01 आवृत्त्यधिकरणम्

विश्वास-प्रस्तुतिः - 3
  1. शुद्धैरुत्कृष्टधर्मैस्सदनपचरणे ब्रह्मविद्या भवित्री-
    त्युक्तं पूर्वाधिकारे विमृशति तु परं तत्स्वरूपं यथावत्।
    प्रत्यक्षं वा स्मृतिर्वा सकृदिदमसकृद्वेति नोक्तं पुरस्तात्
    यावज्जीवानुवृत्तिप्रभृति च तदिहापौनरुक्त्यं सुबोधम्॥
३४-तमाहोबिल-यतिः - 3
  1. शुद्वैरित्यादि । पूर्वाधिकारे– पूर्वाधिकरणे । शुद्वैः– फलसङ्गकर्तृत्वाभिसन्ध्यादिदोषरहितैः। उत्कृष्टधर्मैः– मोक्षसाधनविद्याङ्गतयाोत्कृषटैर्वर्णश्रमधर्मैश्शमादिभिश्च। सदनपचरणे– सत्सुविषये sपचाराभावे, ब्रह्मविदपचाराभावे इत्यर्थः। ब्रह्मविद्या ब्रह्मोपासना। भावित्री– निषपत्स्यते। इत्युक्तम्। परं तु –उपर्यस्मिन्नधिकरणे तु । तत्स्वरूपम् – विद्यास्वरूपम्। यथावत् –याथातथ्येन । विमृशति– विचारयति । स्वरूपस्य कथं" विचारणीयत्वमित्यननोच्यते–प्रत्यक्षमित्यादि। इदम्व–ब्रह्मोपासनम्। प्रत्यक्षं वा – प्रत्यक्षरूपमिति वा । स्मृतिर्वा–स्मृतिरूपमितिवा । सकृत्– सकृत्कृतश्शस्त्रार्थ इति न्यायेन सकृदावृत्तमिति वा । असकृदितिवा– विशेषशास्त्रबलेनासकृदावृतमिति वी। परस्तात्– पूर्वम्। नोक्तम् –नोपपादितम्। किञ्चयावद्दीवानुवृत्तिप्रभृति च–‘स खल्वेवं वर्तयन् यावदायुषम्’ इति शास्त्रेण यावज्जिवमनुवर्तनीयमित्यादि चार्थदातं पूर्वं नोक्तम्। तत्–तस्मात् कारणत् ।इह–अत्रापि विद्यास्वरूपकथने । अपौनरुक्त्यम् पुनरुक्त्यभावः। सुबोधम्–अनुक्तार्थानां बहूनामिह वचनात् अपुनरुक्तिस्सुगमेति भावः॥
कुमार-वरदः - 3

3.अत्राधिकरणसंगतिर्भाष्ये तृतीयेऽध्याये साधनैस्सह विद्या चिन्तिता इत्युपक्रम्य वेदान्तवाक्येषु ब्रह्मप्राप्तितया विहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थः उतासकृदावृत्तमिति संशयः’ इत्यभिधानात्। तदर्थविचारस्तु- किं वेदान्तविहितं वेदनं सकृत्कृतं शास्त्ररार्थः, उतासकृदावृत्तमिति। किं ब्रह्मविदाप्नोति परम् इत्यादिभिर्वेदमात्रं" विधीयते उत निदिध्यासनम्। किमत्र विदिशब्दो ज्ञानमात्रपरः" उतोपासनपरः । उपक्रमोपसंहाराभ्यां वाक्यान्तराच्चोपासनपरत्वं विदिशब्दस्यावगम्यतेनेति। अत्र तृतीयाध्यायचरमाधिकरणेनास्याधिकरणस्य संगति वदन्प्रतिपाद्यविशेषार्थनप्याह- शुद्धैरिति । फलसङ्गकर्तृत्वादिदोषरगुतारुतिकृष्टधर्मैश्शमादिभिश्च सदनपचरणे ब्रह्मविदपचाराभावे ब्रह्मविद्याभवित्रीति पूर्वा धिकरणे उक्तम्। एतस्मिन् अधिकरणे ब्रह्मविद्यास्वरूपं विमृशति।पूर्वमपि ब्रह्मविद्यास्वरूपं तत्रतत्र निरूपितम्। तेन पौनरुक्त्यं किं न स्यादिति आशङ्क्यपूर्वं निरूपिताकारविशेषस्य ब्रह्मविद्यायां विद्यमानत्वात् तदाकारविशेषपपादनेनापौनरूक्तयमुपपादयति–प्रत्यक्षमित्यादीना। अयमत्र शब्दान्वयः- किं मोक्षोपायाभूतं ब्रह्मोपासनं प्रत्यक्षरूपं स्मृतिरूपं वा सकृत्कृतशशास्त्रार्थ इति न्यायेन सकृद्वा ध्रुवानुस्मृतिरिति प्रमाणानुसारेणासकृद्वेति पूर्वं नोक्तम्। नैतावदेव स खल्वेवंवर्तयन्यावदायुषम् इत्याद्युक्तं यावज्जीवानुवृत्यादिकच्च पूर्वं" नोक्तमिति न पौनरुक्त्यगन्धप्रसङ्ग इति॥

मूलम् - 3
  1. शुद्धैरुत्कृष्टधर्मैस्सदनपचरणे ब्रह्मविद्या भवित्री-
    त्युक्तं पूर्वाधिकारे विमृशति तु परं तत्स्वरूपं यथावत्।
    प्रत्यक्षं वा स्मृतिर्वा सकृदिदमसकृद्वेति नोक्तं पुरस्तात्
    यावज्जीवानुवृत्तिप्रभृति च तदिहापौनरुक्त्यं सुबोधम्॥
विश्वास-प्रस्तुतिः - 4
  1. ज्ञानं मुक्तेरुपायश्श्रुतिभिहितस्तस्य संख्या तु नोक्ता
    सौकर्यं स्यात्सकृत्त्वे तत इह तु भवेच्चारितार्थ्यं विधीनाम्।
    सम्यक्त्वात्तद्ध्रुवत्वं न पुनरनुगमात्प्रोक्तमित्यप्यसारं
    सामान्योक्तेर्विशेषे सति पशुनयतस्तत्र विश्रान्तिसिद्धेः॥
३४-तमाहोबिल-यतिः - 4
  1. ज्ञानमित्यादि। श्रुतिभिः–‘ब्रह्मविदाप्नोति’ परम् इत्यादिश्रुतिभिः। मुक्तेरुपायः,ज्ञानम्– ज्ञानमिति अभितहितः– उक्तः। तस्य–मोक्षोपायभूतज्ञानस्य। संथ्या तु– एकत्वं वा अनेकत्वं वा आवृत्तत्वं वा अनावृत्तत्वं वेत्यर्थः। नोक्ता नाभ्यधायि । सकृत्वे –सकृदनुषटितस्यैव ज्ञानस्य शास्त्रार्थत्वे।सौकर्यं स्यात्–अनुष्टानसुकरता लभ्येतेत्यर्थः। इह – विषये। ततस्तु–तावन्मात्रेणैव। विधीनाम् – मोक्षोपायविधीनाम् ।चारिताथ्र्यं भवेत् – सकृत्कृतश्शास्त्रार्थ इति न्यायेन कार्ताथ्र्यं" सिध्येदित्यर्थः। सम्यक्त्वात्–ज्ञानान्तरेणाबाधित्वात्। तदूध्रुवत्वम्–‘सत्त्वशुद्वौ ध्रुवा स्मृतिः’ इत्यादिप्रमाणसिद्वं" तस्य ज्ञानस्य ध्रुवत्वम्। अनुगमात् पुनः– चिरकालानुवृत्तत्वात्तु। न प्रोक्तम्– न ध्रुवत्वं प्रोक्तम्। इत्यपि असारम्– एवं" शङ्कनमप्यसारम्। सामान्योक्तेः–साकाङ्क्षस्य सामान्य व्यवहारस्य। विसेषे सति –विशेषोपस्थापकप्रमाणान्तरे सति। पशुनयतः–थागपशुन्यायेन। तत्र– विशेष एव । विश्रान्तिसिद्वेः–पर्यवसानस्य सिद्वत्वात्। तथा च ‘अग्नीषोमीयं पशुमालभेत’ इत्यादिविधिवाक्यघटकस्य सामान्यस्य पशुशब्दस्य ‘छागस्य वपायाः’ इत्यादिमन्त्रवर्णस्थत्थागरूपविशेष इव वेदनध्यानोपासनध्रुवानुसमृतिदर्शनसब्दानां भक्तिरूपज्ञानविशेषे विश्रान्तिसिद्वेर्न केवलव्याख्यार्थज्ञानादीनां मुक्तिहेतुत्वमिति भावः॥
कुमार-वरदः - 4
  1. अत्र सकृत्वेन पूर्व पक्षं कृत्वा भाष्यादावुक्तामसकृक्त्वोपपादनप्रक्रियां स्मारयन् सिद्धान्तं प्रदर्शयति-ज्ञानमिति। अत्रायं" पूर्वपक्षः- ब्रह्मविदाप्नोति परम् ब्रह्म वेद ब्रह्मैव इत्यादौ केवलं ब्रह्मवेदनमेव मोक्षोपाय इत्युक्तम्। तस्य वेदनस्यैकत्वं" वाअनेकत्वं वेति संख्या नोक्ता आवृत्तत्वं वा अनावृत्तत्वं वा नोक्तमित्यर्थः । कॢञ्च सकृक्त्वे सौकर्यमेव स्यात् लघुपक्षाङ्गीकारे हि न्यायानुसारस्यादित्यर्थः । तथा सकृत्कृतः शास्त्रार्थः इति न्यायेन विधीनां चरितार्थ्तवं च स्यात्। ननु ध्रुवानुस्मृतिरिति ब्रह्मोपासनस्य ध्रुवत्वमुच्यत इत्याशङ्क्य तदप्यन्थासिद्धमाहसम्यक्त्वादिति । अत्र प्रतिक्षिपति- असार मिति। असारत्वमेव न्यायतो दर्शयति– समान्येति । सामान्य व्यवहारस्यसाकाङ्क्षस्य विशेषोपस्थापकप्रमाणान्तरे सति च्छागपशुन्यायेन विशेषे एव विश्रान्तिसिद्धिः । एतस्यार्थस्य वेदनध्यानोपासनध्रुवानुस्मृतिदर्शनशब्दानां भक्तिविश्रान्तिप्रतिपादके भाष्योपक्रमग्रन्थे विस्तरेणोक्तत्वदत्र सङ्गहेणामुमर्थं प्राचीकशत्॥
मूलम् - 4
  1. ज्ञानं मुक्तेरुपायश्श्रुतिभिहितस्तस्य संख्या तु नोक्ता
    सौकर्यं स्यात्सकृत्त्वे तत इह तु भवेच्चारितार्थ्यं विधीनाम्।
    सम्यक्त्वात्तद्ध्रुवत्वं न पुनरनुगमात्प्रोक्तमित्यप्यसारं
    सामान्योक्तेर्विशेषे सति पशुनयतस्तत्र विश्रान्तिसिद्धेः॥
विश्वास-प्रस्तुतिः - 5

5.किञ्चाग्नेयादिनीत्या विदिरिह वदति ध्यानशब्दार्थमेव
ध्याने चोपासनोक्तिः परभजनतया वक्ति सेवात्मकत्वम्।
ऐकार्थ्ये विद्युपास्योव्यतिकरिततया श्रूयते च प्रयोगः
कार्ये हेतौ च भक्तेः क्वचिदुपचरितो भक्तिभेदत्ववादः॥

३४-तमाहोबिल-यतिः - 5
  1. किञ्चेत्यादि। किञ्च। इह–मोक्षोपायविषये। विदिः–‘ब्रह्म वेद ब्रह्मैव’ इत्यादिविदिः। अग्रेयादिनीत्या – ‘आग्नेयं चतुर्धा करोति, पुरोडाशं चतुर्धा करोति’ इत्यत्र पुराडाशशब्दः प्रकृताग्ने- यपुरोडाशपर इति कर्मकाणडे निर्णीतम्, एवं ‘आग्नेय्याग्नीग्रमुपतिष्टते’ इत्यत्राग्नेयीशब्दः प्रकृताग्नेयीमेव ऋचमभिदधातीति च निर्णीतम्, तन्न्यायेनेत्यर्थः । ध्यानशब्दार्थमेव वदति– समानप्रकरणस्थध्यानशब्दार्थं ज्ञानविशेषमेवाभिघत्ते। ध्याने उपासनोक्तिश्च परभजनतया सेवात्मकत्वं वक्तिः –ध्यानविषये ‘आत्मेत्येवोपासित’ इत्यादावुपासनशब्दः उत्कृष्टविषयकभक्तिरूपतया भृतस्य स्वामि चिन्तनन्यायेन ‘दासभूतास्स्वतस्सर्वे’ इत्युक्तरीत्या दासभूतस्य चेतनस्य स्वामिचिन्तनरूपत्वादुत्कृष्टचिन्त नात्मकत्वमभिदधाति। अत्र चिन्तामणिपङ्क्ति ः ‘ननु उपासनं मोक्षोपाय इत्यध्यात्मविद्भिरुच्यते तत्कथं ध्यानं मोक्षओपाय इत्याशङ्क्योपासनशब्दस्य ध्यान ए पर्यवसानं दर्शयति –ध्यान इति। ध्यान एोपासनोक्तिः परभजनरूपत्वेन सेवात्मकत्वं गुणविशेषमाहेत्यर्थः। ध्यानमिति चिन्तनमात्रम्। तत्र चोरसर्पादिविषयमपि ध्यानमेव। अतस्तद्व्यावृत्त्यर्थमनुकूलविषयानुसन्धानमत्रोपासनशब्देन प्रतिपाद्यत इति भावः ’ इति। विद्युपास्योरैकार्थ्यै — मोक्षसाधविधिषु श्रुतयोर्विद्युपस्योर्वेदोपासीतेति शब्दयोरैकार्थ्ये एकार्थबोधकत्वे।साधक इति शेषः। व्यतिकरिततया प्रयोगः श्रूयतेच – विद्युपास्योरितिपदस्य काकाक्षिन्यायेनोभयत्रान्वयः। विदधातोरुपेत्यपसर्युक्तस्यासधातोश्च। व्यतिकरिततया विदधातुनोपक्रान्तस्योपसधातुना निगमनम्, उपासझातुनोपक्रमस्य विदधातुना निगमनम्, उपासधातुनोपक्रम्य मध्ये तमर्थं विदधातुनानूद्य उुपासधातुना निगमनमित्येवं परस्परविनिमयेन परस्परविनिमयेन प्रयोगः श्रूयते। ‘भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद, अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योहमस्तीति न स वेद, अकृत्स्नो ह्ये। आत्मेत्येवोपासीत’ इत्यादौ तथाविधः प्रयोगश्श्रूयते। भक्तेः –उपासनस्य। कार्ये – फलभूते कीर्तनादौ।हेतौ च – कारणभूते भगवद्विग्रहगुणस्मरणादौ च। क्वचित् – पुराणवाक्ये। भक्तिभेदत्ववादः – ‘स्मरणं कीर्तनम्’ ‘णद्भक्तजनवात्सल्यम्’ इत्यादौ नवविधा अष्टविधा भक्तिरिति स्मरणकीर्तनादीनां भक्तिप्रकारभेदत्वप्रवादः। उपचरितः – औपचारिकः। आयुर्धृतं पापं दुःखमित्यादौ आयुर्हेतौ धृते आयुश्शब्दवत् पापफले दुःखे पापशब्दवच्च भक्तिकार्यत्वात् भक्तिकारणत्वाच्च कीर्तनस्मरणादौ भक्तशब्दप्रयोग उपचारमूल इत्यर्थः। उपचारः पूजा। कीर्तनादीनां बहुमन्तव्यत्वार्थं भक्तिशब्दप्रयोग इत्यर्थः। यद्वा उपचारः सामीप्यं शक्यार्थसम्बन्धस्तन्मूलो लाक्षणिक इत्यर्थः॥
कुमार-वरदः - 5

