विश्वास-प्रस्तुतिः - 27
- शिष्टं बाल्येन तिष्ठासनमपि विदुषो बालकृत्यं तदस्तु
भर्तुं बालस्य भावो नतु सुशक इति स्वैरितास्येति चेन्न ।
दुश्चारित्रादमुं नाविरत इति वचस्सन्निरुन्धे ह्यतोऽसौ
माहात्म्यं स्वं निगूहेदिति मुनिविहिते बाल्यविध्याशयस्स्यात् ॥
३४-तमाहोबिल-यतिः - 27
- शिष्टमित्यादि । विदुषो बाल्येन तिष्ठासनमपि शिष्टम् - ब्रह्मविदः ‘पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्’ इति श्रुत्या बाल्येनावस्थानं विहितम् । तत्र बालस्य भावस्तु भर्तुं न सुशक इति - बालत्वं नान्येन भर्तुं सुशकम्, अन्यधर्माणामन्येन धर्तुमशक्यत्वादिति हेतोः । तत् बालकृत्यमस्तु - बाल्यं कामचारवादभक्षणरूपं बालकृत्यमस्तु । ततः किमिति चेत् अस्य स्वैरिता - अस्य ब्रह्मविदः स्वच्छन्दता विधिपारतन्त्र्यं विना यथेच्छं वर्तनं स्यात् । इति चेन्न - इति शङ्क्यते चेत्तन्न युक्तम् । नाविरत इति वचः - ‘नाविरतो दुश्चरितात्’ इति श्रुतिवाक्यम् । अमुम् - ब्रह्मविदम् । दुश्चारित्रात् - अकृत्यकरणकृत्याकरणरूपात् दुश्चारित्रात् । सन्निरुन्धे हि - निवर्तयति किल । ‘नाविरतः’ इत्यादिश्रुत्या ब्रह्मविदस्स्वच्छन्दवर्तनस्य निषिद्धत्वादित्यर्थः । अतः । असौ स्वं माहात्म्यं निगूहेत् - अतोऽसौ ब्रह्मवित् स्वकीयं माहात्म्यं ब्रह्मनिष्ठाप्रयुक्तं महान्तमनुभावं गोपायेत् बहिर्न प्रकाशयेत् । इति मुनिविहिते बाल्यविध्याशयस्स्यात् - एवं रीत्या ‘जडोन्मत्तादिवत्तिष्ठेत्’ इत्यादिमहर्षिविहिते ब्रह्मविदो जडोन्मत्तादिरीत्या वर्तनेन स्वमाहात्म्याप्रकाशने ‘बाल्येन तिष्ठासेत्’ इति बाल्यविधेस्तात्पर्यं भवेत् । तथा च बालस्य यत् स्वमाहात्म्यानाविष्करणं तदुपाददानो विद्वांस्तिष्ठेदिति बाल्यविधेर्हृदयमिति भावः ॥
( न अविरतो दुश्चरितात् न अशान्तो न असमाहितः । न अशान्तमानसो वापि प्रज्ञानेन एनम् आप्नुयात् ॥ का.उ. 1-2-24; छा.उ. 7.26.2)
कुमार-वरदः - 27
- ‘तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्’ इत्यत्र विदुषा बाल्यमुपादेयतया श्रुतम् । बालस्य भावः कर्म बाल्यम् । बालभावस्य वयोऽवस्थाविशेषस्य अनुपादेयत्वात् कर्मैव गृह्यते । तत्र किं बालस्य कर्म कामचारादिकं सर्वं विदुषोपादेयम्, उत डम्भादिरहितत्वमेवेति विशये’ इति सङ्गतिर्भाष्ये व्यक्ता । तदर्थविचारस्तु - बाल्योपादाने किं कामचारादिकमप्युपादेयम् उत माहात्म्यानाविष्करणमेव, किं बाल्यशब्दस्सर्वबालकर्मपरः उत माहात्म्यानाविष्करणरूपबालस्वभावविशेषपरः । ‘नाविरतः’ इत्यादिश्रुतिः किं बाल्यशब्दस्यानाविष्कारपरतामवगमयति नेति । अत्र पूर्वपक्षी मन्यते - ‘बाल्येन तिष्ठासेत्’ इति विदुषः श्रुतौ शिष्टं बाल्यं बालकृत्यं कामचारवादभक्षत्वमेवास्तु न पुनर्बालस्य स्वभावः । न ह्यन्यस्य भावोऽन्येन भर्तुं सुशकः, व्यवस्थितत्वात् बाल्यादीनां धर्माणाम् । तेन स्वैरितैव बाल्यमित्यस्तु । तदिदमनुवदति - शिष्टमिति । अनूदितमर्थं प्रतिक्षिपति - नेति । प्रतिक्षेपप्रकारं प्रकटयति - दुश्चारित्रादिति । ‘नाविरतो दुश्चरितात्’ इति वचस्त्वदुक्तममुमर्थं सन्निरुन्धे । अथवा स्वैरिणममुमधिकारिणं सन्निरुन्धे । तर्हि बाल्यस्य को निर्णय इत्याशङ्क्य बाल्यशब्दार्थं निर्णयेन कथयति - अत इति । अध्यात्मविदां स्वमाहात्म्यगोपनं हि मुनिभिर्विधीयते तेन विहिते स्वमाहात्म्यगोपने बाल्यशब्दस्य तात्पर्यं स्यात् । अत एव सदाचारनिष्ठस्यापि भरतस्य ‘सतां मार्गमदूषयन्’ इति सन्मार्गादूषणेन प्रख्यातस्योद्भ्रान्तवन्नटनमुच्यते । एवमत्रापि बालवत् स्वमाहात्म्यगोपनमेवोच्यते । इदञ्च स्वमाहात्म्यगोपनं लोकसंमानादिव्यावृत्त्यर्थम् । संमानादिकञ्च त्याज्यमेवाध्यात्मविदाम् - ‘असंमानात्तपोवृद्धिः संमानात्तु तपःक्षयः । अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति ॥’ इति लोकसंमानस्य परित्याज्यत्वस्मरणात् ॥
मूलम् - 27
- शिष्टं बाल्येन तिष्ठासनमपि विदुषो बालकृत्यं तदस्तु
भर्तुं बालस्य भावो नतु सुशक इति स्वैरितास्येति चेन्न ।
दुश्चारित्रादमुं नाविरत इति वचस्सन्निरुन्धे ह्यतोऽसौ
माहात्म्यं स्वं निगूहेदिति मुनिविहिते बाल्यविध्याशयस्स्यात् ॥