विश्वास-प्रस्तुतिः - 26
- मन्तव्यत्वे श्रुते सत्यथ मुनिरिति वागस्तु तस्यानुवादः
कश्चिन्न ह्यत्र दृष्टो विधिरिति पुरः पण्डितत्वस्य लब्धेः ।
ऊहापोहार्हता हि श्रवणमननतोऽनन्तरं पण्डितत्वं
मौनख्यातिः प्रकृष्टे मनन इति विभौ धारणाद्युक्तिरेषा ॥
३४-तमाहोबिल-यतिः - 26
- मन्तव्यत्व इत्यादि । मन्तव्यत्वे श्रुते सति - मननसम्पादनस्य ‘श्रोतव्यो मन्तव्यः’ इत्यादिश्रुतिसिद्धत्वेऽपि । अथ मुनिरिति वाक् तस्य अनुवादोऽस्तु - ‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यञ्च निर्विद्याथ मुनिः’ इत्यत्र ‘अथ मुनिः’ इति वचनं तस्य मन्तव्य इत्युक्तस्य मननस्य अनुवादरूपं भवतु । पूर्वं विहितस्य पुनर्विधानायोगादिति भावः । अत्र - अस्मिन्वाक्ये । कश्चिद्विधिर्न दृष्टो हि - मुनिस्स्यात् इति कश्चिद्विधिर्न दृश्यते हि इत्यर्थः । इति न - इति शङ्कनं न युक्तम् । पुरः - मुनित्वकथनात्पूर्वम् । पण्डितत्वस्य - ऊहापोहार्हप्रतिभावत्त्वरूपस्य पण्डितत्वस्य । लब्धेः - लाभात् । श्रवणप्रतिष्ठार्थयुक्तिचिन्तनरूपमननात् समधिकस्य ऊहापोहक्षमप्रतिभावत्त्वरूपपण्डितत्वस्य ‘अथ मुनिः’ इत्यतः पूर्वं कथनात् तत उपरि कथ्यमानमिदं मौनं श्रवणप्रतिष्ठापकमननादन्यदेव सहकारिविशेषलभ्यं सहकार्यन्तरमित्यवगन्तव्यमिति भावः । श्रवणमननतोऽनन्तरं पण्डितत्वं ऊहापोहार्हता हि - श्रवणमननानन्तरं श्रूयमाणं पण्डितत्वं ‘ऊहापोहक्षमा बुद्धिः पण्डा तद्वान् हि पण्डितः’ इत्यादिप्रसिद्ध्योहापोहक्षमप्रतिभाविशेषरूपमेव हि । मौनख्यातिः प्रकृष्टे मनने - मौनत्वप्रसिद्धिः श्रवणप्रतिष्ठापकमननाद्विलक्षणे पाण्डित्यानन्तरभाविनि निरतिशयमनने । इति - हेतोः । एषा । विभौ - परमात्मनि विषये । धारणाद्युक्तिः - धारणाध्यानाख्यं समाधिपूर्वाङ्गद्वयमेव ‘अथ मुनिः’ इति विधीयत इत्यर्थः ॥
कुमार-वरदः - 26
- पूर्वं यज्ञादीनां शमादीनाञ्च विद्यासहकारित्वमुक्तम् । अधुना पुनस्सहकार्यन्तरं चिन्त्यत इति सङ्गतिः । अत्रोद्गीथादिप्रसङ्गस्तु सङ्गतिविशेषप्राप्त इति न विरोधः । इह तु मननस्य ध्यानालम्बनशुभाश्रयगोचरत्वेनातद्गोचरेभ्यो यज्ञादिभ्यश्शमादिभ्यश्च विलक्षणत्वादतद्गोचरत्वसाधर्म्येण यज्ञादेश्च शमादेश्च पश्चान्मननं निरूप्यते । तदर्थविचारस्तु - किमस्मिन्वाक्ये मौनं विधीयते उतानूद्यत इति । किं पाण्डित्यमेव मौनमुतार्थान्तरं मननरूपमिति । किं मननं विधातुं योग्यमुत नेति । किं मननस्य यज्ञादिश्रुतिविरोधोऽस्ति उत नेति । किं मननं कर्मानुष्ठानप्रतिक्षेपकमुत नेति । स्वप्रकरणे प्रकरणान्तरे च कतिपयाश्रमधर्मानुक्तिर्मननस्य कर्मानुष्ठानप्रतिक्षेपकत्वमुपोद्बलयत्युत नेति । किं कतिपयोक्तिरनुक्तानादरमूलैव स्यादुतानुक्तप्रदर्शनार्था च स्यादिति । अत्र पूर्वपक्षमनुवदति - मन्तव्यत्व