5.वेदनस्य ध्यानत्वे न्यायान्तरमपि पुरस्कृत्य तस्यैव वेदनस्य सेवारूपत्वेनोपासनत्वमप्युपपादयन् भाष्यतावुक्तं विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारमपि दर्शयित्वा भक्तिमेव मोक्षोपायतया निगमयन् ध्रुवानुस्मृतेरन्यत्र भक्तिशब्दप्रयोगः औपचारिक इति चाह- किञ्चेति । अयमत्र शब्दान्यः– आग्नेय्याग्नीध्रमुपतिष्टते इत्यत्र आग्नेयीशब्दः प्रकृताग्नेयीमेवोपादत्ते। एवं ब्रह्म वेद ब्रह्मैव इत्यादौ वेदनशब्दस्समानप्रकणोपाक्तं ध्यानमेव दर्शयति। ननूपासनं मोक्षोपाय इत्यध्यात्मविद्भिरुच्यते तत्कथं ध्यानं मोक्षोपाय इत्याशङ्क्योपासनशब्दस्य ध्यान एव पर्यवसानं दर्शयति-ध्यान इति। ध्यान एवोपासनोक्तिः परभजनरूपत्वेन सेवात्मकत्वं गुणविशेषमाहेत्यर्थः। ध्यानमिति चिन्तनमात्रम्। तत्र चोरसर्पादिविषयमपि ध्यानमेव। अतस्तद्वयावृत्त्यर्थमनुकूलविषयानुसन्धानमत्रोपासनशब्देन प्रतिपाद्यत इति भावः। विद्युपास्योरैकार्थ्ये ’ अथ योन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद अकृत्स्नः ह्येष आत्मेत्येवोपासीत’ इति व्यतिकरिततया श्रूयमाणः प्रयोग एव प्रमाणम्। ननु ‘श्रवणं कीर्तनम्’ इत्यादौ नवविधा भक्तिरुच्यते उपासऩञ्च तन्मध्येऽभिधीयते तत्कथं ध्रुवानुस्मृतिरेव भक्तिरूपत्वमित्याशङ्क्य भक्ते पूर्वोक्तभाविनोरपि भक्तिशब्दप्रयोग औपचारिक इति निगमयति- कार्य इति।क्वचित्कार्ये कारणवदुपचारः" क्वचिच्च कारणे कार्यवदुपचार इति न सङ्कटं कॢञ्चित्। भक्तिभदत्ववादः– भक्तिविशेषत्ववाद इत्यर्थः॥

मूलम् - 5

5.किञ्चाग्नेयादिनीत्या विदिरिह वदति ध्यानशब्दार्थमेव
ध्याने चोपासनोक्तिः परभजनतया वक्ति सेवात्मकत्वम्।
ऐकार्थ्ये विद्युपास्योव्यतिकरिततया श्रूयते च प्रयोगः
कार्ये हेतौ च भक्तेः क्वचिदुपचरितो भक्तिभेदत्ववादः॥

विश्वास-प्रस्तुतिः - 6
  1. योगोद्युक्तेषु यस्स्यात्स्ववरणविषयस्तेन लभ्यः परात्मा
    ग्राह्यत्वञ्च प्रियत्वात्तदपि हि गुणतो भक्तिरेव श्रुतैव ।
    साच प्रीत्यात्मिका धीः क्वचिदतिशयिते स्मृत्यबाधोऽप्यतस्स्यात्
    प्रोक्ता चैषा ध्रुवानुस्मृतिरनुवहनात्तैलधाराक्रमेण॥
३४-तमाहोबिल-यतिः - 6
  1. योगोद्यक्तेष्वित्यादि। योगोद्युक्तेषु – मोक्षोपायप्रवृत्तेष्वधिकारिषु। यः – पुरुषः। स्ववरणविषयस्स्यात् – स्वस्य परमात्मनो वरणम् अयमस्मदीयस्तस्मान्मां निरन्तरायोऽनुभवतु इत्याकाराकानुग्रहात्मकं ज्ञानं तस्य विषयभूतो भवेत्। तेन – अधिकारिविशेषेण।परात्मा – परमात्मा। लभ्यः – प्राप्यः। ‘यमेवै। वृणुते तेन लभ्यः’ ति श्रुतेरिति भावः। ग्राह्यत्वञ्च – पुरुषोत्तमेन वरणीयत्वञ्च। प्रियत्वात् – परमपुरुशप्रियत्वाद्भवति। प्रियतम एव वरणीयो भवतीति भावः। तदपि – प्रियत्वमपि, गुणतो हि – वरणीयाधिकारिनिष्ठदगुणविशेषादेव भवति। निर्हेतुकत्वे प्रियत्ववरणयोस्सर्व ए वृतास्तेन स्युः। एवं भक्तिरेव श्रुता – एवञ्च सति भक्तिरेव वरणीयताहेतुगुणविशेषत्वेन श्रुता भवति। सा — भगवन्निष्ठात्मकेयं भक्तिश्च। अतिशयिते – स्वरूपगुणविभूत्यादिभिस्सर्वातिशयिते। क्वचित् – क्वापि वस्तुनि, प्रवृत्ता सती। प्रीत्यात्मिका धीः — प्रीतिरूपज्ञानात्मिका भवति।यद्वा अतिशयिते –भगवन्निष्ठाया अतिशयभाजि भगवन्निष्ठातिषयभाजीति यावत्। क्वचित् – क्वाप्यधिकारिविशेषे। प्रीत्यात्मिका धीः – भगवद्विषयकात्यर्थप्रीतिरूपज्ञानात्मिका भवति। अतः – श्रुतावपि भक्तेरेव विवक्षितत्वात्। स्मृत्यबाधेऽपि स्यात् – ‘प्रीतपूर्वमनुध्यानं भक्तिरित्यभिधीयते’ ‘भक्त्या त्वनन्यया शक्यः’ इत्यादिरूपायाः प्रीतिपूर्वानुध्यानात्मकभक्तेर्मोक्षसाधनत्वं वदन्त्यास्मृतेश्श्रुत्या अबाधोऽपि भवेत्। अविरोधेन नयने शक्ये विरुद्धार्थकल्पनामूलकान्यतरबाधस्यान्यय्यत्वादिति भावः। एषा च – इयं भक्तिरेवष तैलधाराक्रमेण अनुवहनात् – तैलधारावदविच्छिन्नानुगतसन्ततिकतया। ध्रुवानुस्मृतिः प्रोक्ता – ध्रुवानुस्मृतिरिति श्रुतावुच्यते। स्मृतिसन्तत्यविच्छेदविवक्षया भक्तिरेव ध्रुवा स्मृतिरित्युच्यते नान्या सेति मन्तव्यमिति भावः॥
कुमार-वरदः - 6
  1. ननु ‘भक्त्या त्वनन्या शक्यः’ इति भक्तिरेव परब्रह्मप्राप्तिरूपमोक्षसाधनतया स्मर्यते सा तु यमैवैष वृणते तेन लभ्यः इत्यादिश्रुत्या बाद्यते तेन श्रुतिस्मृत्योर्विरोधान्नार्थविशेषप्रतिपत्तिरित्याशङ्कां वारयन् श्रुतिस्मृत्योरन्योन्यानूकूल्यमेव दर्शयति- योगो द्युतक्तेष्विति।इयमत्रशब्दान्वयप्रक्रिया-योगोद्युक्तेष्वधिकारिषु यः स्याद् भगवद्वारणविषयभूतः तेनैव लभ्यः परमात्मा। तस्य च परमात्मना वरणीयतवं परमात्मप्रियत्वादेव। तदपि प्रियत्वं तन्निष्टात्भक्तिरूपात् गुणादेव। एवञ्च सति भक्तिरेव साक्षाच्छ्रूयते। तन्निष्ठा हि गुणत्वेणाभिहितेयं भक्तिः क्वचिदतिशयिते प्रीत्यात्मिका धीरिति।अत एव भक्तिप्रतिपादक- स्मृत्यबाधस्यात्। श्रुतिस्मृत्योः परस्परसंवादात्। स्मृतिर्हि भक्तिरित्याह । श्रुतिरपि तामेव भक्तिं भगवद्विषयप्रीतिरूपां ’ यमेवैष वृणुते तेन लभ्यः’ इति फलतो दर्शयति स्म। तर्हि भक्तितरित्युच्यते भवता ध्रुवानुस्मृतिरिति श्रुतिराह तत्र कथ्मविरोध इत्याशङ्क्येयमेव भक्तितस्तैलधारावच्छिन्नत्वाद् ध्रुवानुस्मृति रित्युच्यत इति दर्शयति– प्रो क्तेति। अनुवहनात्– अनुस्यूतत्वादित्यर्थः॥
मूलम् - 6
  1. योगोद्युक्तेषु यस्स्यात्स्ववरणविषयस्तेन लभ्यः परात्मा
    ग्राह्यत्वञ्च प्रियत्वात्तदपि हि गुणतो भक्तिरेव श्रुतैव ।
    साच प्रीत्यात्मिका धीः क्वचिदतिशयिते स्मृत्यबाधोऽप्यतस्स्यात्
    प्रोक्ता चैषा ध्रुवानुस्मृतिरनुवहनात्तैलधाराक्रमेण॥
विश्वास-प्रस्तुतिः - 7
  1. रागादादौ प्रवृत्तिश्श्रवणमननयोर्ध्यानमेकं विधेयं
    तत्र द्रष्टव्यशब्दो विशदतमतया वक्ति वैशिष्ट्यमात्रम्।
    शब्दोत्थं दर्शनं ये विषयमकथयन् वेदनोक्तेरमीषां
    व्याघातादिप्रपञ्चस्स्वयमिह निपुणैस्सूक्ष्ममन्वेषणीयः॥
३४-तमाहोबिल-यतिः - 7

