपासनमसकृतावृत्तं कर्तव्यमित्युक्तम्। इदं पुनरिदानीं चिन्त्यते – किमुपास्यं ब्रह्म उपासितुरन्यत्वेनोपास्यमुपास्यमुतोपासितुरात्मत्वेनेति शङ्कया सङ्गतिः। अयमेव विचारस्तदर्थविचारोपक्रमः– किमात्नत्वेनोपासने पृथगात्मानम् इति विहितपृथक्त्वाविसन्धनविरोधः प्रसज्यते नेति। तत्र पूर्वपक्षमाह–जीवादिति। साधनान्तैस्साधपर्यवसानैर्लक्षणैरध्यायैर्जीवादत्यन्तभिन्नस्स च विभुरित्यभिदते स परमपुरुषः। तस्मादस्मिन्नणुरुपजीवबुद्धिस्तत्त्वतः कर्तुभेव न शक्यत इत्यर्थः। ननु गरूडमात्मानं जानीयादिति न्यायेन स्वात्मनि परमात्मदृष्टिस्स्याशङ्क्य तदपि नेत्याह–मुक्यर्थेति अयमर्थः–क्षुद्रफलप्राप्तौ हि दृष्टिविधीनामुपयोगः अत्र तु मुक्त्यर्थोपासने मुषिततमसि सर्वाज्ञाननिवृत्तियुक्ते विपरीतज्ञानरूपान्यत्रान्.दृष्टिर्न स्यादिति। तेन स्वाभिप्रेतं निगमयति-तत्वज्ञ इति। तत्वज्ञे– यथार्थज्ञानवति वीतरागे फलान्तरप्राप्तिराघविधुरे सोऽहमसमीत्युपास्तिर्न स्यादेव। तदिदं प्रतिक्षिपति–तन्नेति। अयमर्थः–यदि स्वात्मपरमात्मनोस्स्वरूपैकेयमत्रोपदिश्यते तदा भ्रान्तित्वान्न मुक्तिहेतुः यदि च स्वात्मनिपरमात्मदृष्टिरुपदिष्यते, तदोद्गीथोपसनादिवत् दृष्टिविधित्वादपवर्गसाधनं" न स्यात्। नेदमुभयमप्यत्रोपदिश्यते अपि तु स्वान्तर्यामित्वेभगवतनुसन्धानं तच्च परमार्थविषयत्नाचित्वे मुख्यवृत्तिर्न स्यादित्याशङ्क्य प्रतिक्षिपति– मुक्यप्रवृत्तेरिति । अयमर्थः-यथा देहवाची देवमनुष्यादिशब्दः" देहाधिष्टातरि जीवेपि मख्य एव प्रवर्तते, एवं जीववाच्यहंशब्दः जीवान्तर्यामिणि परमात्मणि मुखयतया प्रवर्तत इति।यदि ब्राह्मणक्षत्रियादिशब्दः जीवेऽपि न मुख्येस्स्यात् तदा ब्राह्मणत्वक्षत्रियतवाद्युपहिताधिकारिविशेषोपादानेन प्रवृत्तानां विधीनाममुक्तानां स्यात् तथा चार्थवादमन्त्रयोरपि तत्तदौपाधिकाकापविशिष्टपुरुषविषयतया प्रवृत्तयोरमुक्यत्वं स्यादिति सर्ववेदवाक्ये मुख्यत्वपरित्याग इति साहसमेतत्॥
मूलम् - 13
  1. जीवादत्यन्तभिन्नस्स विभुरभिदधे लक्षणैस्साधनान्तैः
    मुक्त्यर्थोपासनेऽस्मिन्मुषिततमसि न ब्रह्मदृष्ट्यादियुक्तिः ।
    तत्त्वज्ञे वीतरागे तदिह न घटते सोऽहमस्मीत्युपास्तिः
    तन्न स्वात्मान्तरात्मन्यहमिति वचसोऽप्यत्र मुख्यप्रवृत्तेः ॥
विश्वास-प्रस्तुतिः - 14
  1. वस्विन्द्रादेरुपास्तौ प्रकृतिशबलितस्वान्वितेक्षा पुरोक्ता
    शुद्धस्स्वात्मा च नित्यः क्वचिदिह तु विभुस्तादृशा स्वेन युक्तः।
