विश्वास-प्रस्तुतिः - 21
- आरूढो नैष्ठिकादित्रयमथ पतितस्तत्परावर्तनाद्यः
तत्रापि ब्रह्मविद्या भवतु सहकृता तद्दशार्हैस्स्वधर्मैः ।
मैवं यद्यप्यभीच्छन्त्युपपतनमिदं शोधकञ्चास्त्यनेकं
सर्वार्हं कीर्तनाद्यं तदपि तदुचितो नैष तादृङ्निषेधात् ॥
३४-तमाहोबिल-यतिः - 21
- आरूढ इत्यादि । यः - पुरुषः । नैष्ठिकादित्रयम् - नैष्ठिक्यवानप्रस्त्थ्यपारिव्रज्याश्रमेष्वन्यतमम् । आरूढः - आश्रितः । अथ - तत्तदाश्रमपरिग्रहानन्तरम् । तत्परावर्तनात् - तेषामाश्रमाणां परावर्तनात् विसर्जनात् ।पतितः - वैदिकमार्गात् प्रच्युतः । तत्रापि - तस्मिन्नधिकारिण्यपि । तद्दशार्हैः - तादृशदशायोग्यैः । स्वधर्मैः - उपवासहरिकीर्तनादिभिस्तदनुगुणधर्मैः । सहकृता - कृतोपकारा अङ्गवतीत्यर्थः । ब्रह्मविद्या भवतु - अनुष्ठीयतामित्यर्थः । मैवम् - एवं मा शङ्किष्ठाः । यद्यपि इदमुपपतनमभीच्छन्ति - पक्षभेदेन इदं नैष्ठिक्याद्याश्रमपरावर्तनं उपपातकं केचिदभीच्छन्ति । नतु महापातकम् । अनेकं सर्वार्हं कीर्तनाद्यं शोधकञ्चास्ति - अनेकविधं सर्वार्हं आचण़्डालमखिलार्तजनयोग्यं हरिकीर्तनस्मरणनमस्करणादिकं पापनिवर्तञ्चास्ति । तदपि - तथापि । तादृङ्निषेधात् – “आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते द्विजः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा ॥” इति प्रायश्चित्तनिषेधात् । एषः - नैष्ठिक्यादिभ्रष्टः । तदुचितो न - ब्रह्मविद्यानुष्ठानयोग्यो न भवतीत्यर्थः ॥
कुमार-वरदः - 21
- अत्र भाष्य एव पूर्वपक्षोत्थानक्रमेण सङ्गतिर्दर्शिता ‘नैष्ठिकवैखानसपरिव्राजकाश्रमेभ्यः प्रच्युतानामपि ब्रह्मविद्यायामधिकारोऽस्ति नेति चिन्तायां विधुरादिवदनाश्रमैकान्तैर्दानादिभिर्विद्यानुग्रहसम्भवादस्त्यधिकार इति प्राप्त उच्यते’ इति । तदर्थविचारस्तु - किं नैष्ठिकाद्याश्रमभ्रष्टानां ब्रह्मविद्याधिकारोऽस्ति नेति । किमेषां साङ्गविद्योपसंहारसामर्थ्यमस्ति नेति । किमेषां प्रायश्चित्तात् शुद्धिमत्त्वं सम्भवति नेति । किं ‘यो ब्रह्मचारी स्रियमुपेयात्’ इति विहितं प्रायश्चित्तं सर्वब्रह्मचारिविषयमुत नैष्ठिकभिन्नब्रह्मचारिविषयमिति । किं ‘प्रायश्चित्तं न पश्यामि’ इति वचनं प्रायश्चित्तवचनस्य नैष्ठिकव्यतिरिक्तब्रह्मचारिविषयतामवगमयति नेति । अत्र पूर्वपक्षमाह - आरूढ इति । नैष्ठिकादित्रयमारूढः समनन्तरं तत्परावर्तनात्पतितो यस्तस्मिन्नपि ब्रह्मविद्या भवत्येव । तद्दशार्हैस्स्वधर्मैस्सहकृता सहकृतत्वादित्यर्थः । पूर्वपक्षं निराकरोति - मैवमिति । निराकरणहेतुमुपपादयति - यद्यपीत्यादिना । यद्यपि नैष्ठिकस्य भ्रष्टत्वमुपपातकान्तर्गतम्, न