इति । इयं किल तत्त्वविदामनुष्ठानप्रक्रिया - यज्ञादिकर्मानुष्ठानं ‘यज्ञेन’ इत्यादिना विद्याङ्गत्वेन विधीयते । ‘शान्तो दान्तः’ इत्यादिना तु शमदमादिकञ्च तथैव विधीयते । तेन तदुभयं विद्याङ्गमेव । यद्यपि ‘श्रोतव्यो मन्तव्यः’ इति वाक्येन श्रवणं मननञ्च रागतः प्राप्तत्वादनूद्यते, तथापि श्रवणमननाभ्यां विना विद्यानिष्पत्त्ययोगात् तदुभयमपि तदङ्गमेव । ‘एवं तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद् बाल्यञ्च पाण्डित्यञ्च निर्विद्याथ मुनिः’ इति पाण्डित्यादित्रितयमपि ब्रह्मविद्याङ्गमेव विधीयते । तेन मौनपर्यन्तैरेतैरङ्गैर्ब्रह्मविद्या प्राप्यत इति । ‘स ब्राह्मणः’ इति ब्रह्मविद्यानिष्ठो भवेदिति श्रुत्याभिधीयत इति । अत्र कश्चिदाह - अथ मुनिरित्यत्रापूर्वं मननं न विधीयते, पूर्वमेव मननस्य प्राप्तत्वात् । श्रवणप्रतिष्ठार्थं मननं तावदेकम् । अनन्तरं पाण्डित्यरूपमन्यत् । ऊहापोहक्षमा धीः खलु पण्डा तादृग्विधां धियं प्राप्तः पण्डित इति सर्वलोकप्रसिद्धिः । तेन मननस्य प्राप्तत्वादथ मुनिरित्यत्र विधिश्रवणाभावाच्च मौनं न विधीयत इति । अयमत्र शब्दार्थः - पूर्वमेव मन्तव्यत्वे श्रुते सत्यथ मुनिरिति वचनं पूर्वसिद्धस्य मननस्यानुवादोऽस्तु । तस्यानुवादः - अत्यन्तप्रसिद्धस्यानुवाद इत्यर्थः । तस्यानुवादत्वे हेतुमाह - कश्चिदिति । न ह्यत्र मुनिस्स्यादिति कश्चिद्विधिर्दृष्ट इत्यर्थः । विधिशब्दाभावे कथं विधित्वमङ्गीक्रियत इत्यर्थः । एवं पूर्वपक्षमनूद्य निराकरोति - नेति । प्रतिक्षेपे हेतुमाह - पुर इति । मुनित्वकथनात् पूर्वं पण्डितत्वस्य लाभात् । अयमर्थः - मननं नाम श्रवणप्रतिष्ठापनार्थं युक्तिभिश्चिन्तनामात्रमेव । तच्च पण्डितत्वात् प्रागेव निष्पन्नम् । तद्व्यतिरेकेणात्यन्तातिशयितोहापोहक्षमप्रतिभावत्त्वं पण्डितत्वम् । तच्च मौनात्पूर्वमिहोच्यते । तत उपरि कथ्यमानमिदं मौनमनेकसहकारिविशेषलभ्यमन्यदेवान्तरङ्गं विद्याङ्गं विधीयत इत्यङ्गीकर्तव्यमिति । पण्डितत्वस्य श्रवणमननाभ्यामन्यत्वं विशदमेव प्रकाशयति - ऊहेति । मौनस्यान्यत्वे हेत्वन्तरमप्याह - मौनख्यातिरिति । अध्यात्मशास्त्रे मौनप्रसिद्धिः श्रवणप्रतिष्ठार्थे मनने नास्ति । अपितु पाण्डित्यानन्तरभाविनि प्रकृष्टे मनने निरन्तरचिन्तन इत्यर्थः । तर्हि किमिदं मौनमित्याशङ्क्य मौनस्वरूपं प्रकटमेव प्रदर्शयति - विभौ धारणेति । अयमर्थः - अष्टाङ्गयोगे समाधिरेव साक्षात् ब्रह्मविद्या । तत्पूर्वभाविधारणादिकं मौनमित्युच्यत इति ॥
मूलम् - 26
- मन्तव्यत्वे श्रुते सत्यथ मुनिरिति वागस्तु तस्यानुवादः
कश्चिन्न ह्यत्र दृष्टो विधिरिति पुरः पण्डितत्वस्य लब्धेः ।
ऊहापोहार्हता हि श्रवणमननतोऽनन्तरं पण्डितत्वं
मौनख्यातिः प्रकृष्टे मनन इति विभौ धारणाद्युक्तिरेषा ॥