    व्यक्तिर्जीवेशभेदे व्यधिकरणपदैर्भावने स्यात्तथापि
    ब्रह्माधीनस्वरूपप्रमितिसुदृढतासिद्धयेऽहङ्ग्रहोक्तिः॥
३४-तमाहोबिल-यतिः - 14
  1. वस्विन्द्रादेरित्यादि। प्रकृतिशबलितस्वान्वितेक्षा– अचिद्विशिष्टस्वात्मविशिष्टपरमात्मोपासना। वस्विद्रादेरुपास्तौ– मधुविद्यायामिन्द्रप्रामविद्यायाञ्च ’ मध्वादिष्वसम्भवात् ’ इत्याद्यधिकरणे ’ प्राणस्तथानिगमात् ’ इत्यधिकरणे च वस्विन्द्राद्युपास्तिप्रसङ्गे । पुरा– प्रागेव. उक्ता। अतस्तदर्थं नाहङ्ग्रहोक्तिरित्यभिधातुं शक्यमिति भावः। शुद्धः— प्रकृतिसंसर्गरहितः। स्वात्मा च– जीवात्मा च। क्वचित्– पञ्चाग्निविद्यादिभेदे। चिन्त्यः- उपास्यः. इह तु– पञ्चाग्निविद्याभिन्नमोक्षोपायविद्यासमुदाये। तादृशा– तादृशेन सुदेधेनेत्यर्थः। स्वेन– जीवात्मना। युक्तः– विशिष्टः। विभुः– परमात्मा। चिन्त्यः– उपास्यः। जीवशभेदे– जीवेश्वरभेदे। व्यक्तिः– सम्यगवभासनञ्च। व्यधिकरणपदैर्भावने स्यात्– अहं तव दास इत्यादिरूत्या व्यधिकरणपदैर्भावने स्वात्मपरमात्मनोश्चिन्तने भवेत्। तथा च जीवेश्वरभेदाभिव्यक्तिश्चेदहङ्ग्रहोक्तेः फलं तदा व्यधिकरणपदेर्भावन एव तयोर्भेदोऽभिव्यज्ये, नतु त्वमहमिति समानाधिकरणपदैर्भावने, अतो न भेदाभिव्यक्तिश्च फलम्। तथापि– उक्तं सम्यगेव तथापि। ब्रह्माधीनस्वरूपप्रमितिसुदृढतासिद्धयेऽहङ्ग्रहोक्तिः– ब्रह्मपरतन्त्रं" जीवस्वरूपमिति– या प्रमितिस्तस्यास्सुदृढतासिद्धये अहङ्ग्रहोपासनस्याभिधानम्। व्यधिकरणपदैर्भावने भेदाभिव्यक्ति सिद्धावपि जातिगुणादेरिव परमात्मपारतन्त्र्यप्रमितिदाढर्यं" न सिध्येत् अतस्तत्सिद्धयर्थं स्वशरीरकपरमात्मवाच्यहंशब्दघटितोपासनकथनमिति भावः॥
कुमार-वरदः - 14
  1. अत्राहङ्ग्रहोपासनस्य प्रयोजनाभावं वदतः कस्यचित् तत्प्रयोजनविशेषं दर्शयति– वस्विन्द्रादेरिति। अयमत्र चोदकस्याभिप्रायः–किमत्राहङ्ग््रहोपासनाभिधाने विशेषप्रयोजनम्? अचिद्विशिष्टस्वात्मविशिष्टपरमात्मोपासानञ्चेत् तद् वस्विन्द्रादेरुपास्ति प्रसङ्गे प्रागेवोक्तम्। शुद्धश्च स्वात्माक्वचिच्चिन्त्यः –प्रकृतिसंसर्गरहितश्शुद्धोऽप्यात्मा क्वचिच्चिन्तनीय एव।इह तु शुद्धेन स्वेनयुक्तो विभुः परमात्मा चिन्त्य एव। तादृशा –शुद्घेनेत्यर्थः। तदिदंजीनपरयोर्भेदचिन्तनमेव–अहम् त्वम्, इति तयोर्भेदेन व्यपदेशात्। जीवशभेदे च व्यक्तिरभिव्यक्तिर्व्यधिकरणपदैश्चिन्तने स्यत् न पुनस्समानाधिकरणपदैश्चिन्तने।तथाचाहङ्ग्रहोपासने किं फलम्? इति । अत्रोक्तम्– तथापीति। यद्यपि त्वदुक्तं युक्तमेव तथाऽपि ब्रह्म परतन्त्र स्वरूपप्रमितेस्सुदृढता अहङ्ग्रहोपासनादेव भवति तदर्थमहङ्ग्रहोक्तिस्सफलैवेति॥