पुनर्महापातकम् । लोके च महापातकपर्यन्तसकलपापक्षयहेतुभूतं हरिकीर्तनस्तुतिनमस्कारादिकमितिहासपुराणादिप्रसिद्धम् । अथापि नैष्ठिकादिभ्रष्टो ब्रह्मविद्यायां नाधिकारोति ‘प्रायश्चित्तं न पश्यामि’ इति साक्षादेव प्रायश्चित्तनिषेधवचनस्य स्फुटतरमुपलभ्यमानत्वात् । नहि वचनविरोधे न्यायः प्रभवति । तेनेदमुपपातकं वा महापातकं वा यत्किञ्चिदेव भवतु । अथापि न ब्रह्मविद्यायामधिकारः । तदिदमाह - तदपीति । तत्र हेतुमाह - तादृङ्निषेधादिति । अनधिकारित्वप्रतिपादकनिषेधवचनसामर्थ्यादित्यर्थः । यद्यपि हरिकीर्तनादिकं शोधकमस्ति तदपि तस्य सम्भाषणाद्यर्हतामेवापादयति न पुनर्ब्रह्मविद्याधिकारमिति भावः ॥
मूलम् - 21
- आरूढो नैष्ठिकादित्रयमथ पतितस्तत्परावर्तनाद्यः
तत्रापि ब्रह्मविद्या भवतु सहकृता तद्दशार्हैस्स्वधर्मैः ।
मैवं यद्यप्यभीच्छन्त्युपपतनमिदं शोधकञ्चास्त्यनेकं
सर्वार्हं कीर्तनाद्यं तदपि तदुचितो नैष तादृङ्निषेधात् ॥
विश्वास-प्रस्तुतिः - 22
- प्रायश्चित्तं वदन्ति ह्युपपतनमहापातयोर्ब्रह्मयोगं
प्राप्ते पाते प्रमादाद् विदधति मुनयो योगिनां योगमेव ।
तस्मादारूढपातेऽप्यधिकृतिरिति नाचोदनीयं हि शास्त्रं
यावज्जीवं तु तन्निष्कृतिरिति नियमस्सूत्रकाराद्यभीष्टः ॥
३४-तमाहोबिल-यतिः - 22
- प्रायश्चित्तमित्यादि । उपपतनमहापातयोर्ब्रह्मयोगं प्रायश्चित्तं वदन्ति हि - उपपातकमहापातकयोर्ब्रह्मध्यानमेव प्रायश्चित्तं स्मर्तारो वदन्ति । योगिनां प्रमादात् पाते प्राप्ते मुनयो योगमेव प्रायश्चित्तं विदधति - किञ्च योगिनामनवधानेन पातकसम्भवे मुनयो योगमेव प्रायश्चित्तं वदन्ति । तस्मात् आरूढपातेऽपि अधिकृतिरिति च - तस्मात् कारणात् नैष्ठिक्याद्यारूढस्य तत्परावर्तनजनितपातेऽपि प्रायश्चित्तात् ब्रह्मविद्यायामधिकारोऽस्त्वितीदं शङ्कनं न युक्तम् । शास्त्रं अचोदनीयं हि - शास्त्रगतिरपर्यनुयोज्या खलु । तथा च यथा शास्त्रेणोच्यते तत्तथैवाङ्गीकार्यम् । यावज्जीवं तु तन्निष्कृतिरिति नियमस्सूत्रकाराद्यभीष्टः - यावज्जीवं तन्निष्कृतिर्भगवदनुसन्धानादिरूपा कर्तव्येति नियमः आश्रमच्युतानां निर्बन्धः सूत्रकारस्मृतिकाराणामभिमतः ॥
कुमार-वरदः - 22
- ननु ‘आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् । पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् ॥’ इति भगवदवलोकनानुवृत्तिरेव महापातकोपपातकयोर्विनाशिकेत्युच्यते, एवं योग एव योगभ्रष्टस्य पापनिरासकत्वेन तत्रतत्र शास्त्रेषूपदिश्यते, तस्मात्कथं प्रायश्चित्ताभाव इत्याशङ्क्याह - प्रायश्चित्तमिति । अयमत्र शब्दान्वयः - उपपातकमहापातकयोर्ब्रह्मानुसन्धानमेव प्रायश्चित्तं वदन्ति । किञ्च योगिनां प्रमादात् प्राप्ते पाते योगमेव पुनः प्रायश्चित्तं वदन्ति मुनयः । तस्मादारूढपाते सत्यपि प्रायश्चित्तात् ब्रह्मविद्यायामधिकारोऽस्तीति न वक्तव्यम् । तत्र हेतुः - अचोदनीयं हि शास्त्रमिति । अपर्यनुयोज्या खलु शास्त्रगतिः । यत् यथा शास्त्रोक्तं तत्तथैवाङ्गीकर्तव्यम् । ननु भगवदनुसन्धानस्य सर्वपापहरत्वकथनमपि शास्त्रमेव, न ह्येकस्य शास्त्रस्य शास्त्रान्तरं परतन्त्रम् । दृष्टा ह्यजामिलादेर्बहुपापवृत्तस्यापि मुक्तिप्राप्तिः । तत्कथमुच्यते प्रायश्चित्तं नास्तीत्याशङ्क्याह - यावज्जीवमिति । अजामिलादिवत् यावज्जीवं भगवदनुसन्धानमेव तादृशस्यापि पापस्य निष्कृतिरिति सूत्रकाराद्यभिप्रायः । उच्यते हि - ‘शुचिर्भवति संस्मृत्या स्नातो भवति कीर्तनात् । प्राणिपातेन पूतात्मा कृष्णस्यैते महागुणाः ॥’ इति । अतो भगवदनुसन्धानमामरणान्तिकं प्रायश्चित्तं तादृशानां पापानामित्यर्थः ॥
मूलम् - 22
- प्रायश्चित्तं वदन्ति ह्युपपतनमहापातयोर्ब्रह्मयोगं
प्राप्ते पाते प्रमादाद् विदधति मुनयो योगिनां योगमेव ।
तस्मादारूढपातेऽप्यधिकृतिरिति नाचोदनीयं हि शास्त्रं
यावज्जीवं तु तन्निष्कृतिरिति नियमस्सूत्रकाराद्यभीष्टः ॥
विश्वास-प्रस्तुतिः - 23
- यो बालं हन्ति यस्स्रीं शरणमुपगतं यश्च यो वा कृतघ्नः
प्रायश्चित्तैर्विशुद्धानपि जगदुरिमान्साधुसंसृष्ट्यनर्हान् ।
स्मृत्याचारानुसारादिह च गतिरियं दर्शिता सूत्रकारैः
शास्त्रं नश्शासनीयं यदि भवति तदा सम्प्लुतो धर्मसेतुः ॥
३४-तमाहोबिल-यतिः - 23
- यो बालमित्यादि । यो बालं हन्ति - यश्शिशुं मारयति । यस्स्त्रीं - हन्ति । यश्च शरणमुपगतं शरणागतं च हन्ति । यो वा कृतघ्नः - कृतमुपकारं विस्मरति । इमान् - बालघ्नादीन् । प्रायश्चित्तं - तत्तत्पापानुगुणप्रतिपदोक्तप्रायश्चित्तैः । विशुद्धानपि - विशोधितपापानपि । साधुसंसृष्ट्यनर्हान् - साधूनां संवासभाषणश्राद्धनिमन्त्रणार्त्विज्यदानप्रतिग्रहविद्यादानादिसंसर्गानर्हान् । मुनयो जगदुः ।तस्मात्, स्मृत्याचारानुसारात् - स्मृत्याचारयोरनुसारात् । इह च - आश्रमच्युतविषये च । सूत्रकारैः । इयं गतिः - प्रायश्चित्ताभावः, प्रायश्चित्तकरणेऽपि विद्याधिकाराभाव इत्येषा गतिः । दर्शिता - प्रतिपादिता । नः - शास्त्रपरतन्त्राणामस्माकम् । शास्त्रम् - इदं कुरु इदं मा कुरु इत्यादिविधिनिषेधरूपं शास्त्रम् । शासनीयं भवति यदि - अस्मदिच्छानुसारेण शिक्षणीयं भवेद्यदि । तदा धर्मसेतुस्सम्प्लुतः - धर्ममर्यादा विध्वंसितैव भवेदिति । तस्माद्यथाशास्त्रमवस्थेयं शास्त्रपरतन्त्रैरिति भावः ॥
कुमार-वरदः - 23
