+०० उप्द्घातः

विश्वास-प्रस्तुतिः - 1

1.उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं
निर्धूतोपाधिराशेर्निरुपधिकमहानन्दमन्त्येन वक्ति।
स्वाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चे-
त्येवं द्वे पेटिके स्तस्स्वत उभयमिदं नोपधेर्नाथनिघ्नम्॥

३४-तमाहोबिल-यतिः - 1
  1. इत्युत्पत्ती त्यादि।इति -उक्तक्रमेण।मुक्त्युपायः –मोक्षोपायो वैश्वानरादिनानाविद्यारूपः।अङ्गैस्सह– स्वस्ववर्णाश्रमोचितैः" कर्मभिश्शमदमादिभिर्मनपर्यन्तैश्चाङ्गैस्सह। उत्पत्तिक्रमेण – विमर्शक्रमे हि फलं विमृश्य साधनप्रवृत्तेः फलं प्रथममनन्तरं साधनम्।उत्पत्तिक्रमे तु साधनान्तरं हि फलं निष्पद्यते।अतः प्रथमं साधनमुत्पद्यते, पश्चात्फलमिति साधनफलोत्पत्तिपौर्वापर्यानुसारेण। प्रथमम् –पुरतः।अभिहितः" — उक्तः।अथ –अनन्तरम्।सूत्रकारः। विदुषः – एवमुक्तासु साङ्गविद्यासु यां काञ्चिदनुष्टितो निरपराधस्याधिकरणः। तत्साध्यम् – साङ्गविद्यासम्पद्यम्। फलम् – मुक्तिरूपं। पर्वभेदैः – उत्तरपूर्वाघाश्लेषविनाशोत्क्रमणार्चिरादिगमन ब्रह्मप्राप्तिरूपफलपर्वभेदैः। व्यनक्ति—– प्रतिपादयति। अस्य – अधिकारिणः। इह – लोके। स्थूले देहे –विद्यानिष्पत्त्यवच्छेदकब्राह्मण्यादियुक्तशरीरे। यत् – उत्तरपूर्वाघाश्लेषविनाशोत्क्रमणरूपं यत्फलम्। सिध्येत् – लभ्येत। तत् – फलम्। पूर्वम् – प्रथमतः। पादयुग्मेन – ‘आवृत्तिरसकृदुपदेशात्’ इत्यादिना ‘वाङ्मनसि दर्शनाच्छब्दाच्च’ इत्यादिना च प्रथमद्वितीयपादद्विकेन। वदति – प्रतिपादयति। अथ – अनन्तरम्। निष्क्रान्तस्य – स्थूलदेहान्निष्क्रान्तस्य। यत् स्यात् – यत्फलमर्चिरादिगमनब्रह्मप्राप्तिरूपं भवेत्। तत् पादयुग्मान्तरेण परिगणयति – ‘अर्चिरादिना तत्प्रथितेः’ इत्यादिना ‘सम्पद्याविर्भावस्स्वेनशब्दात्’ इत्यादिनाचोत्तरपादद्विकान्तरेण प्रतिपादयति।
कुमार-वरदः - 1
  1. अत्र पूर्वोत्तराध्याययोरेकार्धेन सङ्गतिमुक्त्वा द्वितीयेनार्धेंन चतुर्थाघ्याये पूर्वात्तरपादद्वकेयोः पौर्वापर्यमाह इत्युत्पत्तिक्रमेण ति।" स्वर्गकामो यजेत " इत्यत्र साध्यवमर्शपूर्वकसाधनावमर्शस्य दृष्टत्वात् सः अयमवमर्शक्रमः पुनर्ब्रह्मविद्याया उत्पत्तिक्रमानुसार पूर्वचिन्तनम्, ब्रह्मप्राप्तेः पुनः पश्चाच््चिन्तनमित्युत्पत्तिक्रमः। एवं प्रकारेणोत्पत्तिक्रमेण मुक्युपास्सहित इति तृतीयाध्यायार्थः। अथ चतुर्थाध्यार्थमाह- तत्साध्यमिति। उपायसाध्यं ब्रह्मप्राप्तिरुपं फलं सूत्रकारः पर्वभेदैव्यनक्ति। उत्तपूर्वाधाश्लषविनाशोत्क्रमणार्चिरादिगमन ब्रह्मप्राप्तिरूपफलपर्वभेदैर्व्यनक्तीत्यर्थः। एवं पादार्थभेदमुक्त्वा पादार्थमपि विभज्य दर्शयति। तत्र तावत्स्थूलदेहादनुत्क्रान्तस्य यत्फलं तत्पादद्वयेन वदतीत्याह - स्थूल इति। स्थूलदेहादुत्क्रान्तस्य यत्फलं तदुत्तरपादद्वयेन वदतीति दर्शयति- निष्क्रान्तस्ये ति। अयमर्थः-अशलेषविनाशादिकमुत्क्रमणञ्च स्थूलदेहे वर्तमानस्यैव भवति अर्चिरादिमार्गेमण गमनं परब्रह्मप्राप्तिश्च स्थूलदेहादुत्क्रान्तस्येति विभाग इति॥
मूलम् - 1