7.रागादादावित्यादि। आदौ – प्रथमतः, अधीतसाङ्गसशिरस्कवेदस्याधिकारिणोऽध्ययनक्रमेण पूर्वमीमांसया कर्म विचार्य तेनाधिगताल्पास्थिरफलकेवलकर्मज्ञानस्य सञ्जातमोक्षाभिलाषस्य वेदान्तशुश्रूषया प्रवृत्तिकाले। श्रवणमननयोः– ’’ श्रोतव्यो मन्तव्यः’’ इत्युक्तयोश्श्रवणमननयोः। प्रवृत्तिः। रागात् –आपातप्रतीतोपनिषदर्थनिर्णयरागादेव, श्रवणप्रतिष्ठार्थत्वान्मननस्य मननेऽपि श्रुतार्थप्रतिष्ठापनरागादेव। तर्हि किं विधेयमिति चेत् —ध्यानमेकं विधेयम्। अनेकविधौ वाक्यभेदस्स्यादिति भावः। तर्हि ’ द्रष्टव्यः’ इत्यस्य का गतिरिति चेत् द्रष्टव्यशब्दः–’ द्रष्टव्यः’ इत्ययं शब्दः। तत्र – ध्याने। विशदयमतया— स्वशक्यार्थप्रत्यक्षनिष्ठवैशद्यातिशयरूपगुणविशेषेण सह । वैशिष्ट्यमात्रं" वक्ति – सम्बन्धमात्रं प्रतिपादयति।तथा च द्रष्टव्यो निदिध्यासितव्यइति दर्शनसमानवैशद्यातिशयविशिष्टध्यानविधिः अतो न वाक्यभेदप्रसक्तिरिति भावः। ये – मृषावादिप्रभृतयः। वेदनोक्तेः – ‘ब्रह्म वेद ब्रह्मैव’ इत्यादिश्रुतवेदनशब्दस्य। शब्दोत्थं दर्शनम् – शब्दजन्यप्रत्यक्षम्ष। विषयम् – अभिधेयम्। अकथयन् — अभ्यधुः। वेदनशब्दस्य द्रष्टव्यपदानुसारेण दशमस्त्वमसीत्यादिवाक्यजन्यप्रत्यक्षवत् प्रत्यक्षात्मकं ‘तत्त्वमसि’ इत्यादिवाक्यजन्यं" ज्ञानमर्थ इति येऽवदन्नित्यर्थः। अमीषाम् – उक्तरीत्या शब्देन प्रत्यक्षोत्पत्तिमङ्गीकुर्वताम्। व्याघातादिप्रपञ्चः - प्रत्यक्षं" शब्दजन्यमिति स्ववचनविरोधः, सर्वलोकविरोधः। प्रमाणलक्षमविभागविरोधइत्यादिविरोधविस्तारः। इह – अस्मत्सम्प्रदाये। निपुणैः – श्रुतार्थविरुद्धार्थपूर्वार्थधाराकल्पनाकल्पकमेधाशालिभिस्मदन्तेवासिभिः। स्वयम् – अस्मत्कण्ठोक्तिं विनापि स्वातन्त्रेण। सूक्ष्मम् – सावधानमित्यर्थः। अन्वेषणीयः॥

कुमार-वरदः - 7
  1. ननु भवता निदत्यासितव्यः इति ध्यानस्यैकस्यैव मोक्षोपायत्याविधेयस्त्वमुच्यते विधिश्रवणं तु द्रष्टव्यश्श्रोतव्यः मन्तव्यः निदित्यासितव्यः इति चतुष्वर्थेषु दृशयते तत्कथमित्याशङ्क्य विषयभेदेन विधित्वानुवादत्वविभागं दर्शयति-रागादिति। अयमर्थः श्रवणमननयोः तावत्प्राप्त विषयत्वाद् रागादेव प्रवृत्ति। अप्राप्तत्वान्निदिध्यासनमेकमेव विधेयम्। ननु कथं द्रष्टव्य इति शब्दे जाग्रति ध्यानमेकं विधेय मित्याशङ्क्यं परिहरति-तत्रेति।द्रष्टव्यइतिशब्दस्यैव ध्यानस्य गुणभुतं दर्शनसमानाकारत्वमेव दर्शयति। नपुनर्ध्यानादन्यस्य दर्शनशब्दवाच्यस्यस्य कस्यचिन्मोक्षोपायत्वं दर्शयतीत्यर्थः।अयमत्र भावः-क्वचित् ध्रुवास्पृतिः। स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इति ध्रुवानुस्मृतेर्गतन्थिविमोक्षोपायत्वमुक्तम्। अपरत्र भिद्यते हृदयग्रन्थिश्छिद्यते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणितस्मिन्दृष्टे परावरे॥ इति दर्शनस्य ग्रन्थिविमोक्षोपायत्वमुक्तम्। नात्रस्मरणदर्शनयोर्निरपेक्षमोक्षोपायतया पृथगेव विहितयोःसमुच्चयस्संभवति। नैरपेक्ष्यश्रवणादेव। नापि विकल्पः-गुरुलघ्वोर्विकल्पानुपपत्ते। तेन स्मरणस्य दर्शनस्य पर्यवासानं कृत्वा द्वयोरप्येकत्वेण ग्रन्थिविमोक्षोपायत्वं वक्तव्यम्।अत्र दर्शयति दर्शनमिति दर्शनसमानाधिकरण उच्यते। तत्तु स्मृतिवैशद्यं पुनस्साक्षाद्दर्शनत्वंम्। स्मृतित्वदर्शनत्वयोर्विरुद्दजातित्वेनैकत्रैव सामान्ययोगात्। एवं निर्णीते शास्त्रार्थे द्रष्टव्यो निदिध्यासितव्यः इत्यात्रापि निदित्यासनस्य वैशद्यातिशयाद्दर्शनत्वमुपचर्यते। अपकृषटे ह्युत्कृष्टशब्दे औपचारिकः। यथा राजभृत्ये राजशब्दः। एवमत्राप्य साक्षात्काररूपे श्वयं स्मृत्यात्मणि निधित्यासने दर्शनशब्देन साक्षात्कारत्वमुपचर्यते। एकत्र निर्णीतस्य शास्त्रार्थस्येतरत्रापि ग्राह्यत्वात्। अत्र वेदनस्य द्रष्टव्यपदानुसारेण शब्दजन्यप्रत्यक्षविषयत्वं दशमस्त्वमसीत्यादिनदि वदन्ति ताननूद्य दूषयति– शब्दोत्थ मिति । व्याघातातिप्रपञ्च इति–अत्र स्वव्याघातस्सर्वलोकविरोघः प्रमाणलक्षणविभाघविरोधः इत्यादिशब्देन गृह्यते। प्रत्यक्षं शब्दजन्यमिति वचनमेव विरुध्यते। एवमन्यदपि द्रष्टव्यम्। तर्हि दशमत्वमसीत्यत्र प्रत्यक्षोत्पत्तिः कथम् तत्र न प्रत्यक्षोत्पत्तिः। अपि तु यवाक्यात्परोक्षज्ञाने सञ्जाते स्वयमेव परामर्शात्मकं प्रत्यक्षसामग्रीयुत्थापनेव भवति ततस्त्वात्मणि दशमत्वविषयं मानसं प्रत्यक्षं जायत इति न परस्परं" प्रमाणसङ्करप्रसङ्क इति। तमिमर्थं दर्शयति अमिषामिति। निपणैरन्तेवासिभिस्सूक्ष्मं विचारणीय इत्याह निपुणैति । अत्र निपुणत्वं प्रमाणविभागदर्शनकुशलत्वम्॥
मूलम् - 7
  1. रागादादौ प्रवृत्तिश्श्रवणमननयोर्ध्यानमेकं विधेयं
    तत्र द्रष्टव्यशब्दो विशदतमतया वक्ति वैशिष्ट्यमात्रम्।
    शब्दोत्थं दर्शनं ये विषयमकथयन् वेदनोक्तेरमीषां
    व्याघातादिप्रपञ्चस्स्वयमिह निपुणैस्सूक्ष्ममन्वेषणीयः॥
विश्वास-प्रस्तुतिः - 8
  1. ध्याने वैशद्यमात्रादुपचरणवती दृष्टिशब्दप्रवृत्तिः
    स्यात्तुल्यं तत्तवापि ह्यभिलपति धियं चाक्षुषीं दृष्टिशब्दः।
    घ्रातास्प्रष्टेतिशब्दः करणविरहिते मुख्यवृत्तो नहि स्यात्
    तद्ग्राह्यस्त्वस्मदीयो बहुनयगुणवांस्त्याज्य एव त्वदीयः॥
३४-तमाहोबिल-यतिः - 8

