विश्वास-प्रस्तुतिः - 28
- भोगार्थोपासनानां स्वजनसुकृतैस्तत्क्षणादुद्भवस्स्यात्
स्वर्गादिस्त्वत्र देहे न घटत इह तु स्वान्तशुद्ध्योपपत्तिः ।
स्नानप्रायत्यनीतिस्तत इति न पुरो विघ्नसम्भावनोक्तेः
कारीर्यादौ तदर्हैस्सगुणविरचितेऽप्यस्ति विघ्नः कदाचित् ॥
३४-तमाहोबिल-यतिः - 28
- भोगार्थेत्यादि । भोगार्थोपासनानाम् - ऐहिकफलार्थोपासनानाम् । स्वजनकसुकृतैः - स्वोत्पादकसुकृतविशेषैः । तत्क्षणादेव । उद्भवः - उत्पत्तिः स्यात् । स्वर्गादिस्तु - अग्निहोत्रदर्शपूर्णमासादिफलभूतस्स्वर्गादिस्तु । अत्र देहे न घटते - अस्मिन्देहे नानुभोक्तुं शक्यते । अतस्तस्याधुना लाभो मा भूत् । इह तु - ऐहिकफलोपासनोत्पत्तिविषये तु । स्वान्तशुद्ध्या उपपत्तिः - चित्तशुद्धिमात्रेणोपासनोत्पत्तेरुपपत्तिः । ततः - चित्तशुद्धिमात्रेण तदुत्पत्तेरुपपत्तेः । स्नानप्रायत्यनीतिः - स्नानानन्तरमेव यथा प्रायत्यं प्रयतभावश्शुद्धिरुत्पद्यते तद्वत् उत्पादककर्मानन्तरक्षण एवैहिकफलोपासनोत्पत्तिर्भवतु । इति न - इति शङ्कनं न युक्तम् । पुरो विघ्नसम्भावनोक्तेः - निष्पत्तेः पूर्वं विघ्नसम्भावनायाः ‘श्रेयांसि बहुविघ्नानि’ इत्यादिभिरुक्तत्वात् । सगुणविरचितेऽपि - सगुणतया अविकलाङ्गतया विरचितेऽपि अनुष्ठितेऽपि । कारीर्यादौ - वंशाङ्कुरहोम्यद्रव्यके वृष्टिफलके इष्टिविशेषे । तदर्हैः - अत्यन्तप्रबलैस्तत्प्रतिबन्धार्हैः कर्मभिः । कदाचित् विघ्नोऽस्ति - फलविलम्बो दृश्यते । अतस्तत्क्षण एवेति नियमो न । प्रतिबन्धकाभावे तत्क्षण एव, तत्सत्त्वे तु तन्निवृत्त्यनन्तरमेवेत्यनियम इति भावः ॥
कुमार-वरदः - 28
- इत्थमङ्गचिन्ता कृता, इदानिमङ्गिनिष्पत्तिसमयचिन्ता क्रियत इति सङ्गतिः । तदर्थविचारस्तु - किमैहिकफलसाधनमुपासनं स्वसाधनपुण्यकर्मानन्तरमेवोत्पद्यते उतानन्तरं कालान्तरे वेत्यनियमः । किं तदुत्पत्तेः प्रतिबन्धस्सम्भवति नेति । इत्थमिह पूर्वपक्षी मन्यते - भोगार्थोपासनानाम् - ऐहिकफलानामुपासनानां स्वजनकसुकृतैः - स्वोत्पादकसुकृतैस्तत्क्षणादेवोद्भवस्स्यात् । ननु स्वर्गादिवद् विद्यान्तरोत्पत्तिः कर्मफलत्वात् कालान्तरे स्यादित्याशङ्क्य स्वर्गादीनां देहान्तरानुभाव्यत्वेनास्मिन्देहे नोत्पत्तिः स्यात्, सम्भवत्येवास्मिन्देहे हृदयशुद्ध्यादिमुखेन विद्याया उत्पत्तिः । तेनात्र स्नानप्रायत्यनीतिरेव स्यात् । यथा स्नातस्य पुरुषस्य प्रायत्यं प्रयतत्वं तदानीमेव भवति, नपुनर्देहान्तरे, तथा स्वकर्मभिर्विद्याप्राप्तिस्तदानीमेव नियमेन स्यादिति । तदिदमनुवदति - भोगार्थेति । अनूदितमर्थं प्रतिक्षिपति - नेति । उत्पत्तिः कदाचित् तदानीमेव स्यात् कदाचित् कालान्तर इत्यनियम एव । ननु सगुणविरचिते कथं कालान्तरे फलसिद्धिस्स्यात् तत्राप्याह - तदर्हैरिति । सगुणविरचितेऽपि कर्मण्यत्यन्तप्रबलैः कर्मभिस्तत्प्रतिबन्धार्हैः कदाचित् विघ्नस्स्यादेव ॥
मूलम् - 28
- भोगार्थोपासनानां स्वजनसुकृतैस्तत्क्षणादुद्भवस्स्यात्
स्वर्गादिस्त्वत्र देहे न घटत इह तु स्वान्तशुद्ध्योपपत्तिः ।
स्नानप्रायत्यनीतिस्तत इति न पुरो विघ्नसम्भावनोक्तेः
कारीर्यादौ तदर्हैस्सगुणविरचितेऽप्यस्ति विघ्नः कदाचित् ॥