1.उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं
निर्धूतोपाधिराशेर्निरुपधिकमहानन्दमन्त्येन वक्ति।
स्वाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चे-
त्येवं द्वे पेटिके स्तस्स्वत उभयमिदं नोपधेर्नाथनिघ्नम्॥

विश्वास-प्रस्तुतिः - 2
  1. अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं
    तस्याविर्भावसिद्धौ नतु किमपि फलं स्यात्सुषुप्ताविशेषात्।
    तस्मान्मुक्तस्स्वमन्यद्भजति वपुरसौ देववद्रूपशब्दात्
    मैवं स्वेनेति शब्दो ह्रफल इह भवेद्रूपवाचार्थसिद्धेः।।
३४-तमाहोबिल-यतिः - 2
  1. सूक्तेत्यादि। विद्या – उपासनरूपा विद्या। प्रागेव – तृतीयपाद एव। सूक्ता – सम्यगुपपादिता। इमां पुनः किमिति वक्ति – तामिमां विद्यामस्मिंश्चतुर्थाध्याये पुनश्च कुतः प्रतिपादयति। शेषं यद्यस्ति एतच्च पूर्वं ब्रूताम्् — विद्याविषये वक्तव्यशेषमस्ति चेत् एतच्छेषञ्च पूर्वं स्वस्थाने एव प्रतिपादयतु।अत्राप्युच्यतामिति चेदसङ्गतं स्यादित्याह –तत् —मोक्षसाधनज्ञानम्। इह –फले – अस्मिन् चतुर्थाध्यायप्रतिपाद्ये मुक्तिरूपफले। नहि संघटेत – सङ्गतं न भवति। साधनकथा साधनाध्याये वक्तव्या फलाध्याये साधनकथमसङ्गतमिति भावः। इति चेन्न – इति शङ्क्यते चेत्तन्न युक्तम् मुक्तेः –मोक्षस्य। अन्यैरसिद्विम्– भक्तिभिन्नैस्मिद्वयम्। ‘नान्यः पन्था अयनाय’ इत्युक्तरीत्या मोक्षास्यान्यैरसाध्यत्वम् ।प्रकृततदविनाभावम् –प्रकृतस्य ब्रह्मोपासनस्य मुक्त्यविनाभावम्। ब्रह्मोपासनेकृते तस्य मुक्तिस्सिद्वैवेत्यमुमर्थम्। आसन्नसिद्विम्– अविलम््बेन मुक्तिसिद्विम्। मुक्तावस्थासमं स्थिरभजनरञ्च – मुक्तस्य या परिपूर्णब्रह्मानुभवरूपमहानन्दावस्था तत्सम् स्थिरं वैषयिकसुखवत् अनश्वरं भक्तिनिष्टमास्वाद्यत्वञ्च इमान् चतुरोsर्थान्। व्यङ्क्तुम्– प्रकाशयितुं, सूचयितुम्।अन्तचतुर्थोध्याये । अनुबन्धात् – विद्याविषयवक्तवयशेषस्य सन्दर्भौचित्यात् । अतो नासन्दर्भ इतिभावः। तथा च फलानुबन्धिनां चतुर्णामर्थानां व्यञ्जनार्थं तत्प्रतिसम्बन्धिया ब्रह्मविद्यात्राप्यभिधीयते फलतुल्यत्वेन फलकोटिन्वेशमुपपादयितुं" ब्रह्मविद्याया अत्रानुबन्ध इति भावः॥433॥
