53 स्वाम्यधिकरणम्

विश्वास-प्रस्तुतिः - 25
  1. उद्गीथादावुपास्तिर्भवति हि फलिना यज्वनैवात्र शक्या
    तस्मात्तत्कर्तृकासाविति यदि न परिक्रीतकर्माश्रयत्वात् ।
    ऋत्विक्साध्या यथान्ये गुणफलविधयोऽनूद्यते चैवमेषा
    शक्यत्वं नह्युपाधिर्विधिबलनियतेस्स्वामिभृत्यक्रमेण ॥
३४-तमाहोबिल-यतिः - 25
  1. उद्गीथादावित्यादि । अत्र उद्गीथादौ । उपास्तिः - रसतमत्वाद्युपासना ।फलिना - फलभाजा । यज्वनैव - यजमानेनैव । शक्या - कर्तुं शक्या । भवति हि । तस्मात् असौ - उद्गीथोपासना । तत्कर्तृका - यजमानकर्तृका भवतु । गोदोहनेनापां प्रणयनं तु ऋत्विक्कर्तृकतया यजमानेन न कर्तुं शक्यम्, उद्गातृकर्तृकस्याप्युद्गीथस्योपासनं यजमानेन कर्तुं शक्यत इति ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायस्य नात्रापवाद इति भावः । इति यदि न - एवं शङ्क्यते चेत् तन्न युक्तम् । परिक्रीतकर्माश्रयत्वात् - परिक्रीतो दक्षिणादानेन क्रीतो यः ऋत्विक् तस्य यत्कर्म उद्गीथप्रयोगरूपं तदाश्रयत्वात् तद्विषयकत्वादुपासनस्य । अन्ये गुणफलविधयः - गोदोहनप्रयोगादीनि पश्वादिफलान्तरार्थानि कार्याणि । यथा - यथा ऋत्विक्कर्तृकाणि तथा । ऋत्विक्साध्या - ऋत्विक्कर्तृकैवेत्यर्थः । एवम् - ऋत्विक्कर्तृकतया । एषा - उद्गीथोपासना । अनूद्यते च - ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति श्रुत्या ‘विद्यया करोति’ इति सहपठितविद्याकर्तृत्वमपि विद्याश्रयोद्गीथकर्तुरेवेति प्रतिपाद्यते च । शक्यत्वमुपाधिर्न हि - शक्यत्वमात्रस्य न नियामकत्वमित्यर्थः । तथा सति सर्वस्यापि यज्ञीयकर्मणस्सर्वऋत्विक्कर्तृकत्वप्रसङ्गात् । अतो यथाविधानमनुष्ठेयमित्यर्थः । स्वामिभृत्यक्रमेण - स्वामिना कर्तव्यं सर्वं कार्यं यथा भृत्यः करोति तन्न्यायेन ।विधिबलनियतेः - उदाहृतविधिंचोदनाबलेन ऋत्विक्कर्तृकत्वनियमात् । ऋत्विक्साध्येति पूर्वेणान्वयः ॥
कुमार-वरदः - 25
  1. इदमधिकरणं प्रासङ्गिकम् । उपासनानुष्ठात्रननुष्ठातृविभागप्रसङ्गेनोद्गीथोपासनादेरनुष्ठात्रननुष्ठातृविभागचिन्ता क्रियत इति सङ्गतिः । तदर्थविचारस्तु - क्रत्वङ्गाश्रयाण्युद्गीथाद्युपासनानि किं यजमानकर्तृकाणि उत ऋत्विक्कर्तृकाणीति । किं दहराद्युपासनानामिव फलिकर्तृकत्वं न्याय्यमुत गोदोहनादेरिवर्त्विक्कर्तृकत्वमिति । अत्र पूर्वपक्षी मन्यते - ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायेन यः फली स एव कर्तेत्यङ्गीकरणीयम् । तथा चोद्गीथोपासनेऽपि फलिन एव यजमानस्य कर्तृत्वमङ्गीकार्यम्, यथा दहराद्युपासनेषु फलिन एवोपासनकर्तृत्वमिति । तदिदमाह - उद्गीथादाविति । उद्गीथोपास्तिः फलिना यज्वनैव भवति । ननु गोदोहनादौ फलित्वे सत्यपि यजमानेन न क्रियते तत् कथमित्याशङ्क्याह - शक्येति । गोदोहनादौ ऋत्विक्कर्तृके प्रणयने यजमानेन गोदोहनं प्रयोक्तुमेव न शक्यते । तेन तत्र ऋत्विक्कर्तृकत्वसिद्धिः । अत्र पुनरुद्गीथोपासने बुद्धिरूपत्वादुपासनस्यर्त्विक्कर्तृकेऽप्युद्गीथे ह्युपासनं कर्तुं शक्यत इति विषमो दृष्टान्तः । एवं फलिकर्तृत्वौचित्याद् दृष्टान्तवैषम्याच्च यजमानकर्तृत्वमेवेत्याह - तस्मादिति । उक्तमर्थ निराकरोति - नेति । तत्र हेतुमाह - परिक्रीतकर्माश्रयत्वादिति । दक्षिणाप्रदानेन परिक्रीत एवर्त्विक् तत्कर्म चोद्गीथप्रयोगः तदाश्रयञ्चोपासनम् । अयमर्थः - साङ्गस्य यज्ञस्य निर्विघातानुष्ठानेन फलहेतुत्वसिद्ध्यर्थं परिक्रीत एवर्त्विक्, तत्र प्रतिबन्धनिवृत्तिर्येनोपासनेन भवति तदनुष्ठानमन्तरेण निर्विघ्नमेव कर्मफलं न सेत्स्यति । अतस्तत्र विघ्नोपशमनार्थमनुष्ठीयमानोपासनेऽपि ऋत्विक्कर्तृकत्वमेव स्यादिति । प्रतिज्ञातार्थे दृष्टान्तमाह - यथान्य इति । यथा ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इत्यनुष्ठानेन तादात्विकसकलकर्मानुष्ठातृत्वमृत्विज एव । न चास्माभिरुपपत्तिमात्रैणैतत्कल्प्यते अपि तु श्रुतिमवलम्ब्य ब्रूमहे । एवमेव ह्येषा विद्यानूद्यते ‘यदेव विद्यया करोति’ इति । उद्गीथे कर्तृत्वमृत्विज एव । तत्र विद्ययेति सहपठितविद्याकर्तृत्वमपि तस्यैव प्रतीयते । नहि चक्षुषा पश्यति देवदत्त इत्युक्ते चक्षुः प्रेरणं देवदत्तादन्यस्य भवति । एवं विद्याकर्तृत्वमृत्विज एव । ननु गोदोहनप्रयोगे ऋत्विजा कर्तुं शक्ये यजमानस्य कर्तुं शक्त्यभावादकर्तृत्वम् । अत्र पुनर्यजमानस्योपासने शक्तिरस्तीति चेन्नेत्याह - शक्यत्वमिति । नहि यस्य यत्र कर्तुं शक्तिरस्ति तेन तत्प्रयोक्तव्यमिति नियमोऽस्ति । सर्वेषामपि ऋत्विजां सर्वानुष्ठाने शक्तिरस्तीत्यनुष्ठानसङ्करप्रसङ्गात् । अपि तु श्रुतिरेव कर्तारं नियमयति । यस्य हि श्रुतिर्यत्र कर्तृत्वमाह स एव तत्कर्तुमर्हतीति न्यायमार्गः ।अत्र पुनः ‘यदेव विद्यया करोति’ इत्युद्गीथप्रयोगे तदुपासने च कर्तृत्वमृत्विज एव श्रुतिर्दर्शयति । ऋत्विक्कर्तृत्वेनैव फलिकर्तृत्वमपि सेत्स्यति । यजमानेनैव स्वकार्यकरणार्थं दक्षिणाप्रदानेन ऋत्विजां क्रीतत्वात् । अत्र लोकसिद्धमपि दृष्टान्तमाह - स्वामिभृत्यक्रमेणेति । राजभृत्याः खलु राज्ञा पोषिता राजकार्यं राज्ञो नियमनेन कुर्वन्ति । तत्रान्तरङ्गतया बहिरङ्गतया वा यानि कर्माणि कर्तव्यानि तानि कर्माणि त एव कुर्वन्तीति घण्टापथोऽयं मार्गः । तेनोद्गीथाद्युपासनानामृत्विक्कर्तृकत्वमेवेति सिद्धम् ॥
मूलम् - 25
  1. उद्गीथादावुपास्तिर्भवति हि फलिना यज्वनैवात्र शक्या
    तस्मात्तत्कर्तृकासाविति यदि न परिक्रीतकर्माश्रयत्वात् ।
    ऋत्विक्साध्या यथान्ये गुणफलविधयोऽनूद्यते चैवमेषा
    शक्यत्वं नह्युपाधिर्विधिबलनियतेस्स्वामिभृत्यक्रमेण ॥