- उक्तमेवार्थं दृष्टान्तान्तरेणाप्युपपादयति - यो बालमित्यादिना । यो बालं हन्ति यस्तु स्त्रियं हन्ति यश्च वा शरणागतं हन्ति यश्च कृतघ्नः प्रायश्चित्तैर्विशुद्धानपि तानेतान् साधुसंसृष्ट्यनर्हा़ञ्जगदुः । स्मर्यते हि - ‘शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि । शरणागतहन्तुस्तु न दृष्टा निष्कृतिः क्वचित् ॥’ इति । तथा ‘कृतघ्ने नास्ति निष्कृतिः’ इति । एवं बालस्त्रीनिधननिन्दावचनानि पाठ्यानि । इत्थं वचनबलाल्लोके च तादृशामुत्पथवृत्तीनामध्यात्मविद्भिरपरिग्रहाच्च सूत्रकारैर्दर्शितम् । किमर्थमिदं शास्त्रमेतादृशं निष्कृत्यभावप्रतिपादकं निष्ठुरवचनं वक्तीत्याशङ्क्याह - शास्त्रमिति । यदि शास्त्रं शासनीयं भवति तर्हि पापप्रवणेषु शास्त्रस्य पारतन्त्र्यं तथा च सम्प्लुतो धर्मसेतुरिति । कृत्याकृत्यनियमाभावस्स्यादिति कृतं विस्तरेण ॥
मूलम् - 23
- यो बालं हन्ति यस्स्रीं शरणमुपगतं यश्च यो वा कृतघ्नः
प्रायश्चित्तैर्विशुद्धानपि जगदुरिमान्साधुसंसृष्ट्यनर्हान् ।
स्मृत्याचारानुसारादिह च गतिरियं दर्शिता सूत्रकारैः
शास्त्रं नश्शासनीयं यदि भवति तदा सम्प्लुतो धर्मसेतुः ॥
विश्वास-प्रस्तुतिः - 24
- ब्रह्मांशत्वे समाने गुणविषमतया शुद्ध्यशुद्धिस्वभावैः
देहैर्योगादनुज्ञापरिहरणमपि प्रेक्षणस्पर्शनादेः ।
इत्येवं सूत्रितं प्राक् पुनरिह विविधालेपकक्षोभशान्त्यै
सम्यग्ज्ञातात्मनोऽपि स्वतनुसमुचिताचारतः प्रत्यबोधि ॥
३४-तमाहोबिल-यतिः - 24
- ब्रह्मांशत्व इत्यादि । ब्रह्मांशत्वे समाने - ब्रह्मविशेषणत्वे तुल्येऽपि । गुणविषमतया - सत्त्वरजस्तमोगुणवैषम्येण । शुद्ध्यशुद्धिस्वभावैः - शुद्धिस्वभावैरशुद्धिस्वभावैश्च । सत्त्वगुणातिशयप्रयुक्तः प्रेक्षणादिस्वरूपयोग्यताविशेषश्शुद्धिः तमोगुणातिशयप्रयुक्तः प्रेक्षणाद्ययोग्यताविशेषोऽशुद्धिः । तद्धर्मकैरित्यर्थः । वस्तुतस्तु सत्त्वगुणातिशयश्शुद्धिः तमोगुणातिशयोऽशुद्धिः । तथा च स्मृतिः - ‘तमश्शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम्’ इति । उत्तमं अधिकभागविशिष्टं तमश्शूद्रे तथा उत्तमं रजः क्षत्रे क्षत्रिये तथैवाधिकभागविशिष्टं सत्त्वं ब्राह्मण इत्यर्थः । तत्तच्छरीर इति फलितम् । देहैः - ब्राह्मणचण्डालादिशरीरैः । योगात् - सम्बन्धात् । प्रेक्षणस्पर्शनादेः - आदिशब्देन सम्भाषणसहवासादिकं ग्राह्यम् । तादृशकार्यवर्गस्य । अनुज्ञा - करणे दोषाभावपर्यन्तोऽङ्गीकारः । परिहरणमपि - करणे दोषतत्परिहारकस्नानादिविधिपर्यन्तो निषेधः । भवतीति शेषः । शास्त्रप्रतिपादितं भवतीत्यर्थः । इत्येवं प्राक् सूत्रितम् - ‘अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्’ (2.3.47) इति