कुमार-वरदः - 2
  1. अत्र फलाध्याये विद्यायाः पुनरभिधानमसङ्गतिदोषोपहतमित्याशङ्क्य प्रयोजनविशेषाभिधानेन संगतिं दर्शयति– सूक्तेति । अयमत्राक्षेपः" – प्रागेव ब्रह्मविद्या सूक्ता। किमर्थं पुनरिमां ब्रह्मविद्यामत्रास्थाने वक्ति सूत्रकारः। ननुब्रह्मविद्यायां वक्तव्यावशेषोऽस्तीत्याशङ्क्य तदपि सूत्रकारः पूर्वमेव तृतीयाध्याये ब्रूतां स्वस्थानत्वात्। अथाप्यत्राभिधाने कोदोषइत्याशङ्क्याह– नहीति ।अयमर्थः फलात्नादच्यते चेद् ब्रह्मविद्या न फलम्। अफलत्वे़ऽप्यत्रोच्यते चेदस़ङ्गतत्वात्प्रतिपत्तिवैरस्यमेव जायेतेति। तदिदं प्रतिक्षिपति-नेति। तत्प्रतिक्षेपप्रकारमाह-मुक्तेरितिष। अत्र चत्वारोऽर्था विशेषतो व्य़ञ्जनीयाः। ते च फलान्तर्गता एव। तदभिधानार्थं" तत्प्रसम्बन्धितया ब्रह्मविद्यात्राप्यभिधीयते। मुक्तेरन्यैरसिद्धिरित्येकोऽर्थः। ‘नान्यः पन्था अयनाय विद्यते’ इतिमोक्षस्यान्यैरसिद्धिः" प्रसिद्धा। प्रकृततदविनाभाव इत्यपरोऽर्थः । प्रकृतस्य ब्रह्मोपासनस्य तदविनाभावो मोक्षाविनाभावः ‘तेह नाकं महिमानस्सचन्ते’ इत्युच्यते। आसन्नसिद्धि रित्यन्यः। तमेवं विद्वानमृत इह भवति भगवज्ज्ञानानन्तरमविसलम्बेन मुक्तावस्थातुल्यानस्थाप्राप्तिश्श्रूयते। मुक्तावस्थासमश्च स्थिरभजनरस इतीतरः। भगवदिपासनस्य मोक्षानस्थातिल्यरसरीपत्वं स्वर्गादिसाधानेषु साधनं दुःखात्मकं फलं दुःखाव्यामिश्रं एकदेशसुखात्मकं ब्रह्मोपासेन फलतुल्यसुखात्मकमेव स्वरूपम्। एतानर्थान् प्रकाशयितुं साधनस्यापि ब्रह्मोपासनस्यफलाध्याय उपक्रमे निर्देशे इति। व्यङ्क्तुमत्रानुबन्धात् इति-फलतुल्यत्वेन फलकोटिनिवेशमुपपादयितुमत्र ब्रह्मविद्यानिबम्ध इत्यर्थः॥
मूलम् - 2
  1. अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं
    तस्याविर्भावसिद्धौ नतु किमपि फलं स्यात्सुषुप्ताविशेषात्।
    तस्मान्मुक्तस्स्वमन्यद्भजति वपुरसौ देववद्रूपशब्दात्
    मैवं स्वेनेति शब्दो ह्रफल इह भवेद्रूपवाचार्थसिद्धेः।।