मूलम् - 14
  1. वस्विन्द्रादेरुपास्तौ प्रकृतिशबलितस्वान्वितेक्षा पुरोक्ता
    शुद्धस्स्वात्मा च नित्यः क्वचिदिह तु विभुस्तादृशा स्वेन युक्तः।
    व्यक्तिर्जीवेशभेदे व्यधिकरणपदैर्भावने स्यात्तथापि
    ब्रह्माधीनस्वरूपप्रमितिसुदृढतासिद्धयेऽहङ्ग्रहोक्तिः॥
विश्वास-प्रस्तुतिः - 15
  1. ऐक्योपास्तावहं त्वं त्वमहमिति मतिर्निर्विशेषे कथं स्याद्
    भेदाभेदाभिलापः करकमणिकतद्व्योमनीत्या न मुख्यः।
    मत्तुल्यस्त्वं त्वयाहं सम इति वदतां नोपचारोऽपि युक्तः
    तस्मात्सर्वान्तरात्मन्ययमहमिति धीराकृतिन्यायसिद्धा॥
३४-तमाहोबिल-यतिः - 15
  1. ऐक्योपास्तावित्यादि। निर्विशेषे – निर्विशेषे ब्रह्मण्यङ्गीकृते। ऐक्योपास्तौ – ‘त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते’ इत्युक्तैक्योपास्तौ। अहं त्वं त्वमहमितिमतिः कथं स्यात् - त्वमहंशब्दार्थाभावेन त्वमहमितिसामानाधिकरण्यबुद्धिः कथं" स्यात्। करकमणितद्व्योमनीत्या भेदाभेदाभिलापो मुख्योन – करकमणिकगताकाशयोर्यथा भेदोऽभेदश्च तद्वत् त्वमहम्पदार्थयोर्भेदव्यवहारश्चेत् तर्हि मुख्यो न भवति। करकमणिकयोर्भेद एव आकाशे त्वभेद एव न त्वेकत्र भेदोऽभेदश्चेत्यमुख्य एव स्यात्। त्वं मत्तुल्यः, अहं त्वया सम इति वदताम् – तुल्यत्वमहंत्वंशब्दार्थ इति वदताम्। उपचारः – केवललक्षणैव।सोऽपि, । न युक्तः – सर्वनिकृष्टस्य सर्वोत्कृष्टस्य च कथं परस्परसाम्यसम्भवः। अतोऽयुक्त एव। तस्मात् – उक्तरीत्या पक्षान्तरेष्वनुपपत्तेः। सर्वान्तरात्मनि – सर्वशरीरके त्वमहमित्यादिजीववाचिशब्दार्थभूतजीवान्तर्यामिणि। अयमहमितिधीः – अयमहमितिसामानाधझिकरण्यबुद्धिः।आकृतिन्यायसिद्धा – आकृत्यधिकरणन्यायेन शरीरवाचिशब्दानां शरीरिपर्यन्तत्वाश्रवणेनैव सिध्यति। अभिन्नविशेष्यकत्वभिन्नविशेषणकत्वाङ्गीकारेण सामानाधिकरण्यलक्षणाविरोधात् भेदश्रुत्यविरोधात् शरीरश्रुतिसिद्धजीवगतपरमात्मपारतन्त्र्याभिव्य़ञ्जनात् तत एव जीवपरयोर्भेदावसानात् आकृतिवाचिशब्दानां व्यक्तिपर्यन्तत्व इव शरीरवाचिशब्दानां शरीरिपर्यन्तत्वस्य मुख्यत्वात् अयुक्तसाम्यादिकल्पनाभावाच्च साक्षात्परमात्मवाचकस्य शब्दस्य जीवशरीरकपरमात्मवाचिशब्देन सामानाधिकरण्यकल्पनमेव सम़ञ्जसमतममिति भावः॥