8.ध्यान इत्यादि। ध्याने – “निदिध्यासितव्यः” इति विहिते ध्याने। वैशद्यमात्रात् – वैशद्यरूपगुणमात्रेण नतु साक्षात्कारित्वेन दृष्टिशब्दप्रवृत्तिः — प्रत्यक्षवाचकदृष्टिशब्दस्य बोधकतया सम्बन्धः। उपचरणवती – भृत्ये राजशब्दवौपचारिकी लाक्षणिकीति यावत्। स्यात् – अस्तु। तत् – दृष्टशब्दस्यौपचारिकत्वम्। तवापि – शब्देन प्रत्येक्षोत्पत्तिमङ्गीकुर्वतस्तवापीत्यर्थः। तुल्यम् – समानम्। दृष्टिशब्दः । चाक्षुषीम् – चक्षुर्जन्याम्। धियं हि अभिलपति – वदति। तथा च चक्षुर्जन्यज्ञानं" ब्रह्मविषये त्वत्पक्षेऽपि नास्तीति मानसे ज्ञानविशेषे दृष्टिशब्दस्यौपचारिक्येव प्रवृत्तिस्तवापीति भावः। घ्रातास्प्रष्टेतिशब्दः – घ्राणादीन्द्रियज्ञन्यज्ञानाश्रयवाची घ्रातेत्यादिशब्दः। करणविरहिते – ब्रह्मविषयकतत्तदिन्द्रियजन्यघ्राणस्पर्शनादिकार्यविधुरे। मुख्यवृत्तो न स्याद्धि – मुख्यं शक्तिद्वारकं वृत्तं बोधनं यस्य स मुख्यवृत्तस्तादृशो न भवेद्धि। ब्रह्मघ्राता ब्रह्मस्प्रष्टेत्यादिशब्दा यथा मुख्यार्था न सम्भवन्ति तथैव ब्रह्मद्रष्टेत्यत्रापि मुख्यवृत्तिर्न सम्भवतीतिदमावयोरुभयोस्तुल्यमिति भावः। द्वयोः पक्षयोस्तुल्यत्वे युष्मत्पक्षस्यैव ग्राह्यत्वे को हेतुरित्यत्राह – तदित्यादि। तत् – एवमुपपादनात्। बहुनयगुणवान् – बहुभिर्न्यायैर्गुणवानुत्कर्षवान्। बहुनयगणवानिति पाठो दृश्यते बहवो न्यायगणास्तद्वानिति तदर्थः। अस्मदीस्तु – पक्ष इति अत्रोपरि च शेषः। दर्शनसमानाकारत्वविषिष्टध्यानविधिपक्ष ए। ग्राह्यः – त्वयापीत शेषः। त्वदीयः पक्षस्तु, त्याज्य एव – व्याघातादिप्रपञ्चयुक्ततया त्वयापि त्याज्य एव। गुणे हि पक्षपातस्सर्वैरपि कार्य इति हृदयम्॥

कुमार-वरदः - 8
  1. ननु भवत्पक्षे दर्शनसमानाकारमात्रकथनाद् द्रष्टव्यइतिशब्द औपचारिकस्स्यादिति परपक्षिणोक्ते तदङ्गीकृत्य त्वत्पक्षेऽप्यौपचारिक एवेति प्रतिबन्धा परिहरति – ध्यान इति। अयमर्थः– ध्याने वैशध्यमात्राद् द्दष्टिशब्दप्रवृत्तिरुपचरण वतीतीममर्थमङ्गीकुर्महे। तत्तूपचरणं भवत्पक्षेऽपि तुल्यमित्याह - तुल्य मिति। तदेव विवृणोति– अभिलपती ति। द्दष्टिशब्दो हि चाक्षुषीमेव धियं ब्रूते। ब्रह्मणि तु न चाक्षुषी द्दष्टिः, अपितु मानसी। तस्यामौपचारिकद्दष्टौ द्दष्टिशब्दो न मुख्य इति तवापि तुल्यमित्यर्थः। तुल्यत्वमेव सद्दष्टान्तं दर्शयति– घ्राते ति।यथा घ्राता स्प्रष्टेत्यादिशब्दो ब्रह्मविषये तत्तदिन्द्रियजन्या घ्राणादिकार्यविधुरे न प्रयोक्तुं शक्यते एवं चक्षुर्जन्यज्ञानविषयभूतब्रह्मज्ञानवति द्रष्टृशब्दोऽपि मुख्यतया प्रयोक्तुमेव न शक्यते तथा च द्रष्टव्यइतिपदस्य गौणत्वं तवापि समानम्। तर्हि यत्रोभयोस्समो दोष इति न्यायेन द्वयोः पक्षयोस्तुल्यत्वे युष्मत्पक्ष एव परिग्राह्यो न पुनरस्मत्पक्ष इति विनिगमनायां को हेतुः" इत्याशङ्क्य विषेशमाह- तदिति। तयोस्वत्पक्षास्मत्पक्षयोस्तुल्यभावे सति। अथवा तदिति हेतुनिर्देशः। तस्मात् एवमुपपादनादित्यर्थः। बहुनयगणवान स्मत्पक्षो बहुन्यायोपेतः। युष्मत्पक्षस्त्वपन्यायमूल इत्यर्थः। तु शब्दो विशेषमेव दर्शयति॥
मूलम् - 8
  1. ध्याने वैशद्यमात्रादुपचरणवती दृष्टिशब्दप्रवृत्तिः
    स्यात्तुल्यं तत्तवापि ह्यभिलपति धियं चाक्षुषीं दृष्टिशब्दः।
    घ्रातास्प्रष्टेतिशब्दः करणविरहिते मुख्यवृत्तो नहि स्यात्
    तद्ग्राह्यस्त्वस्मदीयो बहुनयगुणवांस्त्याज्य एव त्वदीयः॥
विश्वास-प्रस्तुतिः - 9

9.न द्वारद्वारिकॢप्तिः कथमपि घटते विश्रमश्चेद्विशेषे
सामान्यात्मा विशेषैर्लघु च न गुरुभिः कर्तुरैक्ये विकल्प्यम्।
अर्थैक्ये दर्शनोक्त्या स्मृतिरुपचरिता युज्यते स्पाष्ट्यसिद्ध्यै
स्मृत्युक्त्या दर्शनस्योपचरणमसदित्यन्यदेतत्फलान्नः॥