सूत्रेण प्रत्यपादि । इह - अस्मिन्पादे । पुनः, विविधालेपकक्षोभशान्त्यै - विविधाः मृषावादिमतनटनविष्णुभक्तिनटनादिवेषभेदेन वैविध्यभाजो ये अलेपकाः वैदिकधर्मसम्बन्धशून्याः तत्कर्तृकक्षोभः, ‘ज्ञानिनां वर्णाश्रमधर्मत्याग एव कार्यः अज्ञानामेव तदाचरणम्’ इत्यादिप्रलापैस्साधुजनमनस्सन्देहापादनम्, तस्य शान्त्यै निवर्तनाय । सम्यक् - यथावस्थितस्वभावेन । ज्ञातात्मानोऽपि - स्वात्मपरमात्मज्ञानपूर्वकं स्वाधिकारानुरूपविद्यानिष्ठस्याप्यधिकारिणः । प्रेक्षणस्पर्शनादेरनुज्ञापरिहरणमपि - प्रेक्षणस्पर्शनाद्यनुज्ञातत्परिहरणञ्चोक्तरूपम् । स्वतनुसमुचिताचारतः - स्वस्वशरीरगतब्राह्मणत्वक्षत्रियत्ववैश्यत्वब्रह्मचारित्वगृहित्ववनित्वयतित्वरूपवर्णाश्रमानुगुणाचारकर्तव्यताप्रतिपादनेन । प्रत्यबोधि - प्रत्यभ्यज्ञाप्यतेत्यर्थः । प्रत्यभिज्ञापयामासेति वार्थः । प्रथमपक्षे सूत्रकारेणेत्यध्याहारः । अस्मिन्पक्षे सूत्रकार इति शेषः । बुधधातोर्लुङि कर्तर्यपि चिणन्तादबोधीति रूपमुपपद्यते ॥
कुमार-वरदः - 24
- पूर्वमेव शास्त्रमर्यादानुल्लङ्घनेन वर्ज्यावर्ज्यविभागः प्रतिपादितः किमर्थमिदं पुनः सूत्रकारेण प्रतिपाद्यत इत्याशङ्क्य प्रयोजनविशेषप्रतिपादनेन परिहरति - ब्रह्मांशत्व इति । अयमत्र शब्दान्वयः - ‘भोक्ता भोग्यं प्रेरितारञ्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्’ (श्वे.उ. 1-12) इति श्रुत्यनुसारेण चेतनाचेतनयोर्ब्रह्मांशत्वे समानेऽपि गुणविषमतया शुद्ध्यशुद्धिस्वभावैर्ब्राह्मणचण्डालादिदेहैर्योगात् प्रेक्षणस्पर्शनादेरनुज्ञा परिहरणञ्च भवतीति प्रागेव सूत्रकारैरुक्तम् । तथापि पुनरिह विविधालेपकक्षोभशान्त्यै अलेपका मृषावादिपक्षमेवाश्रित्यानाश्रमित्वेन वर्तमानाः कृत्याकृत्यनियमाभावेन वर्तमाना ब्रह्मविन्नाममात्रधारिणोऽकृत्यकरणकृत्याकरणकारिणः । अत्र विविधेतिवचनं प्रच्छन्नतादृग्विधवृत्तीनां परिग्रहार्थम् । अपरे पुनर्विष्णुभक्तिनाटकमाश्रित्यालेपकवृत्त्यैव वर्तन्ते । एवं विविधालेपकक्षोभशान्त्यै सम्यग्ज्ञातात्मनोऽपि प्रेक्षणस्पर्शनादेरनुज्ञापरिहरणं प्रत्यबोधि । अयमर्थः - भगवच्छेषत्वेन सम्यज्ञातात्मना तदाज्ञानुवर्तनमेव कर्तव्यम् । भगवदाज्ञा च श्रुतिस्मृती ‘श्रुतिस्स्मृतिर्ममैवाज्ञा’ इति भगवतैवोक्तत्वात् । तेन तत्त्वविदामेव विशेषतः स्वाधिकारानुरूपं कर्मानुष्ठानं कर्तव्यमिति ॥
मूलम् - 24
- ब्रह्मांशत्वे समाने गुणविषमतया शुद्ध्यशुद्धिस्वभावैः
देहैर्योगादनुज्ञापरिहरणमपि प्रेक्षणस्पर्शनादेः ।
इत्येवं सूत्रितं प्राक् पुनरिह विविधालेपकक्षोभशान्त्यै
सम्यग्ज्ञातात्मनोऽपि स्वतनुसमुचिताचारतः प्रत्यबोधि ॥