कुमार-वरदः - 15
  1. परपक्षेष्वहङ्गूहोपासनस्य न्यायविरुद्धत्वमुक्त्वा स्वपक्षे पुनर्न्यायोपेतत्वं दर्शयति–ऐक्योस्ताविति। तत्र तावन्मृषावादिपक्षे दूषणमाह– निर्वेशेष इति। निर्विशेष वस्तुनि ‘त्वं वा अहमस्मि भगवो देवतं अहं वै त्वमसि’ इति त्वमहंशब्दार्थभावेन त्वमहमितिसमानाधिकरणबुद्धिः कथं स्यात्। तर्हि भदाभेदमेव भस्करमतानुसारेण वदाम इति चेत् सोऽपि न मुख्य एव करकमणिक योर्भेद एवाकाशे त्वभेद एव एकत्र भदश्चाभदाश्च नास्तीति भेदाभदाभिवलापो न मुख्य एव। तर्हि साम्यमेवाहंशब्देनाभिदीयत इत्यपर आह तत्पक्षऽप्यहंव्यवहारो न मुख्य एवेत्याह – मुत्तुल्य इति। त्वं वा अहमस्मि भगवः देवते अहं वै त्वमसि इत्यत्र तुल्यत्वं शब्दार्थ इति वदतामुपचार एव परिगृहीतस्स्यात् स तु न युक्त एव । एवं परपक्षं दूषयित्वा सवपक्षमेव सोमपक्तिकं निगमयति–तस्मादिति। सर्वान्तरातच्मनी ति सामानाधिकरण्यबीजमुच्यते । शरीरात्मभाव एव हि सामानाधिकरण्यनिदानम्।यथा देहिनि देहवीची मनुष्यादिशब्दस्सामानाधिकरण्येन प्रयुज्यते एवमन्तर्यामिणि जीवशब्दस्सामनाधिकरण्येन प्रपुज्यत इति सर्वं सुघटितमेवेति॥
मूलम् - 15
  1. ऐक्योपास्तावहं त्वं त्वमहमिति मतिर्निर्विशेषे कथं स्याद्
    भेदाभेदाभिलापः करकमणिकतद्व्योमनीत्या न मुख्यः।
    मत्तुल्यस्त्वं त्वयाहं सम इति वदतां नोपचारोऽपि युक्तः
    तस्मात्सर्वान्तरात्मन्ययमहमिति धीराकृतिन्यायसिद्धा॥
विश्वास-प्रस्तुतिः - 16
  1. अद्वैतं द्वैतहानौ न भवति सुवचं तत्प्रतिद्वन्द्विकत्वात्
    द्वैतञ्चाद्वैतगर्भं द्वितयमिह हि तत्स्वस्वरूपादभिन्नम्।
    द्वैताद्वैतञ्च तादृक्तदुभयनियमानुज्ज्ञानादेव सिध्येत्
    सर्वं स्थाने स्थितं स्यात् प्रमितिपरवतां नेतरेषां तु किञ्चित्॥
३४-तमाहोबिल-यतिः - 16
  1. अद्वैतमित्यादि।द्वैतहानौ – द्वैताभावे।तत्प्रतिद्वन्द्विकत्वात् – द्वैतप्रतिद्वन्द्विकत्वात् द्वैतप्रतिकोचिकत्वादित्यर्थः। अद्वैतम् – अद्वैतमितिवचनम्। सुवचं न भवति – प्रतिकोचिभूतद्वैताभावे तदभावतदन्यादिरूपाद्वैतपदार्थनिरूपणं दुश्शकमिति भावः। द्वैतञ्च – द्वैतपदवाच्यञ्च। अद्वैतगर्भम् – अद्वैतघटितम् । तथाचाद्वैताभावे द्वैतमितिवचनमपि न सुवचमिति भावः। एकयोरेव हि द्वित्वं" वर्तते तयोरेकत्वमेव ह्यद्वैतमिति भावः। इह – द्वैताश्रये समुदाये। तद्दितयम् – द्वित्वाश्रयभूतमेकैकं वस्तु। स्वस्वरूपादभिन्नं" हि — प्रत्येकं स्वस्वरूपाद्वैताश्रयभूतं हि। तेन तत्राद्वैतसिद्धिरित्यर्थः। द्वैताद्वैतञ्च – द्वैताद्वैतपदवाच्यम्। तादृक्– परस्परापेक्षायुक्तार्थद्वयात्मकतया द्वैताद्वैततुल्यम्। अतः, तदुभयनियमानुज्झनादेव सिध्येत् – तयोर्द्वैताद्वैतयोरुभयस्य यौ द्वैतसापेक्षत्वाद्वैतसापेक्षत्वनियमौ तदपरित्यागादेव सिध्येत्। परस्परसापेक्षार्थद्वयसमाहारवचनेऽपि न नैरपेक्ष्यलाभः। अपि त्वर्थद्वयासाधारणस्वस्वप्रतिकोचिसापेक्षलक्षणद्वयसम्पात एवेत्यर्थः। ततश्च द्वैतञ्चाद्वैतञ्च सिध्यति। तादृषनियमोज्झाने तद्वचने सुस्थमेवोभयमपि। तर्हि द्वैतादिकं साधयतो भवतः किं तत्त्वमिति चेत् प्रमाणानुसारिणां विषयभेदेन सर्वमपि तत्त्वम्, प्रमाणाननुसारिणां तु सर्रवमप्यतत्त्वमेवेति निगमयति – सर्वमित्यादिना। प्रमितिपरवताम् – प्रमाणपरतन्त्राणाम्। सर्वम् – द्वैतमद्वैतञ्च। स्थाने – स्वस्वस्थाने, न त्वेकत्र विरुद्धत्वात्। स्थितं स्यात् – स्थितं" सत् तत्त्वं भवेत्। इतरेषांतु – प्रमाणाननुसारिणां तु। किञ्चित् – किमपि। न – न तत्त्वं भवेत्।प्रमाणाननुसरणे मानाधीना मेधसिद्धिरिति न्यायेन न किमपि प्रमेयं सिध्येदिति भावः॥
कुमार-वरदः - 16
  1. अत्र त्वं वा अहस्मि भगवो देवते इत्यस्न्वाक्ये द्वैतप्रसङ्गएव नास्ति द्वैतस्य स्रूपसून्यत्वात् केवलमद्वैतमेव प्रतिपाद्यत इति वदन्तं मृषावादिनं प्रतिक्षिपति– अद्वैतमि ति। अयमत्र विकल्पः– अद्वैतशब्देन द्वैतविरोधः वा द्वैतान्यो वा द्वैतभावो वा अभिधीयते अथवा न किञ्चिदभिधीयते तत्र त्रिष्वपि विकल्पेषु प्रतियोग्यभावेन त्रयणामप्यर्थानामसिद्धिः प्रतियोगिसद्भावे तस्यापि सिद्धिः न किञ्चिदिति पक्षे निरर्थकमेव वचनं स्यात् तेनाद्वैतमितिवदतस्तवावश्यमेव द्वैतमङ्गीकर्तव्यम्॥अयमत्र शब्दार्थः– द्वैतहानावद्वैतमिति वचनं न सुवचं द्वैतप्रतिद्वन्द्विकत्वात्। एवमद्वैतहानौ द्वैतमपि न सुवचमिति प्रसङ्गदाह– द्वैतञ्चाद्वैतगर्भ मिति। अद्वैताभावे द्वैतमपि न स्यात्।एकयोरिवा हि द्वित्वं वर्तते तयोरेकतवमेव ह्यद्वैतमिति भावः।तदेव विवृणोति–द्वित्यमिति।द्वित्वाश्रयभूतमेकैकं वस्तु स्वस्वरूपादभिन्नम्। तेन तत्राद्वैतसिद्धिरित्यर्थः। अपर आह द्वैत माभूत् अद्वैतं च माभूत् द्वैताद्वैतमेवाङ्गीकारोमिति, तदपि नेत्याङ– द्वैताद्वैतमिति। किं द्वैताद्वैतशब्देन द्वैताद्वैतयोस्समाहार उच्यते अतवान्यो यः कश्चिदर्थाभासः तत्र तत्समाहारवचने द्वैतलक्षणमद्वैतलक्षणञ्चाङ्गीकृत्य वक्तव्यम्।तथा च तदुभयनियमानुज्झानात् तद्वचने द्वैतञ्च सिध्यत्यद्वैतञ्च सिद्यति। तदुज्झने सुस््थमेवोभयमपि ।यस्य कस्यचिदरेतैभासस्योक्तौ शृणवतां न काचित्क्षतिः। तर्हि द्वैतादिकं सर्वं साधयतां भवतां किं तत्वमङ्कीकृतं" स्यदित्याशङ्क्य प्रमाणाननुसारिणां तु सर्वमप्यतत्वमिति निगमयति– सर्वमति॥
मूलम् - 16
  1. अद्वैतं द्वैतहानौ न भवति सुवचं तत्प्रतिद्वन्द्विकत्वात्
    द्वैतञ्चाद्वैतगर्भं द्वितयमिह हि तत्स्वस्वरूपादभिन्नम्।
    द्वैताद्वैतञ्च तादृक्तदुभयनियमानुज्ज्ञानादेव सिध्येत्
    सर्वं स्थाने स्थितं स्यात् प्रमितिपरवतां नेतरेषां तु किञ्चित्॥
विश्वास-प्रस्तुतिः - 17
  1. नन्वद्वैते निषेध्यो गगनकुसुमवद् भ्रान्तिसिद्धोऽस्तु भेदो
    मैवं सत्यादभिन्नस्स यदि न खलु तद्भ्रान्तिसिद्धत्वसिद्धिः।
    भिन्नत्वञ्चास्य तस्माद्यदि भवति मृषा विद्धि दत्तोत्तरं तत्
    सत्यञ्चेत् सत्यभेदोपगतिरिति मुधा दूरतो धावनं वः॥
३४-तमाहोबिल-यतिः - 17

17.नन्वद्वैत इत्यादि। ननु – आक्षेपार्थः। अद्वैते –अद्वैतोक्तौ। गगनकुसुमवत् भ्रान्तिसिद्धो भेदो निषेध्योऽस्तु – गगनकुसुमं" नास्तीत्यत्र यथा भ्रान्तिसिद्धमेव गगनकुसुमं निषिध्यते तद्वत् निषेधस्य प्रतियोगिमात्रापेक्षत्वात् तत्सत्यत्वानपेक्षणाच्च भ्रान्तिसिद्धो भेद एवाद्वैतमित्यत्र निषेध्यो निषेधप्रतियोग्यस्तु। मैवम् – एवं मा शङ्किष्टाः। सः" -भेदः। सत्यात् – सत्यभूताद्ब्रह्मणः। अभिन्नो यदि – अभिन्न इत्यङ्गीकृतो यदीत्यर्थः। तद्भ्रान्तिसिद्धत्वसिद्धिर्न खलु – तस्य भेदस्य भ्रान्तिसिद्धत्वं न सिध्यति। सत्यादभिन्नस्य तस्य भेदस्य भ्रान्तिसिद्धत्वे सत्यस्यापि भ्रान्तिसिद्धत्वं स्यात् तस्याभ्रान्तिसिद्धत्वे तस्याप्यभ्रान्तिसिद्धत्वं स्यादिति भावः। अस्य – भेदस्य। तस्मात् – सत्याद्ब्रह्मणः। भिन्नत्वम् – भेदः। मृषा यदि च भवति – मिथ्याभूतो यदि भवति। तत् – विकल्पशिरः। दत्तोत्रं विद्धि – सत्याद्भिन्नस्य भेदात्मकस्य प्रपञ्चस्य भेदो मृषा चेत् तर्हि प्रपञअचस्य सत्यत्वं ब्रह्मणोऽसत्यत्वं वा स्यादित्युत्तरं स्पष्टत्वात् दत्तप्रायमितिभावय। सत्यञ्चेत् – भेदस्य सत्यब्रह्मणश्च यो भेदस्स सत्यश्चेत्। सत्यभेदोपगतिरिति — सत्यभूतं ब्रह्म च सत्यभूततयाधुनाङ्गीकृतो भेदभेदश्चेति सत्यवस्तुद्वैधापत्तिरिति ब्रह्मणस्सद्वितीयत्वापत्तिरिति। वः – युष्माकम्। दूरतोधावनं मुधा – पारिप्लवकक्ष्योपक्ष्याक्रमेण बहुदूरं धावनेऽपि स्वपक्षस्थआपनाभावात् अनिष्टंसपाताच्च भवत्कल्पनं व्यर्थमनर्थसम्पादकञ्चेति भावः॥

कुमार-वरदः - 17
  1. पूर्वस्मॢञ्छलोके ह्यद्वैतशब्दे द्वैतस्य निषेध्यत्वेन सत्यत्वमित्युक्तम्। तत्प्रतिक्षिपति पूर्वपक्षी– नन्वि ति।अयमत्र भावः– यथा गगनकुसुमं नास्तीत्यत्र भ्रान्तिसिद्धमेव गगनकुसुमं निषेध्यम्, तद्वदत्रापि भ्रान्तिसिद्धमेव द्वैतं निषेधयं स्यात् तथा चद्वैतस्य पारमार्थ्यं न सिध्यति तेनाद्वैतमेव परमार्थ इति। तदेतत्प्रतिक्षिपति– मैव मिति।अत्र विकल्प्य दूषयति–सत्यादिति। सः भेदः किं ब्रह्मणस्सत्यादभिन्न उत भिन्नः,भिन्नत्वे तद्भेदः किं परामार्थ उतापरमार्थ इति विकल्पः। प्रथमपक्षे दूषणमाह– न खल्विति। अयमर्थः– सत्यादभिन्नस्य तस्य भेदस्य भ्रान्तिसिद्धत्वे सत्यस्यापि भ्रान्तिसिद्धत्वं स्यात्। तस्याभ्रान्तिसिद्धत्वे भेदस्याप्यभ्रान्तिसिद्धत्वं स्यादिति। एवं सत्यादभिन्नत्वपक्षे दूषणमुक्त्वा भिन्नत्वपक्षेऽप्युभयथा दूषणमाह– भिन्नत्वञ्चे ति। स भेदोऽत्र मृषा चेत् सत्यादसत्यभूतस्य भेदात्मकस्य प्रपञ्चस्य भेदो मृषा चेत् सत्यादसत्यभूतस्य भेदात्मकस्य प्रपञ्चस्य भेदो मृषाचेत् तर्हि प्रपञ्चस्य सत्यत्वं ब्राह्मणोऽसत्यत्वं वा स्यात्। तदिदमाह– दत्तोत्तर मिति। सत्याद् ब्रह्मणोऽसत्यभूतस्य प्रप़ञ्चस्य तद्भेदस्य सत्यत्वे सत्वभेदाङ्गीकारप्रसङ्ग इति दूरतोघावतस्तव धावनं निरर्थकमेव स्यादित्याह– सत्यञ्चे दिति। प्रपञ्चस्य ब्रह्मणो भेदो मिथ्या, अथापि प्रपञ्चे भेदो भवतीति चेन्न व्याघातात् भेदो मिथ्या भेदोऽस्तीति स्वयमेव भाषणात्। तर्हि शशविषणस्य सत्याद् भेदस्सत्योऽ सत्यवेति वयमप्यनुयुञ्जमह इति चेत् सत्य एवेति वयमुत्तरं दास्यामः। नन्वसत्ये शशविषाणे स सत्यभेदः कथं निवसिष्यति ? न तत्र निसिष्यति। तर्हि कुत्र? इति चेत्, अवधानेन श्रुणु। शशविषाणमिथ्यात्वं नाम शशविषाणात्यन्ताभावः। स तु प्रमितप्रतियोगिकाभाववादिनां शशनिष्ठः। अप्रमितप्रतियोगिकाभाववादिनां विश्वनिष्ठः। शशविषाणं मिथ्येति विश्वनिष्ठस्यात्यन्ताभावस्य प्रतियोगिभूतशशविषाणविशेषणत्वं प्रध्वस्तो घट इत्यादिवदिति सन्तोष्टव्यमायुष्मतेति॥
मूलम् - 17
  1. नन्वद्वैते निषेध्यो गगनकुसुमवद् भ्रान्तिसिद्धोऽस्तु भेदो
    मैवं सत्यादभिन्नस्स यदि न खलु तद्भ्रान्तिसिद्धत्वसिद्धिः।
    भिन्नत्वञ्चास्य तस्माद्यदि भवति मृषा विद्धि दत्तोत्तरं तत्
    सत्यञ्चेत् सत्यभेदोपगतिरिति मुधा दूरतो धावनं वः॥