३४-तमाहोबिल-यतिः - 9
  1. न द्वारद्वारिक्लप्तिरित्यादि । विशेषे – पशुशब्दस्य च्छागरूपविशेष एव वेदनादिशब्दस्य भक्तिरूपे विशेषधर्मविशिष्टे। विश्रमश्चेत् – पर्यवसानं संभवति चेत्। द्वारद्वारिक्लप्तिः – वेदनध्यानध्रुवानुस्मृतिदर्शनभक्तीनां द्वारद्वारिभावकल्पना। कथमपि – केनापि प्रयासेन। न घटते – न सम्भवति॥ एकत्र विश्रान्तौ सम्भवन्त्यां द्वारद्वारिभावकल्पनगौरवस्य हेयत्वमिति भावः। सामान्यात्मा – पश्वादिपदार्थवत् सामान्यधर्मविशिष्टो वेदनादिपदार्थः। विशेषैः – छागादिपदार्थवत् विशेषधर्मविशिष्टैर्ध्यानादिपदार्थैस्सह। न विकल्प्यः – न विकल्पार्हः। नहि पशुच्छागयोर्विकल्पस्स्वीकृत इति भावः । कर्तुरैक्ये - अधिकारिभेदस्य प्रमाणाभावेनाधिकार्यैक्ये सिद्धे सति। गुरुभिः – स्नानादिप्रोक्षणयोरेकस्मिन्नधकरिणि विकल्पः। न च शक्ताशक्तादिभेदेन विकल्पोपपत्तिः, तथाविधाधिकारिभेदश्रवणात्। सर्वत्रैकरूप्येण मुमुक्षत्वमेव हि अधिकारिविशेषणं श्रूयते नान्यदिति भावः। अर्थैक्ये – उदाहृतसामान्यविशेषन्यायेन वेदनादशब्दनामर्थैक्ये सति।स्पाष्ट्यसिद्धौ – वेशद्यातिशयरूपगुणविशेषलाभाय। दर्शनोक्त्या - दर्शनवाचकद्रष्टव्यशब्देन। स्मृतिः – ‘निदिधअयासितव्यः" ‘‘स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः’ इत्यादिसिद्धा तैलधाराविच्छिन्नानुस्यूतसन्ततिका स्मृतिः। उपचरिता – गौण्या लक्षणया प्रतिपादिता। युज्यते – युक्ता। स्मृत्युक्त्या – स्मृतिशब्देन। दर्शनस्य उपचरणम् – गुणलक्षणया प्रतिपादनं तु। असत् – असाधु। उपचारो ह्यन्त्रातशयितार्थाभिधानेन गुणीकरणं यथा सिंहो देवदत्त इत्यादौ, तथा च साक्षात्कारे स्मरणत्वाभिधानमपचार एव स्यात् तेन ध्याने साक्षात्कारत्वेमेवोपचर्यतइत्ययमेव न्याय्य इत्याशयः। ननु द्रष्टव्य इति फलमेव ब्रह्मसाक्षात्कार उच्यते नपुनरुपाय इत्याशङ्क्याह – अन्यदिति। नः – अस्माकम्। अस्मत्सिद्धान्त इत्यर्थः। एतत् – दर्शनम्। फलादन्यत् – उपायभूतमेव। स पुनः परेषामेव सिद्धान्तः, अस्माकं तु विधिश्रवणात् विधेयमेवोपासनं दर्शनसमानाकारत्वेनोच्यत इति सिद्धान्त इत्यर्थः॥
कुमार-वरदः - 9
  1. नन्वत्र वेदनात् ध्यानं ध्यानाद् ध्रुवानुस्मृतिः ध्रुवानुस्मृतेर्दर्शनं दर्शनाद् भक्तिरिति द्वारद्वारि भाव एवास्त्वित्याशङ्क्यैकत्र विश्रान्तौ सम्भवन्त्यां तत्परिकल्पनं गौरवातन्याय्यमित्याह– नद्वारेति। अयमत्र शब्दान्वयः– विशेषे विश्रमश्चेन्न द्वारद्वारिकॢप्तिः कथमपि घटते। तर्हि वेदनादीनां भक्तिपर्यन्तानां" विकल्पस्स्यादित्याशङ्क्य तदपि नेत्याह – समान्यात्मे ति। नहि सामान्यविशेषयोर्विकल्पः परिगृह्यते न्याय विद्भिः। यथा पशुच्छागयोः। अपित्वेकस्यान्यत्र पर्यवस्नमेव स्वीक्रियते। किञ्च गरुलध्वोर्विकल्प एव न संभवतीत्याह– लघ्वि ति। नहि स्नानप्रोक्षमयोरेकस्मिन्नधिकारिणि विकल्पस्स्वीक्रियते न्यायविद्भिः। तर्हि शक्ताशक्तभेदेन तत्र विकल्पवदत्रापि विकल्पः कल्प्यतामिति चेत्तदपि न; विकल्पे तावदष्टदोषदुष्टत्वं दोषः। अधुना पुनर्व्यवस्थितविल्पत्वपरिग्रहेऽधिकारिव्यवस्थापरिकल्पनमधिकदोषः। सर्वेष्वपि वाक्येषु मुमुक्षुत्वमेवाधिकारिविशेषणत्वेन श्रूयते। नपुनरेकैकं विशेषणमन्यदन्यदैवाकर्ण्यत इत्यर्थः। नचात्र शक्ताशक्ताभेदेन विकल्पः- अश्रवणात्। अश्रुतमपि कल्प्यत इति चेत् कल्पनैव दोषः। तदिदमाह- कर्तुरैक्य इति। भिन्नाधिकारित्वे निर्णीते व्यवस्थितविकल्पत्वं युज्येतापि। नपुनरत्र भिन्नाधिकारित्वं निर्णीतमित्यर्थः। तर्हि ध्रुवानुस्मृतौ दर्शनत्वमुपचर्तमिति भवतोक्तम्, दर्शने ध्रुवानुस्मृतित्व मुपचरितमिति विपरीतं किं न स्यादित्याशङ्क्याह– अर्थैक्य इति। उपचारो ह्यन्यत्रातिशयितार्थाभिधानेन गुणीकरणम्। तत्तु ध्याने तदधिकार्थाभिधाने युज्यते सिंहो देवदत्त इत्यादिवत्, तेन स्मरणे साक्षात्कारत्ववचनमुपचारस्स्यात्। साक्षात्कारे स्मरणत्वाभिधानं त्वपचार एव स्यात्। राजनि भृत्यत्वकथनवत्। तेन ध्यानेन साक्षात्कारत्वमुपचर्यत इत्ययमेव न्याय्यो मार्गः। अयमत्र शब्दान्वय– अर्थैक्ये सति दर्शनोक्त्या स्पाष्ट्यसिद्ध्यै स्मृतिरूपचरिता युज्यते। स्मृत्युक्त्या दर्शनस्योपचरणं तु असत् अन्याय्यम्। ननु द्रष्टव्य इति फलमेव ब्रह्मसाक्षात्कार उच्यते न पुनरुपाय इत्याशङ्क्यमाह– अन्यदिति । स पुनः परेषामेव सिद्धान्तः, अस्माकं तु द्रष्टव्यः इति विधिश्रवणात् विधेयमेवोपसानं दर्शन समानाकारत्वोनोचोयत इति सिद्धान्त इत्यर्थः॥
मूलम् - 9

9.न द्वारद्वारिकॢप्तिः कथमपि घटते विश्रमश्चेद्विशेषे
सामान्यात्मा विशेषैर्लघु च न गुरुभिः कर्तुरैक्ये विकल्प्यम्।
अर्थैक्ये दर्शनोक्त्या स्मृतिरुपचरिता युज्यते स्पाष्ट्यसिद्ध्यै
स्मृत्युक्त्या दर्शनस्योपचरणमसदित्यन्यदेतत्फलान्नः॥

विश्वास-प्रस्तुतिः - 10

10.कृच्छ्रादौ शक्तिहीनो दृढपरितपनस्संयमार्हश्च कुर्यात्
सर्वार्थां केशवानुस्मृतिमिति घटते तद्विकल्पो यथार्हम्।
सामान्यात्सर्वदोषेष्वियमुपकुरुते सर्वनैमित्तिकानां
मुक्तेरप्यत्र मूलं मुनिरनुमनुत तां तादृशध्यानरूपाम्॥

३४-तमाहोबिल-यतिः - 10
  1. कृच्छ्रादावित्यादि। कृच्छ्रादौ– तत्तत्पापप्रायश्चित्ततया विहिते कृच्छ्रदौ। शक्तिहीनः– अनुष्ठानशक्तिहीनः। दृढपरितपनः" –दृढानुतापयुक्तः। संयमार्हश्च– योगानुष्ठानार्हश्चाधिकारि। सर्वार्थाम्– सर्वप्रायश्चित्तस्थानीयाम्। केशवानुस्मृतिम्– भगवद्यानम्। कुर्यात्– अनुतिष्ठेत्। इति– एवम्प्रकारेण। यथार्हं तद्विकल्पो घटते– कृतबहुविधपापस्याधिकारिणो यानि बहूनि प्रायश्चित्तानि दृश्यन्ते तेषामेकैकस्य स्थाने यावत्केशवानुस्मरणं फलप्रदानसमर्थं तावत् तत्रतत्र कर्तव्यमिति यथोचितं विकल्पो युज्यते। सामान्यात्– पापसामान्यात् प्रसक्तेषु सर्वदोषेष्वपि। सर्वनैमित्तिकानाम्– तत्ततन्नैमित्तिकानां सर्वेषामपि। इयम्– केशवानुस्मृतिः। उपकुरुते– प्रधानसहकारित्वेनोपकरोति। अत्र– सर्वोपनिषद्व्याख्यानरूपे शारीरकशास्त्रे। मुनिः-सर्वोपनिषदर्थसारमननशीलस्सूत्रकारः। तादृशध्यानरूपाम्– आप्रायणानुवृत्तदर्शनसमानवैशद्यातिशययुक्ततैलधारावदविच्छिन्नसन्तानात्यर्थप्रीतिरूपव्यवस्थिततत्भगवद्गुणविषयकध्यानात्मिकां स्मृतिम्। मुक्तेरपि– न केवलं सर्वानिष्ठनिवृत्तेः किंतु परमानन्दप्राप्तिलक्षणमुक्तेरपि। मूलम्– प्रधानकारणम्। अनुमनुते– निश्चिनोति स्म। श्रीविष्णुपुराणे ’ प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानिवै। यानि तेषामशेषाणां कृष्णानुस्मरणं परम्॥’ इति सूत्रकारस्य पित्रा भगवदनुस्मृतेरुक्तविशेषं द्वेधानूद्य तत्पुत्रेण सूत्रकारेण भगवदुस्मरणस्योक्तविशेषणविशिष्टरूपत्वे सकलसंसारनुवृत्तिपूर्वकमोक्षरूपफलहेतुत्वं निश्चितमिति पित्रापेक्षया पुत्रस्य निश्चयस्सर्वातिशयितस्सर्ववेदान्तसारभूत इति हृदयम्॥
कुमार-वरदः - 10
  1. एवं भूतस्य भगवदनुस्मरणयोगस्य प्रायश्चित्तान्यशेषाणि इति प्रमाणोक्तस्य द्वयी हि गतिरध्यात्मविद्भिरभिधीयते। तत्तत्प्रायश्चित्तरूपकृच्छ्राशक्तौ तत्त्स्थाने विकल्पेनावतिष्टते सोऽयं योग" इत्येका गतिः। अपरा पुनस्सर्वेषामपि प्रायस्चित्तानां साद्गुण्यापादकत्वेन भगवदनुसन्धानं तेभ्यस्सर्वेभ्यः" प्रायश्चित्तेभ्यः परमुत्कृष्टमिति। अत्र पुनरनादिकालप्रवृत्तस्य कृत्स्यापि पापस्य सर्वप्रायश्चित्तत्वेनेदमेकमेवाभिधीयते। तदिदमाह–कृच्छ्रादाविति। तत्तत्पापप्रायश्चित्ततया विहिते कृच्छ्रादौ शक्तिहीनौ दृढपरितपनो दृढानुतापयुक्तस्संयमार्हश्च योगानुष्टानर्हश्च स्वयं सर्वप्रायशचित्तस्थानीयं" केशवानुस्मृतिं कुरियादिति ’ प्रायशचित्तान्यशेषाणि’ इति श्लोकस्यैकौऽर्थः। अत्र परत्वमेकस्यैव सर्वेष्वपि प्रायस्चित्तेषु विकल्पेनावास्थितत्वम्। यथार्हं तद्विकल्पः– यानि यानि बहुनि प्रायश्चित्तानि दृश्यन्ते तेषामेकस्यस्थाने यावत्केशवानुस्मरणं फलप्रधानसमर्थं तावत् तत्र तत्र कर्तव्यमिति।अर्थान्तरं पुनराह– सामान्यादिति। सामान्यात् सर्वेष्वपि दोषेषु प्रसक्तेषु तत्तन्नेमिक्तिकानां सर्वेषामपि केशवानुस्मरणं" प्रधानसहकारित्वेनोपकुरुते। अस्मिन्पक्षे परत्वमेकस्य सर्वोपकारकत्वं सर्वस्मादप्युत्कृष्टत्व़ञ्च। एवं ’ प्रायश्चित्तानि ’ इति श्लोकस्यार्थद्वयमुक्त्वा सूत्रकाराभिप्रेतं सर्वप्रधानभूतमर्थान्तरमाह – मुक्ते रिति। केशवानुस्मरणं न केवलमेकैकस्य प्रयश्चित्तस्य स्थानेऽवतिष्ठते, नापि सर्वषामपि प्रयश्चित्तानां सहकारित्वेनापि केवलं वावतिष्ठते, अपितु स्वयमेकमेवानादिसिद्धानामनन्तानां दुष्कृतानां प्रयश्चित्तत्वेनावतिष्ठत इति सूत्रकाराभिप्रायः। मुक्तेरप्यत्र मूलं न केवलमनिष्टनिवृत्तेः, अनिष्टनिवृत्तिपूर्वकेष्टप्रप्तिरूप मुक्तेरपू दमेव मूलमित्यर्थः॥
मूलम् - 10

10.कृच्छ्रादौ शक्तिहीनो दृढपरितपनस्संयमार्हश्च कुर्यात्
सर्वार्थां केशवानुस्मृतिमिति घटते तद्विकल्पो यथार्हम्।
सामान्यात्सर्वदोषेष्वियमुपकुरुते सर्वनैमित्तिकानां
मुक्तेरप्यत्र मूलं मुनिरनुमनुत तां तादृशध्यानरूपाम्॥

विश्वास-प्रस्तुतिः - 11
  1. नन्वेवं ये मुकुन्दे शरणमुपगता वर्जिता ध्यानयोगैः
    ते चातिक्रम्य मृत्युं यमिन इव परं धाम यान्तीत्युशन्ति।
    सत्यं तेऽपीतिशब्दान्नियतविषययोर्गौरवे लाघवेऽपि
    प्राप्तार्थं ध्यानशास्त्रं प्रणिधिसहदशायोगिभिर्योगविद्भिः ॥
३४-तमाहोबिल-यतिः - 11
  1. नन्वेवमित्यादि। ननु– किञ्चिदाक्षिप्यत इत्यर्थः। एवम्- एवञ्चेत्, भगवद्भक्तिरेव सर्वप्रायश्चित्तमित्यङ्गीक्रियते चेत्। ये। ध्यानयोगैः– भगवद्यानेन यमनियमादिभिर्योगैश्च। वर्जिताः– रहिताः। मुकुन्दम्– मोक्षदायिनं पुरुषोत्तमम्। शरणमुपगताः– शरणागताः। तेच– भक्तिहीनाश्शरणागतिमात्रावलम्बिनस्ते चाधिकारिणः। यमिन इव– भक्तिनिष्ठा योगिन इव। मृत्युम्– संसारम्। अतिक्रम्य– निरस्येत्यर्थः। परम्–सर्वोत्कृष्टं मुक्तैकसेव्यम्। धाम– वैकुण्ठाख्यं दिव्यलोकम्। यद्वा परन्धामेति परमात्मैवोच्यते प्रमाणश्लोके ’ वैष्णवं" पदम् ’ इति भगवस्स्वरूपपरम्। यन्ति– प्राप्नुवन्ति अनुभवन्ति। इति- एवम्। उशन्ति– प्रतिपादयन्ति। मुनय इति शेषः। अयमत्र प्रमाणश्लोको विवक्षित— शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः।तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्॥ इति। तथा चानेन श्लोकेन शरणागतेर्हि मुक्तिहेतुत्वेन सर्वसांसारिकदेषप्रायश्चित्तत्वमुच्यते तत्कथं ध्यानयोगस्येति शङ्का।सत्यम्– शरणागतेस्तादृशत्वमिष्टमेव नैतावता भक्तेस्तन्निषेधः यतस्तस्मिन्नपि श्लोके भक्तेस्रतादृशत्वमुच्यते। कथमितिचेत्- तेऽपीति शब्दात्। ’ तेऽपि मृत्युमतिक्रम्य ’ इत्यत्र भक्तिनिष्ठसमुच्चयपरात् तेऽपीति शब्दात्। नहि ते एव मृत्युमतिक्रम्य यान्तीत्युक्तं किंतु तेऽपीत्युपिशब्दान्वयेन तथा च शरणागताश्च वैष्णवं पदंयान्ति तथा योगनिष्ठास्चेति खलु वाक्यार्थस्स्पष्टमवगम्यते। गैरवे– आुप्रायणानुवर्तनीयत्वकृतानुष्ठानगैरवे। लाघवेऽपि– सकृत्कर्तव्यत्वककृतेऽनुष्ठानलघुत्वेऽपि। नियतविषययो— शक्तस्य गुर्वनुष्ठामशक्तस्य लघ्वनुष्ठानमिति व्यवस्थितविषययोर्भक्तिशरणागत्योः। प्रणिधिसहदशायोगिभिः– विलम्बितफलयोगानुष्ठानसहनयोग्यविलम्बनबक्षमत्वरूपावस्थायुक्तैः। योगविद्भिः– योगनिष्ठैः। ध्यानशास्रम्– भक्तिविधायकशास्त्रं। प्राप्तार्थम्- अर्थवत्। तथा च शक्ताशक्ताधिकारिभेदेन भक्तिप्रपत्त्योस्सर्वपापप्रायश्चित्तरूपत्वात् नान्यतरकथनेनान्यतरपर्युदास इति भावः॥
कुमार-वरदः - 11
  1. अत्र शरणं त्वां प्रपन्ना ये इति श्लोके शरणागतमेव सर्वप्रायश्चित्तत्वेन परमपदप्राप्तिहेतुत्वेन च विधानादुपासनात्मकस्य योगस्य कथं सर्वप्रायश्चित्तत्वमित्याशङ्क्य शक्ताशक्तरूपाधिकारिभेदेन द्वयोरपि सर्वप्रायस्चित्तत्वं द्रढयति– नन्वेवमिति। अयमर्थः – ये मुकुन्दं शरणमुपगता ध्यानयोगैर्वर्जितास्तेऽपि मृत्यमतिक्रम्य यमिनइव योगिन इव परंधाम यन्तीति शरणं त्वां" प्रपन्ना ये ध्यानयोगविवर्जिताः। तेपिमृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्। इत्युच्यते तत्कथं ध्यानयोगस्य उपायत्वमिति। अत्रार्धाङ्गीकारेणोत्तरमाह– सत्यमिति। अस्तु शरणागतेर्मोक्षोपायत्वं तथापियोगस्यापि मोक्षोपायत्वमत्रैवोच्यते तेऽपि मृत्युमति क्रम्य इत्यपिशब्दसामर्थ्यात्। नहि त एव मृत्युमतिक्राम्येति सावधारणमुच्यते। अपितु तेऽपीत्यपिशब्दान्वयेन। ततश्च शरणागताश्च वैष्णवं पदं यान्ति तथा योगनिष्टाश्चेति वाक्याभिप्रायस्स्यात्। तस्मादिदमेव वाक्यं योगनिष्टानां प्रथमं वैष्णनपदगमनमुक्त्वा तद्वत् श रणागतानामपि वैष्णवपदगमणं वक्तीति न योगनिश्ठानामपवर्गफलप्राप्तिं प्रतिक्षिपतीति न कश्चिदपि विरोधः । नियतविषययोरित्याति – शक्तस्यार्गुर्वनुष्टानमशक्तस्य लघ्वनुष्ठानमिति गौरवे लाधवेऽपि शक्ताशक्तविषयता नियतविषययोस्सतोः प्रणिधिसहदशायोगिभिर्योगविद्भिध्यानशास्त्रं प्राप्तार्थम्– अर्वदित्यर्थः। शक्तैरेव गुरुतरध्यानशास्त्रमनुष्टेयमित्युक्तम्॥
मूलम् - 11
  1. नन्वेवं ये मुकुन्दे शरणमुपगता वर्जिता ध्यानयोगैः
    ते चातिक्रम्य मृत्युं यमिन इव परं धाम यान्तीत्युशन्ति।
    सत्यं तेऽपीतिशब्दान्नियतविषययोर्गौरवे लाघवेऽपि
    प्राप्तार्थं ध्यानशास्त्रं प्रणिधिसहदशायोगिभिर्योगविद्भिः ॥
विश्वास-प्रस्तुतिः - 12
  1. धर्मो वर्णादियोग्यः कलुषशमनतस्सत्त्ववृद्ध्योपकारी
    भक्तेस्तद्वत्प्रपत्तिस्त्वगतिकसमयेष्वन्तरायापहन्त्री।
    सानुक्रोशे हि शक्ते शरणवरणतस्सर्वसाध्यं सुसाधं
    मोक्षाकाङ्क्षी प्रपद्ये शरणमहमिति क्वापि मन्त्रे श्रुतञ्च॥
३४-तमाहोबिल-यतिः - 12
  1. धर्मो वर्णादित्यादि। वर्णादियोग्यः- वर्णाश्रमादिसम्बन्धी। धर्मः– सन्ध्योपासनादिर्धर्मः। कलुषशमनतः– हृदयकासुष्यशमनेन। सत्त्ववृध्द्या– सत्त्वगुणवर्धनेन च। भक्तेरुपकारी–यथा भक्तेर्निर्वर्तकः। तद्वत्– तत्तुल्यम्। प्रपत्तिस्तु– प्रपत्तिश्च। अगतिकसमयेषु– अनन्यसाध्यत्वसमयेषु। अन्तरायापहन्त्री– भक्तिविरोधिनिवर्तनी भवति। कथमेवमित्यत्राह– सानुक्रेष इत्यादि। सानुक्रोशेकृपायुक्ते। शक्ते– अभिमतार्थसाधनशक्ते। शरणवरतः– शरणागत्या। सर्वसाध्यम्– सर्वमपि फलम्। सुसाधं हि – सुखेन साधयितुं योग्यं हि। हीत्यनेन प्रमाणप्रसिध्दिरुच्यते। तथा च वचनम्– ’ यद्येन कामकामेन न साध्यं साधनान्तरैः। मुमुक्षुणा यत्सांख्येन योगेन न च भक्तितः॥ प्राप्यते परमं धा्म यतो नावर्तते पुनः॥ तेन तेनाप्यते तत्तन्नयासेनैव महामुने। परमात्मा च तेनैव साध्यते पुरुषोत्तमः॥ इत्यादि तथा च धर्मिग्राहकमानेन प्रपत्तेससकलफससाधनत्वं स्वभाव इति भावः। मोक्षाकाङ्क्षी– मुमुक्षुः। अहं शरणं प्रपद्ये- उपायमध्यवस्यामि। इति एवमाकारतया। क्वापि मन्त्रे– ’ यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै। तं ह देवमात्मबुध्दिप्रसादं मुमुक्षुर्वै शरणमहं प्रपद्ये॥ ’ इति क्वचिन्मन्त्रे। श्रुतञ्च– तथा चाप्राप्तार्थत्वात् मोक्षार्थी भगवन्तं शरणं प्रपद्येतेति विधिरयमित्यर्थः॥
कुमार-वरदः - 12
  1. वर्णाश्रमधर्माणां यथान्तःकरणनैर्मल्यनिर्वृत्तिद्वारेणोपासनहेतुत्वम्, तथाङ्गप्रपत्तेरपि तेनैव द्वारेणोपासन हेतुत्वमस्तीति सप्रमाणकमाह – धर्म इति। शब्दान्वयस्तु– वर्णादियोग्यो धर्मो हृदयकालुष्यशमनेन सत्त्वाभिवृद्ध्या यथा भक्त्यु पकारि तद्वत्प्रपत्तिरप्यगतिकसमये ष्वनन्यसाध्यत्वसमयेष्वन्तरायापहन्त्री भवति। अयं किल प्रपत्तेस्स्वभावः– सानुक्रोशे कृपायुक्ते शक्ते पुरूषे शरणवरणतस्ससर्वसाधयं सर्वमप्यभीष्टं सुसुधायति। ततश्च मोक्षसाधनभूतोपासनाशक्तौ प्रपक्तितत्स्थाने स्थित्वा मोक्षमेव साधयति।उपासनाङ्गभूतकर्मयोगाद्यशक्तौ तु कर्मयोगादिस्थाने स्थित्वोपासनमेव साधयति। तदिदमुभयमपि श्रुतेरभिप्रेतमित्यभिप्रायेन वदति– मोक्षाकाङ्क्षी ति। मुमुक्षुर्वै शरणमहं प्रपद्ये इति क्वचिन्मत्रे श्रूयते। इदमङ्गप्रपत्तिविषयतया वा स्वतन्तरप्रपत्तिविषयतयो वा यथाभिमतं योजयितुं" शक्यमित्यर्थः॥
मूलम् - 12
  1. धर्मो वर्णादियोग्यः कलुषशमनतस्सत्त्ववृद्ध्योपकारी
    भक्तेस्तद्वत्प्रपत्तिस्त्वगतिकसमयेष्वन्तरायापहन्त्री।
    सानुक्रोशे हि शक्ते शरणवरणतस्सर्वसाध्यं सुसाधं
    मोक्षाकाङ्क्षी प्रपद्ये शरणमहमिति क्वापि मन्त्रे श्